Monday, 13 July 2015

अथ षष्ठं मिश्रप्रकरणम 6

रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता
रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते 1
ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः
मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः 2
कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे
कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः 3
कर्मक्षयात्कर्मकृता दोषजाः स्वस्वभेषजैः
कर्मदोषोद्भवा यान्ति कर्मदोषक्षयात् क्षयम 4
साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः
सुखसाध्यः कष्टसाध्यो द्विविधः साध्य उच्यते 5
यापनीयं तु तं विद्यात्क्रिया धारयते हि यम
क्रियायां तु निवृत्तायां सद्यो यश्च विनश्यति 6
प्राप्ता क्रिया धारयति सुखिनं याप्यमातुरम
प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः 7
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम 8
रोगारम्भकदोषस्य प्रकोपादुपजायते
योऽन्यो विकारः स बुधैरुपद्र व इहोदितः 9
रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते
तल्लक्षणमरिष्टं स्याद्रि ष्टं चापि तदुच्यते 10
या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते
दोषधातुमलानां या साम्यकृत्सैव रोगृहृत 11
याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः
सा चिकित्सा विकाराणां कर्म तद्भिषजां मतम 12
या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च
सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत 13
जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया गदः
वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ 14
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम
ततः कर्म भिषक पश्चाज्ज्ञानपूर्वं समाचरेत 15
यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक
अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया 16
भेषजं केवलं कर्तुं यो जानाति न चामयम
वैद्यकर्म स चेत्कुर्याद्वधमर्हति राजतः 17
यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः
तं वैद्यं प्राप्य रोगी स्याद्यथा नौर्नाविकं विना 18
यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक
स मुह्यत्यातुरं प्राप्य तथा भीरुरिवाहवम 19
यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः
देश कालविभागज्ञस्तस्य सिद्धिर्न संशयः 20
आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः
भेषजानां विधानेन ततः कुर्याच्चिकित्सतम 21
विकारनामाकुशलो न जिह्रीयात्कदाचन
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः 22
नास्ति रोगो विना दोषैर्यस्मात्तस्माच्चिकित्सकः
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत 23
ये न कुर्वन्त्यसाध्यानां चिकित्सां ते भिषग्वराः
अतो वैद्यैः श्रमः कार्यः साध्यासाध्यपरीक्षणे 24
शीते शीतप्रतीकारमुष्णे तूष्णनिवारणम
कृत्वा कुर्यात्क्रियां प्राप्तां क्रियाकालं न हापयेत 25
अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता
क्रियाहीनाऽतिरिक्ता च साध्येष्वपि न सिध्यति 26
विकारेऽल्पे महत्कर्म क्रिया लघ्वी गरीयसि
द्वयमेतदकौशल्यं कौशल्यं युक्तकर्मता 27
क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत
पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः 28
