Saturday, 11 July 2015

अथ तृतीयं धात्वादिशोधनमारण विधिप्रकरणम ३

दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम
तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत 1

तच्छेदे कठिनं रूक्षं विवर्णं समलं दलम
दाहे छेदे सितं श्वेतं कषे स्फुटं लघु त्यजेत 2

पत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ३

गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा
एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत 4

बलं सवीर्य्यं हरते नराणां रोगव्रजं पोषयतीह काये
असौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्यात 5

स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत
तद्गोलकसमं गन्धं निदध्यादधरोत्तरम 6

गोलकञ्च ततो रुद्ध्वा शरावदृढसम्पुटे
त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः 7

काञ्चने गलिते नागं षोडशांशेन निक्षिपेत
चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा तु गोलकम 8

गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम 9

शरावसम्पुटे धृत्वा पुटेत् त्रिंशद्वनोपलैः
एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते 10

काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः
कज्जलद्यं हेमपत्राणि लेपयेत्समया तथा 11

काञ्चनारत्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत
धृत्वा तत्संपुटे गोलं मृण्मूषासम्पुटे च तत 12

निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम
वह्निं खरतरं कुर्यादेवं दत्त्वा पुटत्रयम 1३

निरुत्थं जायते भस्म सर्वकर्मसु योजयेत
काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम 14

ज्वालामुखी तथा हन्याद् यथा हन्ति मनःशिला 15

शिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः
सप्तधा भावनां दद्याच्छोषयेच्च पुनः पुनः 16

ततस्तु गलिते हेम्नि कल्कोऽय दीयते समः
पुनर्धमेदतितरां यथा कल्को विलीयते
एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत 17

सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम 18

पवित्रं बृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम
हृद्यामायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित 19

असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत
करोति रोगान मृत्युं च तद्धन्याद यत्नतस्ततः 20

लोहादेरनपुनर्भावस्तद्गुणत्वं गुणाढ्यता
सलिले तरणं चापि तत्सिद्धिः पुटनाद्भवेत 21

गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके
वनोपलसहस्रेण पूरिते पुटनौषधम 22

कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत
वनोपलसहस्रार्द्धं कोष्ठिकोपरि निक्षिपेत 2३

वह्निं विनिक्षिपेत्तत्र महापुटमिति स्मृतम 24

सपादहस्तमानेन कुण्डे निम्ने तथाऽयते
वनोपलसहस्रेण पूर्णे मध्ये विधारयेत 25

पुटनद्र व्यसंयुक्तां कोष्टिकां मुद्रितां मुखे
अधोऽधानि करण्डानि अर्धान्युपरि निक्षिपेत
एतद्गजपुटं प्रोक्तं ख्यातं सर्वपुटोत्तमम 26

अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते
वितस्तिमात्रके खाते कथितं कौक्कुटं पुटम 27

षोडशाङ्गुलके खाते कस्यचित्कौक्कुटं पुटम 28

यत्पुटं दीयते खाते ह्यष्टसंख्यैर्वनोपलैः
कपोतपुटमेतत्तु कथितं पुटपण्डितैः 29

गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम
गोबरं तत्समाख्यातं वरिष्ठं रससाधने ३0

बृहद्भाण्डस्थितैर्यत्र गौबरैर्दीयते पुटम
तद गोबरपुटं प्रोक्तं भिषग्भिः सूतभस्मनि ३1

बृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत
क्षिप्त्वाऽग्नि मुद्र येद्भाण्डं तद्भाण्डपुटमुच्यते ३2

भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके
कूपिकाकण्ठपर्यन्तं वालुकाभिश्च पूरिते ३३

भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते
बालुकायन्त्रमेतद्धि यन्त्रं तत्र बुधैः स्मृतम ३4

निबद्धमौषधं सूतं भूर्जे तत्त्रिगुणे वरे
रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ३5

सन्धानपूर्णकुम्भान्तःस्वावलम्बनसन्धितम
अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि
दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ३6

साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च
पिधाय पच्यते तत्र तद यन्त्रं स्वेदनं स्मृतम ३7

अधःस्थाल्यां रसं क्षिप्त्वा विदध्यात्तन्मुखोपरि
स्थालीमूर्ध्वमुखीं सम्यङ्निरुध्य मृदुमृत्स्नया ३8

ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा चुल्ल्यामारोप्य यत्नतः
अधस्ताज्ज्वालयेदग्निं यावत्प्रहरपञ्चकम ३9

