Saturday, 11 July 2015

अथ मध्यखण्डम ज्वराधिकारः तत्राष्टमं चिकित्साप्रकरणम 8 - A

यतः समस्तरोगाणां ज्वरो राजेति विश्रुतः
अतो ज्वराधिकारोऽत्र प्रथमं लिख्यते मया 1

दक्षापमानसंक्रुद्धरुद्र निःश्वाससम्भवः
ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः 2

मिथ्याऽहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः
बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः3

श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु 4

जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे 5

सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात
पित्तान्नयनयोर्दाहः कफन्नान्नाभिनन्दनम 6

रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः 7

सर्वलिङ्गसमावायः सर्वदोषप्रकोपजे 8

स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा
युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते 9

रुणद्धि चाप्यपां धातून् यस्मात्तस्माज्ज्वरातुरः
भवत्यत्युष्णगात्रश्च स्विद्यते न च सर्वशः10

अंशांशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात
साधारणीं क्रियां तत्र विदध्यात्तु चिकित्सकः
सामान्यतो ज्वरी पूर्वं निर्वाते निलये वसेत
निर्वातमायुषो वृद्धिमारोग्यं कुरुते यतः 11

व्यजनस्यानिलस्तृष्णास्वेदमूर्च्छाश्रमापहः
तालवृन्तभवो वातस्त्रिदोषशमनो मतः 12

वंशव्यजनजः सोष्णो रक्तपित्तप्रकोपणः
चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा
एते दोषजितो वाताः स्निग्धा हृद्याः सुपूजिताः 13

नवज्वरी भवेद् यत्नाद् गुरूष्णवसनावृतः
यथर्त्तुपक्वपानीयं पिवेत्किञ्चिंन्निवारयन 14

विनाऽपि भेषजैर्व्याधिः पथ्यादेव निवर्तते
न तु पथ्यविहीनस्य भेषजानां शतैरपि 15

परिषेकान्प्रदेहांश्च स्नेहान्संशोधनानि च
दिवास्वप्नं व्यवायञ्च व्यायामं शिशिरं जलम
क्रोधप्रवातभोज्यांश्च वर्जयेत्तरुणज्वरी 17

शोषं छर्दिं मदं मूर्च्छां भ्रमं तृष्णामरोचकम
प्राप्नोत्युपद्र वानेतान्परिषेकादिसेवनात 18

व्यायामाज्ज्वरसंबृद्धिर्व्यवायात्स्तम्भमूर्च्छनम
मृतिश्च स्नेहपानाद्यैर्मूर्च्छा च्छर्दिर्मदोऽरुचिः 19

गुर्वन्नभोजनात्स्वप्नाद्विष्टम्भो दोषकोपनम
अग्निसादः खरत्वञ्च स्रोतसां च प्रवर्त्तनम 20

सज्वरो ज्वरमुक्तो वा विदाहीनि गुरूणि च
असात्म्यान्नानि पानानि विरुद्धाध्यशनानि च 21

व्यायाममतिचेष्टां वाऽभ्यङ्गं स्नानञ्च वर्जयेत
तेन ज्वरः शमं याति शान्तश्च न पुनर्भवेत 22

आमाशयस्थो हत्वाऽग्नि सामो मार्गान् पिधापयन
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत 23

ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम
ज्वरान्ते भेषजंदद्याज्ज्वरमुक्ते विरेचनम 24

त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत
दोषेऽल्पे लङ्घनं पथ्यं मध्ये लङ्घनपाचनम

प्रभूते शोधनं तच्च मूलादुन्मूलयेन्मलान 25

तरुणं तु ज्वरं पूर्वं लङ्घनेन क्षयं नयेत
आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि 26

वातः पचति सप्ताहात्पित्तं तु दशभिर्दिनैः
श्लेष्मा द्वादशभिर्घस्रैः पच्यते वदतां वर 27

लङ्घनं लङ्घनीयस्तु कुर्याद्दोषानुरूपतः
त्रिरात्रमेकरात्रं वाऽहोरात्रमथवा ज्वरे 28

निर्वातसेवनात्स्वेदाल्लङ्घनादुष्णवारिणः
पानादामज्वरे क्षीणे पश्चादौषधमाचरेत 29

ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम
ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम 30

दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च
लङ्घितश्चाप्यदोषश्चेद्यवागूपानमाचरेत 31

शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत
पञ्चकोलेन संसिद्धां यवागूं मध्यलङ्घने 32

अत्यर्थं लङ्घितं दृष्ट्वा तस्य संतर्पणं हितम
द्राक्षादाडिमखर्जूरप्रियालैः सपरूषकैः 33

