Saturday, 11 July 2015

अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरणम 8 - D

अथ कफोल्वणसन्निपातज्वरस्य चिकित्सा 

बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा
वत्सकस्य तु बीजानि पटोलं कटुरोहिणी 631

बृहत्यादिगणः शस्तः सन्निपाते कफोत्तरे
श्वासादिषु च सर्वेषु हितः सोपद्र वेष्वपि 632

अथ वातपित्तोल्वणसन्निपातज्वरस्य चिकित्सा

वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम
तत्क्वाथो मधुना हन्ति वातपित्तोल्वणं ज्वरम 633

किराततिक्तकं मुस्तं गुडूची विश्वभेषजम
चातुर्भद्र कमित्याहुर्वातपित्तोल्बणे ज्वरे 634

अथ पित्तकफोल्वणसन्निपातज्वरस्य चिकित्सा

पर्पटः कट्फलं कुष्ठमुशीरं चन्दनं जलम
नागरं मुस्तकं शृङ्गी पिप्पल्येषां शृतं हितम
तृष्णादाहाग्निमान्द्येषु पित्तश्लेष्मोल्वणो ज्वरे 635

अथ वातपित्तकफोल्वणसन्निपातज्वरस्य चिकित्सा

नागरं धान्यकं भार्गी पद्मकं रक्तचन्दनम
पटोलः पिचुमन्दश्च त्रिफला मधुकं बला 636

शर्करा कटुका मुस्तं गजाह्वा व्याधिघातकः
किराततिक्तममृता दशमूली निदिग्धिका 637

योगराजो निहन्त्येष सन्निपातं त्रिकोल्वणम
सन्निपातसमुत्थानं मृत्युमप्यागतं जयेत 638

अथ प्रवृद्धमध्यहीनवातादिसन्निपातज्वराणां चिकित्सा

प्रवृद्धं कर्शयेद्दोषं क्षीणं संवर्द्धयेद्भिषक
चिकित्सेयं विधातव्या दोषयोर्वृद्धहीनयोः 639

प्रवृद्धे शमिते दोषे मध्यमः स्वयमेव हि
शान्तिं याति शमं नीतेऽनुबन्ध्ये त्वनुबन्धवत 640

भास्वन्मूलं जीरकव्योषभार्गी व्याघ्रीशुण्ठीपुष्करं गोजलेन
सिद्धं सद्यः शीतगात्रार्तिमोहश्वासश्लेष्मोद्रे ककासान्निहन्ति 641

कर्कोटिकाकन्दरजः कुलत्थ कृष्णावचाकट्फलकृष्णजीरैः
किराततिक्तानलकट्फलाम्बु पथ्याभिरुद्वर्त्तनमत्र शस्तम 642

रसविषमरिचमहेश प्रियफलभस्मैकभूचतुर्वसुभिः
भागैर्मितमुद् धूलनमिदमधिकस्वेदशैत्यहरम 643

क्षुद्रा ऽमृतापौष्करनागराणि शृतानि पीतानि शिवायुतानि
शुण्ठीकणाऽगस्तिरसोषणानि नस्येन तन्द्रा विजयोल्वणानि 644

मरिचकचपचम्पचावचारुक् कृमिहरनागरशर्वरीगवाक्ष्यः
छगलकजलकल्किता नितान्तं नसि निहिता ननु तन्द्रि कं जयन्ति 645

तुरङ्गलालालवणोत्तमेन्दु मनःशिलामागधिकामधूनि
नियोजितान्यक्षिणि निश्चितं च तन्द्रा ञ्च निद्रा ञ्च निवारयन्ति 646

सतगरवरतिक्तारेवताम्भोदतिक्ता नलदतुरगगन्धाभारतीहारहूराः
मलयजदशमूलीशङ्खपुष्पीसुपक्वाः प्रलपनमपहन्युः पानतो नातिदूरात 647

सान्त्वनरञ्जनैस्तीक्ष्णै र्नस्यैस्तिमिरसेवनैः
सर्वतो विकृतं चित्त मस्य प्रकृतिमानयेत 648

रोहिषधन्वयवासकवासा पर्पटगन्धलताकटुकाभिः
शर्करया सममेष कषायः क्षतजष्ठीविन उद्यदुपायः 649

पद्मकचन्दनपर्पटमुस्तं जातिकजीवकचन्दनवारि
क्लींतकनिम्बयुतं परिपक्वं वारि भवेदिह शोणितहारि 650

मधुकमधूकपरूषकपाथ श्चन्दनपल्लवदारुसनाथः
श्रीपर्णीफलशीतकषायः ससित इहस्यादस्रजयाय 651

तुरङ्गगन्धालवणोग्रगन्धा मधूकसारोषणमागधीभिः
बस्ताम्बुशुण्ठीलशुनान्विताभिर्नस्यं कृशं भुग्नदृशं करोति 652

शृङ्गीभार्ग्यभयाऽजाजी कणाभूनिम्बपर्पटः
देवदारुवचाकुष्ठ यासकट्फलनागरैः 653

मुस्तधान्याकतिक्तेन्द्रं! यवपाठाहरेणुभिः
हस्तिपिप्पल्यपामार्गः पिप्पलीमूलचित्रकैः 654

विशालाऽरग्वधारिष्ट शटीवाकुचिकाफलैः
विडङ्गरजनीदार्वी यवानीद्वयसंयुतैः 655

समांशैर्विहितः क्वाथो हिङ्ग्वार्द्र करसान्वितः
अभिन्यासज्वरं घोरं हन्ति तन्द्रा ञ्च तत्क्षणात 656

