Saturday, 11 July 2015

अथ पञ्चमं पञ्चकर्मविधिप्रकरणम 5

प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम
एतानि पञ्चकर्माणि निरूहो नावनं तथा 1

शरत्काले वसन्ते च प्रावृट्काले च देहिनाम
वमनं रेचनं चैव कारयेत्कुशलो भिषक 2

बलवन्तं कफव्याप्तं हृल्लासादिनिपीडितम
तथा वमनसात्म्यञ्च धीरचित्तञ्च वामयेत 3

विषदोषे स्तन्यरोगे मन्देऽग्नौ श्लीपदेऽबुदे
हृद्रोगे कुष्ठवीसर्पमेहाजीर्णभ्रमेषु च 4

विदारिकाऽपचीकासश्वासपीनसवृद्धिषु
अपस्मारे ज्वरोन्मादे तथा रक्तातिसारिषु 5

नासाताल्वोष्ठपाकेषु कर्णस्रावेऽधिजिह्वके
गलशुण्ड्यामतीसारे पित्तश्लेष्मगदे तथा
मेदोगदेऽरुचौ चैव वमनं कारयेद्भिषक 6

न वामनीयस्तिमिरी न गुल्मी नोदरी कृशः
नातिवृद्धो गर्भिणी च न स्थूलो न क्षतातुरः 7

मदार्त्तो बालको रूक्षः क्षुधितश्च निरूहितः
उदावत्तर्यूर्ध्वरक्ती च दुश्छर्द्यः केवलानिली 8

पाण्डुरोगी कृमिव्याप्तः पवनात्स्वरघातवान 9

एतेऽप्यजीर्णव्यथिता वाम्या ये विषपीडिताः
कफव्याप्ताश्च ते वाम्या मधुकक्वाथपानतः 10

सुकुमारं कृशं बालं वृद्धं भीरुञ्च वामयेत
पाययित्वा यवागूं वा क्षीरतक्रदधीनि च 11

असात्म्यैः श्लेष्मलैर्भोज्यैर्दोषानुत्क्लेश्य देहिनाम
स्निग्धस्विन्नाय वमनं दत्तं सम्यक्प्रवर्त्तते 12

वमनेषु च सर्वेषु सैन्धवं मधु वा हितम
वीभत्सं वमनं दद्याद्विपरीतं विरेचनम 13

क्वाथद्र व्यस्य कुडवं श्रपयित्वा जलाढके
अर्द्धभागावशिष्टञ्च वमनेष्ववचारयेत 14

क्वाथपाने नवप्रस्था ज्येष्ठा मात्रा प्रकीर्त्तिता
मध्यमा षण्मिता प्रोक्ता त्रिप्रस्था च कनीयसी 15

वमने च विरेके च तथा शोणितमोक्षणे
अर्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः 16

कल्कचूर्णावलेहानां त्रिपलं मात्रयोत्तमम
मध्यमं द्विपलं विद्यात्कनीयस्तु पलं भवेत 17

वमने चाष्टवेगाःस्युः पित्तान्ता उत्तमास्तु ते
षड् वेगा मध्यमा वेगाश्चत्वारस्त्वपरे मताः 18

कफं कटुकतीक्ष्णोष्णैः पित्तं स्वादुहिमैर्जयेत
सुस्वादुलवणाम्लोष्णैः संसृष्टं वायुना कफम 19

कृष्णां राठफलं सिन्धुं कफे कोष्णजलैः पिबेत
पटोलवासानिम्बांश्च पित्ते शीतजलैः पिबेत 20

सश्लेष्मवातपीडायां सक्षीरं मदनं पिबेत
अजीर्णे कोष्णपानीयं सिन्धुं पीत्वा वमेत्सुधीः 21

वमनं पाययित्वा तु जानुमात्रासने स्थितम
कण्ठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक 22

प्रसेको हृद्ग्रहः कोठः कण्डूर्दुश्छर्दिते भवेत
अतिवान्ते भवेत्तृष्णा हिक्कोद्गारो विसंज्ञिता 23

जिह्वानिःसरणं चाक्ष्णोर्व्यावृत्तिर्हनुसंहतिः
रक्तच्छर्दिः ष्ठीवनञ्च कण्ठपीडा च जायते 24

वमनस्यातियोगे तु मृदु कुर्याद्विरेचनम
वमनेन प्रविष्टायां जिह्वायां कवलग्रहाः
स्निग्धाम्ललवणैर्युक्तैर्घृतक्षीररसैर्हिताः 25

फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः
निःसृतान्तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत 26

व्यावृत्तेऽक्ष्णि घृताभ्यक्तेपीडनञ्च शनेः शनैः
हनुमोक्षे स्मृतः स्वेदो नस्यञ्च श्लेष्मवातहृत 27

