Saturday, 11 July 2015

अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरणम 8 - B

अथ ज्वरिणोऽन्नदानसमयस्तत्र चरकः

क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च
काले वा यदि वाऽकालेसोऽन्नकाल उदाहृतः 207

आमे पाकं गते नॄणां यदा भोजनलालसा
भवेत्काले ह्यकाले वा सोऽन्नकाल उदाहृतः 208

सर्वज्वरेषु सप्ताहं मात्रावल्लघु भोजयेत
वेगापायेऽन्यथा तद्धिज्वरवेगाभिवर्द्धनम 209

आहारनिर्हारविहारयोगाःसदैव सद्भिर्विजने विधेयाः 210

ज्वरे प्रमेहो भवति स्वल्पैरपि विचेष्टितैः
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत 211

यथादोषोचितैर्द्र्रव्यैः कर्त्तव्यः कवल ग्रहः
अरोचकास्यवैरस्यमलपूतिप्रसेकहृत 212

भृष्टजीरकचूर्णेन सिन्धुजन्मयुतेन च
जिह्वादन्तान्मुखस्यान्तर्घृष्ट्वा कवलमाचरेत 213

मुखे मलं विगन्धत्वं विरसत्वंच नश्यति
मनःप्रसन्नं भवति भोजनेऽतिरुचिर्भवेत 214

ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽपि च 215

रक्तशाल्यादयः शस्ताःपुराणाः षष्टिकैः सह
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः 216

मुद्गान मसूरांश्चणकान कुलत्थान्समकुष्ठकान
यूषार्थे यूषसात्म्यानं ज्वरितानां प्रदापयेत 217

पटोलपत्रं वार्त्ताकुं कुलकं कारवेल्लकम
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम 218

पत्रं गुडूच्याःशाकार्थे ज्वरितानां ज्वरापहम
लावान् कपिञ्जलानेणान् हरिणान्पृषताञ्छशान 219

कुरङ्गान्कालपुच्छांश्च तथैव मृगमातृकान
मांसार्थं  मांससात्म्यानां ज्वरितानां प्रदापयेत 220

सारसक्रौञ्चशिखिनस्तथा तित्तिरकुक्कुटान
गुरूष्णत्वान्न शंसन्ति केचिदेवं व्यवस्थिताः 221

ज्वरितानां प्रकोपं तु यदा याति समीरणः
तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः 222

निम्बुकं दाडिमं धात्रीफलमम्लं प्रकाङ्क्षते
प्रदद्यादम्लसात्म्याय काञ्जिकं वा पुरातनम 223

तण्डुलानां सुसिद्धानां चतुर्दशगुणे जले
रसः सिक्थैर्विरहितो मण्ड इत्यभिधीयते 224

शुण्ठीसैन्धवसंयुक्तो दीपनः पाचनश्च सः
अन्नस्य सम्यक्सिद्धत्वं ज्ञेया मण्डस्य सिद्धता 225

पेयायूषयवागूनां विलेपीभक्तयोरपि
मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्यकृत
ज्वरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः 226

चतुर्दशगुणे नीरे रक्तशाल्यादिभिः कृता
द्रवाधिका स्वल्पसिक्था पेया प्रोक्ता भिषग्वरैः 227

साऽतिलघ्वी ग्राहिणी च धातुपुष्टिविधायिनी
तृड्ज्वरानिलदौर्बल्यकुक्षिरोगविनाशिनी 228

स्वेदाग्निजननी ज्ञेया वातवर्चोऽनुलोमनी
शुण्ठीसैन्धवसंयुक्ता दीपनी पाचनी च सा 229

आमशूलहरी रुच्या स्याद्विबन्धविनाशिनी 230

प्रमथ्या प्रोच्यते द्रव्यपलात्कल्कीकृताच्छ्रतात
तोयेऽष्टगुणिते तस्याः पानमाहुः पलद्वयम
गुणैः प्रमथ्या पेयावत्ततो लघ्वी विशेषतः 231

अष्टादशगुणे नीरे शिम्बीधान्यशृतो रसः
विरलान्नो घनः किञ्चित्पेयातो यूष उच्यते
उक्तः स एव निर्यूहो रुचिकृच्च विशेषतः 232

कल्कद्र्रव्यपलं शुण्ठी पिप्पली चार्द्धकार्षिकी
वारिप्रस्थेन विपचेत्तद्भवो यूष उच्यते 233

यूषो बल्यो लघुःपाके रुच्यः कण्ड्यः कफापहः 234

मुद्गानां द्विपलं तोये शृतमर्द्धाढकोन्मिते
पादस्थं मर्दितं पूतं दाडिमस्य पलेन तत 235

युक्तं सैन्धवविश्वाह्वधान्यकैः पादिकांशिकैः
कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम
संस्कृतो मुद्गयूषोऽय पित्तश्लेष्महरो मतः 236

मुद्गानामुत्तमो यूषः दीपनः शीतलो लघुः
व्रणोर्द्ध्वजत्रुरुग्दाहकफपित्तज्वरास्रजित 237

मुद्गामलकयूषस्तु भेदी पित्तानिलापहः
तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः 238

