Thursday, 9 July 2015

अथ षड्विंश आमवाताधिकारः 26


विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्यच
स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्वतस्तथा 1

वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति
तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते 2

वातपिक्तकफैर्भूयो दूषितः सोऽन्नजो रसः
स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः 3

जनयत्यग्निदौर्बल्यं हृदयस्य च गौरवम
व्याधीनामाश्रयो ह्येष आमसञ्ज्ञोऽतिरुदारुणः 4

अजीर्णाद्योरसो जातः सञ्चितो हि क्रमेण वै
आमसञ्ज्ञां स लभते शिरोगात्ररुजाकरः 5

युगपत्कुपितावेतौ त्रिकसन्धिप्रवेशकौ
स्तब्धञ्च कुरुतो गात्रमामवातः स उच्यते 6

अङ्गमर्दोऽरुचिस्तृष्णा चालस्यं गौरवं ज्वरः
अपाकः शूनताऽङ्गानामामवातस्य लक्षणम 7

स कष्टः सर्वरोगाणां यदा प्रकुपितो भवेत
हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु 8

करोति सरुजं शोथं यत्र दोषः प्रपद्यते
स देशो रुज्यतेऽत्थ व्याविद्ध इव वृश्चिकैः 9

जनयेत्सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम
उत्साहहानिं वैरस्यं दाहञ्च बहुमूत्रताम 10

कुक्षौ कठिनतां शूलं तथा निद्रा विपर्ययम
तृट्छर्दिभ्रममूर्च्छाश्च हृद्र् गहं विडिवबद्धताम
जाड्यान्त्रकूजनानाहं कष्टांश्चान्यानुपद्र वान 11

पित्तात्सदाहरागञ्च सशूलं पवनात्मकम
स्तिमितं गुरुकण्डूकं कफजुष्टं तमादिशेत 12

एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते
सर्वदेहचरैः शोथैः स कष्टं सान्निपातिकः 13

लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च
विरेचनं स्नेहनञ्च वस्तयश्चाममारुते 14

रूक्षः स्वेदोविधातव्यो बालुकापुटकैस्तथा
उपनाहाश्च कर्त्तव्यास्तेऽपि स्नेहविवर्जिताः 15

आमवाताभिभूताय पीडिताय पिपासया
पञ्चकोलेन संसिद्धं पानीयं हितमुच्यते 16

शुष्कमूलकयूषं वा यूषं वा पाञ्चमौलिकम
रसकं काञ्जिकं वाऽपि शुण्ठीचूर्णविचूर्णितम 17

सौवीरं स्विन्नवार्ताकं तथा तिक्तफलानि च
वास्तूकशाकं सारिष्टशाकं पौनर्नवं हितम 18

पटोलं गोक्षुरञ्चैव वरुणं कारवेंल्लकम
यवान्नं कोरदूषान्नं पुराणं शालिषष्टिकम 19

लावकानां तथा मांसं हितं तक्रेण संस्कृतम
हितश्च यूषः कौलत्थः कालायश्चणकस्य च 20

रुच्यं दद्याद्यथासात्म्यमामवातहितञ्च यत
शतपुष्पा वचा विश्वश्वदंष्ट्रावरुणत्वचः 21

पुनर्नवासदेवाह्वाशटीमुण्डितिकाः समाः
प्रसारणी च तर्कारि फलञ्च मदनस्य च 22

शुक्तकाञ्जिकपिष्टं च कोष्णं च लेपने हितम
अहिंस्रा केबुकान् मूलं शिग्रुर्वल्मीकमृत्तिका 23

मूत्रपिष्टैश्च कर्त्तव्यमुपनाहः प्रलेपनम 24

चित्रकं कटुकापाठाकलिङ्गाति विषाऽमृताः
देवदारुवचामुस्त नागरातिविषाऽभयाः
पिबेदुष्णाम्बुना नित्यमामवातस्य भेषजम 25

