Saturday, 11 July 2015

अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरणम 8 - C

तत्र वातोल्वणविस्फारकलक्षणम 

श्वासः कासो भ्रमो मूर्च्छा प्रलापो मोहवेपथू
पार्श्वस्य वेदना जृम्भा कषायत्वं मुखस्य च 449

वातोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत
एष विस्फारको नाम्ना सन्निपातः सुदारुणः 450

अतिसारो भ्रमो मूर्च्छा मुखपाकस्तथैव च
गात्रे च बिन्दवो रक्ता दाहोऽतीव प्रजायते 451

पित्तोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत
भिषग्भिः  सन्निपातोऽयमाशुकारी प्रकीर्त्तितः 452

जडता गद्गदा वाणी रात्रौ निद्रा  भवत्यपि
प्रस्तब्धे नयने चैव मुखमाधुर्यमेव च 453

कफोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत
मुनिभिः सन्निपातोऽयमुक्तःकम्पनसंज्ञकः 454

वातपित्ताधिको यस्तु सन्निपातः प्रकुप्यति
तस्य ज्वरो मदस्तृष्णा मुखशोषः प्रमीलकः 455

आध्मानारुचितन्द्रा श्च कासश्वासभ्रमश्रमाः
मुनिभिर्बभ्रनामाऽय सन्निपात उदाहृतः 456

वातश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति
तस्य शीतज्वरो मूर्च्छा क्षुत्तृष्णा पार्श्वनिग्रहः 457

शूलमस्विद्यमानस्य तन्द्रा  श्वासश्च जायते
असाध्यः सन्निपातोऽय शीघ्रकारीति कथ्यते
न हि जीवत्यहोरात्रमनेनाविष्टविग्रहः 458

पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति
अन्तर्दाहो बहिः शीतं तस्य तृष्णा प्रवर्द्धते 459

तुद्यते दक्षिणे पार्श्वे उरःशीर्षगलग्रहः
ष्ठीवति श्लेष्मपित्तञ्च कृच्छ्रात्कोठश्च जायते 460

विड्भेदश्वासहिक्काश्च वर्द्धन्ते सप्रमीलकाः
ऋषिभिर्भल्लुनामाऽय सन्निपात उदाहृतः 461

सर्वदोषोल्वणो यस्य सन्निपातः प्रकुप्यति
त्रयाणामपि दोषाणां तस्य रूपाणि लक्षयेत 462

व्याधिभ्यो दारूणश्चैव वज्रशस्त्राग्निसन्निभः
केवलोच्छ्वासपरमः स्तब्धाङ्गः स्तब्धलोचनः 463

त्रिरात्रात्परमेतस्य जन्तोर्हरति जीवितम
तदवस्थन्तु तं दृष्ट्वा मूढो व्याहरते जनः 464

धर्षितो राक्षसैर्नूनमवेलायां चरन्ति ये
अम्बया ब्रुवते केचिद्यक्षिण्या ब्रह्मराक्षसैः 465

पिशाचैर्गुह्यकैश्चैव तथाऽन्यैर्मस्तके हतम्
कुलदेवार्च्चनाहीनं धर्षितं कुलदैवतैः 466

नक्षत्रपीडामपरे गरकर्मेति चापरे
सन्निपातमिमं प्राहुर्भिषजः कूटपाकलम 467

प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः 468

प्रलापायाससम्मोहकम्पमूर्च्छाऽरतिभ्रमाः
एकपक्षाभिघातश्च तत्राप्येते विशेषतः 469

एष सम्मोहको नाम्ना सन्निपातः सुदारुणः 470

मध्यप्रवृद्धहीनैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषवलाश्रयाः 471

मोहप्रलापमूर्च्छाः स्युर्मन्यास्तम्भः शिरोग्रहः
कासः श्वासो भ्रमस्तन्द्रा  संज्ञानाशो हृदि व्यथा

खेभ्यो रक्तं विसृजति सरक्तस्तब्धनेत्रता
तत्राप्येते विशेषाः स्युर्मृत्युरर्वाक् त्रिवासरात