रक्तपित्तविधानेन रक्तष्ठीवमुपाचरेत
धात्रीरसाञ्जनोशीरलाजाचन्दनवारिभिः 28

मन्थंकृत्वा पाययेच्च सघृतं क्षौरद्र शर्करम
शाम्यन्त्यनेन तृष्णाऽद्या रोगाश्छर्दिसमुद्भवाः 29

हृत्कण्ठशिरसां शुद्धिर्दीप्ताग्नित्वञ्च लाघवम
कफपित्तविनाशश्च सम्यग्वान्तस्य लक्षणम 30

ततोऽपराह्णे दीप्ताग्निं मुद्गषष्टिकशालिभिः
हृद्यैश्च जाङ्गलरसैः कृत्वा यूषञ्च भोजयेत 31

तन्द्रा निद्रा ऽस्यदौर्गन्ध्यं कण्डूश्च ग्रहणी विषम
सुवान्तस्य न पीडायै भवन्त्येते कदाचन 32

अजीर्णं शीतपानीयं व्यायामं मैथुनं तथा
स्नेहाभ्यङ्गञ्च रोषञ्च दिनमेकं सुधीस्त्यजेत 33

स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग्विरेचनम
अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः 34

मन्दाग्निं गौरवं कुर्याज्जनयेद्वा प्रवाहिकाम
अथवा पाचनैरामं वलासं परिपाचयेत 35

ऋतौ वसन्ते शरदि देहशुद्धौ विरेचयेत
अन्यदाऽत्ययिके कार्ये शोधनं शीलयेद बुधः 36

पित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथा
उदरे च तथाऽध्माने कोष्ठशुद्धौ विशेषतः 37

दोषाः कादाचित्कुप्यन्ति जिता लङ्घनपाचनैः
शोधनैः शोधिता ये तु न तेषां पुनरुद्भवः 38

बालो वृद्धो भृशं स्निग्धः क्षतक्षीणो भयान्वितः
श्रान्तस्तृषाऽत्त स्थूलश्च गर्भिणी च नवज्वरी 39

नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी
शल्यार्दितश्च रूक्षश्च न विरेच्या विजानता 40

जीर्णज्वरी गरव्याप्तो वातरोगी भगन्दरी
अर्शः पाण्डूदरग्रन्थिहृद्रो गारुचिपीडिताः 41

योनिरोगप्रमेहार्त्ता गुल्मप्लीहव्रणार्दिताः
विद्र धिच्छर्दिविस्फोटविसूचीकुष्ठसंयुताः 42

कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः
प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षारानिलार्दिताः 43

शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः 44

बहुपित्तो मृदुः कोष्ठो बहुश्लेष्मा च मध्यमः
बहुवातःक्रूरकोष्ठो दुर्विरेच्यः स कथ्यते 45

मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमा
क्रूरे तीक्ष्णा मता द्र व्यैर्मृदुमध्यमतीक्ष्णकैः 46

मृदुद्रार्क्षापयश्चञ्चुतैलैरपि विरिच्यते
मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरिच्यते
क्रूरः स्नुक्पयसा हेमक्षीरीदन्तीफलादिभिः 47

मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तिका
वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका 48

द्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत
पलार्द्धं च कषायाणां कनीयस्तु विरेचनम 49

कल्कमोदकचूर्णानां कर्षो मध्वाज्यलेहतः
कर्षद्वयं पलं वाऽपि वयोरोगाद्यपेक्षया 50

पित्तोत्तरे त्रिवृच्चूर्णं द्राक्षाक्वाथादिभिः पिबेत
त्रिफलाक्वाथगोमूत्रैः पिबेद् व्योषं कफार्दितः 51

त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबन्नेरः
वातार्दितो विरेकाय जाङ्गलानां रसेन वा 52

एरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन वा
युक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते 53

त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम
समृद्वीकारसं क्षौद्रं  वर्षाकाले विरेचनम 54

त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम
द्राक्षाऽम्बुना सयष्ट्याह्वं शीतलञ्च घनात्यये 55

त्रिवृता चित्रकं पाठामजाजीं सरलं वचाम
हेमक्षीरीं हेमन्ते तु चूर्णमुष्णाम्बुना पिबेत 56

पिप्पलद्यं नागरं सिन्धुं श्यामां त्रिवृतया सह
लिह्यात्क्षौद्रे ण शिशिरे वसन्ते च विरेचनम 57

त्रिवृता शर्करा तुल्या ग्रीष्मकाले विरेचनम 58

अथाभयादिमोदकः

अभया मरिचं शुण्ठीविडङ्गामलकानि च
पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव च 59

एतानि समभागानि दन्ती तु त्रिगुणा भवेत
त्रिवृताऽष्टगुणा ज्ञेया षड्गुणा चात्र शर्करा 60

मधुना मोदकान्कृत्वा कर्षमात्रान्प्रमाणतः
एकैकं भक्षयेत प्रातः शीतञ्चानु पिबेज्जलम 61

तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते
पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा 62

विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान
दुर्नामकुष्ठगुल्मार्शोगलगण्डोदरभ्रमान 63

विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान
वातरोगांस्तथाऽध्मानं मूत्रकच्छ्रादि चाश्मरीम 64

पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत
स्नेहाभ्यङ्गञ्च रोषञ्च दिनमेकं सुधीस्त्यजेत 65

सततं शीलनादेव पलितानि प्रणाशयेत
अभयामोदका ह्येते रसायनवराः स्मृताः 66

पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी
सुगन्धि किच्चिदाघ्राय ताम्बूलं शीलयेद बुधः 67

निर्वातस्थो न वेगांश्च धारयेन्न शयीत च
शीताम्बु न स्पृशेत्क्वापि कोष्णनीरं पिबेन्मुहुः 68

वलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत
रेकात्तथा मलं पित्तं भेषजञ्च कफो व्रजेत 69

दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक
पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम 70

विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते
तं पुनः पाचनैः स्नेहैः पक्त्वा स्निग्धं तु रेचयेत
तेनास्योपद्र वा यान्ति दीप्ताग्निर्लघुता भवेत 71

विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च
शूलं कफातियोगः स्यान्मांसधावनसन्निभम 72

मेदोनिभं जलाभासं रक्तश्चापि विरिच्यते
तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः 73

मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु
सहकारत्वचः कल्को दध्ना सौवीरकेण वा 74

पिष्ट्वा नाभिप्रलेपेन हन्त्यतीसारमुल्वणम
सौवीरं तु यवैरामैः पक्वैर्वा निस्तुषीकृतैः 75

अजाक्षीरं रसञ्चापि वैष्किरं हारिणं तथा
शालिभिः षष्टिकैस्तुल्यैर्मसूरैर्वापि भोजयेत 76

शीतैः संग्राहिभिर्द्र व्यैः कुर्यात्संग्रहणं भिषक
लाघवे मनसस्तुष्टावनुलोमं गतेऽनिले 77

सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि
इन्द्रि याणां बलं बुद्धे प्रसादो वह्निदीप्तता 78

धातुस्थैर्यं वयःस्थैर्यं भवेद्रे चनसेवनात
प्रवातसेवां शीताम्बुस्नेहाभ्यङ्गमजीर्णताम 79

व्यायामं मैथुनञ्चैव न सेवेत विरेचितः
शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत्कृताम 80

जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम 81

वस्तिर्द्विधाऽनुवासाख्यो निरूहश्च ततः परम
यः स्नेहो दीयते स स्यादनुवासन नामकः 82

कषायक्षीरतैलैर्यो निरूहः स निगद्यते
वस्तिभिर्दीयते यस्मात्तस्माद्वस्तिरिति स्मृतः 83

तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते
अनुवासनभेदश्च मात्रावस्तिरुदीरितः 84

पलद्वयं तस्य मात्रा तस्मादर्द्धाऽपि वा भवेत
अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली 85

नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी
नास्थाप्या नानुवास्याश्च जीर्णोन्मादतृडर्दिताः
शोथमूर्च्छाऽरुचिभयश्वासकासक्षयातुराः 86

नेत्रं कार्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः
नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते 87

एकवर्षात्तु षड्वर्षाद्यावन्मानं षडङ्गुलम
ततो द्वादशकं यावन्मानं स्यादष्टसम्मितम 88

ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता
मुद्गच्छिद्रं  कलायाभं छिद्रं  कोलास्थिसन्निमम 89

यथा संख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम
गोपुच्छसन्निमं मूले स्थूलं तस्मात क्रमात कृशम 90

आतुराङ्गुष्ठमानेन मूले स्थूलं निधीयते
कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम 91

तन्मूले कर्णिके द्वे च कार्ये भागाच्चतुर्थकात 92

योजयेत्तत्र वस्तिञ्च बन्धद्वयविधानतः
मृगाजशूकरगवां महिषस्यापि वा भवेत 93

मूत्रकोषस्य वस्तिस्तु तदलाभे तु चर्मणः
कषायरक्तः स मृदुर्वस्तिः स्निग्धो दृढो हितः 94

व्रणवस्तेस्तु नेत्रं स्याच्छ्लक्ष्णमष्टाङ्गुलोन्मितम
मुद्गच्छिद्रं  गृध्रपक्षनलिकापरिणाहि च 95

शरीरोपचयं वर्णं बलमारोग्यमायुषः
कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः 96

दिवा शीते वसन्ते च स्नेहवस्तिः प्रदीयते
ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम 97

न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत
मदं मूर्च्छां च जनयेद द्विधा स्नेहः प्रयोजितः 98

रूक्षभुक्तवतोऽत्यन्तं बलं वर्णञ्च हापयेत
युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत 99