शटी शुण्ठ्यभया चोग्रा देवाह्वातिविषाऽमृताः
कषायमामवातस्य पाचनं रुक्षभोजनम 26

पुनर्नवा च बृहतीवर्द्धमानफणिज्जकैः
कल्पयेत्क्वाथमामे तु मूर्वाशिग्रुद्रुमैर्भिषक 27

सेचनं चामवातस्य रुबूकपयसाऽपि वा 28

लिह्यात्पथ्यां सविश्वां वा मूत्रैर्वा गुग्गुलुं पिबेत
विश्वाऽलम्बुषयोः कल्कमद्याद्वा तिलविश्वयोः 29

विश्वापथ्याऽमृताक्वाथं कवोष्णं कौशिकान्वितम
कटीजङ्घोरुपृष्ठानां रुजं पीतं निवर्त्तयेत 30

हिङ्गुं चव्यं विडं शुण्ठी कृष्णाऽजाजी सपुष्करम
भागोत्तरमिदं चूर्णं पीतं वातामजिद्भवेत 31

पिप्पली पिप्पलीमूलं सैन्धवं कृष्णजीरकम
चव्यचित्रकतालीशपत्रकं नागकेशरम 32

एषां द्विपलिकान्भागान्पञ्च सौवर्चलस्य च
मरिचाजाजिशुण्ठीनामेकैकस्य पलं पलम 33

दाडिमात्कुडवञ्चैव द्वे पले चाम्लवेतसात
सर्वमेकत्र सङ्क्षुद्य योजयेत्कुशलो भिषक 34

पिप्पल्याद्यमिति ख्यातं नष्टस्याग्नेश्च दीपनम
अर्शांसि ग्रहणीं गुल्ममुदरं सभगन्दरम 35

कृमिकण्ड्वरुचीर्हन्यात्सुरयोष्णोदकेन वा
नातः परतरं किञ्चिदामवातस्य भेषजम 36

पथ्याविश्वयवानीभिस्तुल्याभिश्चूर्णितं पिबेत
तक्रेणोष्णोदकेनापि काञ्जिकेनाथ वा पुनः 37

आमवातं निहन्त्याशु शोथं मन्दाग्नितामपि
पीनसं कासहृद्रो गं स्वरभेदमरोचकम 38

रसोनविश्वनिर्गुण्डीक्वाथमामार्दितः पिबेत 39

रास्नां गुडूचीमेरण्डं देवदारु महौषधम्
पिबेत्सार्वाङ्गिकेवाते सामे सन्ध्यस्थिमज्जगे 40

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
क्वथितं वारि तत्पेयमामवातविनाशनम 41

शटीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम
सप्तरात्रं पिबेज्जन्तुरामवातविनाशनम 42

रास्नाऽमृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपार्श्वत्रिकपृष्ठशूली 43

आमवाते कणायुक्तं दशमूलीजलं पिबेत
खादेद्वाऽप्यभयाविश्वं गुडूचीं नागरेण वा  44

चित्रकेन्द्र यवौ पाठा कटुकाऽतिविषाऽभयाः
आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना 45

पुनर्नवाऽमृता शुण्ठी शताह्वा वृद्धदारुकम
शटी मुण्डितिका चूर्णमारनालेनपाययेत 46

आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना
आमवातं निहन्त्याशु गृध्रसीमुद्धतामपि 47

कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत्सदा
आमवातप्रशमनं कफवातहरं परम 48

पञ्चकोलकचूर्णन्तु पिबेदुष्णेन वारिणा
मन्दाग्निशूलगुल्मामकफारोचकनाशनम 49

आमवातगजेन्द्र स्य शरीरवनचारिणः
एक एव निहन्त्याशु एरण्डतैलकेशरी 50

एरण्डतैलयुक्ता हरीतकी भक्षयेन्नरोविधिवत
आमानिलार्त्तियुक्तोगृध्रसीवृद्ध्यर्दितो नियतम 51

आरग्वधस्य पत्राणि  भृष्टानि कटुतैलतः
आमघ्नानि नरः कुर्यात्सायं भक्तावृतानि च 52

वायुः कट्याश्रितः शुद्धः सामो वा जनयेद्रुजम
कटीग्रहः स एवोक्तः पङ्गुः सक्थ्नोर्द्वयोर्वधात 53

शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः
सामे वाते कटीशूले पाचनं रुक्प्रणाशन 54

यवक्षारसमायुक्तं मूत्रकृच्छ्रविनाशनम
दशमूलीकषायेण पिबेद्वा नागराम्भसा
कटीशूलेषु पातव्यं तैलमेरण्डसम्भवम 55

महौषधगुडूच्योश्च क्वाथं पिप्पलिसंयुतम
पिबेदामे सरुक्कोष्ठे कटीशूले विशेषतः 56

विशोध्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत
तत्पायसं कटीशूले गृध्रस्यां परमौषधम 57

सर्पिस्तैलं गुडं शुक्तं पञ्चमं विश्वभेषजम 58

पीतमेतद्भवेत्सद्यस्तर्पणं कटिशूलनुत
न हि चैतत्समं किञ्चिन्निरामे कटिमारुते 59

सुरतरुवल्कलसहितं गोमूत्रं स्थापितन्तु सप्ताहम
हिङ्गुवचाशत पुष्पासैन्धवयुक्तेन तेनाथ 60

तत्पुटपक्वं हन्यात्कटीरुजं दारुणं पुंसाम
आममेदोवृद्धिभवान्विकारांश्चानिलोद्भवान 61

अमृतानागरगोक्षुरमुण्डितिकावरुणकैः कृतं चूर्णम
मस्त्वारनालपीतं सामानिलनाशनं ख्यातम 62

अलम्बुषा गोक्षुरकं त्रिफलानागरामृताः
यथोत्तरं भागवृद्ध्या श्यामाचूर्णञ्च तत्समम 63

पिबेन्मस्तुसुरातक्रकाञ्जिकोष्णोदकेन वा
आमवातं जयत्याशु सशोथं वातशोणितम 64

त्रिकजानूरुसन्धिस्थं ज्वरारोचकनाशनम
अलम्बुषाऽदिकं चूर्णं रोगानीकविनाशनम 65

हरीतक्यक्षधात्रीभिः प्रसिद्धा त्रिफला क्रमात
प्रत्येकं तेन वा युञ्ज्याद्भागवृद्धिं यथोत्तरम 66

अलम्बुषा गोक्षुरकं मूलं वरुणकस्य च
गुडूची नागरञ्चेति समभागानि कारयेत 67

काञ्जिकेन तु तत्पेयं विडालपदमात्रकम
आमवाते प्रवृद्धे च योगोऽयममृतोपमः 68

अलम्बुषा गोक्षुरकं गुडूची वृद्धदारुकम
पिप्पली त्रिवृता मुस्ता वरुणं सपुनर्नवम
त्रिफला नागरञ्चेति सूक्ष्मचूर्णानि कारयेत 69

मस्त्वारनालतक्रेण पयोमांसरसेन वा
आमवातं निहन्त्याशु श्वयथुं सन्धिसंस्थितम 70

मणिमन्थस्य भागौ द्वौ यवान्यास्तद्वदेव तु
भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम 71

दश द्वौ च हरीतक्याः सूक्ष्मचूर्णीकृतं शुभम
मस्त्वारनालतक्रेण सर्पिषोष्णोदकेन वा 72

पीतं जयत्यामवातं गुल्महृद्वस्तिजान्गदान
प्लीहानं ग्रन्थिशूलादीनानाहं गुदजानि च 73

विबन्धं जाठरान् रोगान्कटीवस्तिसमुत्थितान
वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम 74

असीतकं मागधिका गुडूची श्यामावराहीगजकर्णशुण्ठीः
समा धृताः कृत्स्नमिदन्तु चूर्णं पिबेत्तदुष्णोदकमण्डयूषैः 75

तक्रैः रसैर्मद्यसमस्तुभिर्वा यथेष्टचेष्टस्य च भोजनस्य
सबाहुकं गृध्रसिखञ्जवातं विश्वाचितूनीप्रतितूनिरोगान 76

