सन्धितं धान्यमण्डादि काञ्जिकं कथ्यते जनैः
काञ्जिकं भेदि तीक्ष्णोष्णं रोचनं पाचनं लघु 1
दाहज्वरहरं स्पर्शात्पानाद्वातकफापहम
माषादिवटकैर्यत्तु क्रियते तद् गुणाधिकम 2
लघु वातहरं तत्तु रोचनं पाचनं परम
शूलाजीर्णविबन्धामनाशनं वस्तिशोधनम 3
शोषमूर्च्छाभ्रमार्त्तानां मदकण्डूविशोषिणाम
कुष्ठिनां रक्तपित्तीनां काञ्जिकं न प्रशस्यते 4
पाण्डुरोगे यक्ष्मणि च तथा शोषातुरेषु च
क्षतक्षीणे तथा श्रान्ते मन्दज्वरनिपीडिते
एतेषां न हितं प्रोक्तं काञ्जिकं दोषकारकम 5
तुषोदकं यवैरामैः सतुषैः शकलीकृतैः 6
तुषाम्बु दीपनं हृद्यं पाण्डुकृमिगदापहम
तीक्ष्णोष्णं पाचनं पित्तरक्तकृद्वस्तिशूलनुत 7
सौवीरं तु यवैरामैः पक्वैर्वा निस्तुषैः कृतम
गोधूमैरपि सौवीरमाचार्याः केचिदूचिरे 8
सौवीरं तु ग्रहण्यर्शःकफघ्नं भेदि दीपनम
उदावर्त्ताङ्गमर्दास्थिशूलानाहेषु शस्यते 9
आरनालं तु गोधूमैरामैः स्यान्निस्तुषीकृतैः
पक्वैर्वा सन्धितैस्तत्तु सौवीरसदृशं गुणैः 10
धान्याम्लं शालिचूर्णं च कोद्र वादिकृतं भवेत
धान्याम्लं धान्ययोनित्वात्प्रीणनं लघु दीपनम
अरुचौ वातरोगेषु सर्वेष्वास्थापने हितम 11
शिण्डाकी राजिकायुक्तैः स्यान्मूलकदलद्रवैः
सर्षपस्वरसैर्वाऽपि शालिपिष्टकसंयुतैः 12
शिण्डाकी रोचनी गुर्वी पित्तश्लेष्मकरी स्मृता 13
कन्दमूलफलादीनि सस्नेहलवणानि च
यत्र द्रवेऽभिषूयन्ते तच्छुक्तमभिधीयते 14
शुक्तं कफघ्नं तीक्ष्णोष्णं रोचनं पाचनं लघु
पाण्डुकृमिहरं रूक्षं भेदनं रक्तपित्तकृत 15
कन्दमूलफलाढ्यं यत्तत्तु विज्ञेयमासुतम
तद्रुच्यं पाचनं वातहरं लघु विशेषतः 16
मद्यन्तु सीधुमैरेयमिरा च मदिरा सुरा
कादम्बरी वारुणी च हालाऽपि बलवल्लभा 17
पेयं यन्मादकं लोकैस्तन्मद्यमभिधीयते
यथाऽरिष्टं सुरा सीधुरासवाद्यमनेकधा 18
मद्यं सर्वं भवेदुष्णं पित्तकृद्वातनाशनम
भेदनं शीघ्रपाकं च रूक्षं कफहरं परम 19
अम्लं च दीपनं रुच्यं पाचनं चाशुकारि च
तीक्ष्णं सूक्ष्मं च विशदं व्यवायि च विकाशि च 20
पक्वौषधाम्बुसिद्धं यन्मद्यं तत्स्यादरिष्टकम 21
अरिष्टं लघुपाकेन सर्वतश्च गुणाधिकम
अरिष्टस्य गुणा ज्ञेया बीजद्र व्यगुणैः समाः 22
शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता
सुरा गुर्वी बलस्तन्यपुष्टिमेदःकफप्रदा
ग्राहिणी शोथगुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत 23
पुनर्नवाशिलापिष्टैर्विहिता वारुणी स्मृता
संहितैस्तालखर्जूररसैर्या साऽपि वारुणी
सुरावद्वारुणी लघ्वी पीनसाध्मानशूलनुत 24
इक्षोः पक्वै रसैः सिद्धः सीधुः पक्वरसश्च सः
आमैस्तैरेव यः सीधुः स च शीतरसः स्मृतः 25
सीधुः पक्वरसः श्रेष्ठः स्वराग्निबलवर्णकृत
वातपित्तकरः सद्यः स्नेहनो रोचनो हरेत 26
विबन्धमेदः शोफार्शः शोफोदरकफामयान
तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः 27
यदपक्व्षधाम्बुभ्यां सिद्धं मद्यं स आसवः 28
आसवस्य गुणा ज्ञेया बीजद्र व्यगुणैः समाः 29
मद्यं नवमभिष्यन्दि त्रिदोषजनकं सरम
अहृद्यं बृंहणं दाहि दुर्गन्धं विशदं गुरु 30
जीर्णं तदेव रोचिष्णु कृमिश्लेष्मानिलापहम
हृद्यं सुगन्धि गुणवल्लघु स्रोतोविशोधनम 31
सात्त्विकेगीतहास्यादि राजसे साहासादिकम
तामसे निन्द्यकर्माणि निद्रा ञ्च मदिराऽचरेत 32
विधिना मात्रया काले हितैरन्नैर्यथाबलम
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा 33
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम 34
मुस्तैलवालुगदजीरकधान्यकैला यश्चर्वयन्सदसि वाचमभिव्यनक्ति
स्वाभाविकं मुखजमुञ्झति पूतिगन्धं गन्धञ्च मद्यलशुनादि भवञ्च नूनम 35
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे
मिश्रप्रकरणे एकविंशः सन्धानवर्गः समाप्तः 21