मसूरयूषः संग्राही बृंही स्वादुः प्रमेहनुत 239

यवागू षडगुणे तोये संसिद्धा घनसिक्थका
पृथग्द्र वैस्तु विरलैः संयुक्ता ज्वरिणे हिता 240

यवागूर्दीपनी लघ्वी तृष्णघ्नी वस्तिशोधिनी
श्रमग्लानिहरी पथ्या ज्वरे चैवातिसारके 241

चतुर्गुणाम्बुसंसिद्धा विलेपी घनसिक्थका
पृथग्द्र वेण रहिता ख्याता शिथिलभक्तिका 242

विलेपी दीपनी बल्या हृद्या संग्राहिणी लघुः
व्रणाक्षिरोगिणां पथ्या तर्पणी तृड्ज्वरापहा 243

जले चतुर्दशगुणे तण्डुलानां चतुष्पलम
विपचेत्स्रावयेन्मण्डं तद्भक्तं मधुरं लघु 244

अन्नं पञ्चगुणे तोये यवागूं षडगुणे पचेत
भक्तं वह्निकरं पथ्यं तर्पणं मूत्रलं लघु 245

सुधौतं प्रस्रुतं चोष्णं विशदं गुणवत्तरम
अधौतमस्रतं शीतं वृष्यं गुरु कफप्रदम 246

अत्युष्णं बलहृद्भक्तं शीतं शुष्कञ्च दुर्जरम
अतिक्लिन्नं ग्लानिकरं दुर्जरं तण्डुलान्वितम 247

भृष्टतण्डुलजं रुच्यं सुगन्धिं कफहृल्लघु
वातास्थापितमन्दाग्निविरिक्तानां प्रशस्यते 248

मांसलं सक्थिजं मांसं तथाऽनस्थि च तैत्तिरम
चतुष्पलोन्मितं सूक्ष्मं कल्पितं क्षालितं जले 249

पिप्पलीपिप्पली मूल शुण्ठीजीरकधान्यकैः
द्विशाणैः संयुते तोये क्वाथ्यमर्द्धाढकोन्मिते
पादस्थितं जलं तत्र दाडिमात् कुट्टिताद्धरेत
तं रसं मर्दितं हिङ्गुभृष्टसैन्धवजीरकैः 250

युक्तं प्रधूपितं पथ्यं शुद्धानां शुद्धिकाङ्क्षिणाम  251

रसौदनो गुरुर्वृष्यो बल्यो वातज्वरापहः 252

साध्यं चतुष्पलं द्रव्यं चतुःषष्टिपलेऽम्बुनि
तत्क्वाथेनार्द्धशिष्टेन मण्डपेयाऽदि साधयेत 253

वृद्धवैद्याः पलं द्र व्यं ग्राहयन्त्याढकेऽम्भसि
भेषजस्यातिबाहुल्यात कदाचिदरुचिर्भवेत 254

यैरन्नैरौषधैर्यैश्च कृता मण्डादयो बुधैः
विचार्य तद्गुणानेतांस्तद्गुणानेव निर्दिशेत 255

अन्नकाले हिता पेया यथास्वं पाचनैः कृता
दीपनी पाचनी लघ्वी ज्वरार्त्तानांज्वरापहा 256

पञ्चमूल्याः कषायन्तु पाचनं वातिके ज्वरे
सक्षौद्रं  पैत्तिके मुस्तकटुकेन्द्र्रयवैः कृतम 257

पिप्पल्यादिकषायं तु पाचनं कफजे ज्वरे
लघुना पञ्चमूलेन पिप्पल्या सह धान्यया 258

महत्या पञ्चमूल्याऽथ व्याघ्रीदुःस्पर्शगोक्षुरैः
सिद्धानि भिषगन्नानि प्रयुञ्जीत यथाक्रमम
वातपित्ते श्लेष्मपित्ते कफवाते त्रिदोषजे 259

पेयां वा रक्तशालीनां वस्तिपार्श्वशिरोरुजि
श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत 260

विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम
सर्पिष्मतीं पिबेत्पेयां ज्वरी दोषानुलोमिनीम 261

कासी श्वासी च हिक्की च पञ्चमूलीशृतां पिबेत 262

पेया भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनी
वातमूत्रपुरीषाणां  दोषाणां चानुलोमिका 263

स्वेदनाय च सोष्णत्वाद् द्र्रवत्वात्तृट्क्षयाय च
आहारभावात्प्राणाय सरत्वाल्लाघवाय च
ज्वरध्नी हेतुसाम्यत्वात्तस्मात्तां पूर्वमाचरेत 264

यवकोलकुलत्थानां मुद्गमूलकशुण्ठयोः
एकैकमुष्टिमादाय पचेदष्टगुणे जले 265

पञ्चमुष्टिक इत्येष वातपित्तकफापहः
शूले प्रशस्यते गुल्मे कासे श्वासे क्षये ज्वरे 266

रुद्धमूत्रपुरीषस्य गुदे वर्त्तिं निधापयेत 267

पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम
पाययेत्तु यवागूं वा मारुताद्यनुलोमिनीम 268

मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफोत्थिते
ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे 269

दाहच्छर्द्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम
घर्मार्त्तं मद्यपं चापि तोयालोडितसक्तुकम 270

शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम
ज्वरापहैः फलरसैर्युक्तमन्नं हितं क्वचित 271

द्राक्षादाडिमखर्जूरमृदिताम्बु सशर्करम
लाजचूर्णं समध्वाज्यं सन्तर्पणमुदाहृतम 272

लाजानां सक्तवः क्षौद्र सितायुक्ता विशेषतः
छर्द्यतीसारतृड्दाहविषमूर्च्छाज्वरापहाः 273

तत्र तर्पणमेवादौ प्रदेयं लाजसक्तुभिः
ज्वरापहैः फलरसैर्युक्तं समधुशर्करम 274

द्राक्षादाडिमखर्जूरप्रियालैः सपरूषकैः
तर्पणार्हस्य दातव्यं तर्पणं ज्वरनाशनम 275

श्रमोपवासानिलजे हितो नित्यं रसौदनः 276

मुद्गयूषौदनश्चैव हितः कफसमुत्थिते
स एव सितयायुक्तः शीतः पित्तज्वरे हितः 277

कृशोऽल्पदोषो यः क्षीणकफो जीर्णज्वरान्वितः
विवद्धासृष्टदोषश्च रूक्षपित्तानिलज्वरी
पिपासाऽत्त सदाहश्च पयसा स सुखी भवेत 278

अजादुग्धं गुडोपेतं पातव्यं ज्वरशान्तये
तदेव तु पयः पीतं तरुणे हन्ति मानवम 279

जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम
तदेव तरुणे पीतं विषवद्धन्ति मानवम 280

न द्विरद्यान्न पूर्वाह्णे नाभिष्यन्दि कदाचन
न तीक्ष्णं न गुरुप्रायं भुञ्जीत तरुणज्वरी 281

न जातु तर्पयेत्प्राज्ञः सहसा ज्वरकर्शितम
तेन संशमितोऽप्यस्यपुनरेव भवेज्ज्वरः 282

दाहः स्वेदो भ्रमस्तृष्णा कम्पो विड्भिदसंज्ञता
कूजनं चातिवैगन्ध्यमाकृतिर्ज्वरमोक्षणे 283

त्रिदोषजे ज्वरे ह्येतदन्तर्वेगे च धातुगे
लक्षणं मोक्षकाले स्यादन्यस्मिन्स्वेददर्शनम 284

देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम
स्वेदः क्षवः प्रकृतियो गिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्निविगतज्वरलक्षणानि 285

स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम 286

व्यायामञ्च व्यवायञ्च स्नानं चङ्क्रमणानि च
ज्वरमुक्तो न सेवेत यावन्न बलवान्भवेत 287

व्ययामञ्च व्यवायञ्च प्रवातं शिशिरं जलम
ज्वर मुक्तो नसेवेत यावन्न बलवान्भवेत 288

जन्तोर्ज्वरविमुक्तस्य स्नानं कुर्यात्पुनर्ज्वरम
तस्माज्ज्वरविमुक्तोऽपि स्नानं विषमिव त्यजेत 289

बलवर्णाग्निवपुषां यावन्न प्रकृतिर्भवेत
तावज्ज्वरेण मुक्तोऽपि वर्जनीयानि वर्जयेत 290

वातलाहारचेष्टाभ्यां वायुरामाशयाश्रयः
बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद् रसानुगः 291

वेपथुर्विषमो वेगः कण्ठौष्ठमुखशोषणम
निद्रा नाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च 292

शिरोहृद्गात्ररुग्वक्त्रवैरस्यां बद्धविट्कता
शूलाध्माने जृम्भणञ्च भवन्त्यनिलजे ज्वरे 293

भवन्ति विविधा वातवेदनाः स्यादसुप्तता
पिण्डिकोद्वेष्टनं कर्णस्वनो वक्त्रकषायता
गात्रसादो हनुस्तम्भो विश्लेषः सन्धिजानुनोः 294

शुष्ककासो वमिर्लोमदन्तहर्षः श्रमभ्रमौ
अरुणं मूत्रनेत्रादि तृट्प्रलापोष्णगात्रताः 295

ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम
पाचनं शमनीयञ्च कषायं पाययेद्भिषक 296

वातिके सप्तरात्रेण  दशरात्रेण पैत्तिके
श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम 297

दोषाणामेव सा शक्तिर्लङ्घने या सहिष्णुता
न हि दोषक्षये कश्चित्सहते लङ्घनं महत 298

कफपित्ते द्रवे धातू सहेते लङ्घनं बहु
आमक्षयादूर्ध्वमपि वायुर्न सहते क्षणम 299

तत्र भेषजम्

श्रीफलः सर्वतोभद्रा  कामदूती च शोणकः
तर्कारी गोक्षुरः क्षुद्रा  बृहती कलशी स्थिरा 300

रास्ना कणा कणामूलं कुष्ठं शुण्ठी किरातकः
मुस्ता बलाऽमृता बालं द्रा क्षायासशताह्विकाः 301

एषां क्वाथो निहन्त्येव प्रभञ्जनकृतं ज्वरम्
सोपद्र वञ्च योगोऽय सर्वयोगवरः स्मृतः 302