स्वाङ्गशीतं ततो यन्त्राद् गृह्णीयाद्र समुत्तमम
विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम् 40

बालुकाभिः समस्ताङ्गं गर्त्ते मूषां रसान्विताम
दीप्तोपलैः संवृणुयाद यन्त्रं भूधरनामकम 41

यन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्या मुद्रिते मुखे 42

गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम
वर्णाढ्यं चन्द्रवत स्वच्छं तारं नवगुणं शुभम 4३

कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु
दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम 44

पत्तलीकृतपत्राणि तारस्याग्नौ प्रतापयेत
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके 45

गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं रजतपत्राणां विशुद्धिः संप्रजायते 46

रूप्यं त्वशुद्धं प्रकरोति तापं विबन्धकं वीर्यबलक्षयं च
देहस्य पुष्टिं हरते तनोति रोगांस्ततः शोधनमस्य कुर्यात 47

भागैकं तालकं मर्द्यं याममम्लेन केनचित
तेन भागत्रयं तारपत्त्राणि परिलेपयेत 48

धृत्वा मूषापुटे रुद्ध्वा पुटेत्त्रिंशद्वनोपलैः
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत

एवं चतुर्दशपुटैस्तारं भस्म प्रजायते 49

स्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत 50

तालकस्य प्रकारेण तारपत्राणि बुद्धिमान
पुटेच्चतुर्दशपुटैस्तारं भस्म प्रजायते 51

रौप्यं शीतं कषायं च स्वादुपाकरसं सरम
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित
प्रमेहादिकरोगांश्च नाशयत्यचिराद्र ध्रुवम 52

जपाकुसुमसङ्काशं स्निग्धं गुरु घनक्षमम
लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते 5३

कृष्णं रूक्षमतिस्वच्छं श्वेतं चापि घनासहम
लोहनागयुतं चेति शुल्वं दुष्टं प्रकीर्त्तितम 54

पत्तलीकृतपत्राणि ताम्रस्याग्नौ प्रतापयेत
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके 55

गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं ताम्रस्य पत्राणां विशुद्धिः संप्रजायते 56

एको दोषो विषे ताम्रे त्वशुद्धेऽष्टौ भ्रमो वमिः
विरेकस्वेद उत्क्लेदो मूर्च्छा दाहोऽरुचिस्तथा 57

न विषं विषमित्याहुस्ताम्रन्तु विषमुच्यते
एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्त्तिताः 58

सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद बुधः
वासरत्रयमम्लेन ततः खल्वे विनिक्षिपेत 59

पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत
ततः उद्धृत्य पत्राणि लेपयेद द्विगुणेन च 60

गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम
ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम 61

तत्कल्केन बहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम
धृत्वा तद गोलकं भाण्डे शरावेण च रोधयेत 62

बालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः
दत्वा भाण्डमुखे मुद्रां! ततश्चुल्ल्यां विपाचयेत 6३

क्रमवृद्ध्याऽग्निना सम्यग्यावद्यामचतुष्टयम
स्वाङ्गशीतं समुद्धृत्य मर्दयेच्छूरणद्र वैः 64

यामैकं गोलकं तच्च विक्षिपेच्छूरणोदरे
मृदा लेपस्तु कर्त्तव्यः सर्वतोऽङ्गुष्ठमात्रकः 65

पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम 66

वमनं च विरेकं च भ्रमं क्लममथारुचिम
विदाहं स्वेदमुत्क्लेदं न करोति कदाचन 67

ताम्रं कषायं मधुरं सतिक्तमम्लञ्च पाके कटु सारकं च
पित्तापहं श्लेष्महरं च शीतं तद्रो पणं स्याल्लघु लेखनं च 68

पाण्डूदरार्शोज्वरकुष्ठकासश्वासक्षयान्पीनसमम्लपित्तम
शोथं कृमीञ्शूलमपाकरोति प्राहुर्बुधा बृंहणमल्पमेतत 69

एको दोषो विषे ताम्रे त्वसम्यङ्मारिते पुनः
दाहः स्वेदोऽरुचिर्मूर्च्छोत्क्लेदो रेको वमिर्भ्रमः 70

वङ्गं च गिरिजं तच्च खुरकं मिश्रकं द्विधा
तयोस्तु खुरकं श्रेष्ठं मिश्रकं त्वहितं मतम 71