क्रियाभिस्तुल्यरूपाभिर्न क्रियासङ्करो हितः
ताभिस्तु भिन्नरूपाभिः साङ्कर्यं नैव दुष्यति 29
न चैकान्तेन निर्दिष्टे शास्त्रे निविशते बुधः
स्वयमप्यत्र भिषजा तर्कणीयं चिकित्सता 30
उत्पद्यते च साऽवस्था दोषकालबलं प्रति
यस्यां कार्यमकार्यं स्यात्कर्म कार्यं विवर्जितम 31
क्वचिदर्थः क्वचिन्मैत्री क्वचिद्धर्मः क्वचिद्यशः
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला 32
आयुर्वेदोदितां युक्तिं कुर्वाणाश्च हिताय ये
पुण्यायुर्वृद्धिसंयुक्ता नीरोगाश्च भवन्ति ते 33
नैव कुर्वीत लोभेन चिकित्सापुण्यविक्रयम
ईश्वराणां वसुमतां लिप्सेतार्थं तु वृत्तये 34
चिकित्सितं शरीरं यो न निष्क्रीणाति दुर्मतिः
स यत्करोति सुकृतं सर्वं तद्भिषगश्नुते 35
न देशो मनुजैर्हीनो न मनुष्या निरामयाः
ततः सर्वत्र वैद्यानां सुसिद्धा एव वृत्तयः 36
रोगी दूतो भिषग्दीर्घमायुर्द्र व्यं सुसेवकः
सदौषधं चिकित्साया इत्यङ्गानि बुधा जगुः 37
रोगो यस्यास्तिरोगी स सचिकित्स्यस्तु यादृशः
यादृशश्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्यताम 38
निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन चक्षुषा
चिकित्स्यो भिषजां रोगी वैद्यभक्तो जितेन्द्रि यः 39
आयुष्मान्सत्त्ववान्साध्यो द्र व्यवान्मित्रवानपि
चिकित्स्यो भिषजां रोगी वैद्यवाक्यकृदास्तिकः 40
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च
शोकाकुलो मुमूर्षुश्च विहीनः करणैश्चः यः 41
वैरी वैद्यविदग्धश्च श्रद्धाहीनश्च शङ्कितः
भिषजामविधेयः स्युर्नोपक्रम्या भिषग्विधाः 42
एतानुपाचरन वैद्यो वहून दोषानवाप्नुयात 43
यश्चिकित्सकमानेतुं याति दूतः स कथ्यते
स च यादृक समुचितस्तादृगत्र निगद्यते 44
दूताः सुजातयोऽव्यङ्गाः पटवो निर्मलाम्बराः
सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः 45
सजातयः सुचेष्टाश्च सजीवदिशि सङ्गताः
भिषजं समये प्राप्ता रोगिणः सुखहेतवे 46
वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते
न शुभं सौम्यशकुनं प्रदीप्तं तु सुखावहम 47
तथाहि रिक्तहस्तो न पश्येत्तुराजानं भिषजं गुरुम
दैवज्ञं देवतां मित्रं फलेन फलमादिशेत 48
चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते
स च यादृक्समीचीनस्तादृशोऽपि निगद्यते 49
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः 50
प्रत्युत्पन्नमतिर्धीमान् व्यवसाथी प्रियंवदः
सत्यधर्मपरो यश्च वैद्य ईदृक् प्रशस्यते 51
कुचैलः कर्कशः स्तब्धो ग्रामीणः स्वयमागतः
पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा यदि 52
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः 53
भिषगादौ परीक्षेत रुग्णस्यायुः प्रयत्नतः
तत आयुषि विस्तीर्णे चिकित्सा सफला भवेत 54
सौम्या दृष्टिर्भवेद्यस्य श्रोत्रं वक्त्रं तथैव च
स्वादु गन्धं विजानाति स साध्यो नात्र संशयः 55
पाणिपादौ च यस्योष्णौ दाहः स्वल्पतरो भवेत
जिह्वातु कोमला यस्य स रोगी न विनश्यति 56
स्वेदहीनो ज्वरो यस्य श्वासो नासिकया चरेत
कण्ठश्च कफहीनः स्यात्स रोगी जीवति ध्रुवम 57
यस्य निद्रा  सुखेन स्याच्छरीरं द्युतिमद्भवेत
इन्द्रि याणि प्रसन्नानि स रोगी नैव नश्यति 58
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत
तदरिष्टं समासेन व्यासतश्च निबोध मे 59
शृणोति विविधाञ्छब्दान्विपरीताञ्छृणोति च
यो न शृणोति चाकस्मात्तं वदन्ति गतायुषम 60
यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत
उष्णगात्रोऽतिमात्रं यो भृशं शीतेन कम्पते 61
प्रहारं नैव जानाति योऽङ्गच्छेदमथापि वा
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते 62
वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि
स्नातानुलिप्तं यं चापि भजन्ते नीलमाक्षिकाः 63
विपरीतेन गृह्णाति रसान्यश्चोपयोजितान
यो वा रसान्न संवेत्ति तं गतासुं प्रचक्षते 64
सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धं च सुगन्धवत
गृह्णाति योऽन्यथा गन्धं शान्ते दीपे निरामयः 65
रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्र वर्चसम
दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति 66
विद्युत्वतोऽसितान्मेघान् गगने निर्घने घनान
विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम 67
यश्चानिलं मूर्त्तिमन्तमन्तरिक्षेऽवलोकते
धूमनीहारवासोभिरावृतामिव मेदिनीम 68
प्रदीप्तमिव यो लोकं यो वाप्लुतमिवाम्भसा
भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति 69
यो न पश्यति ॠक्षाणि यश्च देवीमरुन्धतीम
ध्रुवमाकाशगङ्गां च तं वदन्ति गतायुषम 70
आदर्शेऽम्बुनि घर्मे वा छायां यश्च न पश्यति
पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्वजाम 71
श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम
आतुरो लभते मृत्युं स्वस्थो व्याधिमवाप्नुयात 72
ह्रीश्रियौ नश्यतो यस्य तेज ओजः स्मृतिः प्रभा
अकस्माच्च भजन्ते यं स गतासुरसंशयम 73
यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम 74
आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा
खञ्जनप्रतिभा वापि तं गतायुषमादिशेत 75
कृष्णा तथाऽनुलिप्ता च जिह्वा शून्या च यस्य वै
कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून 76
कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका
अवस्फूर्जति भग्ना वा स न जीवति मानवः 77
संक्षिप्ते विषमे स्तब्धे रूक्षे सास्रे च लोचने
स्यातां परिश्रुते यस्य स गतायुर्नरो ध्रुवम 78
केशा सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ
लुठन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे 79
नाहरत्यन्नमास्यस्थं न धारयति यः शिरः
एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान्विमुञ्चति 80
उत्थाप्यमानो बहुशः संमोहं योऽधिगच्छति
बलवान्दुर्बलो वापि तं पक्वं भिषगादिशेत 81
निद्रा  निरन्तरं यस्य यो जागर्त्ति च सर्वदा
मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता 82
उत्तरौष्ठं च यो लिह्यादुत्करांश्च करोतिः यः
प्रेतैर्वा भाषते सायं प्रेतरूपं तमादिशेत 83
खेभ्यश्च रोमकूपेभ्यो यस्य रक्तं प्रवर्तते
पुरुषस्याविषार्तस्य स सद्यो जीवितं त्यजेत 84
सम्यक् चिकित्स्यमानस्य विकारो योऽभिवर्धते
प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः 85
भूताः प्रेताः पिशाचाश्च रक्षांसि विविधानि च
मरणाभिमुखं जन्तुमुपसृत्य च नित्यशः 86
तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया
तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषः 87
सर्वे द्र व्यमपेक्षन्ते रोगिप्रभृतयो यतः
विना वित्तं न भैषज्यं चिकित्साऽङ्ग ततो धनम 88
स्निग्धोऽजुगुप्सुर्बलवान्युक्तो व्याधितरक्षणे
वैद्यवाक्यकृदश्रान्तो युज्यते परिचारकः 89