प्रमेहं कर्णशूलञ्च सन्निपातांस्त्रयोदश
हिक्कां श्वासञ्च कासञ्च तथा सर्वानुपद्रवान 657

किराततिक्ताकुलकृत्कुलिङ्गी कर्पूरकृष्णाकटुतैलयुक्तः
अम्लद्र वः संशमयेद्र सज्ञा दोषान्स्तुतो दाशरथिर्यथाऽत्र 658

शालूरपर्णी मालूर मूलामयमधुप्लुता
शङ्खकपुष्पीसहिता सेव्या वाचां विशुद्धये 659

क्षुद्र्रानागरपुष्करामृतलता ब्राह्मीवचासुव्रता भार्गीवासकयासतोयसुरसाक्वाथोजयेज्जिह्वकम
विश्वावर्मविभावरी युगवरावत्सादनीवारिद
व्याघ्रीनिम्बपटोलपुष्करजटारुग्दारुभिर्वा कृतः 660

शटीसुरतरूत्तमास्थविरदारुरास्नाः समाः
सनागरसुधाऽन्विताः पिब शतावरीसंयुताः
मृदुज्वलनपाचिताः सह पुरेण संधिग्रह
व्यथाऽपहृतये वृथा शिशिरसेवनं मा कृथाः 661

वचाकवचकच्छुरासहचरामृताभङ्गुरासुराह्वघननागरातरुणदारुरास्नापुराः
वृषातरुणभीरुभिः सह भवन्ति संधिग्रह व्यथोरुजडिमक्लमभ्रमणपक्षघातद्रुहः  662

सुरदारुशटीसुधालता सुवहाशुण्ठ्यमृताः शृता जले
सपुराः शमयन्ति सेविताः सततं सन्धिगतं सदागतिम 663

मुस्तैरण्डप्राणदाबाणादारू च्छिन्नारास्नाभीरूकर्चूरतिक्ताः
वासाविश्वापञ्चमूलाश्वगन्धा हन्युर्मन्यास्तम्भसन्धिग्रहार्त्तीः 664

इहापहाय व्रतमुष्णवारि ज्वरारियूषादि गदापहारि
ज्वरच्छिदं जीवितदञ्च नित्यं मृत्युञ्जयं चेतसि चिन्तयस्व 665

कर्पूरप्रकरावदातवपुषं संयोगमुद्रा जुषं शश्वद्भक्तजनेषु भावुकजुषं भालस्फुरच्चक्षुषम
सम्पूर्णामृतकुम्भसम्भृतकरं शुभ्राक्षमालाधरं पिङ्गात्तुङ्गजटाकलापरुचिरं चन्द्रार्द्धमौलि स्तुहि 666

भिषग्भिरिति निर्णीतं सन्निपातेऽन्तकाभिधे
भेषजं जाह्ववीनीरं वैद्यो गोविन्द एव हि 667

उशीरचन्दनोदीच्य द्राक्षाऽमलकपर्पटैः
शृतं शीतं जलं दद्याद् दाहतृड्ज्वरशान्तये 668

ससितो निशि पर्युषितः प्रातर्धान्याकतण्डुलक्वाथः
पीतः शमयत्यचिरादन्तर्दाहं ज्वरं पैत्तम 669

पथ्यां तैलघृतक्षौद्रैर्लिह्याद्दाहविनाशिनीम 670

प्रशमयति दाहमचिराद् दधियुक्कर्कन्धुपल्लवैर्लेपः
लेपो हिमकरमलयज निम्बदलैस्तक्रपिष्टैर्वा 671

उत्तानसुप्तस्य गभीरताम्र कांस्यादिपात्रे निहिते च नाभौ
शीताम्बुधारा बहुलापतन्ती निहन्ति दाहं त्वरितं ज्वरञ्च 672

शीताम्भसा तु शतशश्च विलोडितेन गव्येन चन्दनयुतेन घृतेन दिग्ध्वा
दाहज्वरी सकमलोत्पलमाल्यधारी क्षिप्रं विशेत्सलिलकोष्ठमनल्पकालम 673

काञ्जिकार्द्र पटेनावगुण्ठनं दाहनाशनम
अथ गोतक्रसंस्विन्न शीतलीकृतवाससा 674

दाहवम्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम 675

वाप्यःकमलहासिन्यो जलयन्त्रगृहाः शुभाः
नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः 676

मुक्तावलीचन्दनशीतलानां सुगन्धपुष्पाम्बरभूषितानाम
नितम्बिनीनां सुपयोधराणामालिङ्गनान्याशु हरन्ति दाहम 677

प्रह्लादञ्चास्य विज्ञाय ताः स्त्रीरपनयेत्पुनः
हितञ्च भोजयेदन्नं येनाप्नोति सुखं महत 678

कणोषणोग्रालवणोत्तमानि करञ्जबीजं प्रमदामलानि
पथ्याऽक्षसिद्धार्थकहिङ्गुशुण्ठी युतानि बस्ताम्बुविमिश्रितानि 679

पिष्ट्वा गुटीयं नयने विधेया प्रचेतनेऽतिप्रथिताऽन्वितार्था
चित्तभ्रमापस्मृतिभूतदोष शिरोऽक्षिरोगभ्रमनाशहेतुः 680

कुम्भोद्भवतरोरम्भो गुडं विश्वकणाऽन्वितम
निहितं नसि नूनं स्याच्चित्तभ्रमविनाशनम 681