हीनमात्रावुभौ वस्ती नातिकार्यकरौ स्मृतौ
अतिमात्रौ तथाऽनाहक्लमातीसारकारकौ 100

उत्तमास्यात्पलैः षड्भिर्मध्यमा स्यात्पलैस्त्रिभिः
पलाध्यर्द्धेन हीनास्यादुक्ताः मात्राऽनुवासने 101

शताह्वासैन्धवाभ्याञ्च देयं स्नेहे च चूर्णकम
तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्वयमाषकैः 102

विरेचनात्सप्तरात्रे गते जातबलाय च
भुक्तान्नायानुवास्याय वस्तिर्देयोऽनुवासनः 103

तथाऽनुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
भोजयित्चा यथाशास्त्रं कृतचङ्क्रमणं ततः
उत्सृष्टानिलविण्मूत्रं योजयेत्स्नेहबस्तिना 104

सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः
कुञ्चितापरजङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत 105

बद्धं वस्तिमुखं सूत्रैर्वामहस्तेन धारयेत
पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः 106

जृम्भाकासक्षवादींश्च वस्तिकाले न कारयेत
त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने 107

ततः प्रणिहिते स्नेहे उत्तानो वाक्शतं भवेत
प्रसारितः सर्वगात्रैर्यथावीर्यं प्रसर्पति 108

स्वजानुनः करावर्त्तं कुर्याच्छोटिकया पुनः
एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः 109

निमेषोन्मेषणं पुंसामङ्गुल्या छोटिकाऽथ वा
गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः 110

ताडयेत्तलयोरेनं त्रींस्त्रीन्वाराञ्छनैः शनैः
स्फिजोश्चैव तथा श्रोणीं शय्याञ्चैवोत्क्षिपेत्ततः 111

स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताडयेद बुधः 112

शय्याञ्च पादतस्तस्य त्रीन्वारानुत्क्षिपेत्ततः
जाते विधाने तु ततः कुर्यान्निद्रां! यथासुखम 113

सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
उपद्र वं विना शीघ्रं स सम्यगनुवासितः 114

जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः
लघ्वन्नं भोजयेत्कामं दीप्ताग्निस्तु नरो यदि 115

अनुवासिताय दातव्यमितरेऽह्नि सुखोदकम
धान्यशुण्ठीकषायं वा स्नेहव्यापत्तिनाशनम 116

अनेनविधिना षड्वा सप्त चाष्टौ नवापि वा
विधेया वस्तयस्तेषामन्ते चैव निरूहणम 117

दत्तस्तु प्रथमो वस्तिः स्नेहयेद्वस्तिवङ्क्षणौ
सम्यग्दत्तो द्वितीयस्तु मूर्द्धस्थमनिलं जयेत 118

बलं वर्णश्च जनयेत्तृतीयस्तु प्रयोजितः
चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी 119

षष्ठो मांसं स्नेहयति सप्तमो मेद एव च
अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम 120

एवं शुक्रगतान्दोषान्द्विगुणः साधु साधयेत 121

अष्टादशाष्टादशकाद्दिनाद्यो ना निषेवते
स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः 122

रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने
दद्याद्वैद्यस्तथाऽन्येषामग्न्याबाधभयात त्र्यहात
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः 123

तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते
अथ वा यस्य तत्कालं स्नेहो निर्याति केवलः
तस्याप्यल्पतरो देयो न हि स्निग्धेऽवतिष्ठते 124

अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
तदाऽङ्गसदनध्माने शूलं श्वासश्च जायते 125

पक्वाशये गुरुत्वञ्च तत्र दद्यान्निरूहणम
तीक्ष्णं तीक्ष्णोषधैर्युक्तं फलवर्त्तिमथापि वा 126

यथाऽनुलोमनो वायुर्मलः स्नेहश्च जायते
तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्च शस्यते 127

यस्य नोपद्र वं कुर्यात्स्नेहवस्तिरनिःसृतः
सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः स विजानता 128

अनायातं त्वहोरात्रे स्नेहं संशोधनैर्हरेत
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते 129

गुडूच्येरण्डपूतीकभार्ङ्गींवृषकरौहिषम
शतावरीसहचरौ काकनासां पलोन्मिताम 130

यवमाषातसीकोलकुलत्थान्प्रसृतोन्मितान
चतुद्रोर्णेऽम्भसः पक्त्वा द्रोणशेषेण तेन च 131

पचेत्तैलाढकं सर्वैर्जीवनीयैः पलोन्मितैः
अनुवासनमेतद्धि सर्ववातविकारनुत 132

षटसप्ततिव्यापदस्तु जायन्ते बस्तिकर्मणः
दूषितात् समुदायेन ताश्चिकित्स्यास्तु सुश्रुतात 133

