Monday, 13 July 2015

श्रीमदभावमिश्रप्रणीतः भाव प्रकाशः पूर्व खण्डम

गजमुखममरप्रवरं सिद्धिकरं विघ्नहर्तारम ।
गुरुमवगमनयनप्रदमिष्टकरीमिष्टदेवतां वन्दे 1

आयुर्वेदागमनं क्रमेण येनाभवद्भूमौ ।
प्रथमं लिखामि तमहं नानातन्त्राणि संदृश्य 2

आयुर्हिताहितं व्याधेर्निदानं शमनं तथा ।
विद्यते यत्र विद्वद्भिः स आयुर्वेद उच्यते 3

अनेन पुरुषो यस्मादायुर्विन्दति वेत्ति च ।
तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः 4

विधाताऽथर्वसर्वस्वमायुर्वेदं प्रकाशयन ।
स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम 5
ततः प्रजापतिं दक्षं दक्षं सकलकर्मसु ।
विधिर्धीनीरधिः साङ्गमायुर्वेदमुपादिशत 6

अथ दक्षः क्रियादक्षः स्वर्वैद्यौ वेदमायुषः ।
वेदयामास विद्वांसौ सूर्यांशौ सुरसत्तमौ 7

दक्षादधीत्य दस्रौ वितनुतः संहितां स्वीयाम ।
सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम 8
स्वयम्भुवः शिरश्छिन्नं भैरवेण रुषाऽथ तत ।
अश्विभ्यां संहितं तस्मात्तौ जातौ यज्ञभागिनौ 9
देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः ।
अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत 10
वज्रिणोऽभूद् भुजस्तम्भः स दस्राभ्यां चिकित्सितः ।
सोमान्निपतितश्चन्द्र स्ताभ्यामेव सुखी कृतः 11
विशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च ।
शशिनो राजयक्ष्माऽभूदश्विभ्यां ते चिकित्सिताः 12
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः ।
वीर्यवर्णस्वरोपेतः कृतोऽश्विभ्यां पुनर्युवा 13
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषजां वरौ ।
बभूवतुर्भृशं पूज्याविन्द्रा दीनां दिवौकसाम् 14

संदृश्य दस्रयोरिन्द्रः कर्माण्येतानि यत्नवान ।
आयुर्वेदं निरुद्वेगं तौ ययाचे शचीपतिः 15
नासत्यौ सत्यसन्धेन शक्रेण किल याचितौ ।
आयुर्वेदं यथाऽधीतं ददतुः शतमन्यवे 16
नासत्याभ्यामधीत्यैव आयुर्वेदं शतक्रतुः ।
अध्यापयामास बहूनात्रेयप्रमुखान्मुनीन 17