मुरामूर्द्धजमेघाह्व मधूकमलयोद्भवैः
मरुत्तरुमधून्मिश्रैः पुरपाणिजपांशुभिः 682

लोहलामज्जकैला भिर्धूपश्चित्तभ्रमापहः
ग्रहदोषहरः श्रीदः सौभाग्यकर उत्तमः 683

मृद्वीकाऽमरदारुमत्स्यशकलामुस्तामलक्योऽमृता
पथ्याऽरेवतरामसेनकरजोराजीफलैः संयुताः
हन्युश्चित्तरुजोऽथ दर्दुरदलापाठापटोलीपयः
पथ्यापर्पटराजवृक्षकटुकाशम्बूकपुष्प्यः शृताः 684

प्रलेपस्तमस्तं नयत्यल्पमेकः समुद्रि क्तशोथञ्च रक्तावशेषः
पक्वे च शस्त्रक्रिया पूयजित्सा व्रणत्वं गते चोचिता तच्चिकित्सा 685

निशाविशालाऽमयमाणिमन्थ दार्वीङ्गुदीमूलकृतः प्रलेपः
प्रभाकरक्षीरयुतः प्रभावाद् व्यस्तः समस्तोऽप्यथ कर्णिकघ्नः 686

कुलत्थः कट्फलं शुण्ठी कारवी च समांशकैः
सुखोष्णैर्लेपनं कार्यं कर्णमूले मुहुर्मुहुः 687

गैरिकं कठिनी शुण्ठी कट्फलारग्वधैः समैः
उष्णैः काञ्जिकसम्पिष्टैर्लेपः कर्णकमूलनुत 688

शिग्रुराजिकयोः कल्कं कर्णमूले प्रलेपयेत
कर्णमूलभवः शोथस्तेन लेपेन शाम्यति 689

अशिशिरजलपरिमृदितं मरिचकणाजीरसिन्धुजं त्वरितम
नस्यविधिसेवितं ननु कर्णकरूङ्नाशकृद् गदितम 690

भार्गीजयापौष्करकण्टकारी कटुत्रिकोग्राघनकुण्डलीभिः
कुलीरशृङ्गीकटुकारसाभिः कृतः कषायः किल कर्णिकघ्नः 691

दशमूलमत्स्यशकला चपलात्रिफलामहौषधकिरातैः
मरिचं चाशु क्वथितं बलादपहन्ति कर्णरुजः सकलाः692

फलत्रिकत्र्यूषणमुस्तकट्वी कलिङ्गसिंहाननशर्वरीभिः
क्वाथः कृतः कृन्तति कण्ठकुब्जं कण्ठीरवः कुञ्जरमाशु तद्वत 693

किरातकटुकाकणाकुटजकण्टकारीशटी
कलिद्रुकिलिमाभयाकटुककट्फलाम्भोधरः
विषाऽमलकपुष्करानलकुलीरशृङ्गीवृषैर्महौषधसखैरयं जयति कण्ठकुब्जं गणः 694

अभिघाताभिषङ्गाभ्याम भिचाराभिशापतः
आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत 695

ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः
रागद्वेषभयाद्यैश्च ते स्युरागन्तवो गदाः 696

कामशोकभयाद्वायुः क्रोधात्पित्तं त्रयो मलाः
भूताभिषङ्गात्कुप्यन्ति भूतसामान्यलक्षणाः 697

श्यावास्यता विषकृते तथाऽतीसार एव च
भक्तारूचिः पिपासा च तोदश्च सह मूर्च्छया 698

ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुस्तथा
कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमभोजनम
हृदये वेदना चास्य गात्रञ्च परिशुष्यति 699

मूर्च्छाङ्गमर्दस्तृण्नेत्रचापल्यं कुचवक्त्रयोः
स्वेदः स्याद्धृदि दाहश्च स्त्रीणां कामज्वरे भवेत 700

बालकं शतपत्राणि गन्धसारमुशीरकम
चोचधान्येयकं मांसी क्वाथः कामज्वरापहः 701

सन्ध्यायां संस्तरः कार्यः सुगन्धैः कुसुमैर्भृशम
क्रीडनीयं स्वकान्तेन सह रात्रौ तथा स्त्रिया 702

भयात्प्रलापः शोकाच्च भवेत्कोपाच्च वेपथुः 703

भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम 704

अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते 705

आगन्तुजे ज्वरे नैव नरः कुर्वीत लङ्घनम 706

लङ्घनं न हितं कामशोकचिन्ताप्रहारजे
भयभूतश्रमक्रोधलङ्घनैश्च कृते ज्वरे 707

किन्त्वग्नौ दीपिते तत्र दद्यान्मांसरसौदनम
अभिघातज्वरे युञ्ज्यात् क्रियामुष्णविवर्जिताम
कषाय मधुरं स्निग्धं यथादोषमथापि च
अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः
रक्तावसेकैर्मेध्यैश्च तथा मांसरसौदनैः 708

व्यधबन्धश्रमात्यध्वभङ्गभ्रंशसमुद्भवान
ज्वरानुपाचरेत्पूर्वं क्षीरमांसरसौदनैः 709

अध्वश्रान्तेषु वाऽभ्यङ्गं दिवा निद्रा ञ्च कारयेत 710

ओषधीगन्धविषजौ विषपित्तप्रबाधनैः
जयेत्कषायैर्मतिमान् सर्वगन्धकृतैर्भिषक 711

चातुर्जातककर्पूरकङ्को लागुरुकुङ्कुमम
लवङ्गसहितञ्चैव सर्वगन्धं विनिर्दिशेत 712

क्रोधजे पित्तजित्कार्यं धार्यं सद्वाक्यमेव च
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च
हर्षणैश्च शमं यान्ति कामक्रोधभयज्वराः 713