वैद्यो व्याधिं हरेद्येन तद्द्र व्यं प्रोक्तमौषधम
तद्यादृशमवश्यं स्याद्रो गघ्नं तादृशं ब्रुवे 90
प्रशस्तदेशे सञ्जातं प्रशस्तेऽहनि चोद्धृतम
अल्पमात्रं बहुगुणं गन्धवर्णरसान्वितम 91
दोषघ्नमग्लानिकरमधिकं न विकारि यत
समीक्ष्य काले दत्तं च भेषजं स्याद गुणावहम 92
आग्नेया विन्ध्यशैलाद्या सौम्यो हिमगिरिः स्मृतः
अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः 93
अन्येष्वपि प्ररोहन्ति वनेषूपवनेषु च
गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे 94
आदित्यसम्मुखो मौनी नमस्कृत्य शिवं हृदि
साधारणधराद्र व्यं गृह्णीयादुत्तराश्रितम 95
वल्मीककुत्सितानूपश्मशानोषरमार्गजाः
जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसाधिकाः 96
शरद्यखिलकार्यार्थं ग्राह्यंसरसमौषधम
विरेकवमनार्थं तु वसन्तान्ते समाहरेत 97
अतिस्थूलजटा याः स्युस्तासां ग्राह्यास्त्वचो ध्रुवम
गृह्णीयात्सूक्ष्ममूलानि सकलान्यपि बुद्धिमान 98
महान्ति येषां मूलानि काष्ठगर्भाणि सर्वतः
तेषां तु वल्कलं ग्राह्यं ह्रस्वमूलानि सर्वशः 99
न्यग्रोधादेस्त्वचो ग्राह्या सारःस्याद्वीजकादितः
तालीसादेश्च पत्राणि फलं स्यात् त्रिफलादितः 100
क्वचिन्मूलं क्वचित्कन्दः क्वचित्पत्रं क्वचित्फलम
क्वचित्पुष्पं क्वचित्सर्वं क्वचित्सारः क्वचित्त्वचः 101
चित्रकं सूरणं निम्बो वासा च त्रिफला क्रमात
धातकी कण्टकारी च खदिरः क्षीरपादपः 102
क्वचिन्निम्बस्य गृह्णीयात्पत्राभावे त्वचामपि
बालं फलं तु बिल्वस्य पक्वमारग्वधस्य च 103
अङ्गेऽनुक्ते जटा ग्राह्या भागेऽनुक्तेऽखिलं समम
पात्रेऽनुक्ते मृदः पात्रं कालेऽनुक्ते त्वहर्मुखम 104
नवान्येव हि योज्यानि द्र व्याण्यखिलकर्मसु
विना विडङ्गकृष्णाभ्यां गुडधान्याज्यमाक्षिकैः 105
पुराणन्तु प्रशस्तं स्यात्ताम्बूलं काञ्जिकं तथा
शुष्कं नवीनद्र व्यं तु योज्यं सकलकर्मसु 106
आद्र रं! तु द्विगुणं युञ्ज्यादेष सर्वत्र निश्चयः
गुडूची कुटजो वासा कूष्माण्डश्च शतावरी 107
अश्वगन्धा सहचरः शतपुष्पा प्रसारिणी
प्रयोक्तव्याः सदैवाद्रा र्! द्विगुणं नैव कारयेत 108
वासानिम्बपटोलकेतकबलाकूष्माण्डकेन्दीवरी-
वर्षाभूकुटजाश्च कन्दसहिता सा पूतिगन्धाऽमृता
एन्द्री  नागबला कुरुण्टकपुरच्छत्राऽमृताः सर्वदा
साद्रा र्! एव तु न क्वचिद् द्विगुणिताः कार्येषु योज्या बुधैः 109
घृतं तैलं च पानीयं कषायं व्यञ्जनादिकम
पक्त्वा शीतीकृतं चोष्णं तत्सर्वं स्याद्विषोपमम 110
सूक्ष्मास्थिमांसला पथ्या सर्वकर्मणि पूजिता
क्षिप्ताऽम्भसि निमज्जेद्याः भल्लातक्यस्तथोत्तमाः 111
वराहमूर्द्धवत्कन्दो वाराहीकन्दसंज्ञकः
सौवर्चलं तु काचाभं सैन्धवं स्फटिकप्रभम 112
सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकमुत्तमम
ओड्रपुष्पप्रतीकाशा मनोह्वा चोत्तमा मता 113
श्रेष्ठं शिलाजतु ज्ञेयं प्रक्षिप्तं न विशीर्यते
तोयपूर्णे कांस्यपात्रे प्रतानेन विवर्धते 114
कर्पूरस्तुवरः स्निग्धः एला सूक्ष्फला वरा
श्वेतचन्दनमत्यन्तं सुगन्धि गुरुपूजितम 115
रक्तचन्दनमत्यन्तं लोहितं प्रवरं मतम
काकतुण्डनिभः स्निग्धो गुरुः श्रेष्ठो गुरुर्मतः 116
सुगन्धि लघु रूक्षं च सुरदारु वरं मतम
सरलं स्निग्धमत्यर्थं सुगन्धि च गुणावहम 117
अतिपीता प्रशस्ता तु ज्ञेया दारुनिशा बुधैः
जातीफलं गुरु स्निग्धं समं शुभ्रान्तरं वरम 118
मृद्वीका सोत्तमा ज्ञेया या स्याद्गोस्तनसन्निभा
करमर्दफलाकारा मध्यमा सा प्रकीर्त्तिता 119