भिषग्भिः सन्निपातोऽय कथितःपाकलाभिधः 473

हीनप्रवृद्धमध्यैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः 474

हृदयं दह्यते चास्य यकृत्प्लीहान्त्रफुफ्फुसाः
पच्यन्तेऽत्यर्थमूर्द्ध्वाधः पूयशोणितनिर्गमः 475

शीर्णदन्तश्च मृत्युश्च तत्राप्येतद्विशेषतः
भिषग्भिः सन्निपातोऽय याम्यो नाम्ना प्रकीर्त्तितः 476

प्रवृद्धहीनमध्यस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलश्रयाः 477

प्रलापायाससम्मोहाः कम्पमूर्च्छाऽरतिभ्रमाः
मन्यास्तम्भेन मृत्युःस्यात्तत्राप्येतद्विशेषतः 478

भिषग्भिः सन्न्पितोऽय क्रकचः सम्प्रकीर्त्तितः 479

मध्यहीनप्रबृद्धैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः 480

अन्तर्दाहो विशेषोऽत्र नच वक्तुं स शक्यते
रक्तमालक्तकेनेव लक्ष्यते मुखमण्डलम 481

पित्तेनाकर्षितः श्लेष्मा हृदयान्न प्रसिच्यते
इषुणेवाहतं पार्श्वं तुद्यते खन्यते हृदि 482

प्रमीलकश्वासहिक्का वर्द्धन्ते तु दिने दिने
जिह्वा दग्धा खरस्पर्शा गलः शूकैरिवावृतः 483

विसर्गं नाभिजानाति कूजेच्चापि कपोतवत
अतीव श्लेष्मणा पूर्णः शुष्कवक्त्रौष्ठतालुकः 484

तन्द्रा निद्रा ऽतियोगार्त्तो हतवाङ् निहतद्युतिः
न रतिं लभते नित्यं विपरीतानि चेच्छति 485

आयम्यते च बहुशो रक्तं ष्ठीवति चाल्पशः
एष कर्कटको नाम्ना सन्निपातःसुदारुणः 486

हीनमध्यप्रवृद्धैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः 487

अल्पशूलं कटीतोदो मध्ये दाहो रुजा भ्रमः
भृशं क्लमः शिरोवस्तिमन्याहृदयवाग्रुजः 488

प्रमीलकः श्वासकासहिक्काजाड्यविसंज्ञताः
प्रथमोत्पन्नमेनन्तु साधयन्ति कदाचन 489

एतस्मिन्सन्निवृत्ते तु कर्णमूले सुदारुणा
पिडिका जायते जन्तोर्यया कृच्छ्रेण जीवति 490

स वैदारिकसंज्ञोऽय सन्निपातःसुदारुणः
त्रिरात्रात्परमेतस्य व्यर्थमौषधकल्पनम 491

शीता ङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री  प्रलापी ततो
रक्तष्ठीवयिता च तत्र गणितः सम्भुग्ननेत्रस्तथा
साभिन्यासकजिह्वकश्च कथितः प्राक्सन्धिगोऽथान्तको
रुग्दाहः सहचित्तविभ्रम इह द्वौ कर्णकण्ठग्रहौ 492

हिमशिशिरशरीरः सन्निपातज्वरी यः श्वसनकसनहिक्कामोहकम्पप्रलापः
क्लमबहुकफवातादाहवभ्यङ्गपीडास्वरविकृतिभिरार्त्तः शीतगात्रः स उक्तः 493

तन्द्रा ऽतीव ततस्तृषाऽतिसरणं श्वासोऽधिकः कासरुक
सन्तप्तार्तितनुर्गले श्वयथुना सार्द्धञ्च कण्डूः कफः
सुश्यामा रसना क्लमः श्रवणयोर्मान्द्यञ्च दाहस्तथा
यत्र स्यात्स हि तन्द्रि को निगदितो दोषत्रयोत्थो ज्वरः 494

यत्र ज्वरे निखिलदोषनितान्तरोष जाते प्रलापबहुलाः सहसोत्थिताश्च
कम्पव्यथापतनदाहविसंज्ञताः स्युर्नाम्ना प्रलापक इति प्रथितः पृथिव्याम 495

निष्ठीवो रुधिरस्य रक्तसदृशं कृष्णं तनौ मण्डलं
लौहित्यं नयने तृषाऽरुचिवमिश्वासातिसारभ्रमाः
आध्मानञ्च विसंज्ञता च पतनं हिक्काऽङ्गपीडा भृशं
रक्तष्ठीविनि सन्निपातजनिते लिङ्गं ज्वरे जायते 496

