Sunday 12 July 2015

अथाष्टमो धात्वादिवर्गोपरनामको धातूपधातुरसोपरसरत्नोपरत्नविषोपविषवर्गः

स्वर्णं रूप्यञ्च ताम्रं च रङ्गं यशदमेव च
सीसं लौहञ्च सप्तैते धातवो गिरिसम्भवः 1

वली पलित खालित्य कार्श्याबल्य जरामयान
निवार्य देहं दधति नृणां तद्धातवो मताः 2

पुरा निजाश्रमस्थानां सप्तर्षीणां जितात्मनाम
पत्नीर्विलोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः 3

कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः
पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात
कृत्रिमञ्चापि भवति तद्र सेन्द्र स्य वेधतः 4

स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम 5

तपनीयं च गाङ्गेयं कलधौतञ्च काञ्चनम
चामीकरं शातकुम्भं तथा कार्त्तस्वरं च तत 6

जाम्बूनदं जातरूपं महारजतमित्यपि 7

दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम
तारशुल्वोज्झितं स्निग्धं कोमलं गुरु हेम सत 8

तच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम
दाहे छेदेऽसितं श्वेतं कषे त्याज्यं लघु स्फुटम 9

सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम 10

पवित्रं बृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम
हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित 11

बलं सवीर्यं हरते नराणां रोगव्रजान् पोषयतीह काये
असौख्यकृच्चापि सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्यात 12

असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत
करोति रोगान् मृत्युं च तद्धन्याद्यत्नतस्ततः 13

त्रिपुरस्य वधार्थाय निर्निमेषैर्विलोचनैः
निरीक्षयामास शिवः क्रोधेन परिपूरितः 14

अग्निस्तत्कालमपतत्तस्यकस्माद्विलोचनात
ततो रुद्रः! समभवद वैश्वानर इव ज्वलन 15

द्वितीयादपतन्नेत्रादश्रुबिन्दुस्तु वामकात
तस्माद्र जतमुत्पन्नमुक्तकर्मसु योजयेत 16

कृत्रिमं च भवेत्तद्धि वङ्गादिरसयोगतः 17
रूप्यं तु रजतं तारं चन्द्र कान्ति सितप्रभम 18

गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम
वर्णाढ्यं चन्द्र वत्स्वच्छं रूप्यं नवगुणं शुभम
कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु
दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम 19

रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित
प्रमेहादिकरोगांश्च नाशयत्यचिराद ध्रुवम 20

तारं शरीरस्य करोति तापं विध्वंसनं यच्छति शुक्रनाशम
वीर्यं बलं हन्ति तनोश्च पुष्टिं महागदान्पोषयति ह्यशुद्धम 21

शुक्रं यत् कार्त्तिकेयस्य पतितं धरणीतले
तस्मात्ताम्रं समुत्पन्नमिदमाहुः पुराविदः 22

ताम्रमौदुम्बरं शुल्वमुदुम्बरमपि स्मृतम
रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम 23

जपाकुसुमसङ्काशं स्निग्धं मृदु घनक्षमम
लौहनागोज्झितं ताम्रं मारणाय प्रशस्यते 24

कृष्णं रूक्षमतिस्तब्धं श्वेतञ्चापि घनासहम
लौहनागयुतञ्चेति शुल्बं दुष्टं प्रकीर्त्तितम 25

ताम्रं कषायं मधुरं च तिक्तमम्लं च पाके कटु सारकं च
पित्तापहं श्लेष्महरं च शीतं तद्रो पणं स्याल्लघु लेखनञ्च 26

पाण्डूदरार्शोज्व्रकुष्ठकासश्वासक्षयान् पीनसमम्लपित्तम
शोथं कृमिं शूलमपाकरोति प्राहुः परे बृंहणमल्पमेतत 27

एको दोषो विषे ताम्रेत्वसम्यङ्मारितेऽष्टते
दाहः स्वेदोऽरुचिर्मूर्च्छाक्लेदो रेको वमिर्भ्रमः 28

रङ्गं वङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि
क्षुरकं मिश्रकं चापि द्विविधं वङ्ग मुच्यते 29

उत्तमं क्षुरकं तत्र मिश्रकं त्ववरं मतम 30

रङ्गं लघु सरं रूक्षमुष्णं मेहकफक्रिमीन
निहन्ति पाण्डुं सश्वासं चक्षुष्यं पित्तलं मनाक 31

सिंहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहवर्गम
देहस्य सौख्यं प्रबलेन्द्रि यत्वं नरस्य पुष्टिं विदधाति नूनम 32

यशदं रङ्गसदृशं रीतिहेतुश्च तन्मतम्
यशदं तुवरं तिक्तं शीतलं कफपित्तहृत्
चक्षुष्यं परमं मेहान पाण्डुं श्वासं च नाशयेत 33

दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तुमुमोच यत
वीर्यं जातस्ततो नागः सर्वरोगापहा नृणाम 34

सीसं ब्रध्नं च वप्रं च योगेष्टं नागनामकम 35

सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम 36

नागस्तु नागशततुल्यबलं ददाति व्याधिं विनाशयति जीवनमातनोति
बह्निं प्रदीपयति कामबलं करोति मृत्युं च नाशयति सन्ततसेवितः सः37

पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुल्मांश्च तथाऽतिकष्टान
कण्डूप्रमेहानिलसादशोथभगन्दरादीन कुरुतः प्रयुक्तौ 38

पुरा लोमिनदैत्यानां निहतानां सुरैर्युधि
उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी 39

गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता
अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु 40

लोहं तिक्तं सरं शीतं मधुरं तुवरं गुरु
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत 41

कफं पित्तं गरं शूलं शोथार्शः प्लीहपाण्डुताः
मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि 42

षण्ढत्वकुष्ठामयमृत्युदं भवेद् हृद्रो गशूलौ कुरुतेऽश्मरीञ्च
नानारुजानाञ्च तथा प्रकोपं करोति हृल्लासमशुद्धलोहम 43

जीवहारि मदकारि चायसं चेदशुद्धिमदसंस्कृतं ध्रुवम
पाटवं न तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति 44

कूष्माण्डं तिलतैलञ्च माषान्नं राजिकां तथा
मद्यम्लरसं चापि त्यजेल्लोहस्य सेवकः 45

क्षमाभृच्छिखराकाराण्यङ्गान्यम्लेन लेपिते
लौहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते
लौहं साराह्वयं हन्याद ग्रहणीमतिसारकम 46

अर्द्धं सर्वाङ्गजं वातं शूलं च परिणामजम
छर्दिं च पीनसं पित्तं श्वासं कासं व्यपोहति 47

यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते
हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बवल्कः
तप्तं दुग्धं भवति शिखराकारकंनैति भूमिं
कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहंतदुक्तम 48

गुल्मोदरार्शःशूलाममामवातं भगन्दरम
कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत 49

प्लीहानमम्लपित्तञ्च यकृच्चापि शिरोरुजम 50

सर्वान् रोगान् विजयते कान्तलोहं न संशयः
बलं वीर्यं वपुःपुष्टिं कुरुतेऽग्नि विवर्द्धयेत 51

ध्मायमानस्य लोहस्य मलं मण्डूर मुच्यते
लोहसिंहानिका किट्टी सिंहानञ्च निगद्यते
यल्लोहं यद्गुणंप्रोक्तं तत्किट्टमपि तद्गुणम 52

सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकं
तुत्थं कांस्यं च रीतिश्च सिन्दूरञ्च शिलाजतु 53

उपधातुषु सर्वेषु तत्तद्धातुगुणा अपि
सन्ति किन्त्वेषु ते गौणास्तत्तदंशाल्पभावतः 54

स्वर्णमाक्षिकमाख्यातं तापीजं मधुमाक्षिकम 55

ताप्यं माक्षिकधातुश्च मधुधातुश्च स स्मृतः
किञ्चित्सुवर्णं साहित्यात्स्वर्णमाक्षिकमीरितम 56

उपधातुः सुवर्णस्य किञ्चित्स्वर्णगुणान्वितम
तथा च काञ्चनाभावे दीयते स्वर्णमाक्षिकम 57

किन्तु तस्यानुकल्पत्वात्किञ्चिदूनगुणास्ततः
न केवलं स्वर्णगुणा वर्त्तन्ते स्वर्णमाक्षिके 58

द्रव्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणा यतः
सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम 59

चक्षुष्यं बस्तिरुक्कुष्ठपाण्डुमेहविषोदरान
अर्शः शोथं विषं कण्डूं त्रिदोषमपि नाशयेत 60

मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान्सकुष्ठान
तथैव मालां व्रणपूर्विकां च करोति तापीजमशुद्धमेतत 61

