चतुर्थो भागः
यः शोथमाममिति पक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः
अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूयः
तस्यातिमात्रगमनाद गतिरिष्यते तु नाडीव यद्वहति तेन मता च नाडी 1
दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्च्छितैरपि च शल्यनिमित्ततोऽन्या 2
तत्रानिलात्परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपासु 3
पित्तात्तु तृड्ज्वरकरी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसु चापि 4
ज्ञेया कफाद् बहुघना सितपिच्छिलास्रां स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा 5
दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि
तामादिशेत्पवनपित्तकफप्रकोपाद घोरां गतिं त्वसुहरामिव कालरात्रिम 6
नष्टं कथञ्चिदणुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति
सा फेनिलं मथितमुष्णमसृग्विमिश्रं स्रावं करोति सहसा सरुजञ्च नित्यम 7
नाडी त्रिदोषप्रभवा न सिध्येदन्त्याश्चतस्रः खलु यत्नसाध्याः 8
अथ नाडीव्रणचिकित्सा
तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य
तिलैरपामार्गफलैः सुपिष्टैः ससैन्धवैः सम्परिपूर्य बन्धेत
प्रक्षालने वाऽपि सदा व्रणस्य योज्यं महद्यत्खलु पञ्चमूलम 9
हिंस्रां हरिद्रां! कटुकां बलाञ्च गोजिह्विकाञ्चापि सबिल्वमूलाम
संहृत्य तैलं विपचेद् व्रणस्य संशोधनं पूरणरोपणञ्च 10
पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः
निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेच्च
प्रक्षालने चापि ससोमनिम्बा निशा प्रयोज्या कुशलेन नित्यम 11
श्यामात्रिभण्डी त्रिफलासुसिद्धं हरिद्र या तिल्वकवृक्षकेण
घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगताऽपि या स्यात 12
नाडीं कफोत्थामुपनाह्य पूर्वं कुलत्थसिद्धार्थकसक्तुकिण्वैः
मृदूकृतामेष्यगतिं विदित्वा निपातयेच्छस्त्रमशेषकारि 13
दद्याद व्रणे निम्बतिलाग्निदन्तीसुराष्ट्रजाः सैन्धवसम्प्रयुक्ताः
प्रक्षालने चापि करञ्जनिम्बजात्यर्कपीलुस्वरसाः प्रयोज्याः 14
स्वर्जिकासिन्धुदन्त्यग्नियूथिका जलनीलिका
खरमञ्जरिबीजेषु तैलं गोमूत्रसाधितम
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम 15
सैन्धवार्कमरिचज्वलनाख्यैर्मार्कवेण रजनीद्वयसिद्धम
तैलमेतदचिरेण निहन्याद् दूरगामपि कफानिलनाडीम 16
नाडीं तु शल्यप्रभवां विदार्य निष्कास्य शल्यं प्रतिशोध्य मार्गम
बन्धेद व्रणं क्षौद्र घृतप्रगाढैस्तिलैस्ततो रोपणमस्य कुर्यात 17
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनाञ्च शलाटुवर्गे
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तं सरलां प्रियङ्गुम 18
सौगन्धिकं मोचरसाहिपुष्पं लोध्राणि दत्वा खलु धातकीञ्च
एतेन शल्यप्रभवा हि नाडी रोहेद् व्रणो वा सुखमाशु चैव 19
इति कुम्भीकाद्यतैलम
स्नुह्यर्कदुग्धदार्वीणां वर्त्तिं कृत्वा प्रपूरयेत
एष सर्वशरीरस्थां नाडीं हन्यात्प्रयोगराट 20
आरग्वधनिशाकाला चूर्णाज्यक्षौद्र संयुता
सूत्रवर्त्तिव्रणे योज्या शोधनी गतिनाशिनी 21
वर्त्तीकृतं माक्षिकसम्प्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा
दुष्टव्रणे यद्विहितं तु तैलं तत्सेव्यमानं गतिमाशु हन्ति 22
जात्यर्कसम्पाक करञ्जदन्ती सिन्धूत्थसौवर्चलयावशूकैः
वर्त्तिः कृता हन्त्यचिरेण नाडीं स्नुक्क्षीरपिष्टा तु सचित्रकेण 23
बिभीतकाम्रास्थि वटप्रवाल हरेणुकाशङ्खिनिबीजमिश्रा
वाराहविट्सूक्ष्ममसी प्रदेया नाडीषु तैलेन च मिश्रयित्वा 24
मेषरोममसीतुम्ब्या कटुतैलं विपाचितम
नाडीव्रणं चिरोद्भूतं जयेत्तु तूलसङ्गमात 25
कर्चूरकस्य स्वरसे कटुतैलं विपाचयेत
सिन्दूरकल्कितं नाडीदुष्टव्रणविसर्पनुत 26
कर्चूरकरसे तैलं पुरसिन्दूरकल्कितम
पामादुष्टव्रणं नाडीं हन्यात्सर्वव्रणान्तकृत 27
भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च
स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च 28
स्वर्जिका सैन्धवं दन्ती नीलीमूलं फलं तथा
मूत्रे चतुर्गुणे सिद्धं तैलं नाडीव्रणापहम
सर्वो व्रणक्रमः कार्यः शोधनारोपणादिकः 29
गुग्गुलुत्रिफलाव्योषैः समांशैराज्ययोजितैः
अक्षप्रमाणां गुटिकां खादेदेकामतन्द्रि तः 30
नाडीं दुष्टव्रणं शूलमुदावर्त्तं भगन्दरम
गुल्मञ्च गुदजान्हन्यात्पक्षिराट् पन्नगानिव 31
या द्विव्रणीये विहितास्तु वत्तर्यस्ताः सर्वनाडीषु भिषग्विदध्यात 32
कृशदुर्बलभीरूणां नाडीं मर्माश्रितामपि
क्षारसूत्रेण तां छिन्द्यान्न शस्त्रेण कदाचन 33
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम
सूचीं निदध्याद्गत्यन्ते प्रोन्नाम्याशु विनिर्हरेत 34
सूत्रस्यान्तं समानीय गाढं बन्धनमाचरेत
ततः क्षारबलं वीक्ष्य सूत्रमन्यत्प्रवेशयेत 35
क्षाराक्तं मतिमान्वैद्यो यावन्न च्छिद्यते गतिः
भगन्दरेष्वेष विधिः कार्यो वैद्येन जानता 36
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत
सूचीभिर्यववक्त्राभिराचितं वा समन्ततः
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद् व्रणम 37
इत्येकोनपञ्चाशत्तमो नाडीव्रणाधिकारः समाप्तः 49