Monday, 13 July 2015

अथ पञ्चमं दिनचर्यादिप्रकरणम 5


भूमिदेशस्त्रिधाऽनूपो जांगलो मिश्रलक्षणः 1
नदीपल्वलशैलाढ्यः फुल्लोत्पलकुलैर्युतः
हंससारसकारंडचक्रवाकादिसेवितः 2
शशवाराहमहिषरुरुरोहिकुलाकुलः
प्रभूतद्रुमपुष्पाढ्यो नीलशस्यफलान्वितः 3
अनेकशालिकेदारकदलीक्षुविभूषितः
अनूपदेशो ज्ञातव्यो वातश्लेष्मामयार्त्तिमान 4
आकाशसम उच्चश्च स्वल्पपानीयपादपः
शमीकरीरबिल्वार्कपीलुकर्कंधुसङ्कुलः 5
हरिणैणर्क्षपृषतगोकर्णखरसङ्कुलः
सुस्वादुफलवान्देशो वातलो जाङ्गलः स्मृतः 6
बहूदकनगोऽनूपः कफमारुतरोगवान्
जाङ्गलोऽल्पाम्बुशाखी च पित्तासृङ्मारुतोत्तरः 7
संसृष्टलक्षणो यस्तु देशः साधारणो मतः
समाः सधारणे यस्माच्छीतवर्षोष्णमारुताः
समता तेन दोषाणां तस्मात्साधारणो वरः 8
उचिते वर्तमानस्य नास्ति दुर्देशजं भयम
आहारस्वप्नचेष्टाऽदौ तद्देशस्य कृते सति 9
यस्य देशस्य यो जन्तुस्तज्जं तस्यौषधं हितम
देशादन्यत्र वसतस्तत्तुल्यगुणमौषधम 10
स्वे देशेनिचिता दोषा अन्यस्मिन्कोपमागताः
बलवन्तस्तथा न स्युर्जलजाः स्थलजास्तथा 11
मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा
तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम 12
दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम
आचरन्पुरुषः स्वस्थः सदा तिष्ठति नान्यथा 13
समदोषः समाग्निश्च समधातुमलक्रियः
प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते 14
ब्राह्मे मुहूर्ते बुध्येत स्वस्थो रक्षाऽथमायुषः
तत्र सर्वाघशान्त्यर्थं स्मरेद्धि मधुसूदनम 15
दध्याज्यादर्शसिद्धार्थं बिल्वगोरोचनस्रजाम
दर्शनं स्पर्शनं कार्यं प्रबुद्धेन शुभावहम 16
स्वमाननं घृते पश्येद् यदीच्छेच्चिरजीवितम
आयुष्यमुषसि प्रोक्तं मलादीनां विसर्जनम
तदन्त्रकूजनाध्मानोदरगौरववारणम 17
आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य 18
वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
जठरे वातजाश्चान्येरोगाः स्युर्वातनिग्रहात 19
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
विनामो वङ्क्षणानाहः स्यालिङ्गं मूत्रनिग्रहे 20
न वेगितोऽन्यकार्यः स्यान्न वेगानीरयेद्बलात
कामशोकभयक्रोधान्मनोवेगान्विधारयेत 21
गुदादिमलमार्गाणां शौचं कान्तिबलप्रदम
पवित्रकरमाख्यातमलक्ष्मीकलिपापहृत 22
प्रक्षालनं मतं पाण्योः पादयोः शुद्धिकारणम
मलश्रमहरं वृष्यं चक्षुष्यं राजसापहम 23
भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम
कनिष्ठिकाऽग्रवत्स्थूलमृज्वग्रन्थिं तथाऽव्रणम 24
एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन तु
दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन 25
क्षौद्र त्रिकटुकाक्तेन तैलसिन्धुभवेन वा
चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत 26
मधुको मधुरे श्रेष्ठः करञ्जः कटुके तथा
निम्बः स्यात्तिक्तके श्रेष्ठः कषाये खदिरस्तथा 27
समयं तु समालोक्य दोषं च प्रकृतिं तथा
यथोचितै रसैर्वीर्यैर्युक्तं द्रव्यं प्रयोजयेत 28
तेनास्य मुखवैरस्यदन्तजिह्वाऽस्यजा गदाः
रुचिवैशद्यलघुता न भवन्ति भवन्ति च 29
अर्के वीर्यं वटे दीप्तिः करञ्जे विजयो भवेत
प्लक्षे चैवार्थसम्पत्तिर्वैदर्यां मधुरोध्वनिः 30
खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम
उदुम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च 31
कदम्बे तु धृतिर्मेधा चम्पके च दृढा मतिः
शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च 32
अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथाऽसने
दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा 33
जातीतगरमन्दारैर्दुःस्वप्नं च विनश्यति 34
गुर्वाकस्तालहिन्तालौ केतकश्च बृहत्तृणः
खर्जूरं नारिकेलं च सप्तैते तृणराजकाः 35
तृणराजसमुत्पन्नं यः कुर्याद्दन्तधावनम
नरश्चाण्डालयोनिः स्याद्यावद्गङ्गां न पश्यति 36
न खादेद्गलताल्वोष्ठजिह्वादन्तगदेषु तत
मुखस्य पाके शोथे च श्वासकासवमीषु च 37
दुर्बलोऽजीर्णभुक्तश्च हिक्कामूर्च्छामदान्वितः
शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः 38
अर्दितः कर्णशूली च नेत्ररोगी नवज्वरी
वर्जयेद्दन्तकाष्ठं तु हृदामययुतोऽपि च 39
जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा
पाटितं मृदु तत्काष्ठं मृदुपत्रमयं तथा 40
दशाङ्गुलं मृदु स्निग्धं तेन जिह्वां लिखेत्सुखम
तज्जिह्वामलवैरस्यदुर्गन्धजडताहरम् 41
गण्डूषमपि कुर्वीत शीतेन पयसा मुहुः
कफतृष्णामलहरं मुखान्तःशुद्धिकारकम 42
सुखोष्णोदकगण्डूषः कफारुचिमलापहः
दन्तजाड्यहरश्चापि मुखलाघवकारकः 43
विषमूर्च्छामदार्त्तानां शोषिणां रक्तपित्तिनाम
कुपिताक्षिमलक्षीणरूक्षाणां स न शस्यते 44
मुखप्रक्षालनं शीतपयसा रक्तपित्तजित
मुखस्य पिडिकाशोषनीलिकाव्यङ्गनाशनम 45
कुर्याद्वाऽपि कदुष्णेन पयसाऽस्यविशोधनम
कफवातहरं स्निग्धं मुखशोषविनाशनम 46
कटुतैलादि नस्यार्थे नित्याभ्यासेन योजयेत
प्रातः श्लेष्मणि मध्याह्ने पित्ते सायं समीरणे 47
सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रि याः
निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः 48
सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत
लोचने भवतस्तेन मनोज्ञे सूक्ष्मदर्शने 49
स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम
दृष्टेः कण्डूमलहरं दाहक्लेदरुजापहम 50
अक्ष्णो रूपावहं चैव सहते मारुतातपौ
नेत्रे रोगा न जायन्ते तस्मादञ्जनमाचरेत 51
रात्रौ जागरितः श्रान्तश्छर्दितो भुक्तवांस्तथा
ज्वरातुरः शिरः स्नातो नाक्ष्णोरञ्जनमाचरेत 52
पञ्चरात्रान्नखश्मश्रुकेशरोमाणि कर्त्तयेत
केशश्मश्रुनखादीनां कर्त्तनं सम्प्रसाधनम
पौष्टिकं धन्यमायुष्यं शौचकान्तिकरं परम 53
उत्पाटयेत्तु लोमानि नासाया न कदाचन
तदुत्पाटनतो दृष्टेर्दौर्बल्यं त्वरया भवेत 54
केशपाशे प्रकुर्वीत प्रसाधन्या प्रसाधनम
केशप्रसाधनं केश्यं रजोजन्तुमलापहम 55
आदर्शालोकनं प्रोक्तं मङ्गल्यं कान्तिकारम
पौष्टिकं बल्यमायुष्यं पापालक्ष्मीविनाशनम 56
लाघवं कर्मसमर्थ्यं विभक्तघनगात्रता
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते 57
व्यायामदृढगात्रस्य व्याधिर्नास्ति कदाचन
विरुद्धं वा विदग्धं वा भुक्तं शीघ्रं विपच्यते 58
भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः
न चैवं सहसाऽक्रम्य जरा समधिरोहति 59
न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षकम
स सदा गुणमाधत्ते बलिनां स्निग्धभोजिनाम 60
वसन्ते शीतसमये सुतरां स हितो मतः
अन्यदाऽपि च कर्त्तव्यो बलार्धेन यथा बलम 61
हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते
मुखं च शोषं लभते तद्बलार्धस्य लक्षणम 62
किं वा ललाटे नासायां गात्रसन्धिषु कक्षयोः
यदा सञ्जायते स्वेदो बलार्धं तु तदादिशेत 63
भुक्तवान्कृतसम्भोगः कासी श्वासी कृशः क्षयी
रक्तपित्ती क्षती शोषी न तं कुर्यात्कदाचन 64
अतिव्यायामतः कासो ज्वरश्छर्दिं श्रमः क्लमः
तृष्णा क्षयः प्रतमको रक्तपित्तं च जायते 65
अभ्यङ्गं कारयेन्नित्यं सर्वेष्वङ्गेषु पुष्टिदम
शिरः श्रवणपादेषु तं विशेषेण शीलयेत 66
सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम
अन्यद्र व्ययुतं तैलं न दुष्यति कदाचन 67
अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलं सुखम
निद्रा वर्णमृदुत्वायुष्कुरुते देहपुष्टिकृत 68
अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रि यतर्पकः
दृष्टितुष्टिकरो हन्ति शिरोभूमिगतान्गदान 69
केशानां बहुतां दार्ढ्यं मृदुतां दीर्घतां तथा
कृष्णतां कुरुते कुर्याच्छिरसःपूर्णतामपि 70
न कर्णरोगा न मलं न च मन्याहनुग्रहः
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णपूरणात 71
रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते 72
पादाभ्यङ्गश्च तत्स्थैर्यनिद्रा दृष्टिप्रसादकृत
पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत 73
व्यायामक्षुण्णवपुषं पद्भ्यां सम्मर्दितं तथा
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः 74
लोमकूपशिराजालधमनीभिः कलेवरे
तर्पयेद्बलमाधत्ते स्नेहयुक्तेऽवगाहने 75
अद्भिः संसिक्तमूलानां तरूणां पल्लवादयः
वर्द्धन्ते हि तथा नॄणां स्नेहसंसिक्तधातवः 76
नवज्वरी अजीर्णी च नाभ्यक्तव्यः कथञ्चन
तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः 77
पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा
शेषाणां च त्विह प्रोक्ता वह्निसादादयो गदाः 78
उद्वर्त्तनं कफहरं मेदोघ्नं शुक्रदं परम
बल्यं शोणितकृच्चापि त्वक्प्रसादमृदुत्वकृत 79
मुखलेपादृढं चक्षुः पीनो गण्डस्तथाऽननम
कान्तमव्यङ्गपिडकं भवेत्कमलसन्निभम 80
दीपनंवृष्यमायुष्यं स्नानमोजोबलप्रदम
कण्डूमलश्रमस्वेदतन्द्रा तृड्दाहपाप्मनुत 81
बाह्यैश्च सेकैः शीताद्यैरूष्माऽन्तर्याति पीडितः
नरस्य स्नानमात्रस्य दीप्यते तेन पावकः 82
शीतेन पयसा स्नानं रक्तपित्तप्रशान्तिकृत
तदेवोष्णेन तोयेन बल्यं वातकफापहम 83
शिरः स्नानमचक्षुष्यमत्युष्णेनाग्बुना सदा
वातश्लेष्मप्रकोपे तु हितं तच्च प्रकीर्त्तितम 84
अशीतेनाम्भसा स्नानं पयःपानं नवाःस्त्रियः
एतद्वो मानवाः पथ्यं स्निग्धमल्पं च भोजनम 85
यः सदाऽमलकैः स्नानं करोति स विनिश्चितम
बलीपलितनिर्मुक्तो जीवेद्वर्षशतं नरः 86
स्नानं ज्वरेऽतिसारे च नेत्रकर्णानिलार्तिषु
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम 87
स्नानस्यानन्तरं सम्यग्वस्त्रेणाङ्गस्य मार्जनम
कान्तिप्रदं शरीरस्य कण्डूत्वग्दोषनाशनम 88
कौशेयौर्णिकवस्त्रं च रक्तवस्त्रं तथैव च
वातश्लेष्महरं तत्तु शीतकाले विधारयेत 89
मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते
तद्धारयेदुष्णकाले तत्रापि लघु शस्यते 90
शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम
न चोष्णं न च वा शीतं तत्तुवर्षासु धारयेत 91
यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्धनम
त्वच्यं वशीकरं रुच्यं नवनिर्मलमम्बरम 92
कदाऽपि न जनैः सद्भिर्धार्यं मलिनमम्बरम
तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम 93