भृशं नयनवक्रता श्वसनकासतन्द्रा  भृशं प्रलापमदवेपथुश्रवणहानिमोहास्तथा
पुरो निखिलदोषजे भवति यत्र लिङ्गं ज्वरे पुरातनचिकित्सकैः स इह भुग्ननेत्रो मतः 497

दोषास्तीव्रतरा भवन्ति बलिनः सर्वेऽपि यत्र ज्वरे
मोहोऽतीव विचेष्टता विकलता श्वासो भृशं मूकता
दाहश्चिक्कणमाननञ्च दहनो मन्दो बलस्य क्षयः
सोऽभिन्यास इति प्रकीर्त्तित इह प्राज्ञैर्भिषग्भिः पुरा 498

त्रिदोषजनिते ज्वरे भवति यत्र जिह्वा भृशं
वृता कठिनकण्टकैस्तदनु निर्भरंमूकता
श्रुतिक्षतिबलक्षति श्वसनकाससन्तप्तताः
पुरातनभिषग्वरास्तमिह जिह्वकं चक्षते 499

व्यथाऽतिशयिता भवेच्छ्वयथुसंयुता सन्धिषु
प्रभूतकफता मुखे विगतनिद्र ता कासरुक्
समस्तमिति कीर्त्तितं भवति लक्ष्म यत्र ज्वरे
त्रिदोषजनिते बुधैः स हि निगद्यते सन्धिगः 500

यस्मिँ ल्लक्षणमेतदस्ति सकलैर्दोषैरुदीते ज्वरे
ऽजस्रं मूर्द्धविधूननं सकसनं सर्वाङ्गपीडाऽधिका
हिक्काश्वाससदाहमोहसहिता देहेऽतिसन्तप्तता वैकल्यञ्च वृथावचांसि मुनिभिः संकीर्त्तितः सोऽन्तकः 501

दाहोऽधिको भवति यत्र तृषा च तीव्रा श्वासप्रलापविरुचिभ्रममोहपीडाः
मन्याहनुव्यथनकण्ठरूजः श्रमश्च रूग्दाहसंज्ञ उदितस्त्रिभवो ज्वरोऽयम 502

गायति नृत्यति हसति प्रलपति विकृतं निरीक्षते मुह्येत
दाहव्यथाभयार्त्तो नरस्तु चित्तभ्रमे ज्वरे भवति 503

दोषत्रयेण जनितः किल कर्णमूले तीव्रा ज्वरे भवति तु श्वयथुव्यथा च
कण्ठग्रहो बधिरता श्वसनं प्रलापः प्रस्वेदमोहदहनानि च कर्णिकाख्ये 504

कण्ठःशूकशतावरुद्धवदतिश्वासः प्रलापोऽरुचि
र्दाहोदेहरुजा तृषाऽपि च हनुस्तम्भः शिरोऽतिस्तथा
मोहो वेपथुना सहेति सकलं लिङ्गं त्रिदोषज्वरे
यत्रस्यात्स हि कण्ठकुब्ज उदितः प्राच्यैश्चिकित्साबुधैः 505

सन्धिगस्तेषुसाध्यः स्यात्तन्द्रि कश्चित्तविभ्रमः
कर्णिको जिह्वकः कण्ठकुब्जः पञ्चापि कष्टकाः 506
रुग्दाहस्त्वतिकष्टेन संसाध्यस्तेषु भाषितः
रक्तष्ठीवी भुग्ननेत्रः शीतगात्रः प्रलापकः
अभिन्यासोऽन्तकश्चैते षडसाध्याः प्रकीर्त्तिताः 507

कुम्भीपाकः प्रोर्णुनावः प्रलापी ह्यन्तैर्दाहो दण्डपातोऽन्तकश्च
एणीदाहश्चाथ हारिद्र संज्ञो भेदा एते सन्निपातज्वरस्य 508

अजघोषभूतहासौ यन्त्रापीडश्च संन्यासः
संशोषी च विशेषास्तस्यैवोक्तास्त्रयोदशान्यत्र 509

