Friday, 10 July 2015

अथैकादशो राजयक्ष्माधिकारः 11

वेगरोधात्क्षयाच्चैव साहसाद्विषमाशनात
त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात 1

वैद्यो व्याधिमता यस्माद व्याधेर्यत्नेन यक्ष्यते
स यक्ष्मा प्रोच्यते लोके शब्दशास्त्रविशारदैः 2

राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः
तस्मात्तं राजयक्ष्मेति प्रवदन्ति मनीषिणः 4

क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः
संशोषणाद्र सादीनां शोष इत्यभिधीयते 4

कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु
अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तराः
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः 5

श्वासाङ्गसादकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्रा!
शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः 6

स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून्पवनधूमदवार्दितांश्च 7

अंसपार्श्वाभितापश्च सन्तापः करपादयोः
ज्वरः सर्वाङ्गिकश्चेति लक्षणं राजयक्ष्मणः 8

भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम
स्वरभेदश्च जायन्ते षड्रूपे राजयक्ष्मणि 9

स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः
ज्वरो दाहोऽतिसारश्च पिक्ताद्र क्तस्य चागमः 10

शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
कासः कण्ठस्य च ध्वंसो विज्ञेयः कफकोपतः 11

एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम 12

त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः
जह्याच्छोषार्दितं जन्तुमिच्छन्सुविमलं यशः 14

सर्वैरर्द्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा 14

महाशनं क्षीयमाणमतीसारनिपीडितम
शूनमुष्कोदरञ्चैव यक्ष्मिणं परिवर्जयेत 15

शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम 16

परं दिनसहस्रन्तु यदि जीवति मानवः
सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः 17

ज्वरानुबन्धरहितं बलवन्तं क्रियासहम
उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम 18

व्यवायशोकवार्द्धक्यव्यायामाध्वप्रशोषितान
व्रणोरःक्षतसंज्ञौ च शोषिणौ लक्षणैः शृणु 19

व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः 20

प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि  तादृशः
बिना शुक्रक्षयकृतैर्विकारैरुपलक्षितः 21

जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः
कम्पनोऽरुमान्भिन्नकांस्यपात्रहतस्वरः 22

ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः
सम्प्रस्रुतास्यनासाक्षः शुष्करुक्षमलच्छविः 24

अध्वप्रशोषी स्रस्ताङ्ग सम्भृष्टपरुषच्छविः
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः 24

व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना 25

रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः 26

धनुषाऽयस्यतोऽत्थ भारमुद्वहतो गुरुम
युद्ध्य्मानस्य बलिभिः पततो विषमोच्चतः 27

वृषं हयं वा धावन्तं दम्यं चान्यं निगृह्णत
शिलाकाष्ठाश्मनिर्घातान क्षिपतोनिघ्नतः परान 28

अधीयानस्य चात्युच्चैर्दूरं वा व्रजतो द्रुतम
महानदीं वा तरतो हयैर्वा सह धावतः 29

सहसोत्पततो दूरं तूर्णञ्चापि प्रनृत्यतः
तथाऽन्यै कर्मभिः क्रूरैर्भृशमभ्याहतस्य वा 40

स्त्रीषु चातिप्रसक्तस्य रुक्षाल्पप्रमिताशिनः
विक्षतेवक्षसि व्याधिर्बलवान् समुदीर्यते 41

उरो विरुज्यतेऽत्यर्थं भिद्यतेऽथ विभज्यते
प्रपीड्यते तथा पार्श्वे शुष्यत्यङ्गं प्रवेपते 42

क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधस्तथा 44

दुष्टश्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः
कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्त्तते
स क्षती क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात 44

उरोरुक्शोणितच्छर्दिःकासो वैशेषिकः क्षते
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः 45

व्रणरोधात्क्षयाच्चैव कोष्ठात्प्रतिमलात्तथा
क्षतोरस्कस्यान्नपाके निःश्वासो वाति पूतिकः 46

अल्पलिङ्गस्य दीप्ताग्नेःसाध्यो बलवतो नवः
परिसंवत्सरो याप्यःसर्वलिङ्गं तु वर्जयेत 47

बलिनो बहुदोषस्य पञ्च कर्माणि कारयेत
यक्ष्मिणःक्षीणदेहस्य तत्कृतं स्याद्विषोपमम 48

मलायत्तं बलं पुंसां शुक्रायत्तञ्च जीवितम
ततस्माद्यत्नेनसंरक्षेद्यक्ष्मिणो मलरेतसी 49