त्रिशतीतर्कारी श्रीफलटुण्टुकपाटलामूलैः
पाचनमुचितं मारुतजनितज्वरहारि वारिणा क्वथितैः 303

किराताब्दामृतोदीच्य बृहतीद्वयगोक्षुरैः
त्रिपर्णीकलशीबिल्वैः क्वाथो वातज्वरापहः 304

गुडूचीपिप्पलीमूलनागरैःपाचनं शृतम
वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनि 305

विश्वाऽमृताग्रन्थिकसिद्धतोयं मरुज्ज्वरः स्यात्पिबतः कुतोऽयम
क्वाथोऽथ कुस्तुम्बुरुदेवदारुक्षुद्रौ षधैः पाचनमत्र चारु 306

पञ्चमूलीवलारास्नाकुलत्थैः सह पौष्करैः
क्वाथो हन्याच्छिरःकम्पं पर्वभेदं मरुज्ज्वरम 307

कणारसोनामृतवल्लिविश्वानिदिग्धिकासिन्धुकभूमिनिम्बैः
समुस्तकैराचरितः कषायो हिताशिनां हन्ति गदानिमांस्तु 308

ज्वरं मरुद्दुष्टिसमुद्भवं तथा बलासजं चानलमन्दताञ्च
कण्ठावरोधं हृदयावरोधं स्वेदञ्च रोमाञ्चहिमत्वमोहान 309

अथ कल्पतरुरसः

शुद्धं शंकरशुक्रमक्षतुलितं मारारिनारी रजस्तद्वत्तावदुमापतिस्फुट गलालङ्कारवस्तु स्मृतम  
तावत्येव मनःशिला च विमला तावत्तथा टङ्कणंशुण्ठी द्व्यक्षमिता कणाच मरिचं दिक्पालसंख्याक्षकम 310

विषादिवस्तूनि शिलोपरिष्टाद् विचूर्णयेद्बाससि शोधयेच्च
ततस्तु खल्वे रसगन्धकौ च चूर्णञ्च तद्यामयुगंविमर्द्यम 311

कल्पतरुनामधेयो यथार्थनामा रसः श्रेष्ठ
समीरणश्लेष्मगदान्हरते मात्राऽस्य स्मृता गुञ्जैका 312

आर्द्र्केण सममेष भक्षितो हन्ति वातकफसम्भवं ज्वरम्
श्वासकासमुखसेकशीतता वह्निमान्द्यविसुचीश्च नाशयेत 313

नस्येनाश्वेव हरति शिरोर्तिं कफवातजाम
मोहं महान्तमपि च प्रलापं क्षवथुग्रहम 314

सामन्यज्वरचिकित्सोक्तो महाज्वराङ्कुशः प्रदेयोऽत्र

अथ त्रिपुरभैरवरसः

विषमहौषधमागधिकोषणद्युमणिरक्तकमार्द्रकमर्दितम
क्रमविवर्द्धितमुद्दलितज्वरस्त्रिपुरभैरव एष रसो वरः 315

वातश्लेष्मज्वरे स्वेदं जङ्घापार्श्वास्थिशूलिनि
पीनसश्वासबाधिर्ये कारयेत्तद्विधानवित 316

स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम
हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति 317

खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुकास्वेदः
शमयति वातकफामयशूलाङ्गभङ्गकम्पादीन 318

कम्पे शिरोहृदयगात्रव्यथायां जृम्भायां पादसुप्ततायाम
पिण्डिकोद्वेष्टनेऽङ्गसादे हनुस्तम्भे च लोमहर्षे 319

मातुलुङ्गफलकेशरो धृतः सिन्धुजन्ममरिचान्वितो मुखे
हन्ति वातकफरोगमास्यगं शोषमाशु जडतामरोचकम 320

शर्करादाडिमाभ्याञ्च द्रा क्षादाडिमयोस्तथा
कल्कं विधारयेदास्ये शोषवैरस्यनाशनम 321

द्राक्षाऽमलकयोः कल्कं सघृतं वदने क्षिपेत
तेन घृष्ट्वा मुखस्यान्तः कुर्वीत प्रतिसारणम 322

तेन तालुगलान्तःस्थः संशोषश्चैव शाम्यति
सुरसं जायते वक्त्रं रुचिर्भवति भोजने 323

नावनं लङ्घनं चिन्ता व्यायामः शोकभीरुषः
एभिरेव भवेन्निद्रा नाशः श्लेष्मातिसंक्षयात 324

भृष्टन्तु विजयाचूर्णं मधुना निशि भक्षयेत
निद्रा नाशेऽतिसारे च ग्रहण्यां पावकक्षये 325

गुडं पिप्पलिमूलस्य चूर्णेनालोडितं लिहेत
चिरादपि च संनष्टां निद्रा माप्नोति मानवः 326

वायसजङ्घामूलं बद्धं वा शिरसि काकमाच्याश्च
विधृतं निद्रा जनकं त्वङ्मूलं वा शृतं सगुडम 327

मूलन्तु काकमाच्या बद्धं सूत्रेण मस्तके नियतम
विदधाति नष्टनिद्रो  निद्रा माश्वेव सिद्धमिदम 328