घोणाविवरझरद्वहु शोणासितलोहितं सान्द्र म
विलुठन्मस्तकमभितः कुम्भीपाकेन पीडितं विद्यात 510

उत्क्षिप्य यः स्वमङ्गं क्षिपत्यधस्तान्नितान्तमुच्छ्वसिति
तं प्रोर्णुनावजुष्टं विचित्रकष्टं विजानीयात 511

स्वेदभ्रमाङ्गभेदाः कम्पोदवथुर्वमिर्व्यथा कण्ठे
गात्रश्च गुर्वतीव प्रलापिजुष्टस्य जायते लिङ्गम 512

अन्तर्दाहः शैत्यं बहिः श्वयथुररतिरति तथा श्वासः
अङ्गमपि दग्धकल्पं सोऽन्तर्दाहार्दितः कथितः 513

नक्तन्दिवा न निद्रा मुपगृह्णाति मूढधीर्नभसः
उत्थाय दण्डपाती भ्रमातुरः सर्वतो भ्रमति 514

सम्पूर्यते शरीरं ग्रन्थिभिरभितस्तथोदरं मरुता
श्वासातुरस्य सततं विचेतनस्यान्तकार्त्तस्य 515

परिधावतीव गात्रे रुक्पात्रे भुजगपतगहरिणगणः
वेपथुमतः सदाहस्यैणीदाहज्वरार्त्तस्य 516

यस्यातिपीतमङ्गं नयने सुतरां मलस्ततोऽप्यधिकम
दाहेऽतिशीतता बहिरस्य स हारिद्र को ज्ञेयः 517

छगलकसमानगन्धः स्कन्धरुजावान्निरूद्धगलरन्ध्रः
अजघोषसन्निपातादाताम्राक्षः पुमान् भवति 518

शब्दादीनधिगच्छति न स्वान् विषयान् यदिन्द्रि यग्रामैः
हसति प्रलपति परुषं स ज्ञेयो भूतहासार्त्तः 519

येन मुहुर्ज्वरवेगाद् यन्त्रेणेवावपीड्यते गात्रम्
रक्तं पित्तञ्च वमेद् यन्त्रापीडः स विज्ञेयः 520

अतिसरति वमति कूजति गात्राण्यभितश्चिरं नरः क्षिपति
संन्याससन्निपाते प्रलपत्युग्राक्षिमण्डलो भवति 521

मेचकवपुरतिमेचक लोचनयुगलो मलोत्सर्गात
संशोषिणि सितपिडिका मण्डलयुक्तो ज्वरे नरो भवति 522

नारायण एव भिषग् भेषजमेतेषु जाह्नवीनीरम
नैरुज्यहेतुरेको नित्यं मृत्युञ्जयो ध्येयः 523

सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः
शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते 6524

सन्निपातज्वरान्कष्टानसाध्यानपरे जगुः 525

दोषे प्रवृद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः
सन्निपातज्वरोऽसाध्यः कष्टसाध्यस्ततोऽन्यथा 526

सन्निपातार्णवे मग्नं योऽभ्युद्धरति मानवम
कस्तेन न कृतो धर्मः काञ्च पूजां न सोऽहति 527

मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता
यश्च तत्र भवेज्जेता सजेताऽमयसंकुले 528

श्लेष्मनिग्रहमेवादौ कुर्याद्व्याधौ त्रिदोषजे
संसर्गे यो गरीयान्स्या दुपक्रम्यस वै भवेत 529

अंशाशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात
क्रियां साधारणीं तत्र विदधीत चिकित्सकः 530

लङ्घनं बालुकास्वेदो नस्यं निष्ठीवनं तथा
अवलेहोऽञ्जनं चैव प्राक्प्रयोज्यं त्रिदोषजे 531

क्रियाभिस्तुल्यरूपाभिः क्रियासांकर्यमिष्यते
भिन्नरूपतया तास्तु न हि कुर्वन्ति दूषणम 532

त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा
लङ्घनं सन्निपातेषु कुर्यादारोग्यदर्शनात 533

सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा 534

पित्तकफानिलवृद्ध्या दशदिवसद्वादशाहसप्ताहात
हन्ति विमुञ्चत्यथ वा त्रिदोषजो धातुमलपाकात 535

