Friday, 10 July 2015

अथ षष्ठो जठरान्निगविकाराधिकारः 6

कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः
मन्दस्तीक्ष्णोऽथविषमः समश्चेति चतुर्विधः 1

स्वल्पाऽपि नैव मन्दाग्नेर्मात्रा भुक्ता विपच्यते
छर्दिः सादः प्रसेकः स्याच्छिरोजठरगौरवम 2

मात्रातिमात्राऽप्यशिता तीक्ष्णाग्नेः पच्यते सुखम
अतएव हि केनापि मतस्तीक्ष्णाग्निरुत्तमः 3

अशिता खलु मात्राऽपि विषमाग्नेस्तु देहिनः
कदाचित्पच्यते सम्यक् कदाचिन्न विपच्यते 4

तस्याध्मानमुदावर्त्तं शूलं जठरगौरवम
प्रवाहणमतीसारस्तथा स्यादन्त्रकूजनम 5

समा समाग्नेरशिता मात्रा सम्यग्विपच्यते
एषां मध्ये तु सर्वेषां समाग्निः श्रेष्ठ उच्यते 6

अतिमात्रमजीर्णेऽपि गुरु चान्नं समश्नतः
दिवाऽपि स्वपतो येन पच्यते सोऽग्निरुत्तमः 7

तीक्ष्णः पित्तसमुत्थानान्विषमो वातहेतुकान
तथा करोति मन्दाग्निर्विकारान कफसम्भवान 8

बह्वर्त्तिरुक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धौ
अतिप्रवृद्धः पवनान्वितोऽग्निर्भुक्तं क्षणाद्भस्म करोति यस्मात
तस्मादसौ भस्मकसंज्ञकोऽभूदुपेक्षितोऽय पचते च धातून 9

तृट्स्वेददाहमूर्च्छादीन्कृत्वैषोऽत्यग्निसम्भवान
पक्त्वाऽन्नमाशु धात्वादीन् स क्षिप्रं नाशयेद् ध्रुवम 10

अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य 11

तृष्णाभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिपाकमेति 12

अनात्मवन्तः पशुवद् भुञ्जते येऽप्रमाणतः
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि 13

प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम
तन्मूलो रोगसङ्घातस्तद्विनाशाद्विनश्यति 14

ग्लानिगौरवविष्टम्भभ्रम मारुतमूढताः
विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम 15

आमं विदग्धं विष्टव्धं कफपित्तानिलैस्त्रिभिः
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः 16

अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च
वदन्ति षष्ठञ्चाजीर्णं प्राकृतं प्रतिवासरम 17

तत्रामे गुरुतोत्क्लेशः शोथो गण्डाक्षिकूटगः
उद्गारश्च यथाभुक्तमविदग्धं प्रवर्त्तते 18

विदग्धे भ्रमतृण्मूर्च्छाः पित्ताच्च विविधा रुजः
उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते 19

विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः
मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम 20

रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे 21

मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः
उपद्र वा भवन्त्येते मरणञ्चाप्यजीर्णतः 22

आमं विदग्धं विष्टव्धमित्यजीर्णं यदीरितम
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका 23

सूचीभिरिव गात्राणि तुदन्सन्तिष्ठतेऽनिलः
यत्राजीर्णेन सा वैद्यैर्विसूचीति निगद्यते 24

न तां परिमिताहारा लभन्ते विदितागमाः
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः 25

मूर्च्छाऽतिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः 26

निद्रा नाशोऽरतिः कम्पो मूत्राघातो विसंज्ञता
अमी उपद्र वा घोरा विसूच्याः पञ्च दारुणाः 27

कुक्षिरानह्यतेऽत्यर्थं प्रताम्यत्यथ कूजति
निरुद्धो मारुतश्चैव कुक्षावुपरि धावति 28

वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि
तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु 29

नाधो याति न चाप्यूर्ध्वमाहारो यो नपच्यते
कोष्ठे स्थितोऽलसीभूतस्ततोऽसावलसः स्मृतः 30

यः श्यावदन्तौष्ठनखोऽल्पसंज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरोऽसौ पुनरागमाय  31

दुष्टन्तु भुक्तं कफमारुताभ्यां प्रवर्त्तते नोर्ध्वमधश्च यत्र
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः 32

उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम 33

हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन च
सैन्धवेन युता वा स्यात्सातत्येनाग्निदीपनी 34

गुडेन शुण्ठीमथ चोपकुल्यां पथ्यां तृतीयामथ दाडिमं वा
आमेष्वजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यमद्यात 35

व्योषं दन्तीं त्रिवृच्चित्रं कृष्णामूलं विचूर्णितम
तच्चूर्णं गुडसम्मिश्रं भक्षयेत्प्रातरुत्थितः 36

एतद गुडाष्टकं नाम बलवर्णाग्निवर्द्धनम
शोथोदावर्त्तशूलघ्नं प्लीहपाण्ड्वामयापहम 37

दहनाजमोदसैन्धवनागरमरिचानि चाम्लतक्रेण
सप्ताहादग्निकरं पाण्ड्वर्शोनाशनं परमम 38

तत्रामे वमनं कार्यं विदग्धे लङ्घनं हितम
विष्टब्धे स्वेदनं शस्तं रसशेषे शयीत च 39

वचालवणतोयेन वान्तिरामे प्रशस्यते
कंणासिन्धुवचाकल्कं पीत्वा वा शिशिराम्भसा 40

धान्यनागरसिद्धं वा तोयं दद्याद्विचक्षणः
आमाजीर्णप्रशमनं शूलघ्नं वस्तिशोधनम 41

भवेद्यदा प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम
विचूर्णितां शीतजलेन भुक्त्वा भुञ्ज्यादशङ्कं मितमन्नकाले 42

विदह्यते यस्य तु भुक्तमात्रं दन्दह्यते हृच्च गलश्च यस्य
द्रा क्षां सितामाक्षिकसम्प्रयुक्तां लीढ्वाऽभयां चापि सुखं लभेत   43

त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः
प्रथमकवलभुक्तं सर्पिषा चूर्णमेतज्जनयति जठराग्निं वातरोगांश्च हन्ति 44

द्वौ क्षारौ चित्रकं पाठा करञ्जं लवणानि च
सूक्ष्मैला पत्रकं भार्गी कृमिघ्नं हिङ्गु पौष्करम 45

शटी दार्वी त्रिवृन्मुस्तं वचा चेन्द्र यवास्तथा
वृक्षाम्लं जीरकं धात्री श्रेयसी चोपकुञ्चिका 46

अम्लवेतसमम्लीका यवानी देवदारु च
अभयाऽतिविषा श्यामा हपुषाऽरग्वधं समम 47

तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः
क्षाराणि लौहकिट्टश्च तप्तं गोमूत्रसेचितम 48

सूक्ष्मचूर्णानि कृत्वा तु समभागानि कारयेत
मातुलुङ्गरसेनैव प्रदीप्ताग्निसमप्रभम 49

दिनत्रयन्तु शुक्तेन तथाऽद्र करसेन च
अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभम 50

उपयुक्तं विधानेन नाशयत्यचिराद्गदान
अजीर्णमथ गुल्मञ्च प्लीहानं गुदजानि च 51

तथान्त्रवृद्धिमुदराण्यष्ठीलां वातशोणितम
प्रणुदत्युल्वणान्दोषान्नष्टाग्निं च प्रदीपयेत 52

स्नुह्यर्कचित्रकैरण्डवरुणं सपुनर्नवम
तिलापामार्गकदलीपलाशं तिन्तिडीं तथा 53

गृहीत्वा ज्वालयेदेतत्प्रस्थं भस्माखिलं यथा
जंलाढके विपक्तव्यं यावत्पादावशेषितम 54

सुप्रसन्नं विनिस्राव्य लवणप्रस्थसंयुतम
पक्वं निर्धूमकठिनं सूक्ष्मचूर्णीकृतं पुनः 55

यवानीजीरकव्योष स्थूलजीरकहिङ्गुभिः
पृथगर्धपलैरेभिश्चूर्णि तैस्तद्विमिश्रयेत 56

आर्द्र कस्वरसेनापि भावयेच्छोषयेत् पुनः
शीतोदकेन तच्चूर्णं पिबेत्प्रातर्हि मात्रया 57