खण्डं तु विमलं श्रेष्ठं चन्द्र कान्तसमप्रभम
गव्याज्यसदृशं रुच्यं गन्धं मधु वरं मतम 120
शालीनां लोहितः शालि षष्टिकेषु च षष्टिकः
शूकधान्येष्वपि यवो गोधूमः प्रवरो मतः 121
शिम्बीधान्ये वरो मुद्गो मसूरश्चाढकी तथा
रसेषु मधुरः श्रेष्ठो लवणेषु च सैन्धवः 122
दाडिमामलकं द्रा क्षा खर्जूरं च परूषकम
राजादनं मातुलुंगं फलवर्गेषु शस्यते 123
पत्रशाकेषु वास्तूकं जीवन्ती पोतिका वरा
पटोलं फलशाकेषु कन्दशाकेषु सूरणम 124
एणः कुरङ्गो हरिणो जाङ्गलेषु प्रशस्यते
पक्षिणां तित्तिरिर्लावो वरो मत्स्येषु रोहितः 125
हरिणस्ताम्रवर्णः स्यादेणः कृष्णतया मतः
कुरङ्गस्ताम्र उद्दिष्टो हरिणाकृतिको महान 126
जलेषु दिव्यं दुग्धेषु गव्यमाज्येषु गोभवम
तैलेषु तिलजं तैलमैक्षवेषु सिता हिता 127
शिम्वीषु माषान्ग्रीष्मर्तौ लवणेष्वौषरं त्यजेत
फलेषु लकुचं शाके सार्षपं न हितं मतम 128
गोमांसं ग्राम्यमांसेषु न हितं महिषीवसा
मेषीपयः कुसुम्भस्य तैलं त्याज्यं च फाणितम 129
मत्स्यमानूपमांसं च दुग्धयुक्तं विवर्जयेत
कपोतं सर्षपस्नेहभर्जितं परिवर्जयेत 130
मत्स्यानिक्षोर्विकारेण तथा क्षौद्रे ण वर्जयेत
सक्तून्मांसपयोयुक्तानुष्णैर्दधि विवर्जयेत 131
उष्णैर्नभोऽम्बुना क्षौद्रं  पायसं कृसरान्वितम
रम्भाफलं त्यजेत्तक्रदधिबिल्वफलान्वितम 132
दशाहमुषितं सर्पिः कांस्ये मधुघृतं समम
कृतान्नं च कषायं च पुनरुष्णीकृतं त्यजेत 133
एकत्र बहुमांसानि विरुध्यन्ते परस्परम
मधु सर्पिर्वसा तैलं पानीयं वा पयस्तथा 134
लवणं सैन्धवं प्रोक्तंचन्दनं रक्तचन्दनम
चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः
कषायलेपयोः प्रायो युज्यते रक्तचन्दनम 135
अन्तः सम्मार्जने ज्ञेया ह्यजमोदा यवानिका
बहिः सम्मार्जने सैव विज्ञातव्याऽजमोदिका 136
पयः सर्पिः प्रयोगेषु गव्यमेव हि गृह्यते
शकृद्र सो गोमयको मूत्रं गोमूत्रमुच्यते 137
चित्रकाभावतोदन्ती क्षारः शिखरिजोऽथवा
अभावे धन्वयासस्य प्रेक्षेप्यातु दुरालभा 138
तगरस्याप्यभावे तु कुष्ठं दद्याद्भिषग्वरः
मूर्वाऽभावे त्वचो ग्राह्या जिङ्गिनीप्रभवा बुधैः 139
अहिंस्रया अभावे तु मानकन्दः प्रकीर्त्तितः
लक्ष्मणाया अभावे तु नीलकण्ठशिखा मता 140
वकुलाभावतो देयं कह्लारोत्पलपङ्कजम
नीलोत्पलस्याभावे तु कुमुदं देयमिष्यते 141
जातीपुष्पं न यत्रास्ति लवंगं तत्र दीयते
अर्कपर्णादिपयसो ह्यभावे तद्र सो मतः 142
पौष्करा भावतः कुष्ठं तथा लाङ्गल्यभावतः
स्थौणेयकस्याभावे तु मिषग्भिर्दीयते गदः 143
चविकागजपिप्पल्यौ पिप्लीमूलवत्स्मृतौ 144
अभावे सोमराज्यास्तु प्रपुन्नाडफलं मतम
यदि न स्याद्दारुनिशा तदा देया निशा बुधैः 145
रसाञ्जनस्याभावे तु दार्वीक्वाथः प्रयुज्यते
सौराष्ट्र्यभावतो देया स्फटिका तद्गुणा जनैः 146
तालीसपत्रकाभावे स्वर्णताली प्रशस्यते
भार्ङ्ग्यभावे तु तालीसं कण्टकारीजटाऽथवा 147
रुचकाभावतो दद्याल्लवणं पांशुपूर्वकम
अभावे मधुयष्ट्यास्तु धातकीं च प्रयोजयेत 148
अम्लवेतसकाभावे चुक्रं दातव्यमिष्यते
द्राक्षा यदि न लभ्येत प्रदेयं काश्मरीफलम 149
तयोरभावे कुसुमं मधूकस्य मतं बुधैः
लवङ्गकुसुमं देयं नखस्याभावतः पुनः 150
कस्तूर्यभावे कङ्कोलं क्षेपणीयं विदुर्बुधाः
कङ्कोलस्याप्यभावे तु जातीपुष्पं प्रदीयते 151
सुगन्धिमुस्तकं देयं कर्पूराभावतो बुधैः
कर्पूराभावतो देयं ग्रन्थिपर्णं विशेषतः 152
कुङ्कुमाभावतो दद्यात्कुसुम्भकुसुमं नवम
श्रीखण्डचन्दनाभावे कर्पूरं देयमिष्यते 153