निद्रा नाशो हृदिस्तम्भो विष्टम्भो गौरवारुची
अरतिर्बलहानिश्च धातूनां पाकलक्षणम 536

सम्बाध्यमानोहृदि नाभिदेशे गात्रेषु वा पाकरुजाऽन्वितेषु
पीडां ज्वरार्त्तोऽङगुलिभिश्च गच्छेत् स धातुपाकी कथितो भिषग्भिः 537

नाभेरूर्ध्वं हृदोऽधस्तात् पीडिते चेद्ब्यथा भवेत
धातोः पाकंविजानीयादन्यथा तु मलस्य च 538

दोषप्रकृतिवैकृत्यं लघुताज्वरदेहयोः
इन्द्रि याणाञ्च वैमल्यं मलानां पाकलक्षणम 539

शश्वत्त्विन्द्रि यपञ्चकस्य पटुता वह्नेश्च यत्र क्रमा
त्तृष्णाऽदिप्रशमो ज्वरस्य मृदुता तं दोषपाकं वदेत
हृन्नाभ्योरतिवेदनाऽतिसरणं तीव्रो ज्वरस्तृण्मदः
श्वासाधिक्यमरोचकोऽरतिरिति स्याद्धातुपाकाकृतिः 540

सप्तमी द्विगुणा यावन्नवम्येकादशी तथा
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च 541

सन्निपातज्वरी पूर्वं सम्यग् लङ्घनमाचरेत
शृतं शीतं पिबेदम्भः समये भेषजं भजेत 542

सन्निपातेन तृष्यन्तं पार्श्वरुक्तालुशोषिणम
यःपाययेज्जलं शीतं स मृत्युर्नरविग्रहः 543

वातश्लेष्मकृते स्वेदान्कारयेद्रू क्षनिर्मितान
स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजात 544

खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तवालुकास्वेदः
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन 545

स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम
हृत्वावातकफस्तम्भं स्वेदो ज्वरमपोहति 546

सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण सम्पिष्टं नस्यं तन्द्रा निवारणम 547

मधूकसारसिन्धूत्थवचोषणकणाः समाः
श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं दद्यात्संज्ञाप्रबोधनम 548

मातुलुङ्गार्द्र्रकरसं कोष्णं त्रिलवणान्वितम
अन्यद्वा सिद्धिविहितं नस्यं तीक्ष्णं प्रयोजयेत 549

तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिच्यते
शिरोहृदयकण्ठास्यपार्श्वरुक् चोपशाम्यति 550

मोहामयेन मुग्धं बोधयितुं यादृशः शक्तः
कल्पतरुनामधेयो रसो न तादृक् परं किञ्चित 551

जिह्वातालुगलक्लोम मरुत्पित्तेन दूषितम
तदा सञ्चारयेच्छोषं जिह्वाविरसतां तथा 552

स्फुटनञ्च तदा जिह्वां लेपयेन्मधुपिष्टया
द्रा क्षया साज्यया तेन जिह्वा स्यात्सरसा मृदुः 553

आर्द्रकस्वरसोपेतं सैन्धवं कटुकत्रयम
आकण्ठाद्धारयेदास्ये निष्ठीवेच्च पुनः पुनः 554

तेनास्यतालुकोष्ठांसमन्यापार्श्वशिरोगलात
लीनोऽप्याकृष्यते श्लेष्मा लाघवं चास्य जायते 555

पर्वभेदो ज्वरो मूर्च्छानिद्रा श्वासगलामयाः
मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति 556

सकृद्द्विस्त्रिश्चतुष्कुर्याद् दृष्ट्वा दोषबलाबलम
एतद्धि परमं प्राहुर्भेषजं सन्निपातिनाम 557

इति कवल ग्रहः

कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी
श्लक्ष्णं चूर्णीकृतं चैतन्मधुना सह लेहयेत 558

एषाऽवलेहिका हन्ति सन्निपातं सुदारूणम
हिक्कां श्वासं च कासञ्च कण्ठरोगञ्च नाशयेत
एतद्योज्यं कफोद्रे के चूर्णमार्द्र कजै रसैः 559

अष्टाङ्गं मधुना लिह्यादार्द्र कस्य रसेन  वा
सम्मोहं दारुणं हन्यात्तन्द्रा काससमन्वितम 560