शीलयेन्मन्दनिद्र स्तु क्षीरमद्यरसान्दधि
अभ्यङ्गोद्वर्त्तनस्नानमूर्द्धकर्णाक्षितर्पणम 329

कान्ताबाहुलताऽश्लेषो निर्वृतिः कृतकृत्यता
मनोऽनुकूला विषयाः कामं निद्रा सुखप्रदाः 330

रसे शाके च सूपे च सर्पिर्यूषपयःसु च
निद्रा ं! सञ्जनयत्याशु पलाण्डुरुपयोजितः 331

एक्षवं पोतकी माषः सुरा मांसरसः पयः
गोधूमतिलमत्स्याश्च निद्रां! कुर्वन्ति देहिनाम 332

दारुहैमवती कुष्ठशताह्वाहिङ्गुसैन्धवैः
लिम्पेत्कोष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम 333

कटुतैलं कणाहिङ्गुवचालशुनसाधितम
उष्णं विनिहितं हन्ति कर्णयोर्निःस्वनं व्यथाम 334

कणा सुगन्धिवचया यवान्या च समन्विता
ताम्बूलसहिता हन्ति शुष्ककासं मुखे धृता 335

श्रमोपवासानिलजे हितो नित्यं रसौदनः
मुद्गामलकयूषस्तु बद्धविट्काय दीयते 336

पेयां वा रक्तशालीनां वस्तिपार्श्वशिरोरुजि
श्वदंष्ट्रकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत
कासी श्वासी च हिक्की च पञ्चमूलीशृतां पिबेत 337

पित्तलाहारचेष्टायां पित्तमामाशयाश्रयम्
बहिर्निरस्य कोष्ठाग्निंज्वरकृत्स्याद्रसानुगम 338

वेगस्तीक्ष्णोऽतिसारश्च निद्रा ऽल्पत्वं तथा वमिः
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते 339

प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा
पीतविण्मूत्र नेत्रत्वं पैत्तिके भ्रम एव च 340

पैत्तिके दशरात्रेण ज्वरे युञ्जीत भेषजम 341

अथ तिक्ताऽदिक्वाथः

तिक्तामुस्तायवैः पाठाकट्फलाभ्यां सहोदकम
पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे 342

अथ पर्पटादिक्वाथ

पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः
प्रियङ्गुश्च कृतः क्वाथ एषां शर्करया युतः
पिपासादाहपित्तास्रयुक्तं पित्तज्वरं हरेत 343

अथ द्राक्षाऽदिक्वाथः

द्राक्षा हरीतकी मुस्ता कटुका कृतमालकः
पर्पटश्च कृतः क्वाथ एषां पित्तज्वरापहः 344

मुखशोषप्रलापार्त्तिदाह मूर्च्छाभ्रमप्रणुत
पिपासारक्तपित्तानां शमनो भेदनो मतः 345

अथ पटोलादिक्वाथः

पटोलयवधान्याकमधुकं मधुसंयुतम
हन्ति पित्तज्वरं दाहं तृष्णाञ्चातिप्रमाथिनीम 346

अथ गुडूच्यादिक्वाथः

गुडूच्यामलकैर्युक्तः केवलो वाऽपि पर्पटः
पित्तज्वरं हरेत्तूर्णं दाहशोषभ्रमान्वितम 347

एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः
किं पुनर्यदि युज्येत चन्दनोशीरबालकैः 348

अथ ह्रीवेरादिक्वाथः

ह्रीवेरचन्दनोशीरघनपर्पटसाधितम
दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत 349

अथ भूनिम्बादिक्वाथः

भूनिम्बातिविषालोध्रमुस्तकेन्द्र यवामृताः 350

बालकं धान्यकं बिल्वं कषायो माक्षिकान्वितः
विड्भेदश्वासकासांश्च रक्तपित्तज्वरं हरेत 351

अथ महाद्राक्षाऽदिक्वाथः

द्राक्षाचन्दनपद्मानि मुस्तातिक्ताऽमृताऽपि च
धात्री बालमुशीरं च लोध्रेन्द्र यवपर्पटाः 352

परूषकं प्रियङ्गुश्च यवासो वासकस्तथा
मधुकं कुलकञ्चापि किरातो धान्यकं तथा 353

एषां क्वाथो निहन्त्येव ज्वरं पित्तसमुत्थितम
तृष्णां दाहं प्रलापञ्च रक्तपित्तं भ्रमं क्लमम 354

मृर्च्छां छर्दिं तथा शूलं मुखशोषमरोचकम
कासं श्वासञ्च हृल्लासं नाशयेन्नात्र संशयः 355

अथ धान्याकक्वाथः

ससितो निशि पर्युषितः प्रातर्धान्याकतण्डुलक्वाथः
पीतः शमयत्यचिरादन्तर्दाहं ज्वरं पैत्तम 356

अथामृताहिमवासाहिमौ

अमृतायाता हिमः प्रातः ससितः पैत्तिकं ज्वरम
वासायाश्च तथा कासरक्तपित्तज्वराञ्जयेत 357

अथद्वितीयो गुडूच्यादिक्वाथः

गुडूची भूमिनिम्बश्च बालं वीरणमूलकम
लघुमुस्तं त्रिवृद्धात्री द्रा क्षा वासा च पर्पटः 358