कामैरथ मनोघ्नैश्च पित्तघ्नैश्चाप्युपक्रमैः
सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः 714

कामात्क्रोधज्वरो नश्येत् क्रोधात्कामज्वरस्तथा
घातिताभ्यामुभाभ्याञ्च कामक्रोधज्वरक्षयः 715

भूतविद्यासमुद्दिष्टैर्बन्धावेशनताडनैः
जयेद् भूताभिषङ्गोत्थं मनः शान्त्या च मानसम 716

सहदेवाया मूलं विधिना कण्ठे निबद्धमपहरति
एकद्वित्रिचतुर्भिर्दिवसैर्भूतज्वरं पुंसाम 717

अभिचाराभिशापोत्थौ ज्वरौ होमादिभिर्जयेत
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहदुष्टिजौ 718

इत्यागन्तुज्वराधिकारः

दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः
धातुमन्यतमं प्राप्य करोति विषमज्वरम 719

सन्ततं रस रक्तस्थः सततं रक्तधातुगः
दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः 720

मेदोगतस्तृतीयेऽह्नि अस्थिमज्जगतः पुनः
कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम 721

यः स्यादनियतात्कालाच्छीतोष्णाभ्यां तथैव च
वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः 722

सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ 723

सप्ताहं वा दशाहं द्वादशाहमथापि वा
सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते 724

अहोरात्रे सततको द्वौ कालावनुर्त्तते 725

अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते 726

तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः 727

कफस्थानविभागेन यथासंख्यं करोति हि
सततान्येद्युस्तृतीय चतुर्थकप्रलेपकान
अहोरात्रादहोरात्रात् स्थानात्स्थानं प्रपद्यते
दोष आमाशयं प्राप्य करोति विषमज्वरम 728

निवृत्तः पुनरायाति विषमो नियते दिने
स्वभावं कारणं तत्र मन्यन्ते मुनिपुङ्गवाः 729

अधिशेते यथा भूमिं बीजं काले प्ररोहति
अधिशेते तथा धातून् दोषः काले प्रकुप्यति 730

स चापि विषमो देहं न कदाचित्प्रमुञ्चति
ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते 731

वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते
धात्वन्तरेषु लीनत्वात् सौक्ष्म्यान्नैवोपलभ्यते 732

कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः 733

चतुर्थको दर्शयति स्वभावं द्बिविधं ज्वरः
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरसोऽनिलसम्भवः 734

मध्यकायन्तु गृह्णाति पूर्वं यस्तु स पित्तजः
विषमज्वर एवान्यश्चतुर्थकविपर्ययः 735

अस्थिमज्जगतो दोषश्चतुर्थकविपर्ययः
जायते भिषजा ज्ञेयो विषमज्वर एव सः 736

स मध्ये ज्वरयत्यह्नी आद्यन्ते च विमुञ्चति 737

त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरम
तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति च 738

करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
तस्मिन्प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः 739

द्वावेतौ दाहशीतादौ ज्वरौ संसर्गजौ स्मृतौ
दाहपूर्वस्तयोः कष्टः सुखसाध्यतमोऽपरः 740

विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते
तेनार्द्धं शीतलं देहमर्द्धमुष्णं प्रजायते 741

काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितम
तेनोष्णत्वं शरीरस्य शीतत्वं हस्त पादयोः 742

काये श्लेष्मा यदा दुष्टः पित्तं  चान्ते व्यवस्थितम
शीतत्वं तेन गात्रे स्यादुष्णत्वं हस्तपादयोः  743

प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च
मन्दज्वरविलेपी च स शीतः स्यात्प्रलेपकः 744

ज्वराश्च विषमाः सर्वे सन्निपातसमुद्भवाः
यथोल्वणस्य दोषस्य तेषु कार्यं चिकित्सितम 745

विषमेष्वपि कर्त्तव्यमूर्ध्वञ्चाधश्च शोधनम
स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम 746

कालिङ्गकः पटोलस्य पत्रं कटुकरोहिणी
पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी 747

निम्बः पटोलं त्रिफला मृद्बीका मुस्तवत्सकौ
किराततिक्तममृता चन्दनं विश्वभेषजम 748

गुडूच्यामलकं मुस्तमर्द्धश्लोकसमापनाः
कषायाः शमयन्त्याशु पञ्च पञ्चविधं ज्वरम 749

महाबलामूलमहौषधाभ्यां क्वाथो निहन्याद्बिषमज्वरं हि
शीतं सकम्पं परिदाहयुक्तं विनाशयेद् द्वित्रिदिनप्रयोगात 750

मुस्ताऽमलकगुडूची विश्वौषधकण्टकारिकाक्वाथः
पीतः सकणाचूर्णः समधुर्विषमं ज्वरं हन्ति 751

तिलतैललवणयुक्तः कल्को लशुनस्य सेवितः प्रातः
विषज्वरमपहरते वातव्याधीनशेषांश्च 752

कालजाजी तु सगुडा विषमज्वरनाशिनी
मधुना चाभया लीढा हन्त्याशु विषमज्वरान 753

पीतो मरिचचूर्णेन तुलसीपत्रजो रसः
द्रो णपुष्पीरसो वाऽपि निहन्ति विषमज्वरान 754

समगुडमसितं जीरकमीषन्मरिचेन भक्षितं सद्यः
एकाहिकंप्रशमयेत् समरेष्विव दानवानिन्द्रः! 755