वङ्गं विधत्ते खलु शुद्धिहीनमाक्षेपकम्पौ च किलासगुल्मौ
कुष्ठानि शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च 72

विषोपमं रक्तविकारवृन्दं क्षयञ्च कृच्छ्राणि कफज्चरञ्च
मेहाश्मरीविद्रधिमुष्करोगान नागोऽपि कुर्यात्कथितान्विकारान 7३

वङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत
त्रिधा त्रिधा विशुद्धिः स्याद्र विदुग्धेऽपि च त्रिधा 74

मृत्पात्रे द्राविते वङ्गे चिञ्चाऽश्वत्थत्वचो रजः
पिष्ट्वा वङ्गचतुर्थांशमथोदर्व्या प्रचालयेत 75

ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते
अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन विमर्दयेत 76

ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत
तालेन दशमांशेन याममेकं ततः पुटेत
एवं दशपुटैः पक्वं वङ्गं भवति मारितम 77

वङ्गं लघु सरं रूक्षं कुष्ठं मेहकफकृमीन
निहन्ति पाण्डुं सश्वासं नेत्र्यमीषत्तु पित्तलम 78

सिंहो गजौघंतु यथा निहन्ति तथैव वङ्गोऽखिलमेहवर्गम
देहस्य सौख्यं प्रबलेन्द्रि यत्वं नरस्य पुष्टिं विदधाति नूनम 79

यशदं गिरिजं तस्य दोषाः शोधनमारणे
वङ्गस्येव हि बोद्धव्या गुणांस्तु गणयाम्यथ 80

यशदं च सरं तिक्तं शीतलं कफपित्तहृत
चक्षुष्यं परमं मेहान पाण्डुं श्वासञ्च नाशयेत 81

तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः
शोधनञ्चापि तस्येव भिषग्भिर्गदितं पुरा 82

ताम्बूलरससम्पिष्टं शिलालेपात् पुनः पुनः
द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते 8३

अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत
मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः 84

यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला
काञ्जिकेन द्वयं पिष्ट्वा पचेद्गजपुटेन च 85

स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च
पुनः पचेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः 86

सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम 87

नागस्तु नागशततुल्यबलं ददाति व्याधिं च नाशयति जीवनमातनोति
वह्निं प्रदीपयति कामबलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः 88

खञ्जत्वकुष्ठामयमृत्युकारी हृद्रो गशूलौ कुरुतेऽश्मरीञ्च
नानारुजानां च तथा प्रकोपं कुर्याच्च हृल्लासमशुद्धलौहम 89

पत्तलीकृतपत्राणि लौहस्याग्नौ प्रतापयेत
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके 90

गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं लौहस्य पत्राणां विशुद्धिः संप्रजायते 91

शुद्धं लौहभवं चूर्णं पातालगरुडीरसैः
मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम 92

पुटत्रयं कुमार्याश्च कुठारच्छिन्निकिरसैः
पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत 9३

क्षिपेच्च द्वादशांशेन दरदं तीक्ष्णचूर्णतः
मर्दयेत्कन्यकाद्रा वैर्यामयुग्मं ततः पुटेत
एवं सप्तपुटैर्मृत्युं लौहचूर्णमवाप्नुयात 94

सत्योऽनुभूतो योगेन्द्रैः! क्रमोऽन्यो लौहमारणे
कथ्यते रामराजेन कौतूहलधियाऽधुना 95

सूतकाद् द्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम
द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्र वैः 96

यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके
घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद्बुधः 97

यामत्रयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः
दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत 98

पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत
दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा 99

तद्र सेनायसं चूर्णं सन्नीय प्लावयेदिति
आतपे शोषयेत्तच्च पुटेदेवं पुनः पुनः 100

एकविंशतिवारैस्तन्म्रियते नात्र संशयः
एवं सर्वाणि लौहानि स्वर्णादीन्यपि मारयेत 101

लौहं तिक्तं सरं शीतं कषायं मधुरं गुरु
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत 102

कफं पित्तं गरं शूलं शोफार्शः प्लीहपाण्डुताः
मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि 10३

गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः
तावल्लौहं समश्नीयाद्यथादोषानलं नरः 104

कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा
मद्यमम्लरसञ्चैव वर्जयेल्लौहसेवकः 105

शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा 106

मन्दानलत्वं बलहानिमुग्रां बिष्टम्भितां नेत्रगदान् सकुष्ठान
मालां तथैव व्रणपूर्विकाञ्च कुर्यादशुद्धं खलु माक्षिकञ्च 107

माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च
मातुलुङ्गद्र वैर्वाऽथ जम्बीरस्य द्रवैः पचेत 108

चालयेल्लौहजे पात्रे यावत्पात्रं सुलोहितम
भवेत्ततस्तु संशुद्धिं स्वर्णमाक्षिकमृच्छति 109

कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत
तक्रेण वाऽजमूत्रेण म्रियते स्वर्णमाक्षिकम 110

स्वर्णमाक्षिकवद्दोषा विज्ञेयास्तारमाक्षिके
अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते 111

कर्कोटीमेषशृङ्ग्युत्थैर्द्र वैर्जम्बीरजैर्दिनम
भावयेदातपे तीव्रे विमला शुद्ध्य्ति ध्रुवम 112

कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत
मरणं वाऽजमूत्रेण तारमाक्षिकमृच्छति 11३

न केवलं स्वर्णरूप्यगुणास्तापीजयोर्मताः
द्रव्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणास्तयोः 114

माक्षिकं मधुरं तिक्तं स्वर्यं वृष्यं रसायनम 115

चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरम
अर्शः शोफं क्षयं कण्डूं त्रिदोषञ्च नियच्छति 116

विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः
दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे ततः
पुटं दध्ना पुटं क्षौद्रै र्देयं तुत्थविशुद्धये 117

तुत्थकं कटुकं क्षारं कषायं वामकं लघु 118

लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत
विषाश्मकुष्ठकण्डूघ्नं तद्गुणं खर्परं मतम 119

पत्तलीकृतपत्राणि कांस्यस्याग्नौ प्रतापयेत
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके 120

गोमूत्रे च कुलत्थानां कषायेऽत्र त्रिधा त्रिधा
एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते 121

अर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत
समेन कांस्यपत्राणि शुद्धान्यम्लद्र वैर्मुहुः 122

ततो मूषापुटे धृत्वा पचेद्गजपुटेन च
एवं पुटद्वयात् कांस्यं रीतिश्च म्रियते ध्रुवम 12३

कांस्यं कषायं तीक्ष्णोष्णं लेखनं विशदं सरम
गुरु नेत्रहितं रूक्षं कफपित्तहरं परम 124

रीतिका तु भवेद्रूक्षा सतिक्ता लवणा रसे
शोधनी पाण्डुरोगघ्नी कृमिहृन्नातिलेखनी 125

दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः 126

सिन्दूर उष्णो वीसर्पकुष्ठकण्डूविषापहः
भग्नसन्धानजननो व्रणशोधनरोपणः 127

गोमूत्रगन्धवत्कृष्णं स्रिग्धं मृदु तथा गुरु
तिक्तं कषायं शीतञ्च सर्वश्रेष्ठं तदायसम 128

विन्ध्यादौ बहुलं तत्तु यत्र लौहं यतोऽधिकम
तच्छोधनमृते व्यर्थमनेकमलमेलनात 129

शिलाजतु समानीय सूक्ष्मं खण्डं विधाय च
निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः 1३0

मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम
स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः 1३1

उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रके
एवं पुनः पुनर्नीतं द्विमासाभ्यां शिलाजतु 1३2

भवेत्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत
निर्धूमञ्च ततः शुद्धं सर्वकर्मसु योजयेत 1३३

व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयःपात्रे
प्राक केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम 1३4

तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं क्वाथ्यम
तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम 1३5

तत्समरसतां यातं संशुष्कं प्रक्षिपेद्र से भूयः
स्वैः स्व्रेवं क्वाथैर्भाव्यं वारान् भवेत सप्त 1३6

अथ स्निग्धस्य शुद्धस्य वृतं तिक्तकसाधितम
त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम 1३7

फलत्रयस्य यूषेण पटोल्या मधुकस्य च
शिलाजमेवं देहस्य भवत्यत्युपकारकम 1३8

लोहस्थितं निम्बगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्तत
सन्तानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय 1३9

उष्णे च काले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे
चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः 140

शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद् द्विगुणञ्च तोयम
उष्णं तदूर्ध्वं क्वथितञ्च दत्त्वा विशोधयेत्तन्मृदितं यथावत 141

ततस्तु यत्कृष्णमुपैति चोर्ध्वं सन्तानिकावद्र विरश्मितप्तम
पात्रे तदन्यत्र ततो निदध्यात्तत्रापरं कोष्णजलं क्षिपेच्च 142