एकदा जगदालोक्य गदाकुलमितस्ततः ।
चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः 18
किं करोमि क्व गच्छामि कथं लोका निरामयाः ।
भवन्ति सामयानेतान्न शक्नोमि निरीक्षितुम 19
दयालुरहमत्यर्थं स्वभावो दुरतिक्रमः ।
एतेषां दुःखतो दुःखं ममापि हृदयेऽधिकम 20
आयुर्वेदं पठिष्यामि नैरुज्याय शरीरिणाम ।
इति निश्चित्य गतवानात्रेयस्त्रिदशालयम 21
तत्र मन्दिरमिन्द्र स्य गत्वा शक्रं ददर्श सः ।
सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः 22
भासयन्तं दिशो भासा भास्करप्रतिमं त्विषा ।
आयुर्वेदमहाचार्यं शिरोधार्यं दिवौकसाम 23
शक्रस्तु तं निरीक्ष्यैवं त्यक्तसिंहासनः स्थितः ।
तमग्रे पूजयामास भृशं भूरितपःकृशम 24
कुशलं परिपप्रच्छ तथागमनकारणम ।
स मुनिर्वक्तुमारेभे निजागमनकारणम 25
देवराज न जानासि दिव एव यतो भवान ।
विधात्रा विहितो यत्नात्त्रिलोकीलोकपालकः 26
व्याधिभिर्व्यथिता लोकाः शोकाकुलितचेतसः ।
भूतले सन्ति सन्तापं तेषां हन्तुं कृपां कुरु 27
आयुर्वेदोपदेशं मे कुरु कारुण्यतो नृणाम ।
तथेत्युक्त्वा सहस्राक्षोऽध्यापयामास तं मुनिम 28
मुनीन्द्र  इन्द्र तः साङ्गमायुर्वेदमधीत्य सः ।
अभिनन्द्य तमाशीर्भिराजगाम पुनर्महीम 29
अथात्रेयो मुनिश्रेष्ठो भगवान्करुणाकरः ।
स्वनाम्ना संहितां चक्रे नरवर्गानुकम्पया 30
ततोऽग्निवेशं भेडञ्च जातूकर्णं पराशरम ।
क्षीरपाणिञ्च हारीतमायुर्वेदमपाठयत 31
तन्त्रस्य कर्त्ता प्रथममग्निवेशोऽभवत्पुरा ।
ततो भेडादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च 32
श्रावयामासुरात्रेयं मुनिवृन्देन वन्दितम ।
श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः 33
यथावत्सूत्रितं दृष्ट्वा प्रहृष्टा मुनयोऽभवन ।
दिवि देवर्षयो देवाः श्रुत्वा साध्विति चाब्रुवन 34
एकदा हिमवत्पार्श्वे दैवादागत्य सङ्गताः ।
मुनयो बहवस्तेषां नामभिः कथयाम्यहम 35
भरद्वाजो मुनिवरः प्रथमं समुपागतः ।
ततोऽङ्गिरास्ततो गर्गो मरीचिर्भृगुभार्गवौ 36
पुलस्त्योऽगस्तिरसितो वसिष्ठः सपराशरः ।
हारीतो गौतमः सांख्यो मैत्रेयश्च्यवनोऽपि च 37
जमदग्निश्च गार्ग्यश्च कश्यपः काश्यपोऽपि च ।
नारदो वामदेवश्च मार्कण्डेयः कपिञ्जलः 38
शाण्डिल्यः सहकौण्डिन्यः शाकुनेयश्चशौनकः ।
आश्वलायनसांकृत्यौ विश्वामित्रः परीक्षकः 39
देवलो गालवो धौम्यः काप्यकात्यायनावुभौ ।
काङ्कायनो वैजपेयः कुशिको बादरायणः 40
हिरण्याक्षश्च लौगाक्षिः शरलोमा च गोभिलः ।
वैखानसा वालखिल्यास्तथैवान्ये महर्षयः 41
ब्रह्मज्ञानस्य निधयो यमस्य नियमस्य च ।
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः 42
सुखोपविष्टास्ते तत्र सर्वे चक्रुः कथामिमाम ।
धर्मार्थकाममोक्षाणां मूलमुक्तं कलेवरम ।
तच्च सर्वार्थसंसिद्ध्यै भवेद्यदि निरामयम 43
तपः स्वाध्यायधर्माणां ब्रह्मचर्यव्रतायुषाम ।
हर्त्तारः प्रसृता रोगा यत्र तत्र च सर्वशः 44
रोगाः कार्श्यकरा बलक्षयकरा देहस्य चेष्टाहरा ।
दृष्टा इन्द्रि यशक्तिसङ्क्षयकराः सर्वाङ्गपीडाकराः ।
धर्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा बलात ।
प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम 45
तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै-
र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिं तेऽब्रुवन ।
त्वं योग्यो भगवन् सहस्रनयनं याचस्व लब्धं क्रमा-
दायुर्वेदमधीत्य यं गदभयान्मुक्ता भवामो वयम 46
इत्थं स मुनिभिर्योग्यैः प्रार्थितो विनयान्वितैः ।
भरद्वाजो मुनिश्रेष्ठो जगाम त्रिदशालयम 47
तत्रेन्द्र भवनं गत्वा सुरर्षिगणमध्यगम ।
दृष्टवान् वृत्रहन्तारं दीप्यमानमिवानलम 48
दृष्ट्वैव स मुनिं प्राह भगवान मघवा मुदा ।
धर्मज्ञ स्वागतं तेऽथ मुनिं तं समपूजयत 49
सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम ।
ऋषीणां वचनं सम्यक् श्रावयामास तत्त्वतः 50
व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः ।
तेषां प्रशमनोपायं यथावद्वक्तुमर्हसि 51
अपाठयन्मुनिं साङ्गमायुर्वेदं शतक्रतुः ।
जीवेद्वर्षसहस्राणि देही नीरुङ् निशम्य यम 52
सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामुनिः ।
यथावदचिरात्सर्वं बुबुधे तन्मना मुनिः 53
तेनायुः सुचिरं लेभे भरद्वाजो निरामयम ।
अन्यानपि मुनींश्चक्रे नीरुजः सुचिरायुषः 54
