Sunday 12 July 2015

अथ वारिवर्गः

पानीयं सलिलं नीरं कीलालं जलमम्बु च
आपो वार्वारि कं तोयं पयः पाथस्तथोदकम
जीवनं वनमम्भोऽणोऽमृतं घनरसोऽपि च 1

पानीयं श्रमनाशनं क्लमहरं मूर्च्छापिपासापहं
तन्द्रा च्छर्दिविबन्धहृद्बलकरं निद्रा हरं तर्पणम
हृद्यं गुप्तरसं ह्यजीर्णशमकं नित्यं हितं शीतलं
लघ्वच्छं रसकारणं निगदितं पीयूषवज्जीवनम 2

पानीयं मुनिभिः प्रोक्तं दिव्यं भौममिति द्विधा 3

दिव्यं चतुर्विधं प्रोक्तं धाराजं करकाभवम
तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम 4

धाराभिः पतितं तोयं गृहीतं स्फीतवाससा
शिलायां वसुधायां वा धौतायां पतितञ्च तत 5

सौवर्णे राजते ताम्रे स्फाटिके काचनिर्मिते
भाजने मृण्मये वाऽपि स्थापितं धारमुच्यते 6

धारं नीरं त्रिदोषघ्नमनिर्देश्यरसं लघु
सौम्यं रसायनं बल्यं तर्पणं ह्लादि जीवनम 7

पाचनं मतिकृन्मूर्च्छातन्द्रा दाहश्रमक्लमान
तृष्णां हरति तत पथ्यं विशेषात्प्रावृषि स्मृत 8

धाराजलं च द्विविधं गाङ्गसामुद्र भेदतः 9
आकाशगङ्गासम्बन्धिजलमादाय दिग्गजाः

मेघैरन्तरिता वृष्टिं कुर्वन्तीति वचः सताम 10
गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः

सर्वथा तज्जलं ज्ञेयं तथैव चरके वचः 11

स्थापिते हेमजे पात्रे राजते मृण्मयेऽपि वा
शाल्यन्नं येन संसिक्तं भवेदक्लेदि वर्णवत 12

तद्गाङ्गं सर्वदोषघ्नं ज्ञेयं सामुद्र मन्यथा
तत्तु सक्षारलवणं शुक्रदृष्टिबलापहम 13

विस्रञ्च दोषलं तीक्ष्णं सर्वकर्मसु नो हितम
सामुद्रं  त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत 14

यतोऽगस्त्यस्य दिव्यर्षेरुदयात्सकलं जलम
निर्मलं निर्विषं स्वादु शुक्रलं स्याददोषलम 15

फूत्कारविषवातेन नागानां व्योमचारिणाम
वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना 16

अनार्त्तवं प्रमुञ्चन्ति वारि वारिधरास्तु यत
तत्त्रिदोषाय सर्वेषां देहिनां परिकीर्त्तितम 17

दिव्यवाय्वग्निसंयोगात् संहताः खात पतन्ति याः
पाषाणखण्डवच्चापस्ताः कारक्योऽमृतोपमाः 18

करकाजं जलं रूक्षं विशदं गुरु च स्थिरम
दारुणं शीतलं सान्द्रं  पित्तहृत्कफवातकृत 19

अपि नद्याः समुद्रान्ते वह्निरापस्तदुद्भवाः
धूमावयवनिर्मुक्तास्तुषाराख्यास्तु ताः स्मृताः 20

अपथ्याः प्राणिनां प्रायो भूरुहाणान्तु ता हिताः
तुषाराम्बु हिमं रूक्षं स्याद्वातलमपित्तलम
कफोरुस्तम्भकण्ठाग्निमेहगण्डादिरोगनुत 21

हिमवच्छिखरादिभ्यो द्रवीभूयाभिवर्षति
यत्तदेव हिमं हैमं जलमाहुर्मनीषिणः
हिमाम्बु शीतं पित्तघ्नं गुरु वातविवर्द्धनम 22

और्वानलधूमेरितमम्बु समुद्रस्य यद्घनीभूतम्
पवनानीतमुदीच्यां तद्धिममिति कथ्यते सद्भिः 23

हिमन्तु शीतलं रूक्षं दारुणं सूक्ष्ममित्यपि
न तद् दूषयते वातं न च पित्तं न वा कफम 24

भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः
जाङ्गलं परमानूपं ततः साधारणं क्रमात 25

अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः
ज्ञातव्यो जाङ्गलो देशस्तत्रत्यं जाङ्गलं जलम 26

वह्वम्बुर्बहुवृक्षश्च वातश्लेष्मामयान्वितः
देशोऽनूप इति ख्यात आनूपं तद्भवं जलम 27

मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः
तस्मिन्देशे यदुदकं तत्तु साधारणं स्मृतम 28

