Sunday 12 July 2015

अथ पुष्पवर्गः

वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम
सहस्रपत्रं कमलं शतपत्रं कुशेशयम 1

पङ्केरुहं तामरसं सारसं सरसीरुहम
बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च 2

कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित
तृष्णादाहास्रविस्फोटविषवीसर्पनाशनम 3

विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम
रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम 4

धवलं कमलं शीतं मधुरं कफपित्तजित
तस्मादल्पगुणं किञ्चिदन्यद्र क्तोत्पलादिकम 5

मूलनालदलोत्फुल्लफलैः समुदिता पुनः
पद्मिनी प्रोच्यते प्राज्ञैर्बिसिन्यादि च सा स्मृता 6

पद्मिनी शीतला गुर्वी मधुरा लवणा च सा
पित्तासृक्कफनुद्रू क्षा वातविष्टम्भकारिणी 7

संवर्त्तिका नवदलं बीजकोशस्तु कर्णिका
किञ्जल्कः केशरः प्रोक्तो मकरन्दो रसः स्मृतः
पद्मनालं मृणालं स्यात्तथा बिसमिति स्मृतम 8

संवर्त्तिका हिमा तिक्ता कषाया दाहतृट्प्रणुत
मूत्रकृच्छ्रगुदव्याधिरक्तपित्तविनाशिनी 9

पद्मस्य कर्णिका तिक्ता कषाया मधुरा हिमा
मुखवैशद्यकृल्लघ्वी तृष्णाऽस्रकफपित्तनुत 10

किञ्जल्कः शीतलो वृष्यः कषायो ग्राहकोऽपिसः
कफपित्ततृषादाहरक्तार्शोविषशोथजित 11

मृणालं शीतलं वृष्यं पित्तदाहास्रजिद गुरु 12

दुर्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम
संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम 13

पद्मचारिण्यतिचराऽव्यथा पद्मा च शारदा
पद्माऽनुष्णा कटुस्तिक्ता कषाया कफवातजित
मूत्रकृच्छ्श्मशूलघ्नो श्वासकासविषापहा 14

श्वेतं कुवलयं प्रोक्तं कुमुदं कैरवं तथा
कुमुदं पिच्छिलं स्निग्धं मधुरं ह्लादि शीतलम 15

कुमुद्वती कैरविका तथा कुमुदिनीति च 16

सा तु मूलादिसर्वाङ्गैरुक्ता समुदिता बुधैः
पद्मिन्या ये गुणाः प्रोक्ताः कुमुदिन्याश्च ते स्मृताः 17

सौगन्धिकं तु कल्हारं हल्लकं रक्तसन्ध्यकम
कल्हारं शीतलं ग्राहि विष्टम्भि गुरु रूक्षणम 18

वारिपर्णी कुम्भिका स्याद्वारिमूली खमूलिका
शैवालं जलनीली स्याच्छैवलं जलजञ्च तत 19

वारिपर्णी हिमा तिक्ता लघ्वी स्वाद्वी सरा कटुः
दोषत्रयहरी रूक्षा शोणितज्वरशोषकृत 20

शैवालं तुवरं तिक्तं मधुरं शीतलं लघु
स्निग्धं दाहतृषापित्तरक्तज्वरहरं परम 21

शतपत्री तरुण्युक्ता कर्णिका चारुकेशरा
महाकुमारी गन्धाढ्या लाक्षापुष्पा ऽतिमञ्जुला 22

शतपत्री हिमा हृद्या ग्राहिणी शुक्रला लघुः
दोषत्रयास्रजिद्वर्ण्या कट्वी तिक्ता च पाचनी 23

नेपाली कथिता तज्ज्ञैः सप्तला नवमालिका
वासन्ती शीतला लघ्वी तिक्ता दोषत्रयास्रजित 24

श्रीपदी षट्पदानन्दा वार्षिकी मुक्तबन्धना 25

वार्षिकी शीतला लघ्वी तिक्ता दोषत्रयापहा
कर्णाक्षिमुखरोगघ्नी तत्तैलं तद्गुणं स्मृतम 26

जातिर्जाती च सुमना मालती राजपुत्रिका
चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका 27

जातीयुगं तिक्तमुष्णं तुवरं लघु दोषजित्
शिरोऽक्षिमुखदन्तार्त्तिविषकुष्ठानिलास्रजित 28

यूथिका गणिकाऽम्बष्ठा सा पीता हेमपुष्पिका
यूथीयुगं हिमं तिक्तं कटुपाकरसं लघु 29

मधुरं तुवरं हृद्यं पित्तघ्नं कफवातलम
व्रणास्रमुखदन्ताक्षिशिरोरोगविषापहम 30

चाम्पेयश्चम्पकः प्रोक्तोहेमपुष्पश्च स स्मृतः
एतस्य कलिका गन्धफलेति कथिता बुधैः 31

चम्पकः कटुकस्तिक्तः कषायो मधुरो हिमः
विषक्रिमिहरः कृच्छ्रकफवातास्नपित्तजित 32

बकुलो मधुगन्धश्च सिंहकेसरकस्तथा
बकुलस्तुवरोऽनुष्णः कटुपाकरसो गुरुः
कफपित्तविषश्वित्रकृमिदन्तगदापहः 33

शिवमल्ली पाशुपत एकाष्ठीलो वको वसुः 34

वकोऽनुष्णः कटुस्तिक्तः कफपित्तविषापहः
योनिशूलतृषादाहकुष्ठशोथास्रनाशनः 35

कदम्बः प्रियको नीपो वृत्तपुष्पो हलिप्रियः
कदम्बो मधुरः शीतः कषायो लवणो गुरुः
सरो विष्टम्भकृद्रू क्षः कफस्तन्यानिलप्रदः 36