पुनश्च तस्मादपरत्र पात्रे पश्चाच्च पात्रादपरत्र भूयः
यदा विशुद्धं जलमेवमूर्ध्वं कृष्णं समस्तं मलमेत्यधस्तात
तदा त्यजेत्तत्सलिलं मलञ्च शिलाजतु स्याज्जलशुद्धमेवम 14३

शिलाजतु स्मृतं तिक्तं कटूष्णं कटुपाकि च
रसायनं योगवाहि श्लेष्ममेहाश्मशर्कराः 144

मूत्रकृच्छ्रं क्षयं श्वासं शोथमर्शांसि पाण्डुताम
वातरक्तं तथा कुष्ठमपस्मारोदरं हरेत 145

नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात 146

तन्मध्ये भृङ्गराड् मुण्डी विष्णुक्रान्ता पुनर्नवा
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी 147

त्रिफला गिरिकर्णी च हंसपादी च चित्रकम
समूलं कुट्टयित्वा तु यथालाभं विनिक्षिपेत 148

पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं स्मृतम
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत
अत्यम्लमारनालं वा तदभावे प्रयोजयेत 149

त्र्यूषणं लवणं राजी रजनी त्रिफलाऽद्रकम
महाबला नागबला मेघनादः पुनर्नवा 150

मेषशृङ्गी चित्रकञ्च नवसारं समं समम
एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत 151

प्रलिम्पेत्तेन कल्केन वस्त्रमङ्गुलमात्रकम 152

तन्मध्ये निक्षिपेत्सूतं बद्ध्वा तत्त्रिदिनं पचेत
दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः 15३

मूलकानलसिन्धूत्थत्र्यूषणार्द्र कराजिकाः
रसस्य षोडशांशेन द्रव्यं युञ्ज्यात पृथक्पृथक 154

द्रव्येष्वनुक्तमानेषु मतं मानमितं बुधैः
पट्टावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके 155

स्वेदयेद्दिनमेकञ्च दोलायन्त्रेण बुद्धिमान
स्वेदात्तीव्रो भवेत्सूतो मर्दनाच्च सुनिर्मलः 156

इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्यो रसस्ततः
दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः 157

कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्बृहतीविमिश्रितैः
फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते 158

त्र्यूषणत्रिफलावन्ध्याकन्दैः क्षुद्रा द्वयान्वितैः
चित्रकोर्णानिशाक्षारकन्याऽककनकद्र वैः 159

सूतं कृतेन यूषेण वारान्सप्त विमर्दयेत्
इत्थं संमूर्च्छितः सूतस्त्यजेत्सप्तापि कञ्चुकान 160

मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च
यन्त्रे विद्याधरे कुर्याद्र सेन्द्र स्योर्ध्वपातनम 161

त्रिफलाशिग्रुशिखिभिर्लंवणासुरिसंयुतैः
नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाजनम 162

ततो दीप्तैरधः पातमुपलैस्तस्य कारयेत
यन्त्रे भूधरसंज्ञे तु ततः सूतो विशुद्ध्य्ति 16३

स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा भवेत
तदा कार्याणि कुरुते प्रयोज्यः सर्वकर्मसु 164

गृहकन्या हरति मलं त्रिफलाऽग्नि चित्रको विषं हन्ति
तस्मादेभिर्मिश्रैर्वारान संमूर्च्छयेत्सप्त 165

कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः
फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते 166

कुमार्या च निशाचूर्णैर्दिनं सूतं विमर्दयेत
एवं कदर्थितः सूतः षण्ढो भवति निश्चितम 167

बह्वौषधिकषायेण स्वेदितः स बली भवेत
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः स्वेदितो बली
ततः स पावकद्रा वैः स्विन्नः स्यादतिदीप्तिमान 168

धूमसारं रसं तोरीं गन्धकं नवसादरम
यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम 169

काचकूप्यां विनिक्षिप्य ताञ्च मृद्वस्त्रमुद्र या
विलिप्य परितो वक्त्रे मुद्रां! दत्त्वा विशोषयेत 170

अधः सच्छिद्र पिठरीमध्ये कूपीं निवेशयेत
पिठरीं बालुकापूरैर्भृत्वा चाकूपिकागलम 171

निवेश्य चुल्ल्यां तदधो बह्निं कुर्याच्छनैः शनैः
तस्मादत्यधिकं किञ्चित्पावकं ज्वालयेत्क्रमात 172