तत्तन्त्रजनितज्ञानचक्षुषा ऋषयोऽखिलाः ।
गुणान्द्र व्याणि कर्माणि दृष्ट्वा तद्विधिमाश्रिताः 55
आरोग्यं लेभिरे दीर्घमायुश्च सुखसंयुतम ।
आयुर्वेदोक्तविधिनाऽन्येऽपि स्युर्मुनयो यथा 56
यदा मत्स्यावतारेण हरिणा वेद उद्धृतः ।
तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान 57
अथर्वान्तर्गतं सम्यगायुर्वेदं च लब्धवान ।
एकदा स महीवृत्तं द्र ष्टुं चर इवागतः 58
तत्रलोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान ।
स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान 59
तान्दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः ।
अनन्तश्चिन्तयामास रोगोपशमकारणम 60
सञ्चिन्त्य स स्वयं तत्र मुनेः पुत्रो बभूव ह ।
प्रसिद्धस्य विशुद्धस्य वेदवेदाङ्गवेदिनः 61
यतश्चर इवायातो न ज्ञातः केनचिद्यतः ।
तस्माच्चरकनाम्नासौ ख्यातश्च क्षितिमण्डले 62
स भाति चरकाचार्यो देवाचार्यो यथा दिवि ।
सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः 63
आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन ।
मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम 64
तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता ।
चरकेणात्मनो नाम्ना ग्रन्थोऽय चरकः कृतः 65
एकदा देवराजस्य दृष्टिर्निपतिता भुवि ।
तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः 66
तान्दृष्ट्वा हृदयं तस्य दयया परिपीडितम ।
दयार्द्र हृदयः शक्रो धन्वन्तरिमुवाच ह 67
धन्वन्तरे सुरश्रेष्ठ  भगवन् किञ्चिदुच्यते ।
योग्यो भवसि भूतानामुपकारपरो भव 68
उपकाराय लोकानां केन किं न कृतं पुरा ।
त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूपवान 69
तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव ।
प्रतीकाराय रोगाणामायुर्वेदं प्रकाशय 70
इत्युक्त्वा सुरशार्दूलः सर्वभूतहितेप्सया ।
समस्तमायुषो वेदं धन्वन्तरिमुपादिशत 71
अधीत्य चायुषो वेदमिन्द्रा द्धन्वन्तरिः पुरा ।
आगत्य पृथिवीं काश्यां जातो बाहुजवेश्मनि 72
नाम्ना तु सोऽभवत्ख्यातो दिवोदास इति क्षितौ ।
बाल एव विरक्तोऽभूच्चचार सुमहत्तपः 73
यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम ।
ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधीयते 74
हिताय देहिनां स्वीया संहिता विहिताऽमुना ।
अथ विद्यार्थिनो लोकान्संहितां तामपाठयत 75
अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन ।
अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते 76
विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान ।
वत्स वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम 77
तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः ।
स हि धन्वन्तरिः साक्षादायुर्वेदविदां वरः 78
आयुर्वेदं पठस्व त्वं लोकोपकृतिहेतवे ।
सर्वप्राणिदया तीर्थमुपकारो महामखः 79
पितुर्वचनमाकर्ण्य सुश्रुतः काशिकां गतः ।
तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ 80
अथ धन्वन्तरिं सर्वे वानप्रस्थाश्रमे स्थितम ।
भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम 81
काशिराजं दिवोदासं तेऽपश्यन्विनयान्विताः ।
स्वागतं च तदा चाह दिवोदासो यशोधनः 82
कुशलं परिपप्रच्छ तथागमनकारणम ।
ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम 83
भगवन्मानवान्दृष्ट्वा व्याधिभिः परिपीडितान ।
क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा 84
आमयानां शमोपायं विज्ञातुं वयमागताः ।
आयुर्वेदं भवानस्मानध्यापयतु यत्नतः 85
अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत ।
व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयो मुदा 86
काशिराजं जयाशीर्भिरभिनन्द्य मुदान्विताः ।
सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम 87
प्रथमं सुश्रुतस्तेषु स्वतन्त्रं कृतवान्स्फुटम ।
सुश्रुतस्य सखायोऽपि पृथक्तन्त्राणि तेनिरे 88
सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः
तस्मात्तत्सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले 89

इति भावप्रकाशे पूर्वखण्डे आयुर्वेदप्रवक्तृप्रादुर्भावप्रकरणं समाप्तम 1
Related Posts Plugin for WordPress, Blogger...

Follow by Email