कुब्जको भद्र तरुणी वृत्तपुष्पोऽतिकेसरः
महासहा कण्टकाढ्या नीलालिकुलसंकुला 37

कुब्जकः सुरभिः स्वादुः कषायानुरसः सरः
त्रिदोषशमनो वृष्यः शीतहर्त्ता च स स्मृतः 38

मल्लिका मदयन्ती च शीतभीरुश्च भूपदी 39

मल्लिकोष्णा लघुर्वृष्या तिक्ता च कटुका हरेत
वातपित्तास्यदृग्व्याधिकुष्ठारुचिविषव्रणान 40

माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च
अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः
माधवी मधुरा शीता लघ्वी दोषत्रयापहा 41

केतकः सूचिकापुष्पो जम्बुकः क्रकचच्छदः
सुवर्णकेतकी त्वन्या लघुपुष्पा सुगन्धिनी 42

केतकः कटुकः स्वादुर्लघुस्तिक्तः कफापहः
उष्णा तिक्तरसा ज्ञेया चक्षुष्या हेमकेतकी 43

किङ्किरातो हेमगौरः पीतकः पीतभद्र कः 44

किङ्किरातो हिमस्तिक्तः कषायश्च हरेदसौ
कफपित्तपिपासाऽस्रदाहशोषवमिक्रिमीन 45

कर्णिकारः परिव्याधः पादपोत्पल इत्यपि
कर्णिकारः कटुस्तिक्तस्तुवरो शोधनो लघुः
रञ्जनः सुखदः शोथश्लेष्मास्रव्रणकुष्ठजित 46

अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः
कङ्केलि पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा 47

अशोकः शीतलस्तिक्तो ग्राही वर्ण्यः कषायकः
दोषापचीतृषादाहकृमिशोषविषास्रजित 48

अम्लातोऽम्लाटनः प्रोक्तस्तथाऽम्लातक इत्यपि 49

कुरण्टको वर्णपुष्पः स एवोक्तो महासहः
अम्लाटनः कषायोष्णः स्निग्धः स्वादुश्च तिक्तकः 50

सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका
सहाचरः सहचरः स च भिन्द्यपि कथ्यते 51

कुरण्टकोऽत्रपीते स्याद्र क्त कुरबकः स्मृतः
नीले बाणा द्वयोरुक्तो दासी चार्त्तगलश्च सः 52

र्स्यैः! कुष्ठवातास्रकफकण्डूविषापहः
तिक्तोष्णो मधुरोऽनम्लः सुस्निग्धः केशरञ्जनः 53

कुन्दं तु कथितं माध्यं सदापुष्पञ्च तत्स्मृतम
कुन्दं शीतं लघु श्लेष्मशिरोरुग्विषपित्तहृत 54

मुचुकुन्दः क्षत्रवृक्षश्चित्रकः प्रतिविष्णुकः
मुचुकुन्दः शिरःपीडापित्तास्रविषनाशनः 55

तिलकः क्षुरकः श्रीमान्पुरुषश्छिन्नपुष्पकः
तिलकः कटुकः पाके रसे चोष्णो रसायनः
कफकुष्ठक्रिमीन्वस्तिमुखदन्तगदान्हरेत 56

बन्धूको बन्धुजीवश्च रक्तो माध्याह्निकोऽपि च
बन्धूकः कफकृद् ग्राही वातपित्तहरो लघुः 57

ओड्रपुष्पं जपा चाथ त्रिसन्ध्या साऽरुणा सिता
जपा संग्राहिणी केश्या त्रिसन्ध्या कफवातजित 58

सिन्दूरी रक्तबीजा च रक्तपुष्पा सुकोमला
सिन्दूरी विषपित्तास्रतृष्णावान्तिहरी हिमा 59

अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः 60

अगस्तिः पित्तकफजिच्चातुर्थिकहरो हिमः
रूक्षो वातकरस्तिक्तः प्रतिश्यायनिवारणः 61

तुलसी सुरसा ग्राम्या सुलभा बहुमञ्जरी
अपेतराक्षसी गौरी भूतघ्नी देवदुन्दभिः 62

तुलसी कटुका तिक्ता हृद्योष्णा दाहपित्तकृत
दीपनी कुष्ठकृच्छ्रास्रपार्श्वरुक्कफवातजित
शुक्ला कृष्णा च तुलसी गुणैस्तुल्या प्रकीर्त्तिता 63

मारुतोऽसौ मरुबको मरुन्मरुरपि स्मृतः
फणी फणिज्जकश्चापि प्रस्थपुष्पः समीरणः 64

मरुदग्निप्रदो हृद्यस्तीक्ष्णोष्णः पित्तलो लघुः 65

वृश्चिकादिविषश्लेष्मवातकुष्ठक्रिमिप्रणुत
कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः 66

उक्तो दमनको दान्तो मुनिपुत्रस्तपोधनः
गन्धोत्कटो ब्रह्मजटो विनीतः कलपत्रकः 67

दमनस्तुवरस्तिक्तो हृद्यो वृष्यः सुगन्धिकः
ग्रहणाद विषकुष्ठास्रक्लेदकण्डूत्रिदोषजित 68

बर्बरी तुवरी तुङ्गी खरपुष्पाऽजगन्धिका
पर्णाशस्तत्र कृष्णे तु कठिल्लककुठेरकौ 69

तत्र शुक्लेऽजकः प्रोक्तो वटपत्रस्ततोऽपरः
बर्बरीत्रितयं रूक्षं शीतं कटु विदाहि च 70

तीक्ष्णं रुचिकरं हृद्यं दीपनं लघुपाकि च
पित्तलं कफवातास्रकण्डूकृमिविषापहम 71

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे पञ्चमः 
पुष्पवर्गः समाप्तः 5

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।