जङ्घाऽमवातार्दितवातरक्तं कटीग्रहं गुल्मगुदामयञ्च
सक्रोष्टुकंपाण्डुगरोग्रशोथं हन्यादुरुस्तम्भमुदीर्णवेगम 77

शुण्ठीनां षट्पलं पिष्टं धान्यकं द्विपलं तथा
चतुर्गुणं जलं दत्वा घृतप्रस्थं विपाचयेत 78

वातश्लेष्मामयान् हन्यादग्निवृद्धिकरं परम्
दुर्नामश्वासकासघ्नं बलवर्णाग्निवर्द्धनम 79

सर्पिर्नागरकल्केन सौवीरं तच्चतुर्गुणम
सिद्धमग्निकरं श्रेष्ठमामवातहरं परम 80

पुष्ट्यर्थं पयसा साध्यं दध्ना विण्मूत्रसंग्रहे
दीपनार्थं मतिमता मस्तुना च प्रकीर्त्तितम 81

नागरक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत
चतुर्गुणेन तेनाथ केवलेनजलेन वा 82

वातश्लेष्मप्रशमनमग्निसन्दीपनं परम
नागरं घृतमित्युक्तं कटीशूलामनाशनम 83

हिङ्गुं त्रिकटुकं चव्यं मणिमन्थं तथैव च
कल्कान्कृत्वा तु पलिकान्घृतप्रस्थं विपाचयेत 84

आरनालाढकं दत्वा तत्सर्पिर्जठरापहम
शूलं विबन्धमानाहमामवातं कटीग्रहम 85

नाशयेद् ग्रहणीदोषं मन्दाग्नेर्दीपनं परम 86

शृङ्गबेरयवक्षारपिप्पलीमूलपिप्पलद्यः
पिष्ट्वा विपाचयेत्सर्पिरारनालं चतुर्गुणम 87

शूलं विबन्धमानाहमामवातं कटिग्रहम
नाशयेद् ग्रहणीदोषमग्निसन्दीपनं परम 88

पिबेद् बिन्दुघृतं वापि धान्वन्तरमथापि वा
महाशुण्ठीघृतं वापि आमवाते पुनः पुनः 89

यत्किञ्चिल्लेखनं सर्पिर्दीपनं पाचनञ्च यत
तत्सर्वमामवातेषु योज्यं वा मस्तु षट्पलम 90

अजमोदमरिचपिप्पलीविडङ्गसुरदारुचित्रकशताह्वाः
सैन्धवपिप्पलीमूलं भागा नवकस्य पलिकाः स्युः 91

शुण्ठी दशपलिकास्यात्पलानि तावन्ति वृद्धदारस्य
पथ्यापलानि पञ्च च सर्वाण्येकत्र कारयेच्चूर्णम 92

समगुडवटकानदतश्चूर्णं वाप्युष्णवारिणा पिबतः
नश्यन्त्यामानिलजाः सर्वे रोगाः सुकष्टाश्च 93

प्रतितूनी विश्वाची रोगाश्चान्येऽपि गृध्रसी चोग्रा
कटिपृष्ठगुदस्फुटिनञ्चैवार्त्तिर्जङ्घयोस्तीव्रा 94

श्वयथुश्च सर्वसन्धिषु ये चान्येऽप्यामवातसम्भूताः
सर्वे प्रयान्ति नाशं तम इव सूर्यांशुविध्वस्तम 95

क्षुद्बोधमरोगित्वं स्थिरयौवनमथ वलीपलितनाशम
कुरुते च तथाभ्यासाद् गुणानथान्यांस्तथा सुबहून 96

चित्रकं पिप्पलीमूलं यवानीं कारवीं तथा
विडङ्गमजमोदाञ्च जीरके सुरदारु च 97

चव्यैलासैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम
त्रिफलां मुस्तकं व्योषन्त्वगुशीरं यवाग्रजम 98

तालीशपत्रं पत्रञ्च सूक्ष्मचूर्णानि कारयेत
यावन्त्येतानि चूर्णानि तावन्मात्रन्तु गुग्गुलुम 99