जाङ्गलं सलिलं रूक्षं लवणं लघु पित्तनुत
वह्निकृत्कफहृत्पथ्यं विकारान्हरते बहून 29

आनूपं वार्यभिष्यन्दि स्वादु स्निग्धं घनं गुरु
वह्निहृत्कफकृद्हृद्यं विकारान्कुरुते बहून 30

साधारणं तु मधुरं दीपनं शीतलं लघु
तर्पणं रोचनं तृष्णादाहदोषत्रयप्रणुत 31

नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम 32

नादेयमुदकं रूक्षं वातलं लघु दीपनम
अनभिष्यन्दि विशदं कटुकं कफपित्तनुत 33

नद्यः शीघ्रवहा लघ्व्यः सर्वा याश्चामलोदकाः
गुर्व्यः शैवलसंछन्ना मन्दगाः कलुषाश्च याः 34

हिमवत्प्रभवाः पथ्या नद्योऽश्माहतपाथसः
गङ्गाशतद्रुसरयूयमुनाऽद्या गुणोत्तमाः 35

सह्यशैलभवा नद्यो वेणागोदावरीमुखाः
कुर्वन्ति प्रायशः कुष्ठमीषद्वातकफावहाः 36

नदीसरस्तडागस्थे कूपप्रस्रवणादिजे
उदके देशभेदेन गुणान्दोषांश्च लक्षयेत 37

विदार्य भूमिं निम्नां यन्महत्या धारया स्रवेत
तत्तोयमौद्भिदं नाम वदन्तीति महर्षयः 38

औद्भिदं वारि पित्तघ्नमविदाह्यतिशीतलम
प्रीणनं मधुरं बल्यमीषद्वातकरं लघु 49

शैलसानुस्रवद्वारिप्रवाहो निर्झरो झरः
स तु प्रस्रवणश्चापि तत्रत्यं नैर्झरं जलम 40

नैर्झरं रुचिकृन्नीरं कफघ्नं दीपनं लघु
मधुरं कटुपाकं च वातलं स्यादपित्तलम 41

नद्याः शैलादिरुद्धायाः यत्र संस्रुत्य तिष्ठति
तत्सरो जलजच्छन्नं तदम्भः सारसं स्मृतम 42

सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु
रोचनं तुवरं रूक्षं बद्धमूत्रमलं स्मृतम 43

प्रशस्तभूमिभागस्थो बहुसंवत्सरोषितः
जलाशयस्तडागः स्यात्ताडागं तज्जलं स्मृतम 44

ताडागमुदकं स्वादु कषायं कटुपाकि च
वातलं बद्धविण्मूत्रमसृक्पित्तकफापहम 45

पाषाणैरिष्टकाभिर्वा बद्धः कूपो बृहत्तरः
ससोपानो भवेद्वापी तज्जलं वाप्यमुच्यते 46

वाप्यं वारि यदि क्षारं पित्तकृत्कफवातहृत
तदेव मिष्टं कफकृद्वातपित्तहरं भवेत 47

भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः
बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौपमुच्यते 48

कौपं पयो यदि स्वादु त्रिदोषघ्नं हितं लघु
तत्क्षारं कफवातघ्नं दीपनं पित्तकृत्परम 49

शिलाकीर्णं स्वयं श्वभ्रं नीलाञ्जनसमोदकम
लतावितानसंच्छन्नं चौञ्ज्यमित्यभिधीयते 50

अश्मादिभिरबद्धं यत्तच्चौञ्ज्यमिति वा परे
तत्रत्त्यमुदकं चौञ्ज्यं मुनिभिस्तदुदाहृतम 51

चौञ्ज्यं वह्निकरं नीरं रूक्षं कफहरं लघु
मधुरं पित्तनुद्रुच्यं पाचनं विशदं स्मृतम 52

अल्पं सरः पल्वलं स्याद्यत्र चन्द्रर्क्षगे रवौ 53

न तिष्ठति जलं किञ्चित्तत्रत्यं वारि पाल्वलम
पाल्वलं वार्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत 54

नद्यादिनिकटे भूमिर्या भवेद्वालुकामयी
उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः 55

विकिरं शीतलं स्वच्छं निर्दोषं लघु च स्मृतम
तुवरं स्वादु पित्तघ्नं क्षारं तर्त्पित्तलं मनाक 56

केदारः क्षेत्रमुद्दिष्टं कैदारं तज्जलं स्मृतम
कैदारं वार्यभिष्यन्दि मधुरं गुरु दोषकृत 57

वार्षिकं तदहर्वृष्टं भूमिस्थमहितं जलम
त्रिरात्रमुषितं तत्तु प्रसन्नममृतोपमम 58

हेमन्ते सारसं तोयं ताडागं वा हितं स्मृतम
हेमन्ते विहितं तोयं शिशिरेऽपि प्रशस्यते 59