शालिषष्टिकगोधूमयवमुद्गादयो हिताः
मद्यानि जाङ्गलाः पक्षिमृगाःपथ्या विशुष्यताम 40

सपिप्पलीकं सयवं सकुलत्थं सनागरम 41

दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत
तेन षड विनिवर्त्तन्ते विकाराः पीनसादयः 42

द्रव्यतो द्विगुणं मांसं सर्वतोऽष्टगुणं जलम
पादस्थं संस्कृतञ्चाज्ये षडङ्गो यूष उच्यते 44

ककुभत्वङ्नागबला वानरिबीजं विचूर्णितम्पयसा
पीतं मधुघृतयुक्तंससितं यक्ष्मादिकासहरम 44

छागमांसं पयश्छागं छागं सर्पिः सनागरम
छागोपसेवी शयनं छागमध्ये तु  यक्ष्मनुत 45

मधुताप्यविडङ्गाश्मजतुलोहघृताभयाः
घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिनः 46

शर्करामधुसंयुक्तं नवनीतं लिहन्क्षयी
क्षीराशी लभते पुष्टिमतुल्ये चाज्यमाक्षिके 47

सितोपलां तुगाक्षीरी पिप्पली बहुला त्वचः
अन्त्यादूर्ध्वं द्विगुणिताश्चूर्णिता मधुसर्पिषा 48

लेहयेद्रा जरोगार्त्तं कासश्वासज्वरातुरम
पार्श्वशूलिनमल्पाग्निं सुप्तजिह्वं रुचिच्युतम
हस्तपादाङ्गदाहे च ज्वरे रक्ते तथोर्ध्वगे 49

जातीफलं विडङ्गानि चित्रकं तगरं तिलाः
तालीसं चन्दनं शुण्ठी लवङ्गमुपकुञ्चिका 50

कर्पूरश्चाभया धात्री मरिचं  पिप्पली तुगा
एषां त्वक्षसमा भागाश्चातुर्जातकसंयुताः 51

पलानि सप्त भङ्गायाः सितासर्वसमा मता
चूर्णमेतत्क्षयं कासं श्वासञ्च ग्रहणीगदम 52

अरोचकं प्रतिश्यायं तथा चानलमन्दताम
एतान रोगान्निहन्त्येव वृक्षमिन्द्रा शनिर्यथा 54

बालरोगाधिकारोक्तं तैलं लाक्षादि योजयेत
अभ्यङ्गे यक्ष्मिणो नित्यं वृद्धवैद्योपदेशतः 54

वासकस्य रसप्रस्थं मानिका सितशर्करा
पिप्पल्या द्विपलं तावत्सर्पिषश्च शनैः पचेत 55

तस्मिंल्लेहत्वमायाते शीते क्षौद्र पलाष्टकम
दत्वाऽवतारयेद् वैद्यो लीढो लेहोऽयमुत्तमः 56

हन्त्येव राजयक्ष्माणं कासं श्वासञ्च दारुणम
पार्श्वशूलञ्च हृच्छूलं रक्तपित्तं ज्वरं तथा 57

व्यवायशोषिणं क्षीणं रसमांसाज्यभोजनैः
सुकूलैर्मधुरैर्हृद्यैर्जीवनीयैरुपाचरेत 58

हर्षणाश्वासनैः क्षीरैःस्निग्धैर्मधुरशीतलैः
दीपनैर्लघुभिश्चान्नैः शोकशोषमुपाचरेत 59

व्यायामशोषिणं स्निग्धैः क्षतक्षयहितैर्हिमैः
उपाचरेज्जीवनीयैर्विधिना श्लैष्मिकेण तु 60

आस्यासुखैर्दिवास्वप्नैः शीतैर्मधुरबृंहणैः
अन्नमांसरसाहारैरध्वशोषमुपाचरेत 61

व्रणशोषं जयेत्स्निग्धैर्दीपनैः स्वादुशीतलैः
ईषदम्लैरनम्लैर्वा यूषमांसरसादिभिः 62

उरःक्षत चिकित्सा

बलाऽश्वगन्धा श्रीपर्णी बहुपुत्री पुनर्नवाः
पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम 64

एलापत्र्रत्वचोऽद्धाक्षाः पिप्पल्यर्द्धपलं पृथक
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः 64

सञ्चूर्ण्य मधुना युक्ता वटिकाः सम्प्रकल्पयेत
अक्षमात्रां ततश्चैकां भक्षयेत्तु दिने दिने 65