तारमाक्षिकमन्यत्तु तद्भवेद्र जतोपमम
किञ्चिद्र जतसाहित्यात्तारमाक्षिकमीरितम 62

अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः
न केवलं रूप्यगुणा यतः स्यात्तारमाक्षिकम 63

स्वादु पाके रसे किञ्चित्तिक्तं वृष्यं रसायनम
चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरान
अर्शः शोथं क्षयङ्कण्डूं त्रिदोषमपि नाशयेत 64

मन्दानलत्वं बलहानिमुग्रां विष्टग्भितां नेत्रगदान्सकुष्ठान
तथैव मालां व्रणपूर्विकाञ्च करोति तापीजमिदञ्च तद्वत 65

तुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम
तुत्थं ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत 66

किञ्चित्ताम्रगुणं तस्माद्वक्ष्यमाणगुणं च तत
तुत्थकं कटुकं क्षारं कषायं वामकं लघु 67

लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत
विषाश्मकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम 68

ताम्रत्रपुजमाख्यातं कांस्यं घोषं च कंसकम
उपधातुर्भवेत्कांस्यं द्वयोस्तरणिरङ्गयोः 69

कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशाजनैः
संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः 70

कांस्यं कषायं तिक्तोष्णं लेखनं विशदं सरम
गुरु नेत्रहितं रूक्षं कफपित्तहरं परम् 71

पित्तलं त्वारकूटं स्यादारो रीतिश्च कथ्यते
राजरीतिर्ब्रह्मरीतिः कपिला पिङ्गलापि च 72

रीतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च
पित्तलस्य गुणा ज्ञेयाः स्वयोनिसदृशा जनैः 73

संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः 74

रीतिकायुगलं रूक्षं तिक्तञ्च लवणं रसे
शोधनं पाण्डुरोगघ्नं कृमिघ्नं नातिलेखनम 75

सिन्दूरं रक्तरेणुश्च नागगर्भश्च सीसजम
सीसोपधातुः सिन्दूरं गुणैस्तत्सीसवन्मतम 76

संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः
सिन्दूरमुष्णं वीसर्पकुष्ठकण्डूविषापहम
भग्नसन्धानजननं व्रणशोधनरोपणम 77

निदाघे घर्मसन्तप्ता धातुसारं धराधराः
निर्यासवत्प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम 78

सौवर्णं राजतं ताम्रमायसं तच्चतुर्विधम
शिलाजत्वद्रि जतु च शैलनिर्यास इत्यपि 79

गैरेयमश्मजं चापि गिरिजं शैलधातुजम
शिलाजं कटु तिक्तोष्णं कटुपाकं रसायनम 80

छेदि योगवहं हन्ति कफमेहाश्मशर्कराः
मूत्रकृच्छ्रं क्षयं श्वासं वातार्शांसि च पाण्डुताम 81

अपस्मारं तथोन्मादं शोथकुष्ठोदरकृमीन 82

सौवर्णं तु जपापुष्पवर्णं भवति तद्र सात
मधुरं कटु तिक्तं च शीतलं कटुपाकि च 83

राजतं पाण्डुरं शीतं कटुकं स्वादुपाकि च
ताम्रं मयूरकण्ठाभं तीक्ष्णमुष्णं च जायते 84

लौहं जटायुपक्षाभं सत्तिक्तं लवणं भवेत
विपाके कटुकं शीतं सर्वं श्रेष्ठमुदाहृतम 85

रसायनार्थिभिर्लोकैः पारदो रस्यते यतः
ततो रस इति प्रोक्तः स च धातुरपि स्मृतः 86

शिवाङ्गात्प्रच्युतं रेतः पतितं धरणीतले
तद्देहसारजातत्वाच्छुक्लमच्छमभूच्च तत 87

क्षेत्रभेदेन विज्ञेयं शिववीर्यं चतुर्विधम्
श्वेतं रक्तं तथा पीतं कृष्णं तत्तु भवेत्क्रमात
ब्राह्मणः क्षत्रियो वैश्यः शूद्र श्च खलु जातितः 88

श्वेतं शस्तं रुजां नाशे रक्तं किल रसायने
धातुवादे तु तत्पीतं खे गतौ कृष्णमेव च 89