कुङ्कुमं चन्दनं चापि कृष्णागुरु च मिश्रितम
उष्णं वातकफध्वंसि शीतकाले तदिष्यते 94
चन्दनं घनसारेण बालकेन च मिश्रितम
सुगन्धि परमं शीतमुष्णकाले प्रशस्यते 95
चन्दनं घुसृणोपेतं मृगनाभिसमायुतम
न चोष्णं न च वा शीतं वर्षाकाले तदिष्यते 96
अनुलेपस्तृषामूर्च्छादुर्गन्धस्वेददाहजित
सौभाग्यतेजस्त्वग्वर्णप्रीत्यौजोबलवर्धनः
स स्नानानर्हलोकानाममुलेपोऽपि नो हितः 97
सुगन्धिपुष्पपत्राणां धारणं कान्तिकारकम
पापरक्षोग्रहहरं कामदं श्रीविवर्द्धनम 98
भूषणैर्भूषयेदङ्गं यथायोग्यं विधानतः
शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम 99
ग्रहदृष्टिहरं पुष्टिकरं दुःस्वप्ननाशनम
पापदौर्भाग्यशमनं रत्नाभरणधारणम 100
माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगो
र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम
देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शने
र्नीलं निर्मलमन्ययोश्च गदिते गोमेदवैदूर्यके 101
वासःशृङ्गाररत्नानां धारणं प्रीतिबर्धकम
रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम 102
सततं सिद्धमन्त्रस्य महौषध्यास्तथैव च
रोचनासर्षपादीनां मङ्गल्यानां च धारणम 103
आयुर्लक्ष्मीकरं रक्षोहरं मङ्गलदं शुभम
हिंस्नादिभयविध्वंसि वशीकरणकारणम 104
ततो भोजनवेलायां कुर्यान्मङ्गल्यदर्शनम
तस्य प्रदर्शनं नित्यमायुर्धर्मविवर्धनम 105
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः
पुष्पस्रक्सर्पिरादित्य आपो राजा तथाऽष्टमः 106
पादुकाधारणं कुर्यात्पूर्वं भोजनतः परम
पादरोगहरं वृष्यं चक्षुष्यं चायुषो हितम 107
शरीरे जायते नित्यं वाञ्छा नॄणां चतुर्विधः
बुभुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा 108
भोजनेच्छाविघातात्स्यादङ्गमर्दोऽरुचिः श्रमः
तन्द्रा  लोचनदौर्बल्य धातुदाहो बलक्षयः 109
विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत
श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा 110
निद्रा विघाततो जृम्भा शिरोलोचनगौरवम
अङ्गमर्दस्तथा तन्द्रा  स्यादन्नापाक एव च 111
बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात
मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः 112
आहारं पचति शिखी दोषानाहारवर्जितः
पचेद् दोषक्षये धातून्प्राणान्धातुक्षयेऽपि च 113
आहारः प्रीणनः सद्यो बलकृद् देहधारणः
स्मृत्यायुःशक्तिवर्णौजःसत्त्वशोभाविवर्धनः 114
यथोक्तगुणसम्पन्नं नरः सेवेत भोजनम
विचार्य दोषकालादीन्कालयोरुभयोरपि 115
सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः 116
याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत
याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः 117
क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च
काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः 118
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम 119
आहारं तु रहः कुर्यान्निर्हारमपि सर्वदा
उभाभ्यां लक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया 120
आहारनिर्हारविहारयोगाः सदैव सद्भिर्विजने विधेयाः 121
पितृमातृसुहृद्वैद्यपाककृद्धंसबर्हिणाम
सारसस्य चकोरस्य भोजने दृष्टिरुत्तमा 122
दीनहीनक्षुधाऽत्तानां पापपाषण्डरोगिणाम
कुक्कुटादेः शुनो दृष्टिर्भोजने नैव शोभना 123
दोषहृद् दृष्टिदं पथ्यं हैमं भोजनभाजनम
रौप्यं भवति चक्षुष्यं पित्तहृत्कफवातकृत 124
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम
पैत्तलं वातकृद्रू क्षमुष्णं कृमिकफप्रणुत 125
आयसे काचपात्रे च भोजनं सिद्धिकारकम
शोथपाण्डुहरं बल्यं कामलाऽपहमुत्तमम 126
शैलेये मृण्मये पात्रे भोजनं श्रीनिवारणम
दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च
पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत 127
जलपात्रं तु ताम्रस्य तदभावे मृदो हितम 128
पवित्रं शीतलं पात्रं रचितं स्फटिकेन यत
काचेन रचितं तद्वत्तथा वैदूर्यसम्भवम 129
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम 130
अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः
इति सञ्चिन्त्य भुञ्जानं दृष्टिदोषो न बाधते 131
अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम
दृष्टिदोषविनाशाय हनुमन्तं स्मराम्यहम 132
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान 133
फलान्यादौ समश्नीयाद्दाडिमादीनि बुद्धिमान
विना मोचफलं तद्वद्वर्जनीया च कर्कटी 134
मृणालबिसशालूककन्देक्षुप्रभृतीनपि
पूर्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन 135
गुरु पिष्टमयं द्र व्यं तण्डुलान्पृथुकानपि
न जातु भुक्तवान्खादेन्मात्रां खादेद्बुभुक्षितः 136
घृतपूर्वं समश्नीयात्कठिनं प्राक् ततो मृदु
अन्ते पुनर्द्र वाशी तु बलाद्रो गेण मुञ्चति 137
यद्यत्स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम
भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम 138
