Friday, 10 July 2015

अथ द्वादशः कासरोगाधिकारः 12

धूमोपघाताद्र जसस्तथैव व्यायामरुक्षान्ननिषेवणाच्च
विमार्गगत्वादपि भोजनस्य वेगावरोधात्क्षवथोस्तथैव 1

प्राणो ह्युदानानुगतः प्रदुष्टः सम्भिन्नकांस्यस्वनतुल्यघोषः
निरेति वक्त्रात्सहसा सदोषोमनीषिभिः कास इति प्रदिष्टः 2

पञ्चकासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम 3

पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते 4

हृच्छङ्खपार्श्वोदरमूर्द्धशूली क्षामाननः क्षीणबलस्वरौजाः
प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासतिशुष्कमेव 5

उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषाऽत्त
पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः 6

प्रलिप्यमानेन मुखेन सीदञ्छिरोरुजाऽत्त कफपूर्णदेहः
अभक्तरुग्गौरवकण्डुयुक्तः कासेद् भृशं सान्द्र कफः कफेन 7

अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैः
रूक्षस्योरःक्षतं वायुर्गृहीत्वाकासमावहेत 8

स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम
कण्ठेन कूजताऽत्यर्थं विभग्नेनेव चोरसा 9

सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेनशूलिना
दुःखस्पर्शेनशूलेन भेदपीडाऽभितापिना 10

पर्वभेदज्वरश्वास तृष्णावैस्वर्यपीडितः
पारावत इवाकूजन् कासवेगात् क्षतोद्भवात 11

विषमासात्म्यभोज्यातिव्यवायाद्  वेगनिग्रहात
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम 12

सगात्रशूलज्वरमोहदाहप्राणक्षयं चोपलभेत कासी 13

शुष्यन विनिष्ठीवति निर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम
तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति 14

इत्येष क्षयजः कासःक्षीणानां देहनाशनः
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः 15

न वै कदाचित्सिद्ध्य्तेमपि पादगुणान्वितौ
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्त्तितः 16

त्रीन्पूर्वान्साधयेत्साध्यान्पथ्यैर्याप्यांस्तु यापयेत 17
ज्वरारोचकहृल्लासस्वरभेदक्षयादयः
भवन्त्युपेक्षया यस्मात तस्मात्तत्त्वरया जयेत 18

कासस्य चिकित्सा

वास्तूको वायसीशाकं मूलकं सुनिषण्णकम
स्नेहास्तैलादयो भक्ष्यास्तथेक्षुरसगौडिकाः 19

दध्यारनालाम्लफलं प्रसन्नापानमेव च
शस्यते वातकासेषु स्वाद्वम्ललवणानि च 20

ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्भिषक 21

दशमूलीकृता श्वासकासहिक्कारुजाऽपहा
यवागूर्दीपनी वृष्या वालरोगविनाशिनी 22

रसः कर्कोटकानां वा घृतभृष्टः सनागरः
वातकासप्रशमनः शृङ्गीमत्स्यस्य वा पुनः 23

कण्टकारीयुगद्रा क्षा वासाकर्चूरबालकैः
नागरेण च पिप्पल्या क्वथितं सलिलं पिबेत
शर्करामधुसंयुक्तं पित्तकासहरं परम 24

कफजकासस्य चिकित्सा ( कफ़ सहित खांसी की चिकित्सा )

पिप्पली कट्फलंशुण्ठी शृङ्गी भार्गी तथोषणम
कारवी कण्टकारी च सिन्दुवारो यवानिका 25

चित्रको वासकश्चैषां कषायं विधिवत्कृतम
कफकासविनाशाय पिबेत्कृष्णारजोयुतम 26

इक्ष्विक्षुबालिका पद्ममृणालोत्पलचन्दनम
मधुकं पिप्पली द्रा क्षा लाक्षा शृङ्गी शतावरी 27

द्विगुणा च तुगाक्षीरी सिता सर्वचतुर्गुणा
लिह्यात्तन्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये 28

चूर्णं काकुभमिष्टं वासकरसभावितं बहून्वारान
मधुघृतसितोपलाभिर्लेह्यं क्षयकासरक्तहरम 29