सर्वेषु सन्निपातेषु न क्षौद्र्रमवचारयेत
शीतोपचारि क्षौद्रं  स्याच्छीतं चात्र विरुद्ध्य्ते 561

स्विन्नमामलकं पिष्ट्वा द्रा क्षया सह मेलयेत
विश्वभेषजसुंयुक्तं मधुना सह लेहयेत
तेनास्य शाम्यति श्वासः कासो मूर्च्छाऽरुचिस्तथा 562

शिरीषबीजं गोम्रूत्रकृष्णामरिचसैन्धवैः
अञ्जनं स्यात्प्रबोधायसरसोनशिलावचैः 563

अयोरजः श्वेतलोध्रं मरिचं चाञ्जनं तथा
गोमूत्रेण समायुक्तं तन्द्रा नाशनमुत्तमम 564

अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः
प्रमोहद्र्रोहि भवति भाषितं दण्डपाणिना 565

इत्यञ्जनम्

सूतं विषञ्च मरिचंतुत्थकं नवसादरम
चूर्णितं स्वरसैर्मर्द्यं धूर्त्तपत्ररसोनयोः 566

सन्निपातकृते मोहे मूर्ध्नि लिम्पेत्पदोपरि
अस्थिव्यथास्वनेनैव लेपं कुर्यात्पदोपरि 567

बिल्वः श्योनाकगाम्भारीपाटलागणिकारिकाः
पित्तघ्नंवातकफहृत्पञ्चमूलमिदं महत 568

शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका
गोक्षुरुर्वातपित्तघ्नं कनीयः पञ्चमूलकम 569

उभयं दशमूलं तत्पिप्पलीचूर्णसंयुतम
सन्निपातज्वरं हन्ति हृत्कण्ठग्रहनाशनम 570

तन्द्रा वातकफातङ्कश्वासपार्श्वार्त्तिकासनुत 571
महान्ति यानि मूलानि काष्ठगर्भाणि यानि च

तेषान्तु वल्कलं ग्राह्यं ह्रस्वमूलानि कृत्स्नशः 572

दशमूलीकषायस्तु पिप्पलीपौष्करान्वितः
सन्निपातज्वरे देयः श्वासकाससमन्विते 573

चिरज्वरे वातकफोल्वणे वा त्रिदोषजे वा दशमूलमिश्रः
किराततिक्तादिगणः प्रयोज्यः शुद्ध्य्र्थिने वा त्रिवृताविमिश्रः 574

किराततिक्तको मुस्तं गुडूची विश्वभेषजम
किरातादिर्गणो ह्येष चातुर्भद्र कमित्यपि 575

दशमूली शटी शृङ्गी पौष्करं सदुरालभम
भार्गी कुटजबीजञ्च पटोलं कटुरोहिणी 576

अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः
कासहृद्ग्रहपार्श्वार्त्तिश्वासहिक्कावमीहरः 577

भूनिम्बदारुदशमूलमहौषधाब्द तिक्तेन्द्र्रबीजधनिकेभकणाकषायः
तन्द्रा प्रलापकसनारुचिदाहमोह श्वासत्रिदोषजनितज्वरनाशनः स्यात 578

सन्निपातज्वरे रसप्रदीपे

विषं त्रिकटुकं गन्धं टङ्कणं मृतशुल्वकम
धत्तूरस्य च बीजानि हिङ्गुलं नवमं स्मृतम 579

एतानि समभागानि दिनैकं विजयाद्र वैः
मर्दयेच्चणकाकारा कर्त्तव्या वटिकाऽथ सा 580

भक्षणीयोऽनुपातव्यो रविमूलकषायकः
मृतसञ्जीवनी नाम्नासन्निपातज्वरान्तकृत 581

शुद्धसूतं समं गन्धं सूतांशं मृतताम्रकम
त्रिभिस्तुल्यैर्गवां क्षीरैर्मर्दयेदातपे खरे 582

मर्दयेद्दिनमेकन्तु निर्गुण्डीशिग्रुजद्र वैः
विधाय गोलं तं गोलमन्धमूषागतं पचेत 583

त्रियामं बालुकायन्त्रे ततः खल्वे विचूर्णयेत
अष्टमांशं विषं तत्र क्षिपेत्तेनापि मर्दयेत 584