क्षतं क्षयं ज्वरं कासं श्वासं हिक्कां वमिं भ्रमम
मूर्च्छां मदं तृषां शोषं पार्श्वशूलमरोचकम 66

प्लीहानमाढ्यवातञ्च रक्तपित्तं स्वरक्षयम
एलादिगुटिका हन्ति वृष्या सन्तर्पणी परा 67

द्राक्षायाः प्रस्थमेकन्तु मधुकस्य पलाष्टकम
पचेत्तोयाढके शुद्धे पादशेषेण तेन तु 68

पलिके मधुकद्रा क्षे पिष्टे कृष्णापलद्वयम
प्रदाय सर्पिषः प्रस्थं पचेत्क्षीरे चतुर्गुणे 69

सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत
एतद द्रा क्षाघृतं सिद्धं क्षतक्षीणसुखावहम 70

वातं पित्तं ज्वरं श्वासं विस्फोटकहलीमकान
प्रदरं रक्तपित्तञ्च हन्यान्मांसबलप्रदम 71

क्षीरे धात्री च मञ्जिष्ठा क्षीरिण्याश्च तथा रसैः
पचेत्समैघृतप्रस्थं  मधुरैः कर्षसम्मितैः 72

द्राक्षाद्विचन्दनोशीरैः शर्करोत्पलद्मकैः
मधूककुसुमानन्ताकाश्मरीतृणसंज्ञकैः 74

प्रस्थार्द्धं मधुनः शीते शर्कराऽद्धतुलां तथा
पलार्द्धिकांश्च सञ्चूर्ण्य त्वगेलापद्मकेशरान 74

विनीय तत्र संलिह्यान्मात्रां नित्यं सुयन्त्रितः
अमृतप्राशमित्येदश्विभ्यां परिकीर्त्तितम 75

क्षीरमांसाशिनां हन्ति रक्तपित्तं क्षतक्षयम
तृष्णाऽरुचिश्वासकासच्छर्दिमूर्च्छाप्रमर्दनम 76

मूत्रकृच्छ्रज्वरघ्नञ्च बल्यं स्त्रीरतिवर्द्धनम 77

यद्यच्च तर्पणं शीतमविदाहि हितंलघु
अन्नपानं निषेव्यंस्यात्क्षतक्षीणैः सुखार्थिभिः 78

शोकं स्त्रियः क्रोधमसूयताञ्ज त्यजेदुदारान्विषयान्भजेच्च
तथा द्विजातींस्त्रिदशान्गुरुंश्च वाचश्च पुण्याः शृणुयाद् द्विजेभ्यः 79

अथ राजयक्ष्मणि रसाः

रसभस्मामृतासत्वं लोहं मधुघृतान्वितम
अमृतेश्वरनामायं षड्गुञ्जोराजयक्ष्मणि 80

त्रयॐशा मारितात्सूतादेकॐशो हेमभस्मतः
एकॐशो मृतताम्रस्य शिला गन्धश्च तालकम 81

प्रत्येकंभागयुग्मं स्यादेतत्सर्वं विचूर्णयेत
वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम 82

पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे ताश्च धारयेत
कूप्यां पचेद्र जपुटे स्वाङ्गशीतं समुद्धरेत 84

रसो राजमृगाङ्कोयंचतुर्गुञ्जः क्षयापहः
मरिचैरुनविंशत्याकणाभिर्दशभिस्तथा 84

मधुना सर्पिषा चापि दद्यादेतं रसं भिषग
अनेन नश्यति क्षिप्रं वातश्लेष्मभवः क्षयः 85

शुद्धं सूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलीम
तयोः समं तीक्ष्णचूर्णं मर्दयेत्कन्यकाद्रवैः 86

द्वियाममातपे गोलं ताम्रपात्रे निधापयेत
आच्छाद्यैरण्डपत्रेण स्यादुष्णं यामयुग्मतः 87

धान्यराशौ न्यसेत्पश्चादष्टरात्रात्तमुद्धरेत
सञ्चूर्ण्य गालयेद्वस्त्रैः सत्यं वारितरं भवेत 88

त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः
नवभागोन्मितैरेभिः समैरेष रसो भवेत 89

निष्कद्वयमितं नित्यंमधुना सह लेहयेत
अयमग्निरसो नाम्नाकासक्षयहरः परः 90

इत्येकादशो राजयक्ष्माधिकारः सम्पूर्णः 11
Related Posts Plugin for WordPress, Blogger...

Follow by Email