सम्मर्द्य सर्पिषा गाढं स्निग्धे भाण्डे निधापयेत
अतो मात्रां प्रयुञ्जीत यथेष्टाहारवानपि
योगराज इति ख्यातो योगोऽयममृतोपमः 100

अग्निमान्द्यामवातादीन् कृमिदुष्टव्रणानपि
प्लीहगुल्मोदरानाहदुर्नामानिविनाशयेत 101

अग्निञ्च कुरुते दीप्तं तेजोवृद्धिं बलं तथा
वातरोगाञ्जयत्येष सन्धिमज्जगतानपि 102

प्रसारण्याढके क्वाथे प्रस्थो गुडरसो मतः
पक्वः पञ्चोषणरजोयुक्तः स्यादामवातहा 103

नागरस्य पलान्यष्टौ घृतस्य पलविंशतिम
क्षीरद्विप्रस्थसंयुक्तं खण्डस्यार्द्धशतं पचेत 104

व्योषत्रिजातकद्र व्यात्प्रत्येकञ्च पलं पलम
निदध्याच्चूर्णितं तत्र खादेदग्निबलं प्रति 105

आमवातप्रशमनं बलपुष्टिविवर्द्धनम 106

बल्यमायुष्यमोजस्यं वलीपलितनाशनम
आमवातप्रशमनं सौभाग्यकरमुत्तमम 107

पलं शतं रसोनस्य तिलस्य कुडवं तथा
हिङ्गुं त्रिकटुकं क्षारौ द्वौ पञ्च लवणानि च 108

शतपुष्पा निशा कुष्ठं पिप्पलीमूलचित्रकौ
अजमोदा यवानी च धान्यकञ्चापि बुद्धिमान 109

प्रत्येकञ्च पलञ्चैषां श्लक्ष्णचूर्णानि कारयेत
घृतभाण्डे दृढे चैव स्थापयेद्दिनषोडशम 110

प्रक्षिप्य तैलमानञ्च प्रस्थार्द्धं काञ्जिकस्य च
खादेत्कर्षप्रमाणन्तु तोयं मद्यं पिबेदनु 111

आमवाते रक्तवाते सर्वाङ्गैकाङ्गसंश्रिते
अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च
सोन्मादे वातभग्ने च शूले जन्तुषु शस्यते 112

प्रसारण्या रसे सिद्धं तैलमेरण्डजं पिबेत
सर्वदोषहरञ्चैव कफरोगहरं परम 113

द्विपञ्चमूलीनिर्यासफलदध्यम्लकाञ्जिकैः 114

तैलं कट्यूरुपार्श्वार्त्तिकफवातामयान्ग्रहान
हन्ति वस्तिप्रदानेन करोत्यग्निबलं महत 115

सैन्धवं श्रेयसी रास्ना शतपुष्पा यवानिका
स्वर्जिका मरिचं कुष्ठं शुण्ठी सौवर्चलं विडम 116

वचाजमोदाजरणाः पौष्करं मधुकं कणा
एतान्यर्द्ध पलांशानि सूक्ष्मपिष्टानि कारयेत 117

प्रस्थमेरण्डतैलस्य प्रस्थाम्बुशतपुष्पजम
काञ्जिकं द्विगुणं दत्वा मस्तु च द्विगुणं तथा 118

एतं सम्भृत्य सम्भारं शनैर्मृद्वग्निना पचेत
सिद्धमेतत् प्रयोक्तव्यमामवातहरं परम 119

पानाभ्यञ्जनवस्तौ च कुरुतेग्निबलं भृशम
वातार्त्तवङ्क्षणे शस्तं कटीजानूरुसन्धिजे 120

शूले हृत्पार्श्वजे तद्वद् वृद्धे श्लेष्मणि पीडिते
बाह्यायामार्दितानाहैरन्त्रवृद्धिनिपीडिते
अन्यांश्चानिलजान् रोगान्नाशयत्याशु देहिनाम 121