पारदो रसधातुश्च रसेन्द्र श्च महारसः 90

चपलः शिववीर्यश्च रसः सूतः शिवाह्वयः
पारदः षड्रसः स्निग्धस्त्रिदोषघ्नो रसायनः 91

योगवाही महावृष्यः सदा दृष्टिबलप्रदः
सर्वामयहरः प्रोक्तो विशेषात्सर्वकुष्ठनुत 92

स्वस्थो रसो भवेद् ब्रह्मा बद्धो ज्ञेयो जनार्दनः
रञ्जितः कामितश्चापि साक्षाद्देवो महेश्वरः 93

मूर्च्छितो हरति रुजं बन्धनमनुभूय खे गतिं कुरुते
अजरीकरोति हि मृतः कोऽन्य करुणाऽकरः सूतात 94

असाध्यो यो भवेद्रो गो यस्य नास्ति चिकित्सितम
रसेन्द्रो  हन्ति तं रोगं नरकुञ्जरवाजिनाम 95

मलं विषं वह्निगिरित्वचापलं नैसर्गिकं दोषमुशन्ति पारदे
उपाधिजौ द्वौ त्रपुनागयोगजौ दोषौ रसेन्द्रे  कथितौ मुनीश्वरैः 96

मलेन मूर्च्छा मरणं विषेण दाहोऽग्निना कष्टतरः शरीरे
देहस्य जाड्यं गिरिणा सदा स्युश्चाञ्चल्यतो वीर्यहृतिश्च पुंसाम
वङ्गेन कुष्ठं भुजगेन षण्ढो भवेदतोऽसौ परिशोधनीयः 97

वह्निर्विषं मलं चेति मुख्या दोषास्त्रयो रसे
एते कुर्वन्ति सन्तापं मृतिं मूर्च्छां नृणां क्रमात 98

अन्येऽपि कथिता दोषा भिषग्भिः पारदे यदि
तथाऽप्येते त्रयो दोषाहरणीया विशेषतः 99

संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम
देहस्य नाशं विदधाति नूनं कष्टांश्च रोगाञ्जनयेन्नराणाम 100

गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोऽञ्जनं टङ्कणं
राजावर्तकचुम्बकौ स्फटिकया शङ्खः खटी गैरिकम
कासीसं रसकं कपर्दसिकताबोलाश्च कुङ्कष्ठकं
सौराष्ट्री च मता अमी उपरसाः सूतस्य किञ्चिद्गुणैः 101

हिङ्गुलं दरदं म्लेच्छमिङ्गुलं चूर्णपारदम
दरदस्त्रिविधः प्रोक्तश्चर्मारः शुकतुण्डकः 102

हंसपादस्तृतीयः स्याद् गुणवानुत्तरोत्तरम 103

चर्मारः शुक्लवर्णः स्यात्स पीतः शुकतुण्डकः
जपाकुसुमसङ्काशो हंसपादो महोत्तमः 104

तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि
हृल्लासकुष्ठज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति 105

उर्ध्वपातनयुक्त्या तु डमरुयंत्रपाचितम
हिङ्गुलं तस्य सूतं तु शुद्धमेव न शोधयेत 106

श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाऽप्लुतम
दुकूलं तेन वस्त्रेण स्नातायाः क्षीरनीरधौ 107

प्रसृतं यद्र जस्तस्माद्गन्धकः समभूत्ततः
गन्धको गान्धिकश्चापि गन्धपाषाण इत्यपि 108

सौगन्धिकश्च कथितो बलिर्बलरसोऽपि च
चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः 109

रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने
व्रणादिलेपने श्वेतः कृष्णः श्रेष्ठः सुदुर्लभः 110

गन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः
पित्तलः कटुकः पाके जन्तुकण्डूविसर्पजित
हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः 111

अशोधितो गन्धक एव कुष्ठं करोति तापं विषमं शरीरे
सौख्यं च रूपं च वलं तथौजः शुक्रं निहन्त्येव करोति चास्रम 112

पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम
विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः 113

ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम
तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम 114

तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात
गगनात्स्खलितं यस्माद्गगनं च ततो मतम 115

विप्रक्षत्रियविट्शूद्र भेदात्तत्स्याच्चतुर्विधम
क्रमेणैव सितं रक्तं पीतं कृष्णं च वर्णतः 116

प्रशस्यते सितं तारे रक्तं तत्तु रसायने
पीतं हेमनि कृष्णं तु गदेषु द्रुतयेऽपि च 117

पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम
मुच्चत्यग्नौ विनिक्षिप्तं पिनाकं दलसञ्चयम 118

अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम
दुर्दरं त्वग्निनिक्षिप्तं कुरुते दुर्दरध्वनिम 119

गोलकान्बहुशः कृत्वा स स्यान्मृत्युप्रदायकः
नागं तु नागवद्बह्वौ फूत्कारं परिमुञ्चति 120

तद्भक्षितमवश्यं तु विदधाति भगन्दरम
वज्रं तु वज्रवत्तिष्टेत्तन्नाग्नौ विकृतिं व्रजेत 121

सर्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत 122

अभ्रमुत्तरशैलोत्थं बहुसत्त्वं गुणाधिकम
दक्षिणाद्रि भवं स्वल्पसत्वमल्पगुणप्रदम 123

अभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनं च
हन्यात्त्रिदोषं व्रणमेहकुष्टप्लीहोदरग्रन्थिविषकृमींश्च 124

रोगान्हन्ति द्र ढयति वपुर्वीर्यवृद्धिं विधत्ते
तारुण्याढ्यं रमयति शतं योषितां नित्यमेव
दीर्घायुष्काञ्जनयति सुतान्विक्रमैः सिंहतुल्यान
मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रम् 125

पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च शोथम
हृत्पार्श्वपीडां च करोत्यशुद्धमभ्रं त्वसिद्धं गुरु तापदं स्यात 126

हरितालं तु तालं स्यादालं तालकमित्यपि
हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम 127

तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम
स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत 128

पत्राख्यं तालकं विद्याद् गुणाढ्यं तद्र सायनम
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु 129

स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम
कण्डूकुष्ठास्यरोगास्रकफपित्तकचव्रणान 130

हरति च हरितालं चारुतां देहजातां
सृजति च बहुतापञ्चाङ्गसङ्कोचपीडाम
वितरति कफवातौ कुष्ठरोगं विदध्यात
इदमशितमशुद्धं मारितं चाप्यसम्यक् 131

मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका
नैपाली कुनटी गोला शिला दिव्यौषधिः स्मृता 132

मनःशिला गुरुर्वर्ण्या सरोष्णा लेखनी कटुः
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत 133

मनःशिला मन्दबलं करोति जन्तुं ध्रुवं शोधनमन्तरेण
मलानुबन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात 134

अञ्जनं यामुनं चापि कापोताञ्जनमित्यपि
तत्तु स्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरितम 135

वल्मीकशिखराकारे भिन्नमञ्जनसन्निभम
घृष्टं तु गैरिकाकारमेतत्स्रोतोऽञ्जनं स्मृतम 136

स्रोतोऽञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम
स्रोतोऽञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत 137

कषायं लेखनं स्निग्धं ग्राहि च्छर्दिविषापहम
सिध्मक्षयास्रहृच्छीतं सेवनीयं सदा बुधैः 138

स्रोतोऽञ्जनगुणाः सर्वे सौवीरेऽपि मता बुधैः
किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोऽञ्जनं स्मृतम 139

टङ्कणोऽग्निकरो रूक्षः कफघ्नो वातपित्तकृत 140

स्फटी च स्फटिका प्रोक्ता श्वेता शुभ्रा च रङ्गदा
दृढरङ्गा रङ्गदृढा रङ्गाङ्गापि च कथ्यते 141

स्फटिका तु कषायोष्णा वातपित्तकफव्रणान
निहन्ति श्वित्रवीसर्पान् योनिसङ्कोचकारिणी 142

राजावर्त्तो नृपावर्त्तो राजन्यावर्त्तकस्तथा
आवर्त्तमणिसंज्ञश्च ह्यावर्त्तोऽपि तथैव च 143

राजावर्त्तं कटुस्तिक्तः शिशिरः पित्तनाशनः
राजावर्त्तः प्रमेहघ्नश्छर्दिहिक्कानिवारणः 144

चुम्बकः कान्तपाषाणोऽयस्कान्तो लौहकर्षकः
चुम्बको लेखनः शीतो मेदोविषगरापहः 145

गैरिकं रक्तधातुश्च गैरेयं गिरिजं तथा
सुवर्णगैरिकं त्वन्यत्ततो रक्ततरं हि तत 146

गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम
चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम 147

खटिका कठिनी चापि लेखनी च निगद्यते
खटी दाहास्रजिच्छीता मधुरा विषशोथजित 148

लेपादेतद्गुणा प्रोक्ता भक्षिता मृत्तिकासमा
खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्त्तिते 149