अभावे त्वेतयोर्वैद्यः प्रक्षिपेद्र क्तचन्दनम
रक्तचन्दनकाभावे नवोशीरं विदुर्बुधाः 154
मुस्ता चातिविषाभावे शिवाऽभावे शिवा मता
अभावे नागपुष्पस्य पद्मकेशरमिष्यते 155
मेदाजीवककाकोलीऋद्धिद्वन्द्वेऽपि वाऽसति
दरीविदार्यश्वगन्धावाराहीश्च क्रमात् क्षिपेत 156
वाराह्याश्च तथाऽभावे चर्मकारालुको मतः
वाराहीकन्दसंज्ञस्तु पश्चिमे गृष्टिसंज्ञकः 157
वारीहीकन्द एवान्यश्चर्मकारालुको मतः
अनूपसम्भवे देशे वराह इव लोमवान 158
भल्लातकासहत्वे तु रक्तचन्दनमिष्यते
भल्लाताभावतश्चित्रं नलश्चेक्षोरभावतः 159
सुवर्णाभावतः स्वर्णमाक्षिकं प्रक्षिपेद् बुधः
श्वेतं तु माक्षिकं ज्ञेयं बुधै रजतवद ध्रुवम 160
माक्षिकस्याप्यभावे तु प्रदद्यात्स्वर्णगैरिकम
सुवर्णमथ वा रौप्यं मृतं यत्र न लभ्यते 161
तत्र कान्तेन कर्माणि भिषक्कुर्याद्विचक्षणः
कान्ताभावे तीक्ष्णलोहं योजयेद्वैद्यसत्तमः 162
अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत
मधु यत्र न लभ्येत तत्र जीर्णगुडो मतः 163
मत्स्यण्ड्यभावतो दद्युर्भिषजः सितशर्कराम
असम्भवे सितायास्तु बुधैः खण्डं प्रयुज्यते 164
क्षीराभावे रसो मौद्गो मासूरो वा प्रदीयते
अत्र प्रोक्तानि वस्तूनि यानि तेषु च तेषु च 165
योज्यमेकतराभावे परं वैद्येन जानता
रसवीर्यविपाकाद्यैः समं द्र व्यं विचिन्त्य च 166
युञ्ज्यात्तद्विधमन्यच्च द्र व्याणां तु रसादिवित
योगे यदप्रधानं स्यात्तस्य प्रतिनिधिर्मतः 167
यत्तु प्रधानं तस्यापि सदृशं नैव गृह्यते
व्याधेरयुक्तं यद्द्र व्यं गणोक्तमपि तत्त्यजेत
अनुक्तमपि युक्तं यद्योजयेत्तद्र सादिवित 168
द्र व्ये रसो गुणो वीर्यं विपाकः शक्तिरेव च
पदार्थाः पञ्च तिष्ठन्ति स्वं स्वं कुर्वन्ति कर्म च 169
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः
षड् द्र व्यमाश्रितास्ते च यथापूर्वं बलावहाः 170
तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते 171
ये रसा वातशमना भवन्ति यदि तेषु वै
रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम 172
ये रसा पित्तशमना भवन्ति यदि तेषु वै
तीक्ष्णोष्णलघुताश्चैव नैते तत्कर्मकारिणः 173
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै
स्नेहगौरवशैत्यानि न ते हन्युः कफं तदा 174
मधुरो हि रसः शीतो धातुस्तन्यबलप्रदः
चक्षुष्यो वातपित्तघ्नः कुर्यात्स्थौल्यमलकृमीन 175
विषघ्नः पिच्छिलश्चापि स्निग्धः प्रीत्यायुषोर्हितः
बालबृद्धक्षतक्षीणवर्णकेशेन्द्रि यौजसाम 176
प्रशस्तो बृंहणः कण्ठ्यो गुरुः सन्धानकृन्मतः 177
सोऽतियुक्तो ज्वरश्वासगलगण्डार्बुदकृमीन
स्थौल्याग्निमान्द्यमेहांश्च कुर्यान्मेदःकफामयान 178
रसोऽम्ल पाचनो रुच्यः पित्तश्लेष्मास्रदो लघुः
लेखितोष्णो बहिः शीतः क्लेदनः पवनापहः 179
स्निग्धस्तीक्ष्णः सरः शुक्रविबन्धानाहदृष्टिहा
हर्षणो रोमदन्तानामक्षिभ्रूविनिकोचनः 180
सोऽतियुक्तो भ्रमं कुर्यात्तृड्दाहतिमिरज्वरान
कण्डूपाण्डुत्ववीसर्पशोथविस्फोटकुष्ठकृत 181
लवणः शोधनो रुच्यः पाचनः कफपित्तदः
पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः
बलघ्न आस्यजलदः कपोलगलदाहकृत 182
सोऽति युक्तो ऽक्षिपाकास्रपित्त कोठक्षतादिकृत
वलीपलितखालित्यकुष्ठवीसर्पतृट्प्रदः 183
कटुरुष्णश्च तीक्ष्णश्च विशदो वातपित्तकृत
श्लेष्महृल्लघुराग्नेयः कृमिकण्डूविषापहः 184
शुक्रस्तन्यहरश्चापि मेदःस्थौल्यापकर्षणः