पानाहारविहाराश्च परिहाराश्च कृत्स्नशः
स्नेहपानसमाः कार्य्या नात्र कार्या विचारणा 134

निरूहवस्तिर्बहुधा भिद्यते कारणान्तरः
तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः 135

निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः
स्वस्थाने स्थापनाद्दोषधातूनां स्थापनं मतम 136

निरूहस्य प्रमाणं तु प्रस्थं पादोत्तरं परम
मध्यमं प्रस्थमुद्दिष्टं हीनञ्च कुडवास्त्रयः 137

अतिस्निग्धोऽक्लिष्टदोषः क्षतोरस्कः कृशस्तथा
आध्मानच्छर्दिहिक्काऽशकासश्वासप्रपीडितः 138

गुदशोफातिसारार्त्तो विसूचीकुष्ठसंयुतः
गर्भिणी मधुमेही च नास्थाप्यश्च जलोदरी 139

वातव्याधावुदावर्ते वातासृग्विषमज्वरे
मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु च 140

वृद्ध्य्सृग्दरमन्दाग्निप्रमेहेषु निरूह्रणम्
शूलेऽम्लपित्ते हृद्रो गे योजयेद्विधिवद बुधः 141

उत्सृष्टानिलविण्मूत्रं स्निग्धं स्विन्नमभोजितम
मध्याह्ने गृहमध्ये च यथायोग्यं निरूहयेत 142

स्नेहवस्तिविधानेन बुधः कुर्यान्निरूहणम 143

जाते निरूहे च ततो भवेदुत्कटकासनः
तिष्ठेन्महूर्त्तमात्रन्तु निरूहागमनेच्छया 144

अनायातं मुहूर्त्तं तु निरूहं शोधनैर्हरेत
निरूहैरेव मतिमान्क्षारसूत्राम्लसैन्धवैः 145

यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः
लाघवं चोपजायेत सुनिरूहं तमादिशेत 146

यस्य स्याद्वस्तिरत्यल्पवेगो हीनमलानिलः
मूर्च्छाऽत्तिजाड्यारुचिमान्दुर्निरूहं तमादिशेत 147

विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः
आस्थापनस्नेहवस्त्योः सम्यग्दाने तु लक्षणम 148

अनेन विधिना युञ्ज्यान्निरूहं वस्तिदानवित
द्वितीयं वा तृतीयं वा चतुर्थं वा यथोचितम 149

सस्नेह एकः पवने पित्ते द्वौ पयसा सह
कषायकटुमूत्राद्याः कफेऽत्युष्णास्त्रयो हिताः 150

पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात
निरूढं भोजयित्वा च ततस्तमनुवासयेत 151

सुकुमारस्य वृद्धस्य बालस्य च मृदुर्हितः
वस्तिस्तीक्ष्णः प्रयुक्तस्तु तेषां हन्याद्बलायुषी 152

दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं ततः
पश्चात्संशमनीयञ्च दद्याद्वस्तिं विचक्षणः 153

एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
हपुषाफलकल्कश्च वस्तिरुत्क्लेशनः स्मृतः 154

शताह्वा मधुकं बिल्वं कौटजं फलमेव च
सकाञ्जिकः सगोमूत्रो वस्तिर्दोषहरः स्मृतः 155

प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम
सक्षीरः शस्यते वस्तिर्दोषाणां शमनः स्मृतः 156

त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुतः
ऊषकादिप्रतीवापैर्वस्तयोलेखनाः स्मृताः 157

बृंहणद्र व्यनिक्वाथैः कल्कैर्मधुरकैर्युताः
सर्पिर्मांसरसोपेता वस्तयो बृंहणाः स्मृताः 158

बदर्यैरावतीशेलुशाल्मलीपुष्पजाङ्कुराः
क्षीरसिद्धाःक्षौद्र युक्ता नाम्ना पिच्छलसंज्ञिताः 159

अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः
मात्रा पिच्छिलवस्तीनां पलैर्द्वादशभिर्मता 160

दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम
विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतित्रयम 161

एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
सम्मूर्च्छिते कषायन्तु चतुः प्रसृतिसम्मितम 162

गृह्णीयाच्च तदा वाऽल्पमन्ते द्विप्रसृतोन्मितम
क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक 163

एवं प्रकल्पितो वस्तिर्द्वादशप्रसृतिर्भवेत
वाते चतुष्पलं क्षौद्रं  दद्यात स्नेहस्य षट्पलम 164

पित्ते चतुष्पलं क्षौद्रं  स्नेहं दद्यात्पलत्रयम
कफे तु षट्पलं क्षौद्रं  क्षिपेत स्नेहं चतुष्पलम 165

एरण्डक्वाथतुल्यांशं मधुतैलं पलाष्टकम
शतपुष्पापलार्द्धेन सैन्धवार्द्धेन संयुतम
मधुतैलकसंज्ञोऽय वस्तिर्दारुविलोडितः 166