बालुका सिकता प्रोक्ता शर्करा रेतजाऽपि च
वालुका लेखनी शीता व्रणोरःक्षतनाशिनी 150

खर्परी तुत्थकं तुत्थादन्यत्तद्र सकं स्मृतम
ये गुणास्तुत्थके प्रोक्तास्ते गुणा रसके स्मृता 151

काशीशं धातुकाशीशं पांशुकाशीशमित्यपि
तदेव किञ्चित्पीतं तु पुष्पकाशीशमुच्यते 152

काशीशमम्लमुष्णं च तिक्तञ्च तुवरं तथा
वातश्लेष्महरं केश्यं नेत्रकण्डूविषप्रणुत
मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्त्तितम 153

सौराष्ट्री तुवरी काली मृत्तालकसुराष्ट्रजे 154

आढकी चापि सा ख्याता मृत्स्ना च सुरमृत्तिका
स्फटिकायागुणाः सर्वे सौराष्ट्र्या अपि कीर्त्तिताः 155

मृन्मृदा मृत्तिका मृत्स्ना क्षेत्रजा कृष्णमृत्तिका
कृष्णमृत क्षतदाहास्रप्रदरश्लेष्मपित्तनुत 156

पङ्कस्तु जलकल्कश्च चुलुकः कर्दमो मलः
चिकिलः पलितो द्रा पः पललश्च निषद्वरः
कर्दमो दाहपित्तास्रशोथघ्नः शीतलः सरः 157

कपर्दको वराटश्च कपर्दी च वराटिका
कर्णस्रावाग्निमान्द्यघ्नी पित्तास्रकफनाशिनी 158

शङ्खः समुद्र जः कम्बुः सुनादः पावनध्वनिः
शङ्खो नेत्र्यो हिमः शीतो लघुः पित्तकफास्रजित 159

बोलगन्धरसप्राणपिण्डगोपरसाः समाः
बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम
मधुरं कटु तिक्तं च दाहस्वेदत्रिदोषजित
ज्वरापस्मारकुष्ठघ्नं गर्भाशयविशुद्धिकृत 160

हिमवत्पादशिखरे कङ्कुष्ठमुपजायते
तत्रैकं रक्तकालं स्यात्तदन्यद्दण्डकं स्मृतम 161

पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम
श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं तथाऽण्डकम 162

कङ्कुष्टं काककुष्ठं च विरङ्गं कोलकाकुलम 163

कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम
कृमिशोथोदराध्मानगुल्मानाहकफापहम 164

धनार्थिनो जनाःसर्वे रमन्तेऽस्मिन्नतीव यत
ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः 165

रत्नं क्लीबे मणिः पुंसि स्त्रियामपि निगद्यते
तत्तु पाषाणभेदोऽस्ति मुक्तादि च तदुच्यते 166

रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च
इन्द्र नीलश्च गोमेदस्तथा वैदूर्यमित्यपि
मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव 167

मुक्ताफलं हीरकं च वैदूर्यं पद्मरागकम 168

पुष्परागं च गोमेदं नीलं गारुत्मतं तथा
प्रवालयुक्तान्येतानि महारत्नानि वै नव 169

हीरकः पुंसि वज्रोऽस्त्री चन्द्रो  मणिवरश्च सः
स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्रियः स्मृतः
पीतो वैश्योऽसितः शूद्र श्चतुर्वर्णात्मकश्च सः 170

रसायने मतो विप्रः सर्वसिद्धिप्रदायकः
क्षत्रियो व्याधिविध्वंसी जरामृत्युहरः स्मृतः 171

वैश्यो धनप्रदः प्रोक्तस्तथा देहस्यदार्ढ्यकृत
शूद्रो  नाशयति व्याधीन् वयःस्तम्भं करोति च 172

अथ पुंस्त्रीनपुंसकभेदात् त्रिविधस्य तस्य
पुंस्त्रीनपुंसकानीह लक्षणीयानि लक्षणैः
सुवृत्ताः फलसम्पूर्णास्तेजोयुक्ता बृहत्तराः 173

पुरुषास्ते समाख्याता रेखाविन्दु विवर्जिताः
रेखाविन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः 174

त्रिकोणाश्च सुदीर्घास्ते विज्ञेयाश्च नपुंसकाः
तेषु स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः 175

स्त्रियः कुर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः
नपुंसकास्त्ववीर्याः स्युरकामा सत्ववर्जिताः176