शुण्ठ्यजाजी गुडं पिष्टं पीतमुष्णेन वारिणा
जीर्णमद्येन तक्रेण तीव्रं शीतज्वरं जयेत 756

अथ सन्ततादिज्वराणां सामान्यचिकित्सा

अमृतायाः शतं चूर्णं वाससा परिशोधितम
पृथक षोडश भागाः स्युर्गुडमाक्षिकसर्पिषाम 757

यथाऽग्नि भक्षयेदेतन्नरो हितमिताशनः
नास्य कश्चिद्भवेद्व्याधिर्न जरा पलितं न च 758

न ज्वरा विषमा नैव मोहो नानिलरक्तकम
न च नेत्रगता रोगाः परमेतद्रसायनम 759

मेधाकरं त्रिदोषघ्नं प्रयोगादस्य बुद्धिमान
जीवेद्वर्षशतं साग्रं यथैवादितिजस्तथा 760

तक्रमांसं पयोमांसं दधिमांसमथापि वा
माषमांसञ्च भुञ्जानो मुच्यते विषमज्वरात 761

अग्निवेशेनोक्तम

सुरा समण्डा पानार्थे भोजने चरणायुधाः
तित्तिरा विष्किराः पथ्याः कुक्कुटा विषमज्वरे 762

त्रायन्तीकटुकाऽनन्तासारिवाभिः शृतं जलम
पटोलाब्दवृषातिक्तासारिवाभिः शृतं जलम
सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये 763

पटोलेन्द्र यवानन्तापथ्याऽरिष्टामृताजलम
क्वथितं तज्जलं पीतं ज्वरं सततकं जयेत 764

द्राक्षापटोलनिम्बाब्दशक्राह्वत्रिफलाशृतम
जलं जन्तुः पिबेच्छीघ्रमन्येद्युर्ज्वरशान्तये 765

कर्म साधारणं जह्यात् तृतीयकचतुर्थकौ
भिषजा प्रतिकर्त्तव्यौ विशेषोक्तचिकित्सितैः 766

उशीरं चन्दनं मुस्तं गुडूची धान्यनागरम
अम्भसा क्वथितं पेयं शर्करामधुयोजितम 767

ज्वरे तृतीयके पुंसां तृष्णादाहसमन्विते 768

अपामार्गजटां कट्यां लोहितैः सप्ततन्तुभिः
बद्ध्वा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम 769

स्थिरातामलकीदारु शिवावृषमहौषधैः
सितामधुयुतः क्वाथश्चतुर्थकहरः परः 770

अगस्तिपत्रस्य रसेन नस्यं निहन्ति चातुर्थकमुग्रवीर्यम
शिरीषपुष्पस्य निशाद्वयस्य कल्केन वा तद् घृतसंयुतेन 771

ज्वरस्य वेगकालञ्च चिन्तयञ्ज्वर्यते तु यः
तस्येष्टैरद्भुतैर्वाऽपि विषमैर्नाशयेत्स्मृतम 772

सन्ततं विषमं चापि सततं सुचिरोत्थितम
ज्वरं सुभोजनैः पथ्यैरिष्टैश्च समुपाचरेत 773

शीताभिभूते पुरुषे कुर्य्याच्छीतहरीं क्रियाम
दाहाभिभूते तु विधिं विदध्याद्दाहनाशनम 774

आच्छादनैर्बहुतरैर्गुरुभिः कम्बलादिभिः
तूलवत्या महाशीतं शीतादिज्वरिणो हरेत 775

तं स्तनाभ्यां सुपीनाभ्यां पीवरोरुर्नितम्बिनी
युवतिर्गाढमालिङ्गेत् तेन शीतं प्रशाम्यति 776

कान्ताऽङ्गसङ्गसञ्जाते तद्वच्छीते निवारिते
प्रह्लादं चास्य विज्ञाय पृथक् तां कारयेत्स्त्रियम 777

ततो दाहे तु सञ्जाते पत्रैरेरण्डसम्भवैः
शीतलैर्धारितैरङ्गे दाहं तस्यापनोदयेत 778

तालकं शुक्तिकाचूर्णे दत्तं तत्रोभयोरपि
नवमांशञ्च तुत्थं स्यान्मर्दयेत्कन्यकाद्र वैः 779

तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत
शीतं तच्चूर्णयेच्चूर्णं गुञ्जामात्रं सितायुतम 780

प्रभाते भक्षयेत्तेन याति शीतज्वरः क्षयम
वान्तिर्भवति कस्यापि कस्यचिन्न भवत्यपि 781

एकेन दिवसेनैव शीतज्वरहरं परम
मध्याह्नसमये पथ्यं शिखरिण्योदनं तथा 782

कायस्थानाकुलीतिक्तावयः स्थापुरचोरकैः
सहदेवावचाकुष्ठैः शीतघ्नैर्धूपलेपनैः783

साम्लैर्विपाचितं तैलमभ्यङ्गाच्छीतनाशनम 784

एरण्डस्य तु पत्राणि लिप्तभूमौ निधापयेत
दाहादिज्वरिणो देहे तानि पत्राणि धारयेत 785