तस्मिञ्जीर्णेऽन्नमश्नीयाद्यूषैर्जाङ्गलजैः रसैः
ईषदम्लैः सलवणैः सुखोष्णैर्वह्निदीपनैः 58

एतेनाग्निर्विवर्द्धेत बलमारोग्यमेव च
तत्रानुपानं शस्तं हि तक्रं वा भोजने हितम 59

मन्दाग्न्यर्शोविकारेषु वातश्लेष्मामयेषु च
अश्मर्यां शर्करायाञ्च विण्मूत्रानिलरोगिषु 60

सामुद्र लवणं कार्यमष्टकर्षमितं बुधैः
सौवर्चलं पञ्चकर्षं विडसैन्धवधान्यकम 61

पिप्पली पिप्पलीमूलं पत्रकं कृष्णजीरकम
तालीशं केशरं चव्यमम्लवेतसकं तथा 62

द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद् बुधः
मरिचं जीरकं विश्वमेकैकं कर्षमात्रकम 63

दाडिमं स्याच्चतुष्कर्षं त्वगेला चार्द्धकार्षिकी
एतच्चूर्णीकृतं सर्वं लवणं भास्कराभिधम 64

भक्षयेच्छाणमानन्तु तक्रमस्तुककाञ्जिकैः
वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयम 65

अर्शांसि ग्रहणीं कुष्ठं विबन्धञ्च भगन्दरम्
शूलं शोथं श्वासकासाऽमदोषांश्चापि हृद्रुजम 66

अश्मरीं शर्कराञ्चापि पाण्डुरोगं कृमीनपि
मन्दाग्निं नाशयेदेतद्दीपनं पाचनं परम 67

हिताय सर्वलोकानां भास्करेण विनिर्मितम
हन्यात्सर्वाण्यजीर्णानि भुक्तमात्रमसंशयम 68

सैन्धवसमूलमागधक्षव्यानलनागरं पथ्या
क्रमवृद्धमग्निवृद्धौ वडवाऽनलनामचूर्णं स्यात 69

पथ्यानागरकृष्णाकरञ्जबिल्वाग्निभिः सितातुल्यैः
वडवाऽनल इव जरयति बहु गुर्वतिभोजनं चूर्णम  70

एलात्वङ्नागपुष्पाणां मात्रोत्तरविवर्द्धिता
मरिचं पिप्पली शुण्ठी चतुष्पञ्चषडुत्तरा 71

द्रव्याण्येतानि यावन्ति तावती सितशर्करा
चूर्णमेतत्प्रयोक्तव्यमग्निसन्दीपनं परम 72

द्विपलं गन्धकं शुद्धं पलमेकन्तु पारदम
मृतलोहं तथा ताम्रं कर्षद्वयमितं पृथक 73

सञ्चूर्ण्य सर्वं सम्मिश्रं द्रा वयित्वाऽग्नियोगतः
सम्यग् द्रुतं समस्तं तत्पञ्चाङ्गुलदले क्षिपेत 74

पुनः सञ्चूर्ण्य तत्सर्वं लोहपात्रं निधापयेत
जम्बीरस्य रसं तत्र पूतं पलशतं क्षिपेत 75

चुल्ल्यां निवेश्य तद्यत्नान्मृदुना वह्निना पचेत
रसे तस्मिन्घनीभूते तत्संशोष्य विचूर्णयेत 76

पञ्चकोलकषायस्य चुक्रेण सहितस्य च
भावना तत्र दातव्या पश्चात्संशोषयेच्छनैः 77

भृष्टटङ्कणचूर्णेन तुल्येन सह मेलयेत
मरिचेनापि तुल्येन तदर्द्धेन विडेन च 78

भावयेत्सप्तकृत्वस्तु चणकाम्लजलेन च
ततः संशोष्य सम्पिष्य कूपीमध्ये निधापयेत 79

रसः क्रव्यादनामाऽय भैरवानन्दयोगिना
उक्तः सिंहलराजाय बहुमांसाशिने पुरा 80

भक्षयेद्भोजनस्यान्ते माषद्वयमितं रसम
भक्षयित्वा रसं पश्चात्पिबेत्तक्रं ससैन्धवम 81

अत्यर्थं गुरु यद् भुक्तमतिमात्रमथापि च
तत्सर्वं जीर्यति क्षिप्रं रसस्यैतस्य भक्षणात 82