सौमनस्यं बलं पुष्टिमुत्साहं वृद्धिमायुषः
स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम 139
अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम
अतिक्लिन्नं ग्लानिकरं युक्तियुक्तं हि भोजनम 140
अतिद्रुताशिताहारे गुणान्दोषान्न विन्दति
भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः 141
मन्दानलो नरो द्र व्यं मात्रागुरु विवर्जयेत
स्वभावतश्च गुरु यत्तथा संस्कारतो गुरु 142
मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः
संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम 143
आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च
भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम 144
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते
द्र वो द्र वोत्तरश्चापि न मात्रागुरुरिष्यते 145
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति 146
शुष्कं निरुद्धं विष्टम्भि वह्निव्यापादकृद्भवेत 147
न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून
न जलान्तरितानद्भिः सक्तूनद्यान्न केवलान 148
पुनर्दानं पृथक्पानं सामिषं पयसा निशि
सदन्तच्छेदमुष्णं च सप्त सक्तुषु वर्जयेत 149
सक्तूनामाशु जीर्येत मृदुत्वादवलेहिका 150
यथाकालेऽतिमात्रं यत तद्भवेद्विषमाशनम
बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम 151
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम
हीनमात्रं तनोःकार्श्यं करोति च बलक्षयम 152
अप्राप्तकाले भुञ्जानो ह्यसमर्थतनुर्नरः
तांस्तान् व्याधीनवाप्नोति मरणं चाधिगच्छति 153
कालेतीतेश्नतो जन्तोर्वायुनोपहतेऽनले
कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा 154
कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत
वायोः सञ्चारणार्थाय चतुर्थमवशेषयेत 155
रसेनान्नस्य रसना प्रथमेनोपतर्पिता
न तथा स्वादमाप्नोति ततः शोध्याम्बुनान्तरा 156
अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः
तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि 157
भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत
मध्येऽग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम 158
समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः 159
तृषितस्तु न चाश्नीयात्क्षुधितो न पिबेज्जलम
तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी 160
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान 161
दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्धनम
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम 162
विदाहीन्यन्नपानानि यानि भुंङ्क्ते हि मानवः
तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत 163
कुर्यात्क्षीरान्तमाहारं न दध्यन्तं कदाचन
लवणाम्लकटूष्णानि विदाहीन्यत्ति यानि तु
तद्दोषं हर्तुमाहारं मधुरेण समापयेत 164
बलवच्छत्रुविनाशनेन शत्रुहन्तुः क्षीणता च दृश्यते तथा च
नाशनात्प्रत्यनीकस्य स्वयं च क्षीयते यथा
वह्निसन्तप्तलोहस्य तप्ततां नाशयेज्जलम 165
ननु भोजनावसानसमये प्रयुक्ताः कटुतिक्तकषायरसाः कफं
शमयिष्यन्ति वातस्य वृद्धिं विधास्यन्तीति चेतै तन्न
कट्वादीनां क्षीणशक्तित्वात्  तथा च
यदेकं नाशयेद्दोषं तदन्यं वर्धयेत्कुतः
नाशने ह्येकदोषस्य यतस्तत्क्षीणशक्तिकम 166
जग्धाः सर्वेऽपि गच्छन्ति बलिनो वश्यतां रसाः
यथा प्रकुपिता दोषा वशं यान्ति बलीयसः 167
एवं भुक्त्वा समाचामेद्रू क्षग्रहणपूर्वकम
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत 168
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम 169
दन्तलग्नमनिर्हार्यं लेपं मन्येत दन्तवत
न तत्र बहुशः कुर्याद्यत्नं निर्हरणं प्रति 170
आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत
भिउ!क्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
अचिरेणैव तद्वारि तिमिराणि व्यपोहति 171
भुक्त्वा च संस्मरेन्नित्यमगस्त्यादीन्सुखावहान 172
विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा
सत्येन तेन मद्भुक्तं जीर्यत्वन्नमिदं तथा 173
अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं जरयन्त्वशेषम
सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहम 174
अङ्गारकमगस्तिं च पावकं सूर्यमश्विनौ
पञ्चैतान्संस्मरेन्नित्यं भुक्तं तस्याशु जीर्यति 175
इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम
अनायासप्रदायीनि कुर्यात्कर्माण्यतन्द्रि तः 176
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेधते
भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि 177
धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः
पूगैः कर्पूरकस्तूरीलवंगसुमनः फलैः 178
फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः 179
रतौ सुप्तोत्थिते स्नाते भुक्तेवान्ते च संगरे
सभायां विदुषां राज्ञां कुर्यात्ताम्बूलचर्वणम 180
ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनं तुवरं सरम
तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु 181
वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम 182
हनुदन्तमलध्वंसि जिह्वेन्द्रि यविशोधनम
मुखप्रसेकशमनं गलामयविनाशनम 183
नवं तदेव मधुरं कषायानुरसं गुरु
बलासजननंप्रायः पत्रशाकगुणं स्मृतम 184
वङ्गदेशोद्भवं पर्णं परं कटुरसं सरम
पाचनं पित्तजनकमुष्णं कफहरं स्मृतम 185
पर्णं पुराणमकटु क्षुल्लकं तनु पाण्डुरम
विशेषाद्गुणवद्वेद्यमन्वद्धीनगुणं स्मृतम 186
पूगं गुरु हिमं रूक्षं कषायं कफपित्तनुत
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम 187
पूगं स्यात दृढमध्यं यत्स्विन्नं वाऽपि त्रिदोषनुत
सरसङ्गुर्वभिष्यन्दि तद भृशं वह्निनाशनम 188
खदिरं कफपित्तघ्नश्चूर्णं वातबलासनुत
संयोगतस्त्रिदोषघ्नं सौमनस्यं करोति च 189
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम
प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा
निशासु चूर्णमधिकं ताम्बूलं भक्षयेत्सदा 190
आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता
तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत 191
पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः
पर्णमध्यं हरत्यायुः शिरा बुद्धि विनाशिनी 192
आद्यं विषोपमं पीतं द्वितीयं भेदि दुर्जरम
तृतीयादनुपातव्यं सुधातुल्यं रसायनम 193
ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः 194
देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः
शोषः पित्तानिलास्रं स्यादतिताम्बूलचर्वणात 195
ताम्बूलं न हितं दन्तदुर्बलेक्षणरोगिणाम
विषमूर्च्छामदार्त्तानां क्षयिणां रक्तपित्तिनाम 196
भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते
अन्नसंघातशैथिल्यं ग्रीवाजानुकटीषु च 197
भुक्त्वोपविशतस्तन्द्रा  शयानस्य तु पुष्टता
आयुश्च्रंकममाणस्य मृत्युर्धावति धावतः 198
श्वासानष्टौ समुत्तानस्तान् द्विःपार्श्वे तु दक्षिणे
ततस्तद्द्विगुणान्वामे पश्चात्स्वप्याद्यथासुखम 199
वामदिशायामनलो नाभेरूर्ध्वेऽस्ति जन्तूनाम
तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम 200
त्रिदोषशमनी षट्वा तूली वातकफापहा
भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला 201
भूशय्या वातलाऽतीवरूक्षा पित्तास्रनाशिनी
सुशय्याशयनं हृद्यं पुष्टिनिद्रा धृतिप्रदम
श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा 202
संवाहनं मांसरक्तत्वक्प्रसादकरं परम
प्रीतिनिद्रा करं वृष्यं कफवातश्रमापहम 203
प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत
स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा 204
सुखं प्रवातं सेवेत ग्रीष्मे शरदि चान्तरा
निर्वातमायुषे सेव्यमारोग्याय च सर्वदा 205
पूर्वाऽनिलो गुरुः सोष्णः स्निग्धः पित्तास्नदूषकः
विदाही वातलः श्रान्तिकफशोषवतां हितः 206
स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविषकृमीन
सन्निपातं ज्वरं श्वासमामवातं च कोपयेत 207
दक्षिणः पवनः स्वादुः पित्तरक्तहरो लघुः
वीर्येण शीतलो बल्यश्चक्षुष्यो न तु वातलः 208
पश्चिमः पवनस्तीक्ष्णः शोषणो बलहृल्लघुः
मेदः पित्तकफध्वंसी प्रभञ्जनविवर्धनः 209
उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोपकृत
क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः 210
आग्नेयो दाहकृद्रू क्षो नैरृतो न विदाहकृत
वायव्यस्तु भवेत्तिक्त एशानः कटुकः स्मृतः 211
विष्वग्वायुरनायुष्यः प्राणिनां बहुरोगकृत
अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे 212
व्यजनस्यानिलो दाहस्वेदमूर्च्छाश्रमापहः
तालवृन्तभवो वातस्त्रिदोषशमको मतः 213
वंशब्यजनजस्तूष्णो रक्तपित्तप्रकोपणः
चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा 214
पूते दोषजिता वाताः स्निग्धाः हृद्याः सुपूजिताः 215
दिवा स्वापं न कुर्वीत यतोसौ स्यात्कफावहः
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नो निषिध्यते 216
उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम
वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा 217
व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः
शूलश्वासवतस्तृषापरिगतान् हिक्कामरुत्पीडितान्
क्षीणान् क्षीणकफाञ्छिशून्मदहतान्वृद्धान् रसाजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत 218
दिवा वा यदि वा रात्रौ निद्रा  सात्मीकृता तु यैः
न तेषां स्वपतां दोषो जाग्रतां चोपजायते 219
भोजनानन्तरं निद्रा  वातं हरति पित्तहृत
कफं करोति वपुषः पुष्टिं सौख्यं तनोति हि 220
शयनं पित्तनाशाय वातनाशाय मर्दनम
वमनं कफनाशाय ज्वरनाशाय लङ्घनम 221
आसीनं घूर्णितं यत्तु नाभिष्यन्दि न रूक्षणम 222
शब्दान् स्पर्शांश्च रूपाणि रसान्गन्धान्मनःप्रियान
भुक्तवानपि सेवेत तेनान्नं साधु तिष्ठति 223
शब्दः स्पर्शस्तथा रूपं रसो गन्धो जुगुप्सितः
भुक्तमप्रयतं चान्नमतिहास्यं च वामयेत 224
शयनं चाशनं चाति न भजेन्न द्र वाधिकम