एषां क्वाथो हरत्येव ज्वरं पित्तकृतं द्रुतम
सोपद्र्रवमपि प्रातर्निपीतो मधुना सह 359

पलाशस्य बदर्या वा निम्बस्य मृदुपल्लवैः
अम्लपिष्टैः प्रलेपोऽय हन्याद्दाहयुतं ज्वरम 360

उत्तानसुप्तस्य गभीरताम्रकांस्यादिपात्रे निहिते च नाभौ
शीताम्बुधारा बहुला पतन्ती निहन्ति दाहं त्वरितं ज्वरं च 361

अथ पथ्याऽवलेहः

पथ्यां तैलघृतक्षौद्र्रैर्लिहन्दाहज्वरापहाम
कासासृक्पित्तवीसर्पश्वासान्हन्ति वमीमपि 362

काञ्जिकार्द्र पटेनावगुण्ठनं दाहनाशनम
अथ गोतक्रसंस्विन्नशीतलीकृतवाससा 363

द्राक्षाऽमलककल्केन कवलोऽत्र हितो मतः
पक्वदाडिमबीजैर्वा धानाकल्केन च क्वचित 364

दाहकम्पार्दितं क्षामं निरन्नं तृष्णयान्वितम
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम  365

मुद्गयूषौदनो देयः सितया पैत्तिके ज्वरे
हर्म्ये शुभ्राभ्रसङ्काशे शशाङ्ककरशीतले
मलयोद्भवसंसिक्ते सुप्यात्पित्तज्वरी नरः 366

हारावलीचन्दनशीतलानां सुगन्धपुष्पाम्बरभूषितानाम
नितम्बिनीनां सुपयोधराणामालिङ्गनान्याशु हरन्ति दाहम 367

आह्लादश्चास्य विज्ञाय ताः स्त्रीरपनयेत्पुनः
हितञ्च भोजयेदन्नं न प्रीतिसुरतंमहत 368

वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः
नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः 369

इति पित्तज्वराधिकार

अथ कफज्वराधिकारः

श्लेष्मलाहारचेष्टाभ्यां कफो ह्यामाशयाश्रयः
बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद्र सानुगः 370

स्तैमित्यं स्तिमितोवेग आलस्यं मधुरास्यता
शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि वा 371

गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रि ता
प्रतिश्यायोऽरूचिः कासः कफजेऽक्ष्णोश्च शुक्लता 372

श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम
पिप्पल्यादिकषायन्तु कफजे परिपाचनम 373

पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः 374

सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम 375

पिप्पल्यादिगणो ह्येषः कफमारुतनाशनः
गुल्मशूलज्वरहरो दीपनस्त्वामपाचनः 376

क्षौद्रो पकुल्यासंयोगः श्वासकासज्वरापहः
प्लीहानं हन्ति हिक्काञ्च बालानामपि शस्यते 377

पिप्पलद्यं त्रिफलां चापि समभागां ज्वरी लिहन
मधुना सर्पिषा चापि कासी श्वासी सुखी भवेत 378

कट्फलं पौष्करं शृङ्गी कृष्णाच मधुना सह
श्वासकासज्वरहरो लेहोऽय कफनाशनः 379

कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा
कटुत्रयञ्चसर्वाणि समभागानि चूर्णयेत 380

आर्द्र कस्वरसैर्लिह्यान्मधुना वा कफज्वरी
कासश्वासारुचिच्छर्दिहिक्काश्लेष्मानिलापहः 381

सिन्दुवारदलक्वाथं कणाऽढ्य कफजे ज्वरे
जङ्घयोश्च बले क्षीणे कर्णे च पिहिते पिबेत 382

यवानी पिप्पली वासा तथा खाखसवल्कलम
एषां क्वाथं पिबेत्कासे श्वासे च कफजे ज्वरे 383

वासाक्षुद्रा ऽमृताक्वाथः क्षौद्रेण ज्वरकासहृत 384

मरिचं पिप्पलीमूलं नागरं कारवी कणा
चित्रकं कट्फलं कुष्ठं ससुगन्धि वचा शिवा 385

कण्टकारीजटा शृङ्गी यवानी पिचुमन्दकः
एषां क्वाथो हरत्येव ज्वरं सोपद्रवं कफात 386

कफवातव्याधिहरत्वाद्वाता धिकारोक्तकल्पतरुरसोयोज्यः
सिन्धुत्रिकटुराजीभिरार्द्र केण कफे हितः 387

मुद्गयूषौदनो देयो ज्वरे कफसमुत्थिते 388

इति श्लेष्म ज्वराधिकारः

अथ वातपित्तज्वराधिकारः

वातपित्तकरैर्वातपित्ते ह्यामाशयाश्रये
बहिर्निरस्य कोष्ठाग्निं  रसगे ज्वरकारिणी 389

प्राग्रूपे वातपित्तस्य भवतो वातपैत्तिके 390

तृष्णा  मूर्च्छा भ्रमो दाहो निद्रा नाशः शिरोरुजा
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः
पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः 391