एवं द्वादशभिर्यामैम्रियते रस उत्तमः
स्फोटयेत्स्वाङ्गशीतं तमूर्ध्वगं गन्धकं त्यजेत 17३

अधःस्थञ्च मृतं सूतं गृह्णीयात्तं तु मात्रया
यथोचितानुपानेन सर्वकर्मसु योजयेत 174

अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत
तत्सम्पुटे क्षिपेत्सूतं मलयूदुग्धमिश्रितम 175

द्रोणपुष्पीप्रसूनानि विडङ्गमरिमेदकः
एतच्चूर्णमधश्चोर्ध्वं दत्त्वा मुद्रा  प्रदीयते 176

तद्गोलं स्थापयेत्सम्यङ् मृन्मूषासम्पुटे पचेत 177

एवमेकपुटेनैव सूतकं भस्म जायते
तत्प्रयोज्यं यथास्थाने यथामात्रं यथाविधि 178

काकोदुम्बरिकादुग्धैः रसं किञ्चिद्विमर्दयेत
तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत 179

क्षिप्त्वा तत्संपुटे सूतं तत्र मुद्रां! प्रदापयेत
धृत्वा तद् गोलकं प्राज्ञो मृन्मूषासम्पुटेऽधिके
पचेद् गजपुटेनैव सूतकं याति भस्मताम 180

नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः
मृन्मूषासम्पुटे पक्वं सूतो यात्येव भस्मताम 181

तत्र पारदस्य संक्षिप्तं शोधनं कर्त्तव्यम
शुद्धसूतसमं कुर्यात्प्रत्येकं गैरिकं सुधीः
इष्टिकां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च 182

वल्मीकं क्षारलवणं भाण्डरञ्जकमृत्तिकाम
सर्वाण्येतानि संचूर्ण्य वाससा चापि शोधयेत 18३

एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दयेत
तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत 184

तस्याः स्थाल्या मुखे स्थालीमपरां धारयेत्समाम
सवस्त्रकुट्टितमृदा मुद्रयेदनयोर्मुखम 185

संशोष्य मुद्रयेद्भूयो भूयः संशोष्य मुद्रयेत
सम्यग्विशोष्य मुद्रांतां स्थालद्यं चुल्ल्यां विधारयेत 186

अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम
अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम 187

शनैरुद्घाटयेद्यन्त्रमूर्ध्वस्थालीगतं रसम
कर्पूरवत्सुविमलं गृह्णीयाद् गुणवत्तरम 188

तद्देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम
खादन् हरति फिरङ्गं व्याधिं सोपद्र वं सपदि 189

विन्दति वह्नेर्दीप्तिं पुष्टिं वीर्यं बलं विपुलम
रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम 190

शुद्धसूतस्य गृह्णीयाद्भिषग्भागचतुष्टयम
शुद्धगन्धस्य भागैकं तावत्कृत्रिमगन्धकम 191

अथवा पारदस्यार्द्धं शुद्धगन्धकमेव हि
तयोः कज्जलिकां कुर्याद्दिनमेकं विमर्दयेत 192

मृत्तिका वाससा सार्द्धं कुट्टयेदतियत्नतः
तथा वारत्रयं सम्यक्काचकूपीं प्रलेपयेत 19३

मृत्तिकां शोषयित्वा तु कूप्यां कज्जलिकां क्षिपेत
तां कूपीं बालुकायन्त्रे स्थापयित्वा रसं पचेत 194

अग्निं निरन्तरं दद्याद्यावद्दिनचुतष्टयम
गृह्णीयादूर्ध्वसंलग्नं सिन्दूरसदृशं रसम 195

इति सिन्दूररसः

पारदः कृमिकुष्ठघ्नो जयदो दृष्टिकृत्सरः
मृत्युहृच्च महावीर्यो योगवाही ज्वरापहः 196

स्मृत्योजोरूपदो वृष्यो वृद्धिकृद्धातुवर्द्धनः
षण्ढत्वनाशनः शूरः खेचरः सिद्धिदःपरः 197

पारदः सकलरोगहा स्मृतः षड्रसो निखिलयोगवाहकः
पञ्चभूतमय एष कीर्त्तितस्तेन तद्गुणगणैर्विराजते 198