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम 225
व्यायामं च व्यवायं च धावनं यानमेव च
युंद्धं गीतं च पाठं च मुहूर्त्तं भुक्तवांस्त्यजेत 226
अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य 227
ईर्ष्याभय क्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन
विद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति 228
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते 229
प्राग्भुक्ते चानले मन्दे द्विरह्नि न समाहरेत 230
पूर्व भुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम 231
सायमाशे त्वजीर्णे तु प्रातर्भुक्तं विषोपमम 232
भवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम
विचूर्णितां शीतजलेन भुक्त्वा भुञ्जीत चान्नं मितमन्नकाले 233
आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम
अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः 234
आस्या वर्णकफस्थौल्यसौकुमार्यसुखप्रदा
अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः 235
यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत
तदायुर्बलमेधाऽग्निप्रदमिन्द्रि यबोधनम 236
उष्णीषं कान्तिकृत्केश्यं रजोवातकफापहम
लघु यच्छस्यते तस्माद् गुरु पित्ताक्षिरोगकृत 237
उपानद्धारणं नेत्र्! यमायुष्यं पादरोगहृत
सुखप्रचारमोजस्यं वृष्यं च परिकीर्तितम 238
पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम
अनारोग्यमनायुष्यमिन्द्रि यघ्नमदृष्टिदम 239
छत्रस्य धारणं वर्षातपवातरजोऽपहम
हिमघ्नं हितमक्ष्णोश्च मङ्गल्यमपि कीर्त्तितम 240
सत्त्वोत्साहवलस्थैर्यधैर्यतेजोविवर्धनम
अवष्टम्भकरं चापि भयघ्नं दण्डधारणम 241
ऊर्ध्वाच्छादनसंयुक्ता शिबिका सर्ववल्लभा
तस्यामारोहणं नॄणां त्रिदोषशमकं मतम 242
वातश्लेष्मगदार्त्तानामहिता भ्रमकृत्तरिः
पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टिवर्द्धनः 243
घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम
मेदोवर्णकफघ्नं च हितं तद्वलिनां परम 244
आतपः स्वेदमूर्च्छाऽस्रपित्ततृष्णाक्लमश्रमान
दाहं विवर्णतां कुर्यादेतांश्छाया व्यपोहति 245
वृष्टिर्वृष्या हिमा बल्या निद्रा ऽलस्यविधायिनी
भयावहा मोहकरी कुहेलि कफवातला 246
अग्निर्वातकफस्तम्भशीतवेपथुनाशनः
आमाभिष्यन्दशमनो रक्तपित्तप्रकोपणः 247
सद्यः श्लेष्मकरो धूमो नेत्रयोरहितो भृशम
शिरोगौरवकृच्चापि वातपित्तं च कोपयेत 248
मैत्री सद्भिः समं कुर्यात्स्नेहं सत्सु तु सर्वथा
संसर्गं साधुभिः कुर्यादसत्सङ्गं परित्यजेत 249
सेवेत देवभूदेववृद्धवैद्यनृपातिथीन
विमुखान्नार्थिनः कुर्यान्नावमन्येत कानपि 250
गुरूणां सन्निधौ तिष्ठेत्सदैव विनयान्वितः
पादप्रसारणादीनि तत्र नैव समाचरेत 251
अपकारपरेऽपि स्यादुपकारपरः पुमान
आत्मवत्सकलान्पश्येद्वैरिणो दूरतो वसेत 252
न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रि पुम
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः 253
नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम
तथा नाज्ञातगाम्भीर्यं न हिंस्रप्राणिसेवितम 254
काले हितं मितं सत्यं संवादि मधुरं वदेत
भुञ्जीत मधुरप्रायं स्निग्धं काले हितं मितम 255
न रात्रौ दधि भुञ्जीत न च निर्लवणं तथा
नामुद्गसूपं नाक्षौद्रं  न चाप्यघृतशर्करम 256
जनस्याशयमालक्ष्य यो यथा परितुष्यति
तं तथैवानुवर्तेत पराराधनपण्डितः 257
नैकः सुखी न सर्वत्र विश्वस्तो न च शङ्कितः
नोद्यमेविरमेत्क्वापि हेतावीर्ष्येत्फले न तु 258
वेगान्न धारयेज्जातु मनोवेगान्विधारयेत
न पीडयेदिन्द्रि याणि न चैतान्यतिलालयेत 259
वर्षाऽतपादिषु च्छत्री दण्डी रात्रौ भयेषु च
सोपानत्कस्तनुं रक्षेद्विचरेद्युगमात्रदृक 260
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत
सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानकम 261
नासंवृतमुखः कुर्यात्सभायां च विचक्षणः
कासं हासं तथोद्गारं जृम्भणं क्षवथुं तथा 262
नासिकां न विकुष्णीयान्नासीतोत्कटकः क्वचित्
नोर्ध्वजानुश्चिरं तिष्ठेन्न नखेन लिखेद्भुवम 263
सम्मार्जनीरजो नैव देहे दद्यात्कदाचन
न नखेन तृणं छिन्द्यान्नोच्छिष्टो ब्राह्मणं स्पृशेत 264
नोपरक्तं न चोद्यन्तं नास्तं यातं दिवाकरम
सर्वथा न समीक्षेत न जले प्रतिबिम्बितम 265
नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च
पौरन्दरं धनुर्नैव दर्शयेत्कमपि क्वचित 266
नेच्छेद्बलवता युद्धं न भारं शिरसा वहेत
गात्रं न वादयेत्केशान्हस्तेन धुनुयान्न च 267
न गच्छेत्पूज्ययोर्मध्ये दम्पत्योरन्तरेण च
रिपोरन्नं न भुञ्जीत गणिकाऽन्नमपि क्वचित 268
प्रतिभूर्न भवेत्क्वापि न च साक्षी वृथा भवेत 269
स्थागं न धारयेज्जातु द्यूतं दूरात्परित्यजेत 270
विश्वासं नाचरेत्स्त्रीणां ताः स्वतंत्रा न चारयेत
रक्षणीयाः सदा यत्नाद्यौवने तु विशेषतः 271
न भिन्ने शयने स्वप्यान्नानेकविवरेऽपि च
नैको देवालये नैव रात्रौ तरुतलेऽपि च 272
एवं दिनानि गमयेत्सदाचारपरः सदा