तर्पणार्हस्य कर्त्तव्यं तर्पणं ज्वरशान्तये 34

लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले
विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते 35

अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम 36

वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते 37

स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि 38

कफोत्क्लेशः सहृल्लासः ष्ठीवनं च मुहुर्मुहुः
कण्ठास्यहृदयाशुद्धिस्तन्द्रा  स्याद्धीनलङ्घने 39

पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः 40

मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि
देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत 41

बलाविरोधिना चैनं लङ्घनेनोपपादयेत
बलाधिष्ठानमारोग्यं यदर्थोऽय क्रियाक्रमः 42

तद्धि मारुततृष्णाक्षुन्मुखशोषभ्रमान्वितः
न कार्यं गुर्विणीबालवृद्धदुर्बलभीरुभिः
न क्षयाध्वश्रमक्रोधकामशोषचिरज्वरी 43

अवश्यमेव कुर्वीत ज्वरी सामे समीरणे
लङ्घनं ह्यामपाकार्थं न तदूर्ध्वं यथा कफे 44

आहारस्य रसः सारो यो न पक्वोऽग्निलाघवात
आमसंज्ञाञ्च लभते बहुव्याधिसमाश्रयः 45

आममन्नरसं केचित् केचित्तु मलसञ्चयम
प्रथमां दोषदुष्टिं वा केचिदामं प्रचक्षते 46

अविपक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम
सादनं सर्वगात्राणामाम इत्यभिशब्दितः 47

तेनामेन समायुक्ता दोषा दूष्याश्च तादृशाः
तदुद्भवा आमयाश्च सामा इति बुधैः स्मृताः 48

वायुः सामो विबन्धाग्नि सादतन्द्रा ऽन्त्रकूजनः
वेदनाशोथनिस्तोदैः क्रमतोऽङ्गानि पीडयेत 49

विचरेद् युगपच्चापि गृह्णाति कुपितो भृशम
स्नेहाद्यैर्वृद्धिमायाति मेघे सूर्य्योदये निशि  50

निरामो विशदो रूक्षो निर्गन्धोऽत्यल्पवेदनः
विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः 51

पित्तं सामं भवेदम्लं दुर्गन्धं हरितं गुरु
अम्लिकाकण्ठहृद्दाह करं श्यावं तथा स्थिरम 52

निरामं पित्तमाताम्रमत्युष्णं कटुकं सरम
दुर्गन्धि रुचिकृद् वह्निबलवर्धनमीरितम 53

आविलस्तन्तुलः स्त्यानः कण्ठदेशे च तिष्ठति
सामो बलासो दुर्गन्धस्तृट्क्षुधोरुपघातकृत 54

श्लेष्मा निरामो निर्गन्धः फेनवांश्छेदवानपि
भवेत् स पिण्डितः पाण्डु रास्यवैरस्यनाशकृत 55

आलस्यतन्द्रा हृदयाविशुद्धि दोषप्रवृत्त्याविलमूत्रताभिः
गुरूदरत्वारुचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति  56

आमं जयेल्लङ्घनकोष्णपेया लघ्वन्नसूपौदनतिक्तयूषैः
विरूक्षणस्वेदनपाचनैश्च संशोधनैरूर्ध्वमधस्तथैव 57

तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति
अतः सर्वास्ववस्थासु न क्वचिद् वारि वर्जयेत 58

तृष्णा गरीयसी घोरा सद्यः प्राणविनाशिनी
तस्माद्देयं तृषाऽत्ताय पानीयम्प्राणधारणम 59

नवज्वरे प्रतिश्याये पार्श्वशूले गलग्रहे
सद्यः शुद्धौ तथाऽध्माने व्याधौ वातकफोद्भवे 60

अरुचिग्रहणीगुल्म श्वासकासेषु विद्र धौ
हिक्कायां स्नेहपाने च शीतं वारि विवर्जयेत 61

सेव्यमानेन शीतेन ज्वरस्तोयेन वर्द्धते 62

क्वाथ्यमानं तु निर्वेगं निष्फेनं निर्मलं तथा
अर्द्धावशिष्टं यत् तोयं तदुष्णोदकमुच्यते 63

ज्वरकासकफश्वास  पित्तवाताममेदसाम
नाशनं पाचनञ्चैव पथ्यमुष्णोदकं सदा 64

त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते
हिमेऽद्धशेषं शिशिरे तथा वर्षावसन्तयोः 65

निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम
शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम 66

अष्टमांशावशेषन्तु वारि वर्षासु शस्यते
इति केचिद् बुधाः प्राहुर्जेज्जटागमदर्शनात 67