शूलं गुल्मञ्च विष्टम्भं प्लीहानमुदरं तथा
रसः क्रव्यादनामाऽय विनिहन्ति न संशयः 83

क्षारत्रयं सूतगन्धौ पञ्चकोलमिदं समम
सर्वैस्तुल्या जया भृष्टा तदर्द्धा शिग्रुजा जटा 84

एतत्सर्वं जयाशिग्रुवह्नीनां  केवलैर्द्र वैः
भावयेत्रिदिनं घर्मे ततो लघु पुटे पचेत 85

मार्कवस्य द्रवैर्घृष्टो रसो ज्वालानलो भवेत
निष्कोऽस्य मधुना लीढोऽनुपानं गुडनागरम 86

हन्त्यजीर्णमतीसारं ग्रहणीमग्निमार्दवम
श्लेष्महृल्लासवमनमालस्यमरुचिं जयेत 87

टङ्कणं रसगन्धौ च समं भागत्रयं विषात
कपर्दः स्वर्जिका क्षारो मागघी विश्वभेषजम 88

पृथक पृथक्कर्षमात्रं वसुभागमिहोषणम
जम्बीराम्लैर्दिनं घृष्टं भवेदग्निकुमारकः
विसूचीशूलवातादिवह्निमान्द्यप्रशान्तये 89

पारदामृतलवङ्गगन्धकं भागयुग्ममरिचेन मिश्रितम
तत्र जातिफलमर्द्धभागिकं तिन्तिडीफलरसेन मर्दितम 90

माषमात्रमनुपानसेवितं रामबाणगुडिका रसायनम
बिल्वपत्रमरिचेन भक्षितं सद्य एव जठराग्निवर्द्धितम 91

वातो नाशमुपैति चार्द्र करसैर्निर्गुण्डिकाया द्रवैः
पित्तं नाशमुपैति धान्यकजलैर्वासा त्रिदोषं हरेत
श्लेष्मा सिन्धुहरीतकीभिरुदरं क्वाथैश्च पौनर्नवैः
शोथं पाण्डुगदं निहन्ति गुडिका रोगार्त्तिविध्वंसिनी 92

वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः
सङ्ग्रहणिकुम्भकर्णकमामवातखरदूषणं जयेत 93

दीयते तु मरिचानुपानतः सद्य एव जठराग्निदीपनः
रोचनः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः 94

पलं चिञ्चाक्षारं पलमितमिदं पञ्चलवणं
द्बयं सम्यक्पिष्टं भवति लघुनिम्बूफलरसैः
ततः पिष्टे तस्मिन्पलपरिमितं शङ्खशकलं
क्षिपेद् वारान्सप्त द्र वमिह च तेनैव विधिना 95

पलप्रमाणं कटुकत्रयञ्च पलार्द्धमानं वचहिङ्गुभागः
विषं पलद्बादशभागयुक्तं तावद्र सो गन्धक एष चोक्तः 96

बदरास्थिप्रमाणेन वटीमेतस्य कारयेत
भक्षयेत्सेवया साम्यात्सर्वाजीर्णप्रशान्तये 97

सर्वोदरेषु शूलेषु विसूच्यां विविधेषु च
अग्निमान्द्येषु गुल्मेषु सदा शङ्खवटी हिता 98

स्नुह्यार्कचिञ्चाऽपामार्गरम्भातिलपलाशजान
लवणानाददीतैषां प्रत्येकं पलमात्रया 99

लवणानि पृथक्पञ्च ग्राह्याणि पलमात्रया
स्वर्जिका च यवक्षारष्टङ्कणं त्रितयं पलम 100

सर्वं त्रयोदशपलं सूक्ष्मं चूर्णं विधाय च
निम्बूफलरसे प्रस्थसम्मिते तत्परिक्षिपेत 101

तत्र शङ्खस्य शकलं पलं वह्नौ प्रताप्य तु
वारान्निर्वापयेत्सप्त सर्वं द्रवति तद्यथा 102

नागरं त्रिपलं ग्राह्यं मरिचन्तु पलद्वयम
पिप्पली पलमाना स्यात्पलार्द्ध भृष्टहिङ्गुतः 103