स्वल्पप्रसारणीतैलं तैलं वा सैन्धवादिकम
दशमूलाद्यतैलेन वस्तिदानं प्रशस्यते 122

तैलस्य द्विपलं दद्यात्काञ्जिकस्य चतुष्पलम
दशमूलरसं मूत्रं पृथक्पञ्च पलानि तु 123

वचा मदनवाट्या वा शताह्वाकुष्ठसैन्धवैः
पिप्पल्यतिविषामुस्तारास्नाकट्फलपौष्करैः 124

अक्षांशिकैश्च तत्सर्वं मन्थयेत विचक्षणः
प्रस्थार्धं प्रथमं देयो वस्तिर्निरभिशङ्कितः 125

द्वितीये च तृतीये च वर्जयेत्प्रसृतद्वयम
सर्ववातविकारेषु  मेहेषु वृषणामये 126

कुक्षौ हृत्पृष्ठपार्श्वेषु जानुजङ्घाकटीग्रहे
विबन्धानाहरोगेषु शर्कराऽश्मरिपीडिते 127

भग्नविश्लिष्टगात्रेषु पिच्चितेषु क्षतेषु च
एतन्निरुहवत्प्राज्ञो निरायासो महागुणः 128

दधिमत्स्यगुडक्षीरं पोतकीमाषपिष्टकम
वर्जयेदामवातार्त्तो मांसमानूपसम्भवम 129

अभिष्यन्दकरा ये च ये चान्ये गुरुपिच्छलाः
वर्जनीयाः प्रयत्नेन आमवातार्दितैर्नरैः 130

रास्नैरण्डशतावरीसहचरादुःस्पर्शवासामृता
देवाह्वातिविषाभयाघनशटीशुण्ठीकषायःकृतः
पीतः सोरुवुतैल एष विहितः सामे सशूलेनिलं
कट्यूरुत्रिकपृष्ठकोष्ठजठरक्रोडेषु चामार्त्तिजित 131

रास्ना वातारिमूलञ्च वासकञ्च दुरालभम
शटीदारुबलामुस्तनागरातिविषाभयाः 132

श्वदंष्ट्रा व्याधिघातश्च मिसिधान्यपुनर्नवाः
अश्वगन्धामृताकृष्णा वृद्धदारः शतावरी 133

वचा सहचरश्चैव चविका बृहतीद्वयम्
समभागान्वितैरेतै रास्नाद्विगुणभागिकैः 134

कषायं पाययेत्सिद्धमष्टभागावशेषितम
शुण्ठीचूर्णसमायुक्तमाभाद्येन युतं तथा 135

अलम्बुषादिसंयुक्त मजमोदादिसंयुतम
यथादोषं यथाव्याधि प्रक्षेपं कारयेद्भिषक 136

सर्वेषु वातरोगेषु सन्धिमज्जगतेषु च
आनाहेषु च सर्वेषु सर्वगात्रानुकम्पने 137

कुब्जके वामने चैव पक्षाघाते तथार्दिते
जानुजङ्घास्थिपीडासु गृध्रस्यां च हनुग्रहे 138

प्रशस्तं वातरक्ते स्यादूरुस्तम्भे तथार्शसि
विश्वाचीगुल्महृद्रो गविषूचीक्रोष्टुशीर्षके 139

अन्त्रवृद्धौ श्लीपदे च योनिशुक्रामये तथा
पुंसां मेढ्रगते रोगे स्त्रीणां वन्ध्यामये तथा 140

योषितां गर्भदं मुख्यं नास्ति किञ्चिदतः परम
सर्वेषां पाचनानान्तु श्रेष्ठमेतद्धि पाचनम 141

महारास्नादिकं नाम प्रजापतिविनिर्मितम 142

रास्नाविश्वविडङ्गानि रुबूकं त्रिफला तथा
दशमूलं पृथक् श्यामा क्वाथो वातामयापहः
अर्द्धावभेदके त्वाढ्ये चार्दिते वातखञ्जके 143

नेत्ररोगे शिरः शूले ज्वरापस्मारयोस्तथा
मनोभ्रंशे च विविधे कथितञ्च शुभप्रदम 144

इति षड्विंश आमवाताधिकारः समाप्तः 26
Related Posts Plugin for WordPress, Blogger...

Follow by Email