मेदोगुल्मकृमिप्लीहमलोदावर्तनाशनः
बलवर्णकरश्चैव वृष्यो दीपनबृंहणः 167

क्षौद्रा ज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत
हपुषासैन्धवाक्षांशो वस्तिः स्याद्यापनः परः 168

एरण्डमूलनिक्वाथो मधुतैलं ससैन्धवम
एष युक्तरथो वस्तिः सवचापिप्पलीफलः 169

पञ्चमूलस्य निक्वाथैस्तैलं मागधिका मधु
ससैन्धवः सयष्ट्याह्वः सिद्धवस्तिरिति स्मृतः 170

स्नानमुष्णोदकैः कुर्याद्दिवास्वप्नमजीर्णताम
वर्जयेदपरं सर्वमाचरेत्स्नेहवस्तिवत 171

अतः परं प्रवक्ष्यामि वस्तिमुत्तरसंज्ञितम
निरूहादुत्तरो यस्मात्तस्मादुत्तरसंज्ञकः 172

द्वादशाङ्गुलकं नेत्रं मध्ये च कृतकर्णिकम
मालतीपुष्पवृन्ताभं छिद्रं  सर्षपनिर्गमम 173

पञ्चविंशतिवर्षाणामधोमात्रा द्विकार्षिकी
तदूर्ध्वं पलमात्रा च स्नेहस्योक्ता भिषग्वरैः 174

अथास्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः
स्थितस्य जानुमात्रे च पिष्टे स्निग्धे शलाकया 175

स्निग्धया मेढ्रमार्गे तु तत्रो नेत्रं नियोजयेत
शनैः शनैर्घृताभ्यक्तं मेढ्ररन्ध्राङ्गुलानि षट 176

ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं विनिर्हरेत
ततः प्रत्यागते स्नेहे स्नेहवस्तिंक्रमो हितः 177

स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्याद् दशाङ्गुलम
मुद्गप्रवेशयोग्यञ्च योन्यन्तश्चतुरङ्गुलम 178

द्व्यङ्गुलं मूत्रमार्गे च सूक्ष्मं नेत्रं नियोजयेत
मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम 179

शनैर्निष्कम्पमाधेयं सूक्ष्मं नेत्रं विचक्षणैः
मालतीपुष्पवृन्ताभं नेत्रमित्युदितं पुनः 180

योनिमार्गेषु नारीणां स्नेहमात्रा द्विपालिकी
मूत्रमार्गे पलोन्माना बालानां च द्विकार्षिकी 181

उत्तानायै स्त्रियै दद्यादूर्ध्वजान्वै विचक्षणः
अप्रत्यागच्छति भिषग् वस्तावुत्तरसंज्ञिते 182

भूयो वस्तिं विदध्याच्च संयुक्तं शोधनैर्गुणैः
फलवर्त्तिं विदध्याद वा योनिमार्गे दृढां भिषक 183

सूत्रैर्विनिर्मितां स्निग्धां शोधनद्र व्यसंयुताम 184

दह्यमाने तथा वस्तौ दद्याद्वस्तिं विशारदः
क्षीरिवृक्षकषायेण पयसा शीतलेन वा 185

वस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजा रुजः
हन्यादुत्तरवस्तिस्तु नोचितो मेहिने क्वचित 186

सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च
वस्तेरुत्तरसंज्ञस्य समानाः स्नेहवस्तिना 187

घृताभ्यक्ते गुदे क्षिप्ता श्लक्ष्णा स्वाङ्गुष्ठसन्निभा
मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता 188

नस्यं तत्कथ्यते धीरैर्नासाग्राह्यं यदौषधम
नावनं नस्यकर्मेति तस्य नामद्वयं मतम 189

नस्यभेदो द्विधा प्रोक्तो रेचनं स्नेहनं तथा
रेचनं कर्षणं प्रोक्तं स्नेहनं वृंहणं मतम 190

कफपित्तानिलध्वंसि पूर्वमध्यापराह्णके
दिनस्य गृह्यते नस्यं रात्रावप्युत्कटे गदे 191

नस्यं त्यजेद्भोजनान्ते दुर्दिने चापतर्पितः
तथा नवप्रतिश्यायी गर्भिणी गरदूषितः
अजीर्णी दत्तवस्तिश्च पीतस्नेहोदकासवः 192

क्रुद्धः शोकाभिभूतश्च तृषार्त्तो वृद्धबालकौ
वेगावरोधी श्रान्तश्च स्नातुकामश्च वर्जयेत 193

अष्टवर्षस्य बालस्य नस्यकर्म समाचरेत
अशीतिवर्षादूर्ध्वञ्च नावनं नैव दीयते 194

अथ वैरेचनं नस्यं ग्राह्यं तैलैः सुतीक्ष्णकैः
तीक्ष्णैः भेषजसिद्धैर्वा स्नेहैः क्वाथै रसैस्तथा 195