अश्रुदो नासिकाऽस्याक्षिजिह्वाऽग्रोद्वेजको मतः 185
दीपनः पाचनो रुच्यो नासिकाशोषणो भृशम
क्लेदमेदोवसामज्जशकृन्मूत्रोपशोषणः 186
स्रोतः प्रकाशको रूक्षः मेध्यो वर्चोविबन्धकृत 187
सोऽतियुक्तो भ्रान्तिदाहमुखताल्वोष्ठशोषकृत
कण्ठादिपीडामूर्च्छाऽन्तर्दाहदो बलकान्तिहृत 188
तिक्तः शीतस्तृषामूर्च्छाज्वरपित्तकफाञ्जयेत
कृमिकुष्ठविषोत्क्लेददाहरक्तगदापहः 189
रुच्यः स्वयमरोचिष्णुः कण्ठस्तन्यविशोधनः
वातलोऽग्निकरो नासाशोषणो रूक्षणो लघुः 190
सोऽतियुक्तः शिरःशूलमन्यास्तम्भश्रमार्त्तिकृत
कम्पमूर्च्छातृषाकारी बलशुक्रक्षयप्रदः 191
कषायो रोपणो ग्राही स्तम्भनः शोधनस्तथा
लेखनः पीडनः सौम्यः शोषणो वातकोपनः 192
कफशोणितपित्तघ्नो रूक्षः शीतो लघुर्मतः
त्वक्प्रसाधन आमस्य स्तम्भनो विशदो मतः
जिह्वायां जाड्यकृत्कण्ठस्रोतसां च विबन्धकृत 193
सोऽतियुक्तो ग्रहाध्मानहृत्पीडाक्षेपणादिकृत 194
मधुरं श्लेष्मलंप्रायो जीर्णशालियवादृते
मुद्गाद्गोधूमतः क्षौद्रा त्सिताया जाङ्गलामिषात 195
अम्लं पित्तकरं प्रायो विना धात्रीं च दाडिमीम
लवणं प्रायशो द्वेषि नेत्रयोः सैन्धवं विना 196
प्रायः कटु तथा तिक्तमवृष्यं वातकोपनम
शुण्ठी कृष्णारसोनानि पटोलममृतां विना 197
पिप्पलीनागरं वृष्यं कटु चावृष्यमुच्यते
प्रायशः स्तम्भनं प्रोक्तं कषायमभयां विना 198
सामान्येनात्र निर्दिष्टा गुणाः षड्रससम्भवाः
रसानां योगतस्तु स्यादन्य एव गुणोदयः 199
संयोगाद्विषतां याति सममाज्येन माक्षिंकम्
अमृतत्वं विषं याति सर्पदष्टस्य वै यथा 200
लघुर्गुरुस्तथा स्निग्धो रूक्षस्तीक्ष्ण इति क्रमात
नभोभूवारिवातानां वह्नेरेते गुणाःस्मृताः 201
लघु पथ्यं परं प्रोक्तं कफघ्नं शीघ्रपाकि च 202
गरु वातहरं पुष्टिश्लेष्मकृच्चिरपाकि च
स्निग्धं वातहरं श्लेष्मकारि वृष्यं बलावहम
रूक्षं समीरणकरं परं कफहरं मतम 203
तीक्ष्णं पित्तकरं प्रायो लेखनं कफवातहृत
सुश्रुते तु गुणा एते विंशतिस्तान्ब्रुवे शृणु 204
गुरुर्लघुः स्निग्धरूक्षौ तीक्ष्णः श्लक्ष्णः स्थिरः सरः
पिच्छिलो विशदः शीत उष्णश्च मृदुकर्कशौ
स्थूलः सूक्ष्मो द्र वः शुष्क आशुर्मन्दः स्मृता गुणाः 205
श्लक्ष्णः स्नेहं विनाऽपि स्यात्कठिनोऽपि हि चिक्कणः 206
स्थिरो वातमलस्तम्भी सरस्तेषां प्रवर्तकः
पिच्छिलस्तन्तुलो बल्यः सन्धानः श्लेष्मलो गुरुः 207
क्लेदच्छेदकरः ख्यातो विशदो व्रणरोपणः
शीतस्तु ह्लादनःस्तम्भी मूर्च्छातृटस्वेददाहनुत
उष्णो भवति शीतस्य विपरीतश्च पाचनः 208
स्थूलः स्थौल्यकरो देहे स्रोतसामवरोधकृत 209
देहस्य सूक्ष्मच्छिद्रे षु विशेद्यत्सूक्ष्ममुच्यते
द्रवः क्लेदकरो व्यापी शुष्कस्तद्विपरीतकः 210
आशुराशुकरो देहे धावत्यम्भसि तैलवत
मन्दः सकलकार्येषु शिथिलोऽल्पोऽपि कथ्यते 211
पचेन्नामं वह्निकृद्यद्दीपनं तद्यथा मिसिः 212
पचत्यामं न वह्निं च कुर्याद्यत्तद्धि पाचनम
नागकेशरवद्विद्याच्चित्रोदीपनपाचनः 213
नशोधयति यद्दोषान्समान्नोदीरयत्यपि
समीकरोति विषमाञ्छमनं तद्यथाऽमृता 214
कृत्वा पाकं मलानां च भित्वा बन्धमधो नयेत
तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी 215
पक्तव्यं यदपक्त्वैव श्लिष्टं कोष्ठे मलादिकम
नयत्यधः स्रंसनं तद्यथा स्यात्कृतमालकम 216
मलादिकमबद्धं यद्बद्धं वा पिण्डितं मलैः
भित्वाऽध पातयति यद्भेदनं कटुकी यथा 217
विपक्वं यदपक्वं वा मलादि द्रवतां नयेत
रेचयत्यपि तज्ज्ञेयं रेचनं त्रिवृता यथा 218
अपक्वं पित्तश्लेष्मान्नं बलादूर्ध्वं नयेत्तु यत