वातपित्तज्वरे देयमौषधं पञ्चमेऽहनि 392

किराततिक्तममृतां द्राक्षामामलकं शटीम
निष्क्वाथ्य सगुडं क्वाथं वातपित्तज्वरे पिबेत 393

गुडूची पर्पटो मुस्तं किरातो विश्वभेषजम
वातपित्तज्वरे देयं पञ्चभद्र मिदं शुभम 394

त्रिफलाशाल्मलीरास्नाराजवृक्षाटरूषकैः
श्रृतमम्बु हरत्याशु वातपित्तभवं ज्वरम 395

मधुकं सारिवा द्राक्षा मधूकं चन्दनोत्पलम
काश्मरीफलकं लोध्रं त्रिफला पद्मकेशरम
परूषकं मृणालञ्च क्षिपेत्संचूर्ण्य वारिणि
निशोषितं सिताक्षौद्र लाजयुक्तन्तु तत्पिबेत
वातपित्तज्वरं दाहं तृष्णां मूर्च्छाऽरुचिभ्रमान
शमयेद्र क्तपित्तञ्चजीमूतमिव मारुतः 396

मुद्गामलकयूषस्तु वातपित्तज्वरे हितः
महादाहे प्रदातव्यो यूषश्चणकसम्भवः 397

दाडिमामलकमुद्गसम्भवो यूष उक्त इति वातपैत्तिके इति
कफपित्तहरा मुद्गाः कारवेल्ल्यादयस्तथा
प्रायेण न च ते देया वातपित्तोत्तरे ज्वरे
दत्तास्तु ज्वरविष्टम्भशूलोदावर्त्तकारिणः 398

इति वातपित्तज्वराधिकारः समाप्तः

अथ वातश्लेष्मज्वराधिकारः

वातश्लेष्मकरैर्वातकफावामाशयाश्रयौ
बहिर्निरस्य कोष्ठाग्निं रसगौ ज्वरकारिणौ 399

प्राग्रूपे वातकफयोः स्यातां वातकफज्वरे 400

स्तैमित्यं पर्वणां भेदो निद्रा  गौरवमेव च
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्त्तनम
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः 401

वातश्लेष्मज्वरे देयमौषधं नवमेऽहनि 402

अथ पञ्चकोलम्

पिप्पलीपिप्पली मूलचव्यचित्रकनागरैः
दीपनीयः स्मृतो वर्गो वातश्लेष्मज्वरापहः 403

कोलमात्रोपयोगित्वात्पञ्चकोलमिदं स्मृतम
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफदाहनुत
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम 404

अथ द्वितीयः किरातादिक्वाथः

किरातविश्वाऽमृतवल्लिसिंहिकाव्याघ्रीकणामूलरसोनसिन्दुकैः
कृतः कषायो विनिहन्ति सत्वरं ज्वरं समीरात्सकफात्समुत्त्थितम 405

अथ पिप्पल्यादिक्वाथः

पिप्पल्यादिगणक्वाथं पिबेद्वातकफज्वरी
नातः परं किञ्चिदस्ति ज्वरे भेषजमुत्तमम 406

अथ बृहत्पिप्पल्यादिक्वाथः

पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम
वचा सातिविषाऽजाजी पाठावत्सकरेणुकाः 407

किराततिक्तको मूर्वा सर्षपा मरिचानि च
कट्फलं पुष्करं भार्गो विडङ्गंकर्कटाह्वयम 408

अर्कमूलं वृहत्सिंही श्रेयसी सदुरालभा
दीप्यकश्चाजमोदा च शुकनासा सहिङ्गुका 409

एतानि समभागानि गण एकोऽष्टविंशतिः
एषां क्वाथो निपीतः स्याद्वातश्लेष्मज्वरापहः 410

हन्ति वातं तथा शीतं प्रस्वेदमतिवेपथुम
प्रलापञ्चातिनिद्रा ञ्च रोमहर्षारुची तथा  411

महावातेऽपतन्त्रे च शून्यत्वे सर्वगात्रजे
पिप्पल्यादिमहाक्वाथो ज्वरे सर्वत्र पूजितः 412

अथ दशमूलीक्वाथः

दशमूलीरसः पीतः कणाऽढ्य कफवातजे
ज्वरेऽविपाके निद्रा यां पार्श्वरुक्छ्वासकासके 413

अथ पिप्पलीक्वाथः

पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम
वातश्लेष्मज्वरं हन्ति सेवितं प्लीहनाशनम 414

अथ सूर्यशेखररसः

सूतकं टङ्कणं भृष्टं गन्धं शुद्धं समं समम
द्विगुणं सूतकाद्देयं जैपालं तुषवर्जितम 415

सैन्धवं मरिचं चिञ्चात्वक्क्षारः शर्कराऽपि च
प्रत्येकं सूततुल्यं स्याज्जम्बीरैर्मर्दयेद्दिनम 416

सूर्यशेखरनामाऽय रसो गुञ्जाद्वयोन्मितः
भक्षितस्तप्ततोयेन वातश्लेष्मज्वरापहः 417

स्वेदोद्गमे भृष्टकुलत्थचूर्णनिपातनं शस्तमिति ब्रुवन्ति
जीर्णं शकृद्गोर्लवणस्य भाजनं संचूर्णितं स्वेदहरं सुधूलनात 418