तेन नश्यति दाहोऽस्य ज्वरश्चैवोपशाम्यति
दाहे शान्ते यदा शैत्यं तच्च युक्त्यानिवारयेत 786

जघनचक्रचलन्मणिमेखला सरसचन्दनचन्द्र विलेपना
वनलतेव तनुं परिवेष्टयेत् प्रबलदाहनिपीडितमङ्गना 787

तदङ्गसङ्गसञ्जाते शैत्ये दाहे निवारिते
प्रह्लादञ्चास्य विज्ञाय तां स्त्रीमपनयेत्पुनः 788

सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः
सिद्धं हरेत्षड्गुणतक्रपक्वं तैलं ज्वरं दाहसमन्वितं च 789

रास्नानागरकुष्ठचन्दननिशायष्ट्याह्वकृष्णाबला
लाक्षासैन्धवसारिवामधुरसादेवाह्वरोहीतकैः
सोशीराम्बुधिफेनरोहिषजलैस्तैलंपचेत्षड्गुणे
तक्रे तच्च जयेज्ज्वरं दृढतरं दाहादिशीतादिकम 790

पद्मकोत्पलकह्लार मृणालबिसपौष्करैः
कुमुदोशीरमञ्जिष्ठा पद्मगैरिककट्फलैः 791

सारिवाद्वयलोध्रा ह्वक्षीरीखर्जूरमस्तकैः
धात्रीशतावरीयुक्तैः क्वाथे कल्के प्रयोजितैः 792

लाक्षारसपयःशुक्त मस्तुभिः सह काञ्जिकैः
पक्वं तैलमिदं त्वच्यं दाहज्वरहरं परम 793

प्रलेपके प्रयुञ्जीत श्लेष्मज्वरहरीं क्रियाम 794

रूद्र जटा गोशृङ्गं विडालविष्ठोरगस्य निर्मोकः
मदनफलभूतकेश्यौ वंशत्वग्रुद्र निर्माल्यम 795

घृतयवमयूरपुच्छच्छगलकलोमानि सर्षपाःसवचाः
हिङ्गुगवास्थिमरीचाः समभागाश्छागमूत्रसंपिष्टाः 796

धूपनविधिना शमयन्त्येते सर्वाञ्ज्वरान्नियतम
ग्रहडाकिनीपिशाचप्रेतविकारानयं धूपः 797

सोमं सानुचरं देवं समातृगणमीश्वरम
पूजयन्प्रयतः शीघ्रं मुच्यते विषमज्वरात 798

विष्णुं सहस्त्रमूर्द्धानं चराचरपतिं विभुम
स्तुवन्नामसहस्त्रेण ज्वरान्सर्वान्व्यपोहति 799

तीर्थायतनदेवाग्निगुरुवृद्धोपसर्पणैः
श्रद्धया पूजनैश्चापि सहसा शाम्यति ज्वरः 800

इति विषमज्वराधिकारः समाप्तः

गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते 801

रसस्थे तु ज्वरे तस्मिन् कुर्याद्वमनलङ्घने 802

रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ
प्रलापः पिडिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम 803

सेकः संशमनो लेपो रक्तमोक्षमसृग्गते 804

पिण्डकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे 805

तीक्ष्णं विरेकञ्च तथा कुर्यान्मांसगते ज्वरे 806

भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता 807

मेदःस्थे मेदसो नाशं विदधीत चिकित्सकः 808

भेदोऽस्थ्ना कूजनं श्वासो विरेकश्छर्दिरेव च
विक्षेपणञ्च गात्राणां विद्यादस्थिगते ज्वरे 809

अस्थिस्थे तु ज्वरे कुर्याद् वातनाशनकं विधिम
वस्तिकर्म प्रयोक्तव्यमभ्यङ्गोन्मर्दनं तथा 810

तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे 811

मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः 812

इति सप्तधातुगतज्वराधिकार समाप्तः

अथ जीर्णज्वराधिकारः

यो द्वादशेभ्यो दिवसेभ्य ऊर्द्ध्वं दोषत्रयेभ्यो द्विगुणेभ्य ऊर्द्ध्वम
नृणां तनौ तिष्ठति मन्दवेगो भिषग्भिरुक्तो ज्वर एष जीर्णः 813

नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेणसिद्ध्य्ति
स्तब्धाङ्गःश्लेष्मभूयिष्ठो नरो वातबलासकी 814

जीर्णज्वरी नरः कुर्यान्नोपवासं कदाचन
लङ्घनात्स भवेत्क्षीणो ज्वरस्तु स्याद्बली यतः
पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा
लङ्घयेत्तत्र तत्पश्चात् पूर्वामेवाचरेत्क्रियाम 815

निदिग्धकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम
जीर्णज्वरारोचककासशूल श्वासाग्निमान्द्यार्दितपीनसेषु 816

हन्त्यूर्द्ध्वजामयं प्रायः सायन्तेनोपयुज्यते 817

पिप्पलीमधुसंयुक्तः क्वाथश्छिन्नोद्भवोद्भवः
जीर्णज्वरकफध्वंसी पञ्चमूलकृतोऽथ वा
अमृतायाः कषायन्तु शीतलीकृतमीरितम
मधुपादयुतं पीतं जीर्णज्वरहरं परम
पिप्पलीमधुसम्मिश्रं गुडूचीस्वरसं पिबेत
जीर्णज्वरकफप्लीह कासारोचकनाशनम 818

जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली
कासाजीर्णारुचिश्वासहृत्पाण्डु कृमिरोगनुत
द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः 819