पक्षयोस्त्रिषु वेदेषु बाणेष्वङ्गेषु सप्तसु
एषु भागावशेषं स्यादम्बु वर्षाऽदिषु क्रमात 68

तत्पादहीनं पित्तघ्नमर्द्धहीनन्तु वातनुत
त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्निप्रदं लघु 69

पादशेषं तु यत्तोयमारोग्याम्बु तदुच्यते
आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम 70

सद्योज्वरहरं ग्राहि दीपनं पाचनं लघु
आनाहपाण्डुशूलार्शो गुल्मशोथोदरापहम 71

हेमन्ते शिशिरे चाम्बु सारसं वा तडागजम
वसन्तग्रीष्मयोः कौप्यं वाप्यं वा नैर्झरं हितम 72

नादेयं वारि नादेयं वसन्तग्रीष्मयोर्बुधः
विषवत्पत्रपुष्पादि दुष्टनिर्झरयोगतः 73

आद्भिदं चान्तरिक्षं वा कौप्यं वा प्रावृषि स्मृतम
शस्तं शरदि नादेयं नीरमंशूदकं परम 74

दिवा रविकरैर्जुष्टं निशि शीतकरांशुभिः
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम 75

अनभिष्यन्दि निर्दोषञ्चान्तरिक्षजलोपमम
बल्यं रसायनं मेध्यं शीतं लघु सुधासमम76

शरद्यगस्तेरुदयादखिलं सलिलं हितम 77

कार्त्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते 78

दाहातिसारपित्तास्त्र  मूर्च्छामद्यविषार्त्तिषु
मूत्र कृच्छ्रे पाण्डुरोगे तृष्णाच्छर्दिश्रमेषु च
मद्यपानसभुद्भूते रोगे पित्तोत्थिते तथा
सन्निपातसमुत्थेषु शृतशीतं प्रशस्यते 79

शृताम्बु तत्त्रिदोषघ्नं तदन्तर्बाष्पशीतलम
अरूक्षमनभिष्यन्दि कृमितृड्ज्वरहृल्लघु
धारापातेन विष्टम्भि दुर्जरं पवनाहतम 80

भिनत्ति श्लेष्मसङ्घातं मारुतं चापकर्षति
अजीर्णं जरयत्याशु पीतमुष्णोदकं निशि 81

दिवा शृतंपयो रात्रौ गुरुतामधिगच्छति
रात्रौ शृतं दिवा पीतं गुरुत्वमधिगच्छति 82

तत्तु पर्य्युषितं वह्निगुणोत्सृष्टं त्रिदोषकृत
गुर्वम्लपाकं विष्टम्भि सर्वरोगेषु निन्दितम 83

शृतशीतं पुनस्तप्तं तोयं विषसमं भवेत
निर्य्यूहोऽपि तथा शीतः पुनस्तप्तो विषोपमः 84

अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा
अथ वा क्वथनेनैवसिद्धमुष्णोदकं वदेत 85

श्लेष्मानिलाममेदोघ्नं दीपनं बस्तिशोधनम
श्वासकासज्वरहरं पीतमुष्णोदकं निशि 86

रात्रावुष्णोदकञ्च तप्तमेव पिबेदित्याह
उष्णं तदग्निजननं लघ्वच्छं बस्तिशोधनम 87

पार्श्वरुक्पीनसाध्मानहिक्काऽनिलकफापहम
शस्तं तृट्श्वासशूलेषु सद्यःशुद्धौ नवज्वरे 88

मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये
भ्रमश्रमपरीतेषु तमके श्वयथौ तथा 89

धूमोद्गारे विदग्धेऽन्ने शोषे च मुखकण्ठयोः
ऊर्ध्वगे रक्तपित्ते च शीतलाम्बु प्रशस्यते 90

आमं जलं पाकमुपैति यामं पक्वं पुनः शीतलमर्द्धयामम
पक्वं कदुष्णञ्च ततोऽद्धकालात् त्रयः सुपीतस्य जलस्य पाके 91

पित्तमद्यविषार्त्तेषु तिक्तकैः शृतशीतलम 92

मुस्तपर्पटकोदीच्यच्छत्राऽख्योशीरचन्दनैः
शृतं शीतं जलं दद्यात्तृड्दाहज्वरशान्तये 93

दिवास्वापं न कुर्वीत यतोऽसौ स्यात्कफावहः
ग्रींष्मवर्ज्येषु कालेषु दिवास्वापो निषिध्यते 94

उचितो हि दिवास्वापो नित्यं येषां शरीरिणाम
वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा 95