अथ मरिचाद्युद्धूलनम

मरिचं पिप्पली शुण्ठी पथ्या लोध्रञ्च पौष्करम
भूनिम्बः कटुकाकुष्ठं कचूरोलिङ्गिका शटी 419

एतानि समभागानि सूक्ष्मचूर्णानि कारयेत
एतदुद्धूलनं श्रेष्ठं स्रोतोवत्स्वेदनिर्गमे 420

अथ भूनिम्बाद्युद्धूलनम

भूनिम्बः कारवी तिक्ता वचा कट्फलजं रजः
एषामुद्धूलनं श्रेष्ठं सततं स्वेदसंस्रवे 421

अथ वालुका स्वेदः

पूर्वोक्तो वालुकास्वेदोऽप्यत्र समुचितः यदुक्तम
पीनसश्वासबाधिर्यजङ्घापार्श्वास्थिशूलिनि
वातश्लेष्मज्वरे देयमौषधं तद्विधानवित 422

मातुलुङ्गफलकेशरो धृतः सिन्धुजन्ममरिचान्वितो मुखे
हन्तिवातकफरोगमास्यगं शोषमाशु जडतामरोचकम 423

महत्या पञ्चमूल्याऽन्न सम्यक्सिद्धं चिकित्सकः
सप्तमे दिवसे दद्याज्ज्वरे वातवलासजे 424

इति वात कफज्वराधिकारः समाप्तः

अथ पित्तकफज्वराधिकारः

पित्तश्लेष्मकरैः पित्तकफावामाशयाश्रयौ
बहिर्निरस्य कोष्ठाग्निं रसगौज्वरकारिणौ 425

प्राग्रूपे पित्तकफयोः स्यातां पित्तकफज्वरे 426

लिप्ततिक्तास्यता तन्द्रा  मोहः कासोऽरुचिस्तृषा
मुहुर्दाहो मुहुः शीतं पित्तश्लेष्मज्वराकृतिः 427

पित्तश्लेष्मज्वरे देयमौषधं दशमेऽहनि 428

गुडूची निम्बधान्याकं चन्दनं कटुरोहिणी
गुडूच्यादिरयं क्वाथः पाचनो दीपनः स्मृतः
तृष्णादाहारुचिच्छर्दिपित्तश्लेष्मज्वरापहः 429

अमृताकटुकाऽरिष्टपटोलघनचन्दनम
नागरेन्द्र यवं चैतदमृताष्टकमीरितम 430

क्वथितं सकणाचूर्णं पित्तश्लेष्मज्वरापहम
हृल्लासारोचकच्छर्दितृष्णादाहनिवारणम 431

अथ कण्टकार्यादिक्वाथः

कण्टकार्यमृताभार्गी विश्वेन्द्र्रयववासकम
भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणीम 432

विपाच्य पाययेत्क्वाथं पित्तश्लेष्मज्वरापहम
दाहतृष्णाऽरुचिच्छर्दिकासशूलनिवारणम 433

नागरोशीरबिल्वाब्द धान्यमोचरसाम्बुभिः
कृतः क्वाथो भवेद् ग्राही पित्तश्लेष्मज्वरापहः 434

शर्करामक्षमात्राञ्च कटुकीं चोष्णवारिणा
पीत्वा ज्वरं जयेज्जन्तुः पित्तश्लेष्मसमुद्भवम 435

सपत्रपुष्पवासाया रसः क्षौद्र सितायुतः
पित्तष्लेमज्वरं हन्ति साम्लपित्तं सकामलम 436

कषायः परिपीतस्तु शृङ्गबेरपटोलयोः
पित्तश्लेष्मज्वरवमीदाहकण्डूहरो भवेत 437

पटोलधान्ययोर्यूषः पित्तश्लेष्मज्वरापहः 438

इति पित्तकफज्वराधिकारः समाप्तः

अथ सन्निपातज्वराधिकारः

त्रिदोषजनकैर्वातः पित्तां श्लेष्माऽमगेहगाः
बहिर्निरस्य कोष्ठाग्निं रसगा ज्वरकारिणः 439

क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा
सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने 440

सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः
तन्द्रा  मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः 441

परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परा
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च
शिरसो लोठनं तृष्णा निद्रा नाशो हृदि व्यथा
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः 442

कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम
कोठानां श्यावरक्तानां मण्डलानाञ्च दर्शनम 443

मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च
चिरात्पाकश्च दोषाणांसन्निपातज्वराकृतिः 444

एकोल्वणास्त्रयस्तेषु द्व्युल्वणाश्च तथेति षट
त्र्युल्वणश्च भवेदेको विज्ञेयः स तु सप्तमः 445

प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च षट
सन्निपातज्वरस्यैवं स्युर्विशेषास्त्रयोदश 446

विस्फारकश्चाशुकारी कम्पनो बभ्रसंज्ञकः
शीघ्रकारी तथा भल्लुः सप्तमः कूटपाकलः 447

सम्मोहकः पाकलश्च याम्यः क्रकच इत्यपि
ततः कर्कटकः प्रोक्तस्ततो वैदारिकाभिधः 448

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।