त्रिनेत्राख्यो रसो ह्येष देयो गुञ्जाद्वयोन्मितः
पञ्चकोलकषायेण छागीदुग्धेन वा सह 585

रसेनानेनभुक्तेन सन्निपातज्वरो महान
संक्षयं व्रजति क्षिप्रं कर्त्तव्यो नात्र संशयः 586

भस्म षोडशनिष्कं स्यादरण्योपलसम्भवम
मरिचं निष्कमात्रञ्च विषं निष्कं विचूर्णयेत 587

रसो भस्मेश्वरो नाम सन्निपातज्वरान्तकृत
एकगुञ्जामितो भक्ष्य आर्द्र कस्य द्रवेण हि 588

द्वौ कर्षौ सूतकाद् ग्राह्यौ गन्धकाद् द्वौ तथैव च
यत्नतस्तूभयं मर्द्यं दिनं हंसपदीद्रवैः 589

कल्कस्य वटिकां कृत्वा निक्षिपेत्काचभाजने
कर्षैकममृतं तत्र क्षिप्त्वा वक्त्रं निरोधयेत 590

कूपिकायाः परौ भागौ बालुकाभिश्च पूरयेत
सार्द्धं यावदहोरात्रं तावत्तत्र पचेद्र सम 591

याममात्रोऽनलो देयः स्वाङ्गशीतं समुद्धरेत
तोलार्द्धममृतं तत्र क्षिपेत्तावत्तथोषणम 592

भक्षितो रक्तिकामात्रो रसस्त्वग्निकुमारकः
सन्निपातज्वरं हन्याद्वातं मन्दाग्नितामपि 593

शूलञ्च ग्रहणीं गुल्मं क्षयं जत्रुगदं तथा
श्वासकासादिकान्सर्वान् गदानेष विनाशयेत 594

गन्धेशटङ्कमरिचं विषं धत्तूरजैर्द्र वैः
दिनं सम्मर्दितं शुष्कं पञ्चवक्त्रो रसो भवेत 595

आर्द्र्रकस्य द्रवेणैष दातव्यो रक्तिकामितः
सन्निपातज्वरे देयो घोरे तद्दोषनाशनः 596

अमृतवराटकमरिचै र्द्विपञ्चनवभागयोजितै रचिता
वटिका मुद्गसमाना कफत्रिदोषाग्निमान्द्यहरी 597

सूतकं गन्धकञ्चैव हरितालं मनःशिला
एकनिष्कं द्विनिष्कञ्च चतुर्निष्कं तथैव च 598

पञ्चनिष्कं रसैः कारवेल्ल्याः सम्यक्प्रकल्पयेत
ताम्रपत्राणि तुल्यानि तेन कल्केन लेपयेत 599

शरावसम्पुटे तानि कृत्वा तेषामुपर्यपि
दद्यात्तां पिष्टिकां पश्चात्पुटपाकेन पाचयेत 600

ततः सञ्चूर्णयेदेवं रसः क्षौद्रेण भक्षितः
यवैकमात्रया हन्ति घोरं शीतज्वरं ध्रुवम 601

पारदं गन्धकञ्चैव तुत्थञ्च दरदं विषम
विषादष्टगुणं योज्यं मरिचं विश्वभेषजम 602

अश्वगन्धाऽथ विजया कासमर्दः कठिल्लकः
चतुर्णाञ्च रसैरेतैश्चूणान्येतानि मर्दयेत 603

तुलस्यास्तु दलैः सार्द्धं भक्षितो रक्तिकामितः
हन्ति शीतज्वरं घोरं नाम्नाऽय शीतकेसरी 604

तालकं शुक्तिकाचूर्णं तुल्यं तत्रोभयोरपि
नवमांशञ्च तुल्यं स्यान्मर्दयेत्कन्यकाद्रवैः 605

तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत
शीतं तच्चूर्णयेदर्द्धगुञ्जामात्रं सितायुतम 606

प्रभाते भक्षयेत्तेन याति शीतज्वरःक्षयम
वान्तिर्भवति कस्यापि कस्यचिन्न भवत्यपि 607