ग्रन्थितं चित्रकञ्चापि यवानी जीरकं तथा
जातीफलं लवङ्गञ्च पृथक्कर्षद्वयोन्मितम 104

रसो गन्धो विषं चापि टङ्कणञ्च मनःशिला
एतानि कर्षमात्राणि सर्वं सञ्चूर्ण्य मिश्रयेत 105

शरावार्द्धेन चुक्रेण वटिकां तस्य कारयेत
माषप्रमाणां सद्वैद्यैर्बृहच्छङ्खवटी स्मृता 106

सर्वाजीर्णप्रशमनी सर्वशूलनिवारिणी
विसूच्यलसकादीनां सद्यो भवति नाशनी 107

टङ्कणकणाऽमृतानां सहिङ्गुलानां समं भागम
मरिचस्य भागयुगलं निम्बूनीरैर्वटी कार्या 108

वटिकां कलायसदृशीमेकां द्वे वा समश्नीयात
सत्यमजीर्णेशान्त्यै वह्नेर्वृद्ध्यै कफध्वस्त्यै 109

जलपीतमपामार्गमूलं हन्याद्बिसूचिकाम
सतैलं कारवेल्ल्यम्बु नाशयेद्धि विसूचिकाम 110

बालमूलस्य तु क्वाथः पिप्पलीचूर्णसंयुतः
विसूचीनाशनः श्रेष्ठो जठराग्निविवर्द्धनः 111

बिल्वनागरनिक्वाथो हन्याच्छर्दिंविसूचिकाम
बिल्वनागरकैटर्यक्वाथस्तदधिको गुणैः 112

व्योषं करञ्जस्य फलं हरिद्रे  मूलं समावाप्य च मातुलुङ्ग्याः
छायाविशुष्का वटिका कृता सा हन्याद्विसूचीं नयनाञ्जनेन  113

अपामार्गस्य पत्राणि मरिचानि समानि च
अश्वस्य लालया पिष्ट्वाऽञ्जनाद्धन्ति विसूचिकाम 114

विसूच्यामतिवृद्धायां तक्रं दधि समं जलम
नारिकेलाम्बु पेयं वा प्राणत्राणाय योजयेत 115

त्वक्पत्रकैरण्डकशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः
उद्वर्त्तनं खल्लिविसूचिकाघ्नं तैलं विपक्वञ्च तदर्थकारि 116

कुष्ठसैन्धवयोः कल्कं शुक्रं तैले तु साधितम
विसूच्यां मर्दनं तेन खल्लीशूलनिवारणम 117

पिपासायां तथोत्क्लेशे लवङ्गस्याम्बु शस्यते
जातीफलस्य वा पीतं शृतं भद्र घनस्य वा 118

उत्क्लिश्यान्नं न निर्गच्छेत्प्रसेकष्ठीवनेरितम
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत 119

सरुग वाऽनद्धमुदरमम्लपिष्टैः प्रलेपयेत
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः 120

तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्त्तिं जठरे निहन्यात
स्वेदो घटैर्वाऽप्यथ बाष्पपूर्णैरुष्णैस्तथाऽन्यैरपि पिण्डतापैः 121

विलम्बिकाऽलसकयोरयमेव क्रियाक्रमः
अत एव तयोरुक्तं पृथङ् नहि चिकित्सितम 122

तं भस्मकं गुरुस्निग्धसान्द्र मन्दहिमस्थिरैः
अन्नपानैर्नयेच्छान्तिं पित्तघ्नैश्च विरेचनैः 123

अत्यद्भुताग्निशान्त्यै माहिषदधिदुग्धसर्पींषि
संसेवेत यवागूं समपिष्टे पयसि सर्पिषा सिद्धाम 124

असकृत्पित्तहरणं पायसं प्रतिभोजनम
श्यामात्रिवृद्विपक्वञ्च पयो दद्याद्विरेचनम 125

यत्किञ्चिन्मधुरं मेध्यं श्लेष्मलं गुरु भोजनम
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा 126

सिततण्डुलसितकमलं छागक्षीरेण पायसं सिद्धम
भुक्त्वा च तेन पुरुषो दशदिवसात्तुच्छभोजनो भवति 127

