Wednesday, 8 July 2015

अथ षष्टितमो मसूरिकाशीतलाऽधिकारः 60

कट्वम्ललवणक्षार विरुद्धाध्यशनाशनैः
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः 1

क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः
जनयन्ति शरीरेऽस्मिन्दुष्टरक्तेन सङ्गताः
मसूराकृतिसंस्थानाः पिडकास्ता मसूरिकाः 2

तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः
त्वचि शोथः सवैवर्ण्यो नेत्ररागस्तथैव च 3

स्फोटाः कृष्णारुणा रुक्षास्तीव्रवेदनयान्विताः
कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः 4

सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरतिर्भ्रमः
शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता 5

रक्ताः पीताः सिताः स्फोटाः सदाहस्तीव्रवेदनाः
भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः 6

विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा 7

मुखपाकोऽक्षिपाकश्च ज्वरस्तीव्रः सुदारुणः
रक्तजासु भवन्त्येते विकाराः पित्तलक्षणाः 8

कफप्रसेकः स्तैमित्यं शिरोरुग्गात्रगौरवम्
हृल्लासः सारुचिर्निद्रा  तन्द्रा ऽलस्यसमन्विता 9

श्वेताः स्निग्धा भृशं स्थूलाः कण्डूरा मन्दवेदनाः
मसूरिकाः कफोद्भूताश्चिरपाकाः प्रकीर्त्तिताः 10

नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः
पूतिस्रावाश्चिरात्पाकाः प्रभूताः सर्वदोषजाः 11

अथ सप्तधातुगतमसूरिकाणां पृथक् पृथक् लक्षणानि
मसूरिकास्त्वचं प्राप्तास्तोयबुद्बुदसन्निभाः
स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च 12

रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः
साध्या नात्यर्थदुष्टास्तु भिन्ना रक्तं स्रवन्ति च 13

मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः
गात्रशूलतृषाकण्डूज्वरारतिसमन्विताः 14

मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः
घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः
सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत 15

क्षुद्रा  गात्रसमा रुक्षाश्चिपिटाः किञ्चिदुन्नताः
मज्जोत्था भृशसम्मोहा वेदनाऽरतिसंयुताः 16

भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः
छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति च 17

पक्वाभाः पिडकाः स्निग्धाः श्लक्ष्णाश्चात्यर्थवेदनाः
स्तैमित्यारतिसंमोहदाहोन्मादसमन्विताः 18

शुक्रजायां मसूर्यान्तु लक्षणानि भवन्ति हि
निर्दिष्टं केवलं चिह्नं जीवनं न तु दृश्यते 19

दोषमिश्रास्तु सप्तैता द्र ष्टव्या दोषलक्षणैः 20

कण्ठरोधारुचिस्तम्भ प्रलापारतिसंयुताः
दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसंज्ञिताः 21

रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः
कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः 22

त्वग्गता रक्तगाश्चैव पित्तजाः श्लेष्मजास्तथा
श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः
एता विनाऽपि क्रियया प्रशाम्यन्ति शरीरिणाम 23

वातजा वातपित्तोत्था वातश्लेष्मकृताश्च याः
कष्टसाध्यतमास्तस्माद् यत्नादेता उपाचरेत 24

असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम
प्रवालसदृशाः काश्चित्काश्चिज्जम्बूफलोपमाः 25

लोहजालसमाः काश्चिदतसीफलसन्निभाः
आसां बहुविधा वर्णा जायन्ते दोषभेदतः 26

कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः
प्रलापारतिमूर्च्छाश्च तृष्णा दाहोऽतिघूर्णता 27

मुखेन प्रस्रवेद्र क्तं तथा घ्राणेन चक्षुषा
कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थदारुणम 28

मसूरिकाऽभिभूतस्य यस्य तानि भिषग्वरैः
लक्षणानीह दृश्यन्ते न देयं तस्य भेषजम 29

मसूरिकाऽभिभूतो यो भृशं घ्राणेन निःश्वसेत
स भृशंत्यजति प्राणांस्तृष्णावान्वायुदूषितः 30

मसूरिकिऽन्ते शोथः स्यात्कूर्परे मणिबन्धके
तथांऽसफलके वाऽपि दुश्चिकित्स्यः सुदारुणः 31

काश्चिद्विनाऽपि यत्नेन सिध्यन्त्याशु मसूरिकाः 32

दृष्टाः कृच्छ्रतराः काश्चित्काश्चित्सिध्यन्ति वा न वा
काश्चिन्नैव तु सिध्यन्ति साध्यपाकाः प्रयत्नतः 33

मसूरिकायां कुष्ठेषु लेपनादिक्रियाहिता
पित्तश्लेष्मविसर्पोक्ता क्रिया चात्र प्रशस्यते 34

श्वेतचन्दनकल्कोत्थं हिलमोचीभवं द्रवम
पिबेन्मसूरिकाऽरम्भे नैव वा केवलं रसम 35

द्वौ पञ्चमूल्यौ रास्ना च धात्र्! युशीरं दुरालभा
सामृता धान्यकं मुस्तं जयेद्वातमसूरिकाम 36