व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः
शूलश्वासवमीतृषापरिगतान् हिक्कामरुत्पीडितान्
क्षीणान्क्षीणकफाञ्छिशून्मदहतान्वृद्धांस्तथाऽजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत 96

वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः
श्लैष्मिको द्वादशाहेन ज्वरः पाकमुपैति हि 97

आ सप्तरात्रात्तरुणं ज्वरमाहुर्मनीषिणः
द्वादशाहमभिव्याप्य मध्यं जीर्णं ततः परम 98

वातिके सप्तरात्रेण दशरात्रेण पैत्तिके
श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम 99

ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम 100

तत्राऽनुक्ते प्रभातं स्यात्कषायेषु विशेषतः
मुख्यभैषज्यसम्बन्धो निषिद्धस्तरुणज्वरे 101

तोयपेयाऽदिसंस्कारेर्निर्दोषं तत्र भेषजम 102

दोषा वृद्धाः कषायेण स्तम्भितास्तरुणज्वरे
स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम 103

न च्यवन्ते न पच्यन्ते कषायैः स्तम्भिता मलाः
तिर्यग्विमार्गगा वाते घोरं कुर्युर्नवज्वरम 104

अनवस्थितदोषाणां वमनं तरुणज्वरे
हृद्रो गं श्वासमानाहं मोहं च कुरुते भृशम 105

सद्योभुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते
वमनं वमनार्हस्य शस्तमित्याह वाग्भटः 106

पाययेदातुरं सामं पाचनं सप्तमे दिने
शमनेनाथ वा दृष्ट्वा निरामं तमुपाचरेत 107

कृशं चैवाल्पदोषञ्च शमनीयैरुपाचरेत 108

नागरं देवकाष्ठञ्च ध्यामकं बृहतीद्वयम
दद्यात्पाचनकं पूर्वं ज्वरितेभ्यो ज्वरापहम 109

अथ संशमनीयानि कषायाणि निबोध मे
सर्वज्वरेषु देयानि यानि वैद्येन जानता 110

बृश्चीरो विश्ववर्षाभूः पयः सोदकमेव च
पचेत्क्षीरावशेषं तत्पेयं सर्वज्वरापहम 111

उदकाद् द्विगुणं क्षीरं शिंशपोशीरमेव च
तत्क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम 112

गुडूचीधान्यकारिष्टं पद्मकं रक्तचन्दनम
एषां क्वाथः सुप्रसिद्धः सर्वज्वरहरः स्मृतः
दीपनो दाहहृल्लासतृष्णाच्छर्द्यरुचीर्हरेत 113

छर्दिमूर्च्छामदश्वासभ्रमतृड्विषमज्वरान
संशोधनस्य पानेन प्राप्नोति तरुणज्वरी 114

रोगे शोधनसाध्ये तु यं विद्याद् दोषदुर्बलम
तं समीक्ष्य भिषक्कुर्याद् दोषप्रच्यावनं मृदु 115

सद्योज्वरे विषेऽजीर्णे मन्देऽग्नावुदरे तथा
स्तन्यरोगे च हृद्रो गे कासश्वासेषुवामयेत 116

जीर्णज्वरगरच्छर्दिगुल्मप्लीहोदरेषु च
शूले शोथे मूत्रघाते कृमिरोगे विरेचयेत 117

चले दोषे मृदौ कोष्ठे नेक्षेत्तत्र बलं नृणाम
अव्यापद् दुर्बलस्यापि शोधनं हि तदा भवेत 118

पक्वोऽप्यनिर्हृतो दोषो देहे तिष्ठन्महात्ययम
विषमं वा ज्वरं कुर्याद् बलव्यापदमेव वा 119

आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः
सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च 120

इत्यारग्वधादिः क्वाथः

पथ्याऽरग्वधतिक्तात्रिवृदामलकैः शृतं तोयम
पाचनसारकमुक्तं मुनिभिर्जीर्णज्वरे सामे इत्यारोग्यपञ्चकद्वयम 121

अनन्ता बालकं मुस्तं नागरं कटुरोहिणी
पिष्ट्वा सुखाम्बुना कल्कं पाययेदक्षसम्मितम 122

कल्कः स्वल्पेन कालेन हन्यात्सर्वज्वरामयान
विदध्यात्कोष्ठसंशुद्धिं दीपयेच्च हुताशनम 123

पीताम्बुर्लङ्घनक्षीणो जीर्णो भुक्तः पिपासितः
न पिबेदौषधं जन्तुः संशोधनमथेतरत 124

त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी
त्रिकटु ग्