यस्य रोगस्य यो योगस्तेनैव सह योजितः
रसेन्द्रो  हन्ति तं रोगं नरकुञ्जरवाजिनाम 199

मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम
सप्तवारान्प्रयत्नेन शुद्धिमायाति निश्चितम 200

तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि
हृल्लासकण्डूज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति 201

निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम
घृष्ट्वा दरदमूर्ध्वन्तु पातयेत्सूतयुक्तिवत 202

तत्रोर्ध्वपिठरीलग्नं गृह्णीयाद्र समुत्तमम
शुद्धमेव हि तं सूतं सर्वकर्मसु योजयेत 20३

अशुद्धो गन्धकः कुर्यात्कुष्ठं पित्तरुजां भ्रमम
हन्ति वीर्य्यं बलं रूपं तस्माच्छुद्धः प्रयुज्यते 204

लौहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत
तप्ते घृते तत्समानं क्षिपेद् गन्धकजं रजः 205

विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिक्षिपेत
यथा वस्त्राद्विनिःस्रुत्य दुग्धमध्येऽखिलं पतेत

एवं स गन्धकः शुद्धः सर्वकर्मोचितो भवेत 206

गन्धकः कटुकस्तिक्तो वीर्य्योष्णस्तुवरः सरः 207

पित्तलः कटुकः पाके कण्डूवीसर्पजन्तुजित
हन्ति कुष्ठक्षयप्लीहकफवातान रसायनः 208

पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदञ्च कुर्य्यात
हृत्पार्श्वपीडां च करोत्यसह्यामशुद्धमभ्रं गुरु वह्निहृत्स्यात 209

कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत
भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्र वैः
भावयेदष्टयामं तदेवमभ्रं विशुद्ध्यति 210

कृत्वा धान्याभ्रकं तथा शोषयित्वाऽथ मर्दयेत
अर्कक्षीरैर्दिनं खल्वे चक्राकारं च कारयेत 211

वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत
पुनर्मर्द्यं पुनः पाच्यं सप्तवारान पुनः पुनः 212

ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम
म्रियते नात्र सन्देहः प्रयोज्यं सर्वकर्मसु 21३

तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत
घृते जीर्णे तदभ्रन्तु सर्वयोगेषु योजयेत 214

पादांशशालिसंयुक्तमभ्रं बद्ध्वाऽथ कम्बले
त्रिरात्रं स्थापयेन्नीरे तत्क्लिन्नं मर्दयेत्करैः 215

कम्बलाद्गलितं सूक्ष्मं बालुकारहितञ्च यत
तद धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये 216

अभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनञ्च
हन्यात् त्रिदोषं व्रणमेहकुष्ठं प्लीहोदरं ग्रन्थिविषकृमींश्च 217

रोगान् हन्ति द्रढयति वपुर्वीर्यवृद्धिं विधत्ते
तारुण्याढ्यं रमयति शतं योषितां नित्यमेव
दीर्घायुष्काञ्जनयति सुतान् सिंहतुल्यप्रभावान
मृत्योर्भीतिं हरति सुतरां सेव्यमानं मृताभ्रम 218

अशुद्धं तालमायुर्हृत्कफमारुतमेहकृत
तापस्फोटाङ्गसङ्कोचं कुरुते तेन शोधयेत 219

तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत
दोलायन्त्रेण यामैकं ततः कूष्माण्डजद्र वैः 220

तिलतैले पचेद्यामं यामञ्च त्रिफलाजले
एवं यन्त्रे चतुर्यामं पक्वं शुद्ध्य्ति तालकम 221

सदलं तालकं शुद्धं पौनर्नवरसेन तु
खल्वे विमर्दयेदेकं दिनं पश्चाद्विशोधयेत 222

ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत
तत्र तद्गोलकं कृत्वा पुनस्तेनैव पूरयेत 22३

आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे
स्थालद्यं चुल्ल्यां समारोप्य क्रमाद्वह्निं विवर्धयेत 224

दिनान्यन्तरशून्यानि पञ्च वह्निं प्रदापयेत 225

एवं तन्म्रियते तालं मात्रा तस्यैकरक्तिका
अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत 226

हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम
कण्डूकुष्ठास्यरोगास्रकफपित्तकचव्रणान 227

तालकं हरते रोगान्कुष्ठमृत्युज्वरापहम
शोधितं कुरुते कान्तिं वीर्यवृद्धिं तथाऽयुषम 228

तालकस्यैव भेदोऽस्ति मनोगुप्तैतदन्तरम
तालकं त्वतिपीतं स्याद्भवेद्रक्ता मनःशिला 229

