Sunday 12 July 2015

अथ दधिवर्गः

दध्युष्णं दीपनं स्निग्धं कषायानुरसं गुरु
पाकेऽम्ल ग्राहि पित्तास्रशोथमेदः कफप्रदम 1

मूत्रकृच्छ्रे प्रतिश्याये शीतगे विषमज्वरे
अतीसारेऽरुचौ कार्श्ये शस्यते बलशुक्रकृत 2

आदौ मन्दं ततः स्वादु स्वाद्वम्लञ्च ततःपरम
अम्लं चतुर्थमत्यम्लं पञ्चमं दधि पञ्चधा 3

मन्दं दुग्धवदव्यक्तरसं किञ्चिद्घनं भवेत
मन्दं स्यात्सृष्टविण्मूत्रं दोषत्रयविदाहकृत 4

यत्सम्यग्घनतां यातं व्यक्तस्वादुरसं भवेत
अव्यक्ताम्लरसं तत्तु स्वादु विज्ञैरुदाहृतम 5

स्वादु स्यादत्यभिष्यन्दि वृष्यं मेदःकफावहम
वातघ्नं मधुरं पाके रक्तपित्तप्रसादनम 6

स्वाद्वम्लं सान्द्र मधुरं कषायानुरसं भवेत
स्वाद्वम्लस्य गुणा ज्ञेया सामान्यदधिवज्जनैः 7

यत्तिरोहितमाधुर्यं व्यक्ताम्लत्वं तदम्लकम
अम्लं तु दीपनं पित्तरक्तश्लेष्मविवर्द्धनम 8

तदत्यम्लं दन्तरोमहर्षकण्ठादिदाहकृत
अत्यम्लं दीपनं रक्तवातपित्तकरं परम 9

गव्यं दधि विशेषेण स्वाद्वम्लं च रुचिप्रदम
पवित्रं दीपनं हृद्यं पुष्टिकृत्पवनापहम
उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम 10

माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत
स्वादुपाकमभिष्यन्दि वृष्यं गुर्वस्रदूषकम 11

आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम
शस्यते श्वासकासार्शः क्षयकार्श्येषु दीपनम 12

पक्वदुग्धभवं रुच्यं दधि स्निग्धं गुणोत्तमम
पित्तानिलापहं सर्वधात्वग्निबलवर्द्धनम 13

असारं दधि सङ्ग्राहि शीतलं वातलं लघु
विष्टम्भि दीपनं रुच्यं ग्रहणीरोगनाशनम 14

गालितं दधि सुस्निग्धं वातघ्नं कफकृद गुरु
बलपुष्टिकरं रुच्यं मधुरं नातिपित्तकृत 15

सशर्करं दधि श्रेष्ठं तृष्णापित्तास्रदाहजित
सगुडं वातनुद् वृष्यं बृंहणं तर्पणं गुरु 16

न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम
नामुद्गसूपं नाक्षौद्रंनोष्णं नामलकैर्विना 17

हेमन्ते शिशिरे चापि वर्षासु दधि शस्यते
शरद्ग्रीष्मवसन्तेषु प्रायशस्तद्विगर्हितम  18

ज्वरासृक्पित्त वीसर्पकुष्ठपाण्ड्वामयभ्रमान
प्राप्नुयात्कामलां चोग्रां विधिं हत्वा दधिप्रियः 19

दध्नस्तूपरि यो भागो घनः स्नेहसमन्वितः
स लोके सर इत्युक्तो दध्नो मण्डस्तु मस्त्विति 20

सरः स्वादुर्गुरुर्वृष्यो वातवह्निप्रणाशनः
सोऽम्लो वस्तिप्रशमनः पित्तश्लेष्मविवर्द्धनः 21

मस्तु क्लमहरं बल्यं लघु भक्ताभिलाषकृत 22

स्रोतोविशोधनं ह्लादि कफतृष्णानिलापहम
अवृष्यं प्रीणनं शीघ्रं भिनत्ति मलसञ्चयम 23

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे
मिश्रप्रकरणे पञ्चदशो दधिवर्गः समाप्तः  15 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।