पिप्पली मधुसंयुक्ता मेदः कफविनाशिनी
श्वासकासज्वरहरी पाण्डुप्लीहोदरापहा 820

आमलं चित्रकं पथ्या पिप्पली सैन्धवं तथा 821

चूर्णितोऽय गणो ज्ञेयः सर्वज्वरहरः परः
भेदी रुचिकरः श्लेष्महन्ता दीपनपाचनः 822

द्राक्षाऽमृता शटी शृङ्गी मुस्तकं रक्तचन्दनम
नागरं कटुका पाठा भूनिम्बः सदुरालभः 823

उशीरं धान्यकं पद्मं बालकं कण्टकारिका
पुष्करं पिचुमन्दश्च दशाष्टाङ्गमिदं स्मृतम
जीर्णज्वरारुचिश्वास कासश्वयथुनाशनम 824

त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याऽथवाऽपि वा
गव्यक्षीरेण सम्पिष्टाः पिबेद्दशदिनानि  हि 825

तथैवापनयेदेता एवं विंशतिवासरान
पिबतां ज्वरशान्तिः स्यात् पाण्डुरोगश्च शाम्यति 826

कासः श्वासोऽग्निमान्द्यञ्च कफाधिक्यञ्च नश्यति 827

वातश्लेष्मज्वरोक्ता स्यात् क्रियावातबलासके
जीर्णज्वरे कफे क्षीणे दाहे तृष्णासमन्विते 828

पयः पीयूषसदृशं तन्नवे तु विषोपमम
चन्दनाद्यं हितं तैलं शोषाधिकारकीर्त्तितम
तथा नारायणं तैलं जीर्णज्वरहरं परम 829

इति जीर्णज्वराधिकारः समाप्तः

हरीतकी निम्बपत्रं नागरं सैन्धवोऽनलः
एषां चूर्णं सदा खादेद् दुर्जलज्वरशान्तये 830

अरुचिमनलमान्द्यं पीनसश्वासकासानुदरमुदकदोषानाशु हन्यादशेषान
जनयति तनुकान्तिं चित्तनेत्रप्रसादं पलपरिमितशुण्ठीक्षौद्र सिद्धः कषायः 831

विषं भागद्वयं दग्धं कपर्दं पञ्चभागकम
मरिचं नागरञ्चैव चूर्णं वस्त्रेण शोधयेत 832

आर्द्र कस्य रसेनास्य कुर्यान्मुद्गनिभां वटीम
वारिणा वटिकायुग्मं प्रातः सायञ्च भक्षयेत 833

अयं रसो ज्वरे योज्यः सामे दुर्जलजेऽपि च
अजीर्णाध्मानविष्टम्भ शूलेषु श्वासकासयोः 834

पटोलमुस्ताऽमृतवल्लिवासकं सनागरं धान्यकिराततिक्तकम
कषायमेषां मधुना पिबेन्नरो निवारयेद् दुर्जलदोषमुल्बणम 835

किराततिक्तात्रिबृदम्बुपिप्पली विडङ्गविश्वाकटुरोहिणीरजः
निहन्ति लीढं मधुनाऽतिसत्वरं सुदुस्तरं दुर्जलदोषजं ज्वरम 836

भोजनाग्रे नरैर्भुक्तं शुण्ठ्यजाज्यभयोत्थितम
कल्कन्तु सेवितं नित्यं नानादेशोद्भवं जलम 837

सहार्द्र कयवक्षारौ पीत्वा कोष्णेन वारिणा
नानादेशसमुद्भूतं वारिदोषमपोहति 838

बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्र वः 839

श्वासो मूर्च्छाऽरुचिश्छर्दिस्तृष्णाऽतीसारविड्ग्रहाः
हिक्काकासाङ्गदाहाश्च ज्वरस्योपद्र वा दश 840

सञ्जातोपद्र वो व्याधिस्त्याज्यो न स्याच्चिकित्सकैः
व्याधौ शान्ते प्रणश्यन्ति सद्यःसर्वेऽप्युपद्र वाः 841

अतो व्याधिं जयेद्यत्नात् पूर्वं पश्चादुपद्र वान
भिषग् यःकुशलः सोऽत्र जयेत्पूर्वमुपद्रवम 842

तेष्वपि प्रचुरेषु प्राङ् नाशयेदाशुकारिणाम
मूलव्याधिं जयेत्पूर्वं यत्र यो वा भवेद्बली
अविरोधेन कार्या तदुभयोरपि च क्रिया 843

सिंही व्याघ्री ताम्रमूली पटोली शृङ्गी पद्मा पुष्करं रोहिणी च
शाकं शठ्याः शैलमल्ल्याश्च बीजं श्वासं हन्यात्सन्निपातं दशाङ्गः 844

भार्गीनिम्बघनाभयाऽमृतलताभूनिम्बवासाविषात्रातयन्ती कटुकावचात्रिकटुकश्योनाकशक्रद्रुमैः 845

रास्नायासपटोलपाटलशटीदार्वीविशालत्रिवृद्ब्राह्मीपुष्करसिंहिकाद्वयनिशाधात्र्यक्षदेवद्रुमैः
क्वाथोऽय खलु सन्निपातनिवहान्द्वात्रिंशतां पानतो
दुर्द्धर्षान्निजतेजसा विजयते सर्पान्गरुत्मानिव
किञ्च श्वासवलासकासगुदरुग्घृद्रो गहिक्कामरुन
मन्यास्तम्भगलामयार्दितमलावष्टम्भब्रध्नानपि 846