स्त्रियः स्त्रीभ्यः प्रदातव्याः क्लीबं क्लीबे प्रयोजयेत
सर्वेभ्यः सर्वदादेयाः पुरुषा वीर्यवर्धनाः 177

अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा
पाण्डुतां पङ्गुलत्वं च तस्मात्संशोध्य मारयेत 178

आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च
सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः 179

गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः 180

माणिक्यं पद्मरागः स्याच्छोणरत्नञ्च लोहितम 181

पुष्परागो मञ्जुमणिः स्याद्वाचस्पतिवल्लभः 182

नीलं तथेन्द्र नीलञ्च गोमेदः पीतरत्नकम 183

वैदूर्यं दूरजं रत्नं स्यात्केतुग्रहवल्लभम् 184

मौक्तिकं शौतिक्तं मुक्ता तथा मुक्ताफलञ्च तत
शुक्तिः शङ्खो गजः क्रोडः फणी मत्स्यश्च दर्दुरः
वेणुरेते समाख्यातास्तज्ज्ञैर्मौक्तिकयोनयः
मौक्तितं शीतलं वृष्यं चक्षुष्यं बलपुष्टिदम 185

पुंसि क्लीबे प्रवालः स्यात्पुमानेव तु विद्रुमः 186

रत्नानि भक्षितानि स्युर्मधुराणि सराणि च
चक्षुष्याणि च शीतानि विषघ्नानि धृतानि च
मङ्गल्यानि मनोज्ञानि ग्रहदोषहराणि च 187

किं रत्नं कस्य ग्रहस्य प्रीतिकारित्वेन दोषहरं भवतीति प्रश्ने
तदुत्तरमाहै रत्नमालायाम
माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगो
र्माहेयस्य तु विद्रुमो निगदितः सौम्यस्य गारुत्मतम
देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शने
र्नीलं निर्मलमन्ययोर्निगदिते गोमेदवैदूर्यके 188

उपरत्नानि काचश्च कर्पूराश्मा तथैव च
मुक्ताशुक्तिस्तथा शङ्ख इत्यादीनि बहून्यपि 189

गुणा यथैव रत्नानामुपरत्नेषु ते तथा
किन्तु किञ्चित्ततो हीना विशेषोऽयमुदाहृतः 190

विषं तु गरलः क्षवेडस्तस्य भेदानुदाहरे
वत्सनाभः सहारिद्र ः! सक्तुकश्च प्रदीपनः
सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च
हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव 191

सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा
यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः 192

हरिद्रा तुल्यमूलो यो हारिद्रः! स उदाहृतः 193

यद्ग्रन्थिः सक्तुकेनैव पूर्णमध्यः स सक्तुकः 194

वर्णतो लोहितो यः स्याद्दीप्तिमान् दहनप्रभः
महादाहकरः पूर्वैः कथितं स प्रदीपनः 195

सुराष्ट्रविषये यः स्यात्स सौराष्ट्रिक उच्यते 196

यस्मिन् गोशृङ्गके बद्धे दुग्धं भवति लोहितम
स शृङ्गिक इति प्रोक्तो द्र व्यतत्त्वविशारदैः 197

देवासुररणे देवैर्हतस्य पृथुमालिनः
दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः
निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः
सोऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत 198

गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा
तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः
असौ हालाहलो ज्ञेयः किष्किन्धायां हिमालये
दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते 199

वर्णतः कपिलो यः स्यात्तथा भवति सारतः
ब्रह्मपुत्रः सविज्ञेयो जायते मलयाचले 200

ब्राह्मणः पाण्डुरस्तेषु क्षत्रियो लोहितप्रभः
वैश्यः पीतोऽसितः शूद्रो  विष उक्तश्चतुर्विधः 201

रसायने विषं विप्रं क्षत्रियं देहपुष्टये
वैश्यं कुष्ठविनाशाय शूद्रं  दद्याद्वधाय हि 202

विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च
आग्नेयं वातकफहृद्योगवाहि मदावहम 203

तदेव युक्तियुक्तं तु प्राणदायि रसायनम
योगवाहि त्रिदोषघ्नं बृंहणं वीर्यवर्द्धनम 204

ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात
तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत 205

अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः
गुञ्जाऽहिफेनो धत्तूरः सप्तोपविषजातयः 206

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे 
अष्टमः धात्वादिवर्गः समाप्तः 8

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।