Sunday 12 July 2015

अथ कर्पूरादिवर्गः

पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः
घनसारश्चन्द्र संज्ञो हिमनामाऽपि स स्मृतः 1
कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः
सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः 2
दाहतृष्णाऽस्यवैरस्यमेदोदौर्गन्ध्यनाशनः
कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः
पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम 3
चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः
कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः 4
मृगनाभिर्मृगमदः कथितस्तु सहस्रभित
कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता 5
कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक
काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता 6
कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत
काश्मीरदेशसम्भूता कस्तूरी ह्यधमा मता 7
कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः
कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत 8
लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः
चक्षुष्या छेदिनी श्लेष्मतृष्णाबस्त्यास्यरोगहृत 9
गन्धमार्जारवीर्यन्तु वीर्यकृत्कफवातहृत
कण्डूकुष्ठहरं नेत्रयं सुगन्धं स्वेदगन्धनुत 10
श्रीखण्डं चन्दनं न स्त्री भद्र श्रीस्तैलपर्णिकः
गन्धसारो मलजयस्तथा चन्द्र द्युतिश्च सः 11
स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम
ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते 12
चन्दनं शीतलं रूक्षं तिक्तमाह्लादनं लघु
श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत 13
कालीयकं तु कालीयं पीताभं हरिचन्दनम 14
हरिप्रियं कालसारं तथा कालानुसार्यकम
कालीयकं रक्तगुणं विशेषाद व्यङ्गनाशनम 15
रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्र चन्दनम
तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम 16
रक्तं शीतं गुरु स्वादुच्छर्दितृष्णाऽस्रपित्तहृत
तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम 17
पतङ्गं रक्तसारञ्च सुरङ्गं रञ्जनं तथा
पट्टरञ्जकमाख्यातं पत्तूरञ्च कुचन्दनम 18
पतङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत
हरिचन्दनवद्वेद्यं विशेषाद्दाहनाशनम 19
चन्दनानि तु सर्वाणि सदृशानि रसादिभिः
गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः 20
अगुरु प्रवरं लोहं राजार्हं योगजं तथा
वंशिकं कृमिजं वाऽपि कृमिजग्धमनार्यकम 21
अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णञ्च पित्तलम
लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत 22
कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति
अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः 23
देवदारु स्मृतं दारुभद्रं  दार्विन्द्र दारु च
मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः 24
देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च
विबन्धाध्मानशोथामतन्द्रा हिक्काज्वरास्रजित
प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत 25
सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः
सरलो मधुरस्तिक्तो कटुपाकरसो लघुः 26
स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः
कफानिलस्वेददाहकासमूर्छाव्रणापहः 27
कालानुसार्यं तगरं कुटिलं नहुषं नतम
अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम् 28
तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतम्
विषापस्मारशूलाक्षिरोगदोषत्रयापहम 29
पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम
पद्मकं तुवरं तिक्तं शीतलं वातलं लघु 30
वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत
गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत 31
गुग्गुलर्देवधूपश्च जटायुः कौशिकः पुरः
कुम्भोलूखलकं क्लीबे महिषाक्षः पलङ्कषः 32
महिषाक्षो महानीलः कुमुदः पद्म इत्यपि
हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः 33
भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः
महानीलस्तु विज्ञेयः स्वनामसमलक्षणः 34
कुमुदः कुमुदाभः स्यात्पद्मो माणिक्यसन्निभः
हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्गमीरितम 35
महिषाक्षो महानीलो गजेन्द्रा णां हितावुभौ
हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ 36
विशेषेण मनुष्याणां कनकः परिकीर्त्तितः
कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि 37
गुग्गुलुर्विशदस्तिक्तो वीर्योष्णः पित्तलः सरः
कषायः कटुकः पाके कटू रूक्षो लघुः परः 38
भग्नसन्धानकृद् वृष्यः सूक्ष्मः स्वर्यो रसायनः
दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः 39
मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान
पिडकाग्रन्थिशोफार्श्गण्डमालाकृमीञ्जयेत 40
माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा
तिक्तत्वाद् कफजित्तेन गुग्गुलुः सर्वदोषहा 41
स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः 42
स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः 43
शुष्को दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः
पुराणः स तु विज्ञेयो गुग्गुलुर्वीर्यवर्जितः 44
अम्लं तीक्ष्णमजीर्णञ्च व्यवायं श्रममातपम
मद्यं रोषं त्यजेत्सम्यग गुणार्थी पुरसेवकः 45
श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः
श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः 46
पित्तलो वातमूर्द्धाक्षिस्वररोगकफापहः
रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत 47
रालस्तु शालनिर्यासस्तथा सर्ज्जरसः स्मृतः
देवधूपो यक्षधूपस्तथा सर्वरसश्च सः 48
रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत
दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः
ग्रहभग्नाग्निदग्धांश्च शूलातीसारनाशनः 49
कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि 50
कुन्दुरुर्मधुरस्तिक्तस्तीक्ष्णस्त्वच्यः कटुर्हरेत
ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान 51
सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः
कपितैलश्च संख्यातस्तथा च कपिनामकः 52
सिह्लकःकटुकःस्वादुः स्निग्धोष्णःशुक्रकान्तिकृत
वृष्यः कण्ठ्यः स्वेदकुष्ठज्वरदाहग्रहापहः 53
जातीफलं जातिकोशं मालतीफलमित्यपि
जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु
कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहम 54
निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः
कृमिकासवमिश्वासशोषपीनसहृद्रुजः 55
जातीफलस्य त्वक प्रोक्ता जातीपत्री भिषग्वरैः 56
जातीपत्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत
कफकासवमिश्वासतृष्णाकृमिविषापहा 57
लवङ्गं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकम
लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हिमम 58
दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत
तृष्णां छर्दिं तथाऽध्मानं शूलमाशु विनाशयेत
कासं श्वासञ्च हिक्काञ्च क्षयं क्षपयति ध्रुवम 59
एला स्थूला च बहुला पृथ्वीका त्रिपुटाऽपि च 60
भद्रै ला बृहदेला च चन्द्र बाला च निष्कुटिः
स्थूलैला कटुका पाके रसे चानलकृल्लघुः 61
रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषाऽपहा
हृल्लासविषबस्त्यास्यशिरोरुग्वमिकासनुत 62
सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्राविडी त्रुटिः
एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत
रसे तु कटुका शीता लघ्वी वातहरी मता 63
त्वक्पत्रञ्च वराङ्गं स्याद् भृङ्गं चोचं तथोत्कटम
त्वचं लघूष्णं कटुकं स्वादु तिक्तञ्च रूक्षकम 64
पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम
हृद्बस्तिरोगवातार्शः कृमिपीनसशुक्रहृत 65
त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता 66
उक्ता दारुसिता स्वाद्वी तिक्ताचानिलपित्तहृत
सुरभिः शुक्रलाबल्या मुखशोषतृषापहा 67
पत्रं तमालपत्रञ्च तथा स्यात्पत्रनामकम
पत्रकं मधुरं किञ्चित्तीक्ष्णोष्णं पिच्छिलं लघु
निहन्ति कफवातार्शोहृल्लासारुचिपीनसान 68
नागपुष्प स्मृतो नागः केशरो नागकेशरः
चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः 69
नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम 70
ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनम
दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम 71
त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम
नागकेशरसंयुक्तं चातुर्जातकमुच्यते 72
तद् द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत
लघुपित्ताग्निकृद्वर्ण्यं कफवातविषापहम 73
कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम
संकोचं पिशुनं धीरं बाह्लीकं शोणिताभिधम 74
काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत
सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम 75
बाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरं स्मृतम
केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेशरम 76
कुङ्कुमं पारसीकं यन्मधुगन्धि तदीरितम
ईषत्पाण्डुरवर्णं तदधमं स्थूलकेशरम 77
कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित
तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहम 78
गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना
गोरोचना हिमा तिक्ता वश्या मङ्गलकान्तिदा
विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतास्रहृत 79
नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम 80
नखं स्वल्पं नखी प्रोक्ता हनुर्हट्टविलासिनी
नखद्वयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत 81
लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम
अलक्ष्मीमुखदौर्गन्ध्यहृत्पाकरसयोः कटुः 82
बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च
बालकं शीतलं रूक्षं लघु दीपनपाचनम
हृल्लासारुचिवीसर्पहृद्रो गामातिसारजित 83
स्याद्वीरणं वीरतरुर्वीरञ्च बहुमूलकम
वीरणं पाचनं शीतं वान्तिहृल्लघु तिक्तकम 84
स्तम्भनं ज्वरनुद भ्रान्तिमदजित्कफपित्तहृत
तृष्णाऽस्रविषवीसर्पकृच्छ्रदाहव्रणापहम 85
वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत
अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि 86
उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम 87
मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत
तृष्णाऽस्रविषवीसर्पदाहकृच्छ्र्रवणापहम 88