वसन्तग्रीष्मयोः कौपं वाप्यं वा नैर्झरं जलम
नादेयं वारि नादेयं वसन्तग्रीष्मयोर्बुधैः 60

विषवद्वनवृक्षाणां पत्राद्यैर्दूषितं यतः
औद्भिदं वाऽन्तरिक्षं वा कौपं वा प्रावृषि स्मृतम
शस्तं शरदि नादेयं नीरमंशूदकं परम 61

दिवा रविकरैर्जुष्टं निशि शीतकरांशुभिः
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम 62

अनभिष्यन्दि निर्दोषमान्तरिक्षजलोपमम
बल्यं रसायनं मेध्यं शीतं लघु सुधासमम 63

शरदि स्वच्छमुदयादगस्त्यादखिलं हितम 64

पौषे वारि सरोजातं माघे तत्तु तडागजम
फाल्गुने कूपसम्भूतं चैत्रे चौञ्ज्यं हितम मतम 65

वैशाखे नैर्झरं नीरं ज्येष्ठे शस्तं तथौद्भिदम
आषाढे शस्यते कौपं श्रावणे दिव्यमेव च 66

भाद्रे  कौपं पयः शस्तमाश्विने चौञ्ज्यमेव च
कार्त्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते 67

भौमानामम्भसां प्रायो ग्रहणं प्रातरिष्यते
शीतत्वं निर्मलत्वञ्च यतस्तेषां मतो गुणः 68

अत्यम्बुपानान्न पिच्यतेऽन्न निरम्बुपानाच्च स एव दोषः
तस्मान्नरो वह्निविवर्द्धनाय मुहुर्मुहुर्वारि पिबेदभूरि 69

मूर्च्छापित्तोष्ण दाहेषु विषे रक्ते मदात्यये
श्रमे भ्रमे विदग्धेऽन्नेतमके वमथौ तथा
ऊर्ध्वगे रक्त पित्ते च शीतमम्भः प्रशस्यते 70

पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धौ नवज्वरे 71

अरुचिग्रहणीगुल्मश्वासकासेषु विद्रधौ
हिक्कायां स्नेहपाने च शीताम्बु परिवर्जयेत 72

अरोचके प्रतिश्याये मन्देऽग्नौ श्वयथौ क्षये
मुखप्रसेके जठरे कुष्ठे नेत्रामये ज्वरे
व्रणे च मधुमेहे च पिबेत्पानीयमल्पकम 73

जीवनं जीविनां जीवो जगत सर्वन्तु तन्मयम
नातोऽत्यन्तनिषेधेन कदाचिद्वारि वार्य्यते 74

तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी
तस्माद देयं तृषाऽत्ताय पानीयं प्राणधारणम 75

तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति
अतः सर्वास्ववस्थासु न क्वचिद्वारि वारयेत 76

अगन्धमव्यक्तरसं सुशीतं तर्षनाशनम
स्वच्छं लघु च हृद्यञ्च तोयं गुणवदुच्यते 77

पिच्छिलं कृमिलं क्लिन्नं वर्णशैवालकर्दमैः
विवर्णं विरसं सान्द्रं  दुर्गन्धं न हितं जलम 78

कलुषं छन्नमम्भोजपर्णनीलीतृणादिभिः
दुःस्पर्शनमसंस्पृष्टं सौरचान्द्र मरीचिभिः 79

अनार्त्तवं वार्षिकं तु प्रथमं तच्च भूमिगम
व्यापन्नं परिहर्त्तव्यं सर्वदोषप्रकोपणम 80

तत् कुर्यात्स्नानपानाभ्यां तृष्णाऽध्मानचिरज्वरान
कासाग्निमान्द्याभिष्यन्दकण्डूगण्डादिकं तथा 81

निन्दितं चापि पानीयं क्वथितं सूर्यतापितम
सुवर्णं रजतं लौहं पाषाणं सिकतामपि 82

भृशं सन्ताप्य निर्वाप्य सप्तधा साधितं तथा
कर्पूरजातिपुन्नागपाटलादिसुवासितम 83

शुचिसान्द्र पटस्रावि क्षुद्र जन्तुविवर्जितम
स्वच्छं कनकमुक्ताऽद्यै शुद्धं स्याद्दोषवर्जितम 84

पर्णमूलविसग्रन्थिमुक्ताकनकशैवलैः
गोमेदेन च वस्त्रेण कुर्य्यादम्बुप्रसादनम 85

पीतं जलं जीर्य्यति यामयुग्माद्यामैकमात्राच्छृतशीतलञ्च
तदर्धमात्रेण शृतं कदुष्णं पयःप्रपाके त्रय एव कालाः 86

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे
 मिश्रप्रकणे त्रयोदशो वारिवर्गः समाप्त 13

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।