Friday 10 July 2015

षोडशोऽरोचकाधिकारः 16

वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः
अरोचकाः स्युः परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन 1

कट्वम्लमुष्णं विरसञ्च पूति पित्तेन विद्याल्लवणञ्च वक्त्रम
माधुर्यपैच्छिल्यगुरुत्वशैत्यस्निग्धत्वदौर्गन्ध्ययुतं कफेन 2

अरोचकं शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात
स्वाभाविकञ्चास्यमथारुचिश्च त्रिदोषजे नैकरसं भवेच्च 3

हृच्छूलपीडनयुतं पवनेन पित्तात्तृड्दाहचोषबहुलं सकफप्रसेकम
श्लेष्मात्मकं बहुरुजं बहुभिश्च विद्याद् वैगुण्यमोहजडताभिरथापरञ्च 4

प्रक्षिप्तन्तु मुखे चान्नं  यत्र नास्वाद्यते नरः
अरोचकः स विज्ञेयो भक्तद्वेषमतः शृणु 5

चिन्तयित्वा तु मनसा दृष्ट्वा स्पृष्ट्वा तु भोजनम
द्वेषमायाति यो जन्तुर्भक्तद्वेषः स उच्यते 6

कुपितस्य भयार्त्तस्य तथा भक्तविरोधिनः
यत्र नान्नेभवेच्छ्रद्धा सोऽभक्तच्छन्द उच्यते 7

भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम
रोचनं दीपनं वह्नेर्जिह्वाकण्ठविशोधनम 8

शृङ्गबेररसंवाऽपि मधुना सह योजयेत
अरुचिश्वासकासघ्नं प्रतिश्यायकफापहम 9

पक्वाम्लीका सिता शीतवारिणा वस्त्रगालिता
एलालवङ्गकर्पूरमरिचैरवधूलिता 10

पानकस्यास्य गण्डूषं धारयित्वा मुखे मुहुः
अरुचिं नाशयत्येव पित्तं प्रशमयेत्तथा 11

राजिकाजीरकौ भृष्टौ भृष्टं हिङ्गु सनागरम
सैन्धवं दधि गोः सर्वं वस्त्रपूतं प्रकल्पयेत 12

तावन्मात्रं क्षिपेत्तत्र यथा स्याद्रुचिरुत्तमा
तक्रमेतद्भवेत्सद्यो रोचनं वह्निवर्द्धनम 13

सम्यगावर्त्तितं दुग्धं निबद्धं दधि माहिषम
एकीकृत्य पटे घृष्टं शुभ्रशर्करया समम 14

एलालवङ्गकर्पूरमरिचैश्च समन्वितम
नाम्ना शिखरिणी कुर्याद्रुचिं सकलवल्लभाम 15

द्वे पले दाडिमाम्लस्य खण्डं दद्यात्पलत्रयम
त्रिसुगन्धि पलं चैकं चूर्णमेकत्र कारयेत 16

तच्चूर्णं मात्रया भुक्तमरोचकहरं परम
दीपनं पाचनं च स्यात पीनसज्वरकासजित 17

लवङ्गकङ्कोलमुशीरचन्दनं नतं सनीलोत्पलकृष्णजीरकम
जलं सकृष्णागुरुभृङ्गकेशरं कणा च विश्वा नलदं सहेलया 18

तुषारजातीफलवंशरोचनाः सिताऽद्धभागाः सकलं विचूर्णितम
सुरोचनं तर्पणमग्निदीपनं बलप्रदं वश्यतमं त्रिदोषजित 19

उरोविबन्धं तमकं गलग्रहं सकासहिक्काऽरुचियक्ष्मपीनसम
ग्रहण्यतीसारमुरःक्षतं नृणां तथा प्रमेहान्निखिलान्निहन्ति च 20

यवानी दाडिमं शुण्ठी तिन्तिडीकाम्लवेतसैः
बदराम्लञ्च कुर्वीत चतुःशाणमितानि च
सार्द्धद्विशाणं मरिचं पिप्पली दशशाणिका 21

त्वक्सौवर्चलधान्याकजीरकं द्विद्विशाणिकम
चतुःषष्टिमितैः शाणैः शर्करामत्र योजयेत 22

चूर्णितं सर्वमेकत्र यवानीखाण्डवाभिधम
चूर्णं जयेत्पाण्डुरोगं हृद्रो गं ग्रहणीज्वरम 23

छर्दिशोषातिसारांश्च प्लीहानाहविबद्धताम
अरुचिं शूलमन्दाग्निमर्शोजिह्वागलामयान 24

इति षोडशोऽरोचकाधिकारः समाप्तः 16

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।