जटामांसी भूतजटा जटिला च तपस्विनी
मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा
स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत 89
शैलेयन्तु शिलापुष्पं वृद्धं कालानुसार्य्यकम 90
शैलेयं शीतलं हृद्यं कफपित्तहरं लघु
कण्डूकुष्ठाश्मरीदाहविष हृद् गुदरक्तहृत 91
मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम
कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः 92
भद्र मुस्तञ्च गुन्द्रा  च तथा नागरमुस्तकः
मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम 93
कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत
अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम 94
कर्चूरो वेधमुख्यश्च द्रा विडः कल्पकः शटी
कर्चुरो दीपनो रुच्यः कटुकस्तिक्त एव च 95
सुगन्धिः कटुपाकः स्यात्कुष्ठार्शोव्रणकासनुत
उष्णो लघुर्हरेछ्वासं गुल्मवातकफकृमीन 96
मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका 97
मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा
ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी 98
शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका
गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका 99
भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः
तिक्ता तीक्ष्णा च कटुकाऽनुष्णाऽस्यमलनाशिनी
शोथकासव्रणश्वासशूलसिध्मग्रहापहा 100
प्रियङ्गुः फलिनी कान्ता लता च महिलाऽह्वया 101
गुन्द्रा  गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया
प्रियङ्गुः शीतला तिक्ता तुवराऽनिलपित्तहृत 102
रक्तातीसारदौर्गन्ध्यस्वेददाहज्वरापहा
विआ!न्तिभ्रान्त्यतिसारघ्नी वक्त्रजाड्यविनाशिनी
गुल्मतृड्विषमोहघ्नी तद्वद् गन्धप्रियङ्गुका 103
तत्फलं मधुरं रूक्षं कषायं शीतलं गुरु
विबन्धाध्मानबलकृत्संग्राहि कफपित्तजित 104
रेणुकाराजपुत्री च नन्दिनी कपिला द्विजा
भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका 105
रेणुका कटुका पाके तिक्ताऽनुष्णा कटुर्लघुः
पित्तला दीपनी मेध्या पाचनी गर्भपातिनी
बलासवातकृच्चैव तृट्कण्डूविषदाहनुत 106
ग्रन्थिपर्णं ग्रन्थिकञ्च काकपुच्छञ्च गुच्छकम
नीलपुष्पं सुगन्धञ्च कथितं तैलपर्णकम 107
ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु
कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनम 108
स्थौणेयकं बर्हिबर्हं शुक्रबर्हञ्च कुक्कुरम
शीर्णरोमशुकञ्चापि शुकपुष्पं शुकच्छदम 109
स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत 110
मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित
हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान 111
निशाचरो धनहरः कितवो गणहासकः
चोरकः शङ्कितश्चण्डो दुष्पत्रः क्षेमको रिपुः
चोरको मधुरस्तिक्तः कटुः पाके कटुर्लघुः 112
तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान
रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान 113
तालीसमुक्तं पत्राढ्यं धात्रीपत्रञ्च तत्स्मृतम 114
तालीसं लघु तीक्ष्णोष्णं श्वासकासकफानिलान
निहन्त्यरुचिगुल्मामवह्निमांद्यक्षयामयान 115
कङ्कोलं कोलकं प्रोक्तं तथा कोषफलं स्मृतम
कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदम
आस्यदौर्गन्ध्यहृद्रो गकफवातामयान्ध्यहृत 116
स्निग्धोष्णा कफहृत्तिक्ता सुगन्धा गन्धकोकिला
गन्धकोकिलया तुल्या विज्ञेया गन्धमालती 117
लामज्जकं सुनालं स्यादमृणालं लवं लघु
इष्टकापथकं सेव्यं नलदञ्चावदातकम 118
लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित
त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत 119
एलवालुकमैलेयं सुगन्धि हरिवालुकम
एलवालुकमेलालु कपित्थत्वचमीरितम 120
एलालु कटुकं पाके कषायं शीतलं लघु
हन्तिकण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः
बलासविषपित्तास्रकुष्ठमूत्रगदकृमीन 121
कुटन्नटं दासपुरं बालेयं परिपेलवम
प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च 122
मुस्तावत्पेलवपुरं शुकाभं स्याद्बितुन्नकं 123
वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदम
कफपितास्रवीसर्पकुष्ठकण्डूविषप्रणुत 124
स्पृक्काऽसृग् ब्राह्मणी देवी मरुन्माला लता लघुः
समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि 125
स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत
कुष्ठकण्डूविषस्वेददाहाश्री ज्वररक्तहृत 126
पर्पटी रञ्जना कृष्णा जतुका जननी जनी
जतुकृष्णाऽग्निसंस्पर्शा जतुकृच्चक्रवर्त्तिनी 127
पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः
विषव्रणहरी कण्डूकफपित्तास्रकुष्ठनुत 128
नलिका विद्रुमलता कपोतचरणा नटी
धमन्यञ्जनकेशी च निर्मध्या सुषिरा नली 129
नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत
कृच्छ्राश्मवाततृष्णाऽस्रकुष्ठकण्डूज्वरापहा 130
प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकम
पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमम
चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत 131

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे वर्गप्रकरणे 
तृतीयः कर्पूरादिवर्गः समाप्तः 3

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।