ताप्यमानस्य कासेन नासास्रावे स्वरे जडे
क्षवथौ गन्धनाशेच धूमपानं प्रयोजयेत 30

मनःशिलाऽलमरिचमांसीमुस्तेङ्गुदैः पिबेत
धूमं त्र यहञ्च तस्यानु पयश्च सगुडं पिबेत 31

एष कासान्पृथग्द्वन्द्वसर्वदोषसमुद्भवान
शतैरपि प्रयोगाणामसाध्यान्साधयेद ध्रुवम 32

बदरीदलमालिप्तं शिलयाऽतपशोषितम
तद्धूमपानं सक्षीरं महाकासनिवारणम 33

कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहः
कण्टकार्याः कणायाश्च चूर्णं समधु कासहत 34

लवङ्गजातीफलपिप्पलीनां भागान्प्रकल्प्याक्षसमानमीषाम
पलार्द्धमानं मरिचं प्रदेयं पलानि चत्वारि महौषधस्य 35

सिता समस्तेन समाऽथ चूर्णं रोगानिमानाशु बलान्निहन्ति
कासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीविकारान 36

कुनटीसैन्धवव्योषविडङ्गामयहिङ्गुभिः
लेहः साज्यमधुः कासश्वासहिक्कानिवारणः 37

हरीतकीकणाशुण्ठीमरिचं गुडसंयुतम
कासश्लेष्मापहं प्रोक्तं परं वह्नेः प्रदीपनम 38

कर्षः कर्षांशपलं पलद्वयं स्यात्ततोर्द्धकर्षञ्च
मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम 39

सर्वौषधिभिरसाध्याः कासा ये वैद्यनिर्मुक्ताः
अपि पूयं छर्दयतां  तेषामिदमौषधं परमम 40

मरिचं कर्षमात्रं स्यात्पिप्पली कर्षसम्मिता
अर्द्धकर्षो यवक्षारः कर्षयुग्मन्तु दाडिमम 41

एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि
शाणप्रमाणां गुटिकां कृत्वा वक्त्रे विधारयेत
अस्याः प्रभावात्सर्वेऽपि कासा यान्त्येव सङ्क्षयम 42

समूलवल्कच्छदकण्टकार्यास्तुलां ततो द्रोणमितं जलञ्च
हरीतकीनां शतमेकपात्रे विपाच्य कुर्याच्चरणाम्बुशेषम 43

तस्मिन्कषाये तनुवस्त्रपूते हरीतकीभिः सहिते गुडस्य
तुलां विनिक्षिप्य पचेत्सुपक्वमेतत्समुत्तार्य सुशीतलञ्च 44

पलं पलञ्चापि कटुत्रयञ्च तथा चतुर्जातपलं विचूर्ण्य
पलानि षट पुष्परसस्य चापि विनिक्षिपेत्तत्र विमिश्रयेच्च 45

प्रयुज्यमानो विधिनैष लेहो यथाबलञ्चापियथाऽनलञ्च
वातात्मकं पित्तकृतं कफोत्थं त्रिदोषजातानपि च त्रिदोषम 46

क्षतोद्भवञ्च क्षयजञ्च कासं श्वासञ्च हन्यात्सह पीनसेन
यक्ष्माणमेकादशरूपमुग्रं हरीतकी या भृगुणोपदिष्टा 47

कण्टकारीतुलां नीरद्रो णे पक्त्वा कषायकम
पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत 48

पृथक्पलांशान्येतानि गुडूची चव्यचित्रकौ
मुस्तं कर्कटशृङ्गी च त्र्यूषणं धन्वयासकः 49

भार्गी रास्नाशटी चैव शर्करापलविंशतिः
प्रत्येकञ्च पलान्यष्टौ प्रदद्याद् घृततैलयोः 50

पक्त्वा लेहत्वमानीय शीते मधु पलाष्टकम
चतुर्भागं तुगाक्षीर्याः पिप्पल्याश्च चतुःपलम 51

क्षिप्त्वा निदध्यात्सुदृढे मृण्मये भाजने शुभं
लेहोऽय  हन्ति हिक्काऽतिकासश्वासानशेषतः 52

इति द्वादश कासाधिकारः समाप्तः 
Related Posts Plugin for WordPress, Blogger...

Follow by Email