मनःशिला मन्दवलं करोति जन्तुं ध्रुवं शोधनमन्तरेण
मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदञ्च कुर्य्यात 2३0

पचेत्त्र्यहमजामूत्रे दोलायन्त्रे मनःशिलाम
भावयेत्सप्तधा पित्तैरजायाः सा विशुद्ध्यति 2३1

गुर्वी मनःशिलावर्ण्या सरोष्णा लेखनी कटुः
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत 2३2

नरमूत्रे च गोमूत्रे सप्ताहं रसकं पचेत
दोलायन्त्रेण शुद्धः स्यात्ततः कार्येषु योजयेत 2३३

खर्परं कटुकं क्षारं कषायं वामकं लघु
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत
विषाश्मकुष्ठकण्डूनां नाशनं परमं मतम 2३4

सूर्यावर्त्तो वज्रकन्दः कदली देवदालिका
शिग्रुः कोशातकी वन्ध्या काकमाची च बालकम 2३5

एषामेकरसेनैव त्रिक्षारैर्लवणैः सह
भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः 2३6

ततः पचेच्च तद्द्रा वैर्दोलायन्त्रे दिनं सुधीः
एवं शुद्ध्य्न्ति ते सर्वे प्रोक्ता उपरसा हि ये 2३7

कङ्कुष्ठं गैरिकं शङ्खः कासीसं टङ्कणं तथा
नीलाञ्जनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः 2३8

जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणा
शुद्धिमायान्त्यमी योज्या भिषग्भिर्योगसिद्धये 2३9

अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा
पाण्डुत्वं पङ्गुलत्वञ्च तस्मात्संशोध्य मारयेत 240

कुलत्थकोद्र वक्वाथे दोलायन्त्रे विपाचयेत
व्याघ्रीकन्दगतं वज्रं त्रिदिनात्तद्विशुद्ध्य्ति 241

गृहीत्वाऽह्नि शुभे वज्रंव्याघ्रीकन्दोदरे क्षिपेत
महिषीविष्ठया लिप्त्वा कारीषाग्नौ विपाचयेत 242

त्रियामायां चतुर्यामं यामिन्यन्तेऽश्वमूत्रके
सेचयेत्पाचयेदेवं सप्तरात्रेण शुद्ध्य्ति 24३

हिंगुसैन्धवसंयुक्ते क्षिपेत्क्वाथे कुलत्थजे
तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा 244

मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसान 245

शशदन्तं समं पिष्ट्वा वज्रीक्षीरेण गोलकम
कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेव हि 246

आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च
सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः 247

वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा
शुद्धानां मारितानाञ्च तेषां शृणु गुणानपि 248

मणयो वीर्यतः शीता मधुरास्तुवरा रसात
चक्षुष्या लेखनाश्चापि सारका विषहारकाः
धारणात्ते तु मङ्गल्या ग्रहदृष्टिहरा अपि 249

सिन्धुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा
यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः 250

गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्य्ति
रक्तसर्षपतैलाक्ते तथा धार्यञ्च वाससि 251

ये गुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात
तस्माद्विषं प्रयोगे तु शोधयित्वा प्रयोजयेत 252

विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च
आग्नेयं वातकफहृद्योगवाहि मदावहम 25३

तदेव युक्तियुक्तन्तु प्राणदायि रसायनम
योगवाहि परं वातश्लेष्मजित्सन्निपातहृत 254

अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः
गुञ्जाऽहिफेनो धत्तूरः सप्तोपविषजातयः 255

गुणहीनं भवेद्वर्षादूर्ध्वं तद्रू पमौषधम
मासद्वयात्तथा चूर्णं लभते हीनवीर्यताम 256

हीनत्वं गुटिकालेहौ लभेते वत्सरं यदि
हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिकास्तथा 257

घृतमब्दात्परं पक्वं हीनवीर्यत्वमाप्नुयात
तैलं पक्वमपक्वञ्च चिरस्थायि गुणाधिकम 258

ओषध्यो लघुपाकाः स्युर्निर्वीर्या वत्सरात्परम
पुराणाः स्युर्गुणैर्युक्ता आसवा धातवो रसाः 259

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे
तृतीयं धात्वादिशोधनमारणविधिप्रकरणं समाप्तम ३
Related Posts Plugin for WordPress, Blogger...

Follow by Email