नासिकारन्ध्रयोरष्टौ षट् चत्वारश्च बिन्दवः
प्रत्येकं रेचनं योग्यं मुख्यमध्याल्पमात्रया 196

नस्यकर्मणि दातव्यं शाणैकं तीक्ष्णमौषधम
हिङ्गु स्याद्यवमात्रन्तु माषैकं सैन्धवं मतम 197

क्षीरं चैवाष्टशाणं स्यात्पानीयञ्च त्रिकार्षिकम
कार्षिकं मधुरद्र व्यं नस्यकर्मणि योजयेत 198

अवपीडः प्रधमनं द्वौ भेदावपरौ स्मृतौ
शिरोविरेचनस्याथ तौ तु देयौ यथायथम 199

कल्कीकृतादौषधाद्यः पीडितो निःसृतो रसः
सोऽवपीडः समुद्दिष्टस्तीक्ष्णद्र व्यसमुद्भवः 200

षडङ्गुला द्विवक्त्रा या नाडी चूर्णं तथा धमेत
तीक्ष्णं कोलमितं वक्त्रवातैः प्रधमनं हितम 201

ऊर्ध्वजत्रुगते रोगे कफजे स्वरसंक्षये
अरोचके प्रतिश्याये शिरःशूले च पीनसे 202

शोफापस्मारकुष्ठेषु नस्यं वैरेचनं हितम
भीरुस्त्रीकृशबालानां नस्यं स्नेहेन शस्यते 203

गलरोगे सन्निपाते निद्रा यां विषमज्वरे
मनोविकारे कृमिषु पूज्यते चावपीडनम 204

अत्यन्तोत्कटदोषेषु विसंज्ञेषु च दीयते
चूर्णं प्रधमनं धीरैस्तद्धि तीक्ष्णतरं यतः 205

नस्यं स्याद् गुडशुण्ठीभ्यां पिप्पलीसैन्धवेन वा
जलपिष्टेन कर्णाक्षिनासामूर्द्धभवा गदाः 206

मन्याहनुगलोद्भूता नश्यन्ति भुजपृष्ठजाः
मधूकसारकृष्णाभ्यां वचामरिचसैन्धवैः 207

नस्यं कोष्णाम्भसा पिष्टं दद्यात्संज्ञाप्रबोधनम
अपस्मारे तथोन्मादे सन्निपातेऽपतन्त्रके 208

सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण संपिष्टं नस्यं तन्द्रा निवारणम 209

रोहितस्य च पित्तेन भावितं मरिचं वचा
कट्फलं चेति तच्चूर्णं देयं प्रधमनं वुधैः 210

अथ बृंहणनस्यस्य कल्पना कथ्यतेऽधुना
मर्शश्च प्रतिमर्शश्च द्वौ भेदौ स्नेहने मतौ 211

मर्शस्य तर्पणी मात्रा मुख्या शाणैः स्मृताऽष्टभिः
मध्यमा तु चतुःशाणैर्हीना शाणमिता मता 212

एकैकस्मिंस्तु मात्रेयं देया नासापुटे बुधैः 213

मर्शस्य द्वित्रिवेलं वा वीक्ष्य दोषबलाबलम
एकान्तरं द्वयन्तरं वा नस्यं दद्याद्विचक्षणः 214

त्र्यहं पञ्चाहमथवा सप्ताहं वा सुयन्त्रितः 215

मर्शे शिरोविरेके च व्यापदो विविधाः स्मृताः
दोषोत्क्लेशात्क्षयाच्चैव विज्ञेयास्ता यथाक्रमम

दोषोत्क्लेशनिमित्तासु युञ्ज्याद्वमनशोधनम 216

अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम
शिरोनासाऽक्षिरोगेषु सूर्यावर्त्तार्द्धभेदके 217

दन्तरोगे बले हीने मन्याबाह्वंसजे गदे
मुखशोषे कर्णनादे वातपित्तगदे तथा 218

अकालपलिते चैव केशश्मश्रुप्रपातने
पूज्यते बृंहणं नस्यं स्नेहैर्वा मधुरद्र वैः 219

सशर्करं पयःपिष्टं भृष्टमाज्येन कुङ्कुमम
नस्यप्रयोगतो हन्याद्वातरक्तभवा रुजः
भ्रूशङ्खाक्षिशिरःकर्णसूर्यावर्त्तार्द्धभेदकान 220

नस्यं स्यादणुतैलेन तथा नारायणेन वा
माषादिना वा सर्पिर्भिस्तत्तद्भेषजसाधितैः 221

तैलं कफे स्याद्वाते च केवले पवने वसाम
दद्यान्नस्यं सदा पित्ते सर्पिर्मज्जानमेव च 222