ततो रात्रिप्रयुक्तानि कुर्यात्कर्माणि मानवः 273
इत्याचारं समासेन भाषितं यः समाचरेत
स विंदत्यायुरारोग्यं प्रीतिं धर्मं धनं यशः 274
एतानि पञ्च कर्माणि सन्ध्यायां वर्जयेद् बुधः
आहारं मैथुनं निद्रा ं! संपाठं गतिमध्वनि 275
भोजनाज्जायते व्याधिर्मैथुनाद्गर्भवैकृतिः
निद्रया निःस्वता पाठादायुर्हानिर्गतेर्भयम 276
ज्योत्स्ना शीता स्मरानन्दप्रदा तृट्पित्तदाहहृत्
ततो हीनगुणः कुर्यादवश्यायोऽनिलं कफम 277
तमो भयावहं मोहदिङ्मोहजनकं भवेत
पित्तहृत्कफहृत्कामवर्धनं क्लमकृच्च तत 278
रात्रौ च भोजनं कुर्यात्प्रथमप्रहरान्तरे
किञ्चिदूनं समश्नीयाद् दुर्जरं तत्र वर्जयेत 279
शरीरे जायते नित्यं देहिनः सुरतस्पृहा
अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनोः 280
बालेति गीयते नारी यावद्वर्षाणि षोडश
ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि 281
तदूर्ध्वमधिरुढा स्यात्पञ्चाशद्वत्सरावधि
वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्जिता 282
निदाघशरदोर्वाला हिता विषयिणां मता
तरुणी शीतसमये प्रौढा वर्षावसन्तयोः 283
नित्यं बाला सेव्यमाना नित्यं वर्धयते वलम
तरुणी ह्रासयेच्छक्तिं प्रौढोद्भावयते जराम् 284
सद्यो मांसं नवं चान्नं वाला स्त्री क्षीरभोजनम
घृतमुष्णोदके स्नानं सद्यः प्राणकराणिषट 285
पूतिमांसं स्त्रियो वृद्धा बालाऽकस्तरुणं दधि
प्रभाते मैथुनं निद्रा  सद्यः प्राणहराणि षट 286
वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात
वयोधिकां स्त्रियं गत्वा तरुणः स्थविरायते 287
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः 288
सेवेत कामतः कामं बलाद्वाजीकृतो हिमे
प्रकामं तु निषेवेत मैथुनं शिशिरागमे 289
त्र्! यहाद्वसन्तशरदोः पक्षाद् वृष्टिनिदाघयोः 290
त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः
सर्वेष्वृतुषु घर्मे तु पक्षात्पक्षाद् व्रजेद बुधः 291
शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवा निशि
वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः 292
उपेयात्पुरुषो नारीं संध्ययोर्न च पर्वसु
गोसर्गे चार्द्धरात्रे च तथा मध्यदिनेऽपि च 293
विहारं भार्यया कुर्याद् देशेऽतिशयसंवृते
रम्ये श्राव्याङ्गनागाने सुगन्धे सुखमारुते 294
देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे
श्रूयमाणे व्यथाहेतुवचने न रमेत ना 295
स्नातचन्दनलिप्ताङ्गः सुगन्धः सुमनोऽन्वितः
भुक्तवृष्यः सुवसनः सुवेषः समलंकृतः 296
ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे 297
अत्याशितोऽधृतिः क्षुद्वान्सव्यथाङ्गः पिपासितः
बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रोगी च मैथुनम 298
भार्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम
अतिकामोऽभिकामां तु हृष्टो हृष्टामलंकृताम
सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः 299
रजस्वलामकामां च मलिनामप्रियां तथा 300
वर्णबृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम 301
सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि
नाधिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया 302
रजस्वलां गतवतो नरस्यासंयतात्मनः
दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत 303
लिगिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु
वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः 304
गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः 305
हीनाङ्गीं मलिनां द्वेष्यां क्षामां वन्ध्यामसंवृते
देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत 306
क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः
स्थितस्य हानिं शुक्रस्य वायोः कोपं च विन्दति 307
व्याधितस्य रुजा प्लीहा मूर्च्छा मृत्युश्च जायते
प्रत्यूषे चार्धरात्रे च वातपित्ते प्रक्प्यतः 308
तिर्यग्योनावयोनौ वा दुष्टयोनौ तथैव च
उपदंशस्तथा वायोः कोपः शुक्रसुखक्षयः 309
उच्चारिते मूत्रिते च रेतसश्च विधारणे
उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु सम्भवः 310
सर्वमेतत्त्यजेत्तस्माद्यतो लोकद्वयाहितम
शुक्रं तूपस्थितं मोहान्न सन्धार्यं कदा चन 311
स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम
वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी 312
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः 313
रोत्रौ जागरणं रूक्षं कफदोषविषार्तिजित
निद्रा  तु सेविताकाले धातुसाम्यमतन्द्रि ताम 314
पुष्टिं वर्णं बलोत्साहं वह्निदीप्तिं करोति हि 315
यो लेढि शयनसमये मधुमिश्रं बीजपूरदलचूर्णम
स तु लज्जाकरवातप्रसरनिरोधात्सुखं स्वपिति 316
सवितुः समुदयकाले प्रसृतीः सलिलस्य यः पिबेदष्टौ
रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम 317
अर्शःशोथग्रहण्यो ज्वरजठरजराकुष्ठमेदोविकाराः
मूत्राघातास्रपित्तश्रवणगलशिरःश्रोणिशूलाक्षिरोगाः
ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तो