तालकं तुत्थकं ताम्रंसूतगन्धकटङ्कणम
सर्वमेतत्समं चूर्णं कारवेल्लीरसद्र वैः 608

दिनैकं मर्दयेत्तेन रसकर्दमकेन तु
ताम्रस्यभाजनस्यान्तर्लिम्पेदर्द्धाङ्गुलोन्मितम 609

तत्पचेद्वालुकायन्त्रे यवा यावत्स्फुटन्तिहि
शीतलं तद्धि गृह्णीयात्ताम्रपात्रोदराद्भिषक 610

शीतभञ्जी रसो माषमात्रो मरिचसंयुतः
भक्षितःपर्णखण्डेन नाशयेद्विषमज्वरान 611

तालको दरदोद्भूतः पारदो गन्धकःशिला
क्रमाद्भागार्द्धरहितं कारवेल्ल्यम्बुमर्दितम 612

अनेनास्यप्रमाणेन ताम्रपात्रं प्रलेपयेत
अधोमुखं दृढे भाण्डे तन्निरुध्याथ पूरयेत 613

चुल्ल्यां बालुकया घस्रमग्निं प्रज्वालयेदधः
शीतं सञ्चूर्ण्य माषोऽस्य नागवल्लीदले स्थितः 614

भक्षितो मरिचैः सार्द्धं समस्तविषमज्वरान
शीतदाहादिकान्हन्ति पथ्यं शाल्योदनं पयः 615

कट्फलं त्रिफला दारु चन्दनं सपरूषकम
कटुका पद्मकोशीरं विपचेत्कर्षकं जले 616

त्रिदोषदाहतृष्णाघ्नं पानमात्रे प्रपूजितम
दीर्घकालज्वरार्त्तानामेतत्स्यादमृतोपमम 617

सन्निपाते तु दाहार्त्तं यः सिञ्चेच्छीतवारिणा
आतुरः स कथं जीवेद्भिषग्वा स कथं भवेत 618

दुःस्पर्शगोक्षुर क्षुद्रा सिद्धमाहारमर्पयेत
दोषशान्तिबलाग्न्यर्थं त्रिदोषज्वरिणे भिषक 619

लाजसक्तून्समश्नीयात्सैन्धवेन समन्वितान
ते च जीर्यन्त्यविघ्नेन ज्वरी जीवेत्तदा ध्रुवम 620

रक्तपित्तहितत्वेन तृषादाहज्वरेषु च
लाजानां सक्तवः शीता नैव तेऽत्र हिता मताः 621

पाचनो दीपनः स्वेद्यो लाजमण्डो यतः स्मृतः
दशमूलादिसंसिद्धः संनिपातज्वरे हितः 622

सन्निपातज्वरी यस्तु कम्पते प्रलपत्यपि
किञ्चिदेव न जानाति चिकित्सा तस्य कथ्यते 623

अभ्यञ्जयेत्पुराणेन सर्पिषा पूर्वमेव तम
बलारास्नागुडूच्याद्यैस्तैलैश्च परिषेचयेत 624

वर्त्तको वर्त्तिका लावो वार्त्तिकस्तित्तिरिः शशः
कुलिङ्गश्च रसेनैषां तर्पयेत यथाऽनलम 625

सन्निपाते क्षुधाऽत्त यो भोजयेत्पिशितौदनम
स कथं भिषगाख्यान्तु लभते मनुजाधमः 626

अथ वातोल्वणसन्निपातज्वरस्य चिकित्सा

पञ्चमूलीकषायन्तु दशाद्वातोल्बणे ज्वरे
भृशोष्णं वा सुखोष्णं वा दृष्ट्वा दोषबलाबलम 627

अथ पित्तोल्वणसन्निपातज्वरस्य चिकित्सा

परूषकञ्च त्रिफला देवदारु च कट्फलम
चन्दनं पद्मकञ्चैव तथा कटुकरोहिणी 628

पृश्निपर्णी शृतं त्वेभिरुषितं शीतलं जलम
पित्तोत्तरे नृणामेतत्सन्निपातचिकित्सितम 629

किराततिक्तकं मुस्तं गुडूची विश्वभेषजम
पाठोदीच्यं मृणालञ्च शृतं पित्ताधिके पिबेत 630

Related Posts Plugin for WordPress, Blogger...

Follow by Email