वमनं तद्धि विज्ञेयं मदनस्य फलं यथा 219
स्थानाद्वहिर्नयेदूर्ध्वमधो वा मलसञ्चयम
देहसंशोधनं तत्स्याद देवदालीफलं यथा 220
दीपनं पाचनं यत्स्यादुष्णत्वाद्द्र वशोषकम
ग्राहि तच्च यथा शुण्ठी जीरकं गजपिप्पली 221
रौक्ष्याच्छैत्यात्कषायत्वाल्लघुपाकाच्च यद्भवेत
वातकृत्स्तम्भनं तत्स्याद्यथा वत्सकटुण्टुकौ 222
श्लिष्टान्कफादिकान्दोषानुन्मूलयति यद्वलात
छेदनं तद्यथा क्षारा मरिचानि शिलाजतु 223
धातून्मलान् वा देहस्य विशोध्योल्लेखयेच्च यत
लेखनं तद्यथा क्षौद्रं  नीरमुष्णं वचा यवाः 224
यस्माद् द्रव्याद्भवेत्स्त्रीषु हर्षो वाजीकरं हि तत
यथाऽश्वगन्धामुसली शर्करा च शतावरी 225
यस्माच्छुक्रस्य वृद्धिः स्याच्छुक्रलं हि तदुच्यते
यथा नागबलाऽद्या स्युर्बीजं च कपिकच्छुजम 226
दुग्धं माषाश्च भल्लातफलमज्जामलानि च
एतानि जनकानि स्यू रेचकानि च रेतसः 227
प्रवर्तिनी स्त्री शुक्रस्य रेचनं बृहतीफलम
जातीफलं स्तम्भकं स्यात्कालिङ्गं क्षयकारि च 228
रसायनन्तु तज्ज्ञेयं यज्जराव्याधिनाशनम
यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु 229
पूर्वं व्याप्याखिलं कायं ततः पाकञ्च गच्छति
व्यवायि तद् यथा भङ्गा फेनञ्चाहि समुद्भवम 230
सन्धिबन्धांस्तु शिथिलान्यत्करोति विकाशि तत
विशोष्यौजश्च धातुभ्यो यथा क्रमुककोद्र वौ 231
बुद्धिं लुम्पति यद् द्र व्यं मदकारि तदुच्यते
तमोगुणप्रधानञ्च यथा मद्यं सुराऽदिकम 232
व्यवायि च विकाशि स्याच्छ्लेष्मच्छेदि मदावहम
आग्नेयं जीवितहरं योगवाहि स्मृतं विषम 233
निजवीर्य्येण यद द्रव्यं स्रोतोभ्यो दोषसञ्चयम
निरस्यति प्रमाथि स्यात्तद्यथा मरिचं वचा 234
पैच्छिल्याद्गौरवाद द्रव्यं रुद्ध्वा रसवहाः शिराः
धत्ते यद्गौरवं तत्स्यादभिष्यन्दि यथा दधि 235
विदाहि द्रव्यमुद्गारमम्लं कुर्यात्तथा तृषाम
हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात 236
गृह्णाति योगवाहि द्रव्यं संसर्गिवस्तुगुणान
पच्यमानं यथैतन्मधुजलतैलाज्यसूतलोहादिः 237
उष्णशीतगुणोत्कर्षाद बुधैवीर्यं द्विधा स्मृतम
यत्सर्वमग्निषोमीयं दृश्यते भुवनत्रयम 238
उष्णं वातकफौ हन्यात् पित्तं तु तनुते जराम
शीतं वातकफातङ्कान्कुरुते पित्तहृत्परम 239
तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकताम
शमञ्च वातकफयो करोति शिशिरं पुनः
ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः 240
जाठरेणाग्निना योगाद्यदुदेति रसान्तरम
रसानां परिणामान्ते स विपाक इति स्मृतः 241
मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः
कटुतिक्तकषायाणां पाकः स्यात्प्रायशः कटुः 242
श्लेष्मकृन्मधुरः पाको वातपित्तहरो मतः
अम्लस्तु कुरुते पित्तं वातश्लेष्मगदापहः 243
कटुः करोति पवनं कफं पित्तञ्च नाशयेत
विशेष एवं रसतो विपाकानां निदर्शितः 244
रसादिसाम्ये यत्कर्म विशिष्टं तत्प्रभावजम
दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी 245
मधूकस्य च मृद्वीका घृतं क्षीरस्य दीपनम
प्रभावस्तु यथा धात्री लकुचस्य रसादिभिः 246
समाऽपि कुरुते दोषत्रितयस्य विनाशनम 247
क्वचित्तुकेवलं द्र व्यं कर्म कुर्यात्प्रभावतः
ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा 248
विरुद्धगुणसंयोगे भूयसाऽल्प हि जीयते
रसं विपाकस्तौ वीर्यं प्रभावस्तान्व्यपोहति 249

इति मिश्रप्रकरणे मिश्रवर्गः प्रथमः समाप्तः 1

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।