माषात्मगुप्तारास्नाभिर्बलारुबुकरौहिषैः
कृतोऽश्वगन्धया क्वाथो हिङ्गुसैन्धवसंयुतः 223

कोष्णो नस्यप्रयोगेण पक्षाघातं सकम्पनम
जयेदर्दितवातञ्च मन्यास्तम्भावबाहुकौ 224

प्रतिमर्शस्य मात्रा तु द्वित्रिविन्दुमिता मता
प्रत्येकशो नासिकया स्नेहनेति विनिश्चितम 225

स्नेहे ग्रन्थिद्वयं यावन्निमग्ना चोद्धृता ततः
तर्जनी यं स्रवेद्बिन्दुं सा मात्रा बिन्दुसंज्ञिता 226

एवंविधैर्बिन्दुसंज्ञैरष्टाभिः शाण उच्यते
स देयो मर्शनस्येषु प्रतिमर्शो द्विबिन्दुकः 227

समयाः प्रतिमर्शस्य बुधैः प्रोक्ताश्चतुर्दश
प्रभाते दन्तकाष्ठान्ते गृहान्निर्गमने तथा 228

व्यायामाध्वव्यवायान्ते विण्मूत्रान्तेऽञ्जने कृते
कवलान्ते भोजनान्ते दिवास्वप्नोस्त्थिते तथा 229

वमनान्ते तथा सायं प्रतिमर्शः प्रयुज्यते 230

रीषदुच्छिक्कनात्स्नेहो यथा वक्त्रं प्रपद्यते
नस्ये निषिक्तं तं विद्यात्प्रतिमर्शप्रमाणतः 231

उच्छिष्टं न पिबेन्नैव निष्ठीवेन्मुखमागतम 232

क्षीणे तृष्णाऽस्यशोषार्त्ते बाले वृद्धे च पूज्यते
प्रतिमर्शान्न जायन्ते रोगाश्चैवोर्ध्वजत्रुजाः
बलीपलितनाशश्च बलमिन्द्रि यजं भवेत 233

बिभीतनिम्बौ गाम्भारी शिवा शेलुश्च काकिनी
एकैकतैलनस्येन पलितं नश्यति ध्रुवम 234

अथ नस्यविधिं वक्ष्ये नस्यग्रहणहेतवे
देशेवातरजोमुक्ते कृतदन्तनिघर्षणम 235

विशुद्धं धूमपानेन स्विन्नभालगलं तथा
उत्तानशायिनं किञ्चित्प्रलम्बशिरसं नरम 236

आस्तीर्णहस्तपादञ्च वस्त्राच्छादितलोचनम
समुन्नामितनासाऽग्र वैद्यो नस्येन योजयेत 237

कोष्णेनाच्छिन्नधारेण हेमतारादिशुक्तिभिः
शुक्त्या वा यन्त्रयुक्त्या वा प्लोतैर्वा नस्यमाचरेत 238

नस्येष्वासिच्यमानेषु सिरो नैव प्रकम्पयेत
न कुप्येन्न प्रभाषेत नोच्छिक्केन्न हसेत्तथा 239

एतैर्हि विहितः स्नेहो नैवान्तं सम्प्रपद्यते
ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः 240

शृङ्गाटकमभिव्याप्य स्थापयेन्न गिलेद द्रवम
पञ्च सप्त दशैव स्युर्मात्राः स्नेहस्य धारणे 241

उपविश्याथ निष्ठीवेन्नासावक्त्रागतं द्रवम
वामदक्षिणपार्श्वाभ्यां निष्ठीवेत्संमुखं न हि 242

नीते नस्ये मनस्तापं रजःक्रोधञ्च सन्त्यजेत्
शयीत निद्रां! त्यक्त्वा च प्रोत्तानो वाक्छतं नरः 243

तथा शिरोविरेकान्ते धूमो वा कवलो हितः
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः 244

शुद्धहीनातियोगा हि विज्ञेयाः शास्त्रचिन्तकैः
लाघवं मलसंशुद्धिः स्रोतसां व्याधिसंक्षयः
चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम 245

कण्डूःप्रदेहो गुरुता स्रोतसां कफसंस्रवः
मूर्ध्नि हीनाविशुद्धेस्तु लक्षणं परिकीर्त्तितम 246

मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
शून्यता शिरसश्चापि मूर्ध्नि गाढं विरेचिते 247

हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत
तत्र हीनेन नस्येन शुद्धे वातघ्नमाचरेत 248

सम्यग्विशुद्धे शिरसि सर्पिर्नस्येन दीयते
कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः 249

लक्षणं तदतिस्निग्धे तत्र रूक्षं प्रदापयेत्
भोजयेच्चानभिष्यन्दि नस्ये वातिकमादिशेत 250

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषाऽदिप्रकरणे
पञ्चमं पञ्चकर्मविधिप्रकरणं समाप्तम 5
Related Posts Plugin for WordPress, Blogger...

Follow by Email