स्तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः 318
विगतघननिशीथे प्रातरुत्थाय नित्यं पिबति खलु नरो यो घ्राणरन्ध्रेण वारि
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो वलिपलितविहीनः सर्वरोगैर्विमुक्तः 319
पातव्यं नासया नीरं प्रसृतित्रयमात्रया 320
व्यङ्गवलीपलितघ्नंपीनसवैस्वर्यकासशोथहरम
रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिसञ्जननम 321
स्नेहे पीते क्षते शुद्धावाध्माने स्तिमितोदरे
हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत 322
क्षयकोपशमा यस्मिन्दोषाणां सम्भवन्ति हि
ऋतुषट्कं तदाख्यातं रवेः राशिषु संक्रमात 323
ग्रीष्मो मेषबृषौ प्रोक्तः प्रावृण्मिथुनकर्कटौ
सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत 324
धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनयोः 325
शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमाः
माघादिमासयुग्मं स्युरृतवः षट क्रमादमी 326
गङ्गाया दक्षिणे देशे वृष्टेर्बहुलभावतः
उभौ मुनिभिराख्यातौ प्रावृड्वर्षाभिधावृतू 327
तिस्याएवोत्तरेदेशे हिमप्रचुरभावतः
एतावुभौ समाख्यातौ हेमन्तशिशिरावृतू 328
उत्तरायणमाद्यैस्तैः परैः स्याद्दक्षिणायनम
आद्यमुष्णं बलहरं ततोऽन्यद्बलदं हिमम 329
हेमन्तं शीतलः स्निग्धः स्वादुर्जठरवह्निकृत
शिशिरः शीतलोऽतीव रूक्षो वाताग्निवर्धनः 330
वसन्तो मधुरः स्निग्धः श्लेष्मवृद्धिकरश्च सः
ग्रीष्मो रूक्षोऽतिकटुकः पित्तकृत्कफनाशनः 331
वर्षाः शीता विदाहिन्यो वह्निमान्द्यानिलप्रदाः
शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा 332
चयप्रकोपोपशमा वायोर्ग्रीष्मादिषु त्रिषु
वर्षाऽदिषु च पित्तस्य श्लेष्मणः शिशिरादिषु 333
चीयते लघुरूक्षाभिरोषधीभिः समीरणः
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति 334
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः 335
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः
तुल्ये च काले देहे च स्कन्नत्वान्न प्रकुप्यति 336
हिमे याति शमं पित्तं वायुः श्लेष्मा च चीयते
स वायुः शिशिरे कोपं यात्येवोपचितः कफः 337
हेमन्ते सञ्चितः श्लेष्मा शिशिरे त्वतिचीयते
शीतस्निग्धगुरुद्र व्यैः शैत्यस्कन्नो न कुप्यति 338
इति कालस्वभावोऽयमाहारादिवशात्पुनः
चयादीन् यान्ति सद्योऽपि दोषाः काले विशेषतः 339
चयकोपमशमान्दोषा विहाराहारसेवनैः
समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्ययम 340
स्वस्थानस्थस्य दोषस्य वृद्धिः स्यात्स्तब्धकोषता
पीतावभासता वह्निमन्दता चाङ्गगौरवम 341
आलस्यं चयहेतौ तु द्वेषश्च चयलक्षणम
सञ्चये ऽपहृता दोषा लभन्ते नोत्तरां गतिम 342
ते तूत्तरासु गतिषु भवन्ति बलवत्तराः 343
वर्षासुप्रबलो वायुस्तस्मान्मिष्टादयस्त्रयः
रसाः सेव्या विशेषेण पवनस्योपशान्तये 344
भवेद्वर्षासु वपुषः क्लिन्नत्वं यद्विशेषतः
तत्क्लेदशान्तये सेव्या अपि कट्वादयस्त्रयः 345
स्वेदनं मर्दनं सेव्यं दध्युष्णंजाङ्गलामिषम
शालयो यवगोधूमा जलं कौपं जलं च्युतम 346
न भजेत्पूर्वपवनं वृष्टिं घर्मं हिमं श्रमम
नदीतीरं दिवास्वप्नं रूक्षं नित्यं च मैथुनम 347
सर्पिः स्वादुकषायतिक्तकरसा यच्छीतलं यल्लघु
क्षीरं स्वच्छसितैक्षवः पटुरसः स्वल्पं पलं जाङ्गलम
गोधूमा यवमुद्गशालिसहिता नादेयमंशूदकं
चन्द्र श्चन्दनमिन्दुरादिरजनी माल्यं पटो निर्मलः 348
दिविसेऽककरैर्जुष्टं निशि शीतकरांशुभिः
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम
विश्रामः सुहृदां गणेषु मधुरा वाचः सरः क्रीडनं
पित्तानां च विरेचनं बलवतो युक्तं शिरामोक्षणम
एतान्यत्र घनावसानसमयेपथ्यानिऐ !
मुञ्चेद्दधिव्यायामाम्लकटूष्णतीक्ष्ण दिवसस्वप्नं हिमञ्चातपम 349
इक्षवः शालयो मुद्गाः सरोऽम्भ क्वथितं पयः
शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः 350
प्रातर्भोजनमम्लमिष्टलवणानभ्यङ्गघर्मश्रमान
गोधूमैक्षवशालिमाषपिशितं पिष्टं नवान्नं तिलान
कस्तूरीं वरकुङ्कुमागुरुयुतामुष्णाम्बुशौचं
तथौ स्निग्धं स्त्रीषु सुखं गुरूष्णवसनं सेवेत हेमन्तके 351
शिशिरे शीतमधिकं रौक्ष्यं चादानकालजम
विशेषतस्ततस्तत्र हेमन्तस्य मतो विधिः 352
वान्तिं नस्यमथाभयां च मधुना व्यायाममुद्वर्त्तनं
संसेवेत मधौ कफघ्नकवलं शूल्यं पलं जाङ्गलम
गोधूमान्बहुशालिभेदसहितान्मुद्गान्यवान्षष्टिकां
ल्लेपञ्चन्दनकुङ्कुमागुरुकृतं रूक्षं कटूष्णं लघु 353
मिष्टमम्लं दधिस्निग्धं दिवास्वप्नं च दुर्जरम
अवश्यायमपि प्राज्ञो वसन्ते परिवर्जयेत 354
स्वादुस्निग्धहिमं लघु द्र वमयं द्रव्यं रसालां सितां-
सक्तुंक्षीरमजाङ्गलानि सितया शालि रसं मांसजम
शीतांशुं शयनं दिवा मलयजं शीतं पयः पानकं
सेवेतोष्णदिने त्यजेत्तु कटुकक्षाराम्लघर्मश्रमान 355
ॠतुष्वेषु य एतैस्तु विधिभिर्वर्त्तते नरः
दोषानृतुकृतान्नैव लभते स कदाचन 356

इति श्रीलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे 
दिनचर्यादिप्रकरणं पञ्चमम् 5
Related Posts Plugin for WordPress, Blogger...

Follow by Email