मञ्जिष्ठाबहुपात्प्लक्ष शिरीषोदुम्बरत्वचः
वातजायां मसूर्यां स्यात्प्रलेपः सर्वतो हितः 37

गुडूची मधुकं द्रा क्षा मोरटं दाडिमैः सह
पाककाले प्रदातव्यं भेषजं गुडसंयुतम
तेन कुप्यति नो वायुः पाकं यान्ति मसूरिकाः 38

मसूरिकासु भुञ्जीत शालीन्मुद्गमसूरकान 39

रसं मधुरमेवाद्यात्सैन्धवं चाल्पमात्रकम
पटोलमूलं क्वथितं मोरटस्वरसं तथा
आदावेव मसूर्यां तु पित्तजायां प्रयोजयेत 40

निम्बः पर्पटकः पाठा पटोलश्चन्दनद्वयम 41

उशीरं कटुका धात्री तथा वासा दुरालभा
एषां पानं शृतं शीतमुत्तमं शर्कराऽन्वितम 42

मसूर्यां पित्तजायान्तु प्रयोक्तव्यं विजानता
दाहे ज्वरे विसर्पे च व्रणे पित्ताधिकेऽपि च 43

मसूर्यो रक्तजा नाशं यान्ति शोणितमोक्षणैः
वासामुस्तकभूनिम्बत्रिफलेन्द्र यवासकम 44

पटोलारिष्टकं चापि क्वाथयित्वा समाक्षिकम
पिबेत्तेन प्रशाम्यन्ति मसूर्यः कफसम्भवाः 45

शिरीषोदुम्बरत्वग्भ्यां खदिरारिष्टजैर्दलैः
कफोत्थासु मसूरीषु लेपः पित्तोत्थितासु च 46

निम्बः पर्पटकः पाठा पटोलः कटुरोहिणी
चन्दने  द्वे उशीरञ्च धात्री वासा दुरालभा 47

एष निम्बादिकः क्वाथः पीतः शर्करयाऽन्वितः
मसूरीं सर्वजां हन्ति विसर्पज्वरसंयुताम 48

उत्थिता प्रविशेद्या च तां पुनर्बाह्यतो नयेत
काञ्चनारत्वचः क्वाथस्ताप्यचूर्णावचूर्णितः 49

धात्रीफलं समधुकं क्वथितं मधुसंयुतम
मुखे कण्ठे व्रणे जाते गण्डूषार्थं प्रशस्यते
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना 50

मधुकं त्रिफला मूर्वा दार्वीत्वङ्नीलमुत्पलम
उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्च्योतने हिताः 51

नश्यन्त्यनेन  दृग्जाता मसूर्यो न भवन्ति च
प्रलेपं चक्षुषोर्दद्याद् बहुवारस्य वल्कलैः 52

पञ्चवल्कलचूर्णेन क्लेदिनीमवधूलयेत
भस्मनाकेचिदिच्छन्ति केचिद्गोमयरेणुना 53

सुषवीपत्रनिर्यासं हरिद्रा चूर्णसंयुतम
रोमान्तीज्वरवीसर्पव्रणानां शान्तये पिबेत 54

इति मसूरिकाधिकारः समाप्तः

अथ मसूरिकाभेदशीतलाऽधिकारः

देव्या शीतलयाऽक्रान्ता मसूर्येव ही शीतला
ज्वरयेच्च यथा भूताधिष्ठितो विषमज्वरः 55

सा च सप्तविधा ख्याता तासां भेदान्प्रचक्ष्महे
ज्वरपूर्वा बृहत्स्फोटैः शीतला बृहती भवेत 56

सप्ताहान्निःसरत्येव सप्ताहात्पूर्णतां व्रजेत
ततस्तृतीये सप्ताहे शुष्यति स्खलति स्वयम 57

तासां मध्ये यदा काचित्पाकं गत्वा स्फुटेत्स्रवेत
तत्रावधूलनं कुर्याद्वनगोमयभस्मना 58

निम्बसत्पत्र शाखाभिर्मक्षिकामपसारयेत
जलञ्च शीतलं दद्याज्ज्वरेऽपि न तु तत्पचेत 59

स्थापयेत्तं स्थले पूते रम्ये रहसि शीतले
नाशुचिः संस्पृशेत्तन्तु नच तस्यान्तिकंव्रजेत 60

बहवो भिषजो नात्र भेषजं योजयन्ति हि
केचित्प्रयोजयन्त्येव मतं तेषामथ ब्रुवे 61

ये शीतलेन सलिलेन विपिष्य सम्यङ् निम्बाक्षबीजसहितां रजनीं पिबन्ति
तेषां भवन्ति न कदाचिदपीह देहे पीडाकराजगति शीतलिकाविकाराः 62

मोचारसेन सहितं सितचन्दनेन वासारसेन मधुकं मधुकेन चाथ
आदौ पिबन्ति सुमनास्वरसेन मिश्रं ते नाप्नुवन्ति भुवि शीतलिकाविकारान 63