अलं पनसपाकाय फलं कदलसम्भवम
कदलस्य तु पाकाय बुधैरपि घृतं हितम 128

घृतस्य परिपाकाय जम्बीरस्य रसो हितः 129

नारिकेलफलतालबीजयोः पाचकं सपदि तण्डुलं विदुः

क्षीरमेव सहकारपाचनं चारमज्जनि हरीतकी हिता 130

मधूकमालूरनृपादनानां परुषखर्जूरकपित्थकानाम
पाकाय पेयं पिचुमन्दबीजं घृतेऽपि तक्रेऽपि तदेव पथ्यम 131

खर्जूरशृङ्गाटकयोः प्रशस्तं विश्वौषधं कुत्र च भद्र्रमुस्तम
यज्ञाङ्गबोधिद्रुफलेषु शस्तं प्लक्षे तथा पर्युषितं प्रपीतम 132

तण्डुलेषु च पयः पयस्वथो दीप्यकस्तु चिपिटे कणायुतम
षष्टिका दधिजलेन जीर्यते कर्कटी च सुमनेषु जीर्यति 133

गोधूममाषहरिमन्थसतीनमुद्ग पाको भवेज्झटिति मातुलपुत्रकेण
खर्जूरिकाबिसकशेरुसितासु शस्तं शृङ्गाटके मधुफलेष्वपि भद्र मुस्तम 134

कङ्गुश्यामाकनीवाराः कुलत्थाश्चाविलम्बितम
दध्ना जलेन जीर्यन्ति वैदलः काञ्जिकेन तु 135

पिष्टान्नं शीतलं वारि कृशरां सैन्धवं पचेत
माषेण्डरीं निम्बुफलं पायसं मुद्गयूषकः 136

वटो वेसवाराल्लवङ्गेन फेनः समं पपर्टः शिग्रुबीजेन याति
कणामूलतो लड्डुकापूपसट्टाऽदिपाको भवेच्छष्कुलीमण्डयोश्च 137

किमत्र चित्रं बहुमत्स्यमांस भोजी सुखी काञ्जिकपानतः स्यात
इत्यद्भुतं केवलवह्निपक्वमांसेन मत्स्यः परिपाकमेति 138

आममाम्रफलं मत्स्ये तद्बीजं पिशिते हितम
कूर्ममांसं यवक्षारैः शीघ्रं पाकमुपैति हि 139

कपोतपारावतनीलकण्ठकपिञ्जलानां पिशितानि भुक्त्वा
काशस्य मूलं परिपिष्य पीतं सुखी भवेन्ना बहुशो हि दृष्टम 140

मांसानि सर्वाण्यपि यान्ति पाकं क्षीरेण सद्यस्तिलनालजेन
चञ्चूकसिद्धार्थकवास्तुकानां गायत्रिसारक्वथितेन पाकः 141

पालङ्किकाकेबुककारवेल्ली वार्त्ताकुवंशाङ्कुरमूलकानाम
उपोदिकाऽलाबुपटोलकानां सिद्धार्थको मेघरवश्च पक्ता 142

विपच्यते शूरणको गुडेन तथाऽलुकं तण्डुलधावनेन
पिण्डालुकं जीर्यति कोरदूषात्कशेरुपाकः किल नागरेण  143

लवणस्तण्डु लतोयात्सर्पिर्जम्बीरकाद्यम्लात
मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिकात्तैलम 144

क्षीरं जीर्यति तक्रेण तद्द्र व्यं कोष्णमण्डकात
माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि 145

रसालं जीर्यति व्योषात्खण्डं नागरभक्षणात
सिता नागरमुस्तेन तथेक्षुश्चार्द्रि कारसात 146

जरामिरा गैरिकचन्दनाभ्यामभ्येति शीघ्रं मुनिभिः प्रदिष्टम्
उष्णेन शीतं शिशिरेण चोष्णं जीर्णो भवेत्क्षारगणस्तथाऽम्लै 147

तप्तं तप्तं हेम वा तारमग्नौ तोये क्षिप्तं सप्तकृत्वस्तदम्भः
पीत्वाऽजीर्णं तोयजातं निहन्यात्तत्र क्षौद्रं  भद्र मुस्तं विशेषात 148

इति षष्ठो जठराग्निविकाराधिकारः समाप्तः 6
Related Posts Plugin for WordPress, Blogger...

Follow by Email