Friday 10 July 2015

अथैकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासाधिकारः 19

क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः 1

करणायतनेषूग्रो बाह्येष्वाभ्यन्तरेषु च
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः 2

संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत 3

सुखदुःव्यपोहाच्च नरः पतति काष्ठवत
मोहो मूर्च्छेति तामाहुः षड्विधा सा प्रकीर्त्तिता 4

वातादिभिः शोणितेन मद्येन च विषेण च
षट्स्वप्येतासु पित्तन्तु प्रभुत्वेनावतिष्ठते 5

हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलक्षयः
सर्वासां पूर्वरूर्पाणि यथास्वं तां विभावयेत 6

नीलं वा यदि वा कृष्णमाकाशमथ वाऽरुणम
पश्यंस्तमः प्रविशति शीघ्रञ्च प्रतिबुध्यते 7

वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च
कार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसम्भवे 8

रक्तं हरितवर्णं वा वियत्पीतमथापि वा
पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते 9

सपिपासः ससन्तापो रक्तपीताकुलेक्षणः
सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे 10

मेघसङ्काशमाकाशं तमोभिर्वा घनैर्वृतम
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते 11

गुरुभिः प्रावृतैरङ्गैर्यथैवाद्रे र्ण! चर्मणा
सप्रसेकःसहृल्लासो मूर्च्छाये कफसम्भवे 12

सर्वाकृतिः सन्निपातादपस्मार इवागतः
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः 13

पृथिव्यम्भस्तमोरूपं रक्तगन्धस्तदन्वयः
तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः

द्रव्यस्वभावमित्येके दृष्ट्वा यदभिमुह्यति 14

स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः 15
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः

त एव तस्मात्ताभ्यान्तु मोहौ स्यातां यथेरितौ 16

मद्येन प्रलपञ्छेते नष्टविभ्रान्तमानसः
गात्राणि विक्षिपन्भूमौ जरां यावन्न याति तत 17

वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्च्छिते
वेदितव्यं तीव्रतरं ययास्वं विषलक्षणैः 18

मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद् भ्रमः
तमोवातकफात्तन्द्रा  निद्रा  श्लेष्मतमोभवा 19

इन्द्रि यार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः
निद्रा ऽत्तस्येव यस्येहा तस्य तन्द्रां! विनिर्दिशेत 20

योऽनायासः श्रमो देहे प्रवृद्धः श्वाससङ्गतः
क्लमः स इति विज्ञेय इन्द्रि यार्थप्रबाधकः 21

यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः
विषयेभ्यो निवर्त्तन्ते तदा स्वपिति मानवः 22

वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः
संन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः 23

स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः
प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यः फलां क्रियाम 24

दोषेषु मदमूर्च्छाया  गतवेगेषु देहिनः
स्वयमप्युपशाम्यन्ति संन्यासो नौषधैर्विना 25

सेकावगाहा मणयःसहाराः शीताः प्रदेहा व्यजनानिलाश्च
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि 26

सिद्धानिवर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च
तथा यवो लोहितशालयश्च मूर्च्छासु पथ्याः ससतीनमुद्राः 27

कोलमज्जोषणोशीरकेसरं शीतवारिणा
पीतं मूर्च्छां जयेल्लीढ्वा कृष्णां वा मधुसंयुताम 28

शीतेन तोयेन बिसं मृणालं कृष्णां च पथ्यां मधुनाऽवलिह्यात
कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम 29

द्राक्षासितादाडिमलाजवन्ति कह्लारनीलोत्पलपद्मवन्ति
पिबेत्कषायाणि च शीतलानि पिबेज्ज्वरं यानि शमं नयन्ति 30

शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः
अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः 31

अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः
प्रमोहद्रो हि भवति भाषितं भिषजां वरैः 32

मधूकसारसिन्धूत्थवचोषणकणाः समाः
श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम 33

रक्तजायान्तु मूर्च्छायां हितः शीतक्रियाविधिः
मद्यजायां पिवेन्मद्यं निद्रा ं! सेवेत वा सुखम्
विषजायां विषघ्नानि भेषजानि प्रयोजयेत 34

प्रभूतदोषस्तमसोऽतिरेकात्सम्मूर्छितो नैव विबुध्यते यः
संन्यस्तसंज्ञः स हि दुश्चिकित्स्यो नरो भिषग्भिः परिकीर्तितोऽसौ 35

अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे 36

लुञ्चनं केशलोम्नाञ्च दन्तैर्दशनमेव च
आत्मगुप्ताऽवघर्षश्च हितस्तस्य प्रबोधने 37

कणामधुयुतं सूतं मूर्च्छायां प्राशयेद्भिषक
शीतसेकावगाहादीन्सर्वाङ्गे पीडनं हठात 38

ताम्रचूर्णसमोशीरं केशरं शीतवारिणा
पीतं मूर्च्छां द्रुतं हन्याद वृक्षमिन्द्रा शनिर्यथा 39

पिबेद दुरालभाक्वाथं सघृतं भ्रमशान्तये
पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा 40

ताम्रं दुरालभाक्वाथः पीतन्तु घृतसंयुतम
निवारयेद भ्रमं शीघ्रं तं यथा शम्भुभाषितम 41

तुरङ्गलालालवणोत्तमेन्दुमनः शिलामागधिकामधूनि 42

नियोज्य तान्यक्ष्णि विमिश्रितानि तन्द्रां! सनिद्रां! विनिवारयन्ति 43

सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण सम्पिष्टं नस्यं तन्द्रा निवारणम 44

शुण्ठीकणोग्रालवणोत्तमानि नस्येन तन्द्रा विजयोल्वणानि
क्षुद्राऽमृतापौष्करनागराणि भार्गीशिवाभ्यां क्वथितानि पानात 45

इत्येकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा सन्यासाधिकारः समाप्तः 19

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।