शीतलासु क्रिया कार्या शीतला रक्षया सह
बध्नीयान्निम्बपत्राणि परितो भवनान्तरे 64

कदाचिदपि नो कार्यमुच्छिष्टस्य प्रवेशनम 65

स्फोटेष्वपि सदाहेषु रक्षारेणूत्करो हितः
तेन ते शोषमायान्ति प्रपाकं न भजन्ति च 66

चन्दनं वासको मुस्तं गुडूची द्रा क्षया सह
एषां शीतकषायस्तु शीतलाज्वरनाशनः 67

जपहोमोपहारैश्च दानस्वस्त्ययनार्चनैः
विप्रगोशम्भुगौरीणां पूजनैस्ताः शमं नयेत
स्तोत्रञ्च शीतलादेव्याः पठेच्छीतलिकाऽन्तिके
ब्राह्मणः श्रद्धया युक्तस्तेन शाम्यन्ति शीतलाः 68

अस्य श्रीशीतलास्तोत्रस्य महादेवॠषिरनुष्टुपछन्दः
शीतला देवता शीतलोपद्र व शान्त्यर्थं जपे विनियोगः 69

स्कन्द उवाच
भगवन्देवदेवेश शीतलायाः स्तवं शुभम
वक्तुमर्हस्यशेषेण विस्फोटकभयापहम 70

ईश्वर उवाच
वन्देऽह शीतलां देवीं रासभस्थां दिगम्बराम
यामासाद्य निवर्त्तेत विस्फोटकभयं महत 71

शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति 72

यस्त्वामुदकमध्ये तु ध्यात्वासम्पूजयेन्नरः
विस्फोटकभयं घोरं कुले तस्य न जायते 73

शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च
प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवितौषधम 74

नमामि शीतलां देवीं रासभस्थां दिगम्बराम
मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम 75

शीतले तनुजान्रोगान्नृणां हरसि दुस्तरान
विस्फोटकविशीर्णानां त्वमेकाऽमृतवर्षिणी 76

गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम
त्वदनुध्यानमात्रेण शीतले यान्ति ते क्षयम 77

न मन्त्रो नौषधं किञ्चित्पापरोगस्य विद्यते
त्वमेका शीतले धात्री नान्यां पश्यामि देवताम 78

मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम
यस्त्वां सञ्चिन्तयेद्देवि तस्य मृत्युर्न जायते 79

अष्टकं शीतलादेव्या यःपठेन्मानवः सदा
विस्फोटकभयं घोरं कुले तस्य न जायते 80

श्रोतव्यं पठिव्यञ्च नरैर्भक्तिसमन्वितैः
उपसर्गविनाशाय परं स्वस्त्ययनं महत 81

शीतलाऽष्टकमेतद्धि न देयं यस्य कस्यचित
किन्तु तस्मै प्रदातव्यं भक्तिश्रद्धाऽन्वितो हि यः 82

इति श्रीकाशीखण्डे शीतलाष्टकस्तोत्रं सम्पूर्णम

अथ शीतलाया भेदाः
वातश्लेष्मसमुद्भूता कोद्र वा कोद्र वाकृतिः
तां कश्चित्प्राह पक्वेति सातु पाकं न गच्छति 83

जलशूकवदङ्गानि सा विध्यति विशेषतः
सप्ताहाद्वादशाहाद्वा शान्तिं याति विनौषधम 84

यदि वा भेषजं दद्यात्खदिराष्टकनिर्मितम
कषायं हि तदा दद्यात्कोद्र वायाः प्रशान्तये 85

ऊष्मणा तूष्मजारूपा सकण्डूः स्पर्शनप्रिया
नाम्ना पाणिसहा ख्याता सप्ताहाच्छुष्यति स्वयम 86

चतुर्थी सर्षपाकारा पीतसर्षपवर्णिनी
नाम्ना सर्षपिका ज्ञेयाऽभ्यङ्गमत्र विवर्जयेत 87

किञ्चिदूष्मनिमित्तेन जायते राजिकाऽकृतिः
एषा भवति बालानां सुखं शुष्यति च स्वयम 88

कोठवज्जायते षष्ठी लोहितोन्नतमण्डला
ज्वरपूर्वा व्यथायुक्ता ज्वरस्तिष्ठेद्दिनत्रयम

स्फोटानां मेलनादेषा बहुस्फोटाऽपि दृश्यते 89
एकस्फोटा च कृष्णा च बोद्धव्या चर्मजाऽभिधा 90

एताः सप्तापि बोद्धव्याः शीतलादेब्यधिष्ठिताः
शीतलोचितमाचारमासु सर्वासु वा चरेत 91

काश्चिद्विनाऽपि यत्नेन सुखं सिद्ध्य्न्ति शीतलाः
दृष्टाः कष्टतराः काश्चित्काश्चित्सिध्यन्ति वा न वा
काश्चिन्नैव तु सिद्ध्य्न्ति यत्नतोऽपि चिकित्सिताः 92

इति षष्टितमः शीतलामसूरिकाऽधिकारः समाप्तः 60
Related Posts Plugin for WordPress, Blogger...

Follow by Email