मधुना कृष्णाकट्फलकर्कटशृङ्गीभवं चूर्णम
श्वासामये महोग्रे लीढ्वा लोकः सुखी भवति 847

वन्योपलाग्नितापितदात्रस्याग्रेण पञ्जरे दाहः
अपहरति श्वासामयमसंशयं भाषितं मुनिभिः 848

आर्द्र कस्य रसैर्नस्यं मूर्च्छायामाचरेन्नरः
अञ्जनञ्च प्रयुञ्जीत मधुसिन्धुशिलोषणैः 849

शीताम्भसाऽक्षिसेकः सुरभिर्धूपः सुगन्धि पुष्पञ्च
मृदुतालवृन्तवातः कोमलकदली दल स्पर्शः 850

अरुचौ तु शृङ्गबेरजरसकैः सोष्णैः ससिन्धुजैः कवलः
सिन्धूत्थमातुलुङ्गीफलकेसरधारणं वक्त्रे 851

क्वाथो गुडूच्याः समधुः सुशीतः पीतः प्रशान्तिं वमनस्य कुर्यात
विण्मक्षिकाणां मधुनाऽवलीढा सचन्दना शर्करयाऽन्विता वा 852

दन्तशठबीजपूरकदाडिमबदरैः सचुक्रकैर्वदने
लेपो जयति पिपासामथ रजतगुटी मुखान्तःस्था 853

शीतं पयः क्षौद्र युतं निपीतमाकण्ठमाश्वेव तदुद्वमेच्च
तर्षं महान्तं शमयेद्धि वक्त्रे धृत्वाऽथवा क्षौद्र वटाग्रलाजान 854

लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः
समुदीर्णदोषनिचयं शमयति तत्पाचयेदपि च 855

वत्सादनीवत्सकवारिवाह विश्वम्भरानिम्बविषाः सविश्वाः
ज्वरेऽतिसारं त्वरितं जयन्ति विश्वाऽमृतावत्सकवारिवाहाः 856

पाठाऽमृतापर्पटमुस्तविश्व किराततिक्तेन्द्र यवान्विपाच्य
पिबन्हरत्येव हठेन सर्वाञ्ज्वरातिसारानपि दुर्निवारान 857

विड्ग्रहे वातजित्कर्म कुर्यादत्रानुलोमनम
मलं प्रवर्त्तयेदाशु तीक्ष्णाभिः फलवर्त्तिभिः 858

पथ्याऽरग्वधतिक्तात्रिवृदामलकैः शृतं तोयम
जीर्णज्वरे विबंधे दद्यादश्वेव विड्ग्रहः शाम्येत 859

नीरेण सिन्धूत्थरजोऽतिसूक्ष्मं नस्येन नूनं विनिहन्ति हिक्काम
शुण्ठी हठाद्वा सितया समेता धूपोऽथवा हिङ्गुसमुद्भवश्च 860

कासे कणा कणामूलं कलिङ्गद्रुफलं रजः
सविश्वभेषजं लिह्यान्मधुना वा वृषाद्र सम 861

पुष्करमूलकटुत्रिकशृङ्गी कट्फलयासककारविकाभिः
मधुलुलिताभिरयं खलु लेहः कासरिपुः कफरोगहरश्च 862

दाहाधिकारे लिखितं दाहे कुर्याच्चिकित्सितम
परं ज्वरे विरुद्धं यन्नोचितं तच्चिकित्सितम 863

सन्तापोऽभ्यधिको बाह्यस्तृष्णाऽदीनां च मार्दवम
बहिर्बेगस्य लिङ्गानि सुखसाध्यत्वमेव च 864

वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात
प्राकृतः सुखसाध्यस्तु ज्वरः सुरभिसम्भवः 865

वैकृतोऽन्य स दुःसाध्यः प्राकृतश्चानिलोद्भवः 866

वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम
कुर्यात्पित्तञ्चशरदि तस्य चानुबलः कफः 867

तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम
कफो वसन्ते तमपि वातपित्तं भवेदनु 868

अन्तर्दाहोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः
अन्तर्वेगस्य लिङ्गानि कष्टसाध्यत्वमेव च 869

ज्वरः क्षीणस्य शूनस्य गम्भीरो दीर्घरात्रिकः
असाध्यो बलवान्यश्च  केशसीमन्तकृज्ज्वरः 870

गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया
आनद्धत्वेन चात्यर्थं कासश्वासोद्गमेन च 871

ज्वरस्य पूर्वं ज्वरमध्यतो वा ज्वरान्ततो वा श्रुतिमूलशोथः
क्रमादसाध्यः खलु कृच्छ्रसाध्यः सुखेन साध्यो मुनिभिः प्रदिष्टः 872

रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते
तल्लक्षणमरिष्टं स्याद् रिष्टमप्यभिधीयते 873

हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रि यनाशनः 874

विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः 875

यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान
वक्त्रेण चवोच्छ्वसिति तं ज्वरो हन्ति मानवम 876

हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः 877

हतप्रभेन्द्रि यं क्षाममरोचकनिपीडितम
गम्भीरतीक्ष्णवेगार्त्तं ज्वरितं परिवर्जयेत 878

मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः 879

आरम्भाद्विषमो यस्य यस्य वा दीर्घरात्रिकः
क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम 880

इति प्रथमो ज्वराधिकारः समाप्तः
Related Posts Plugin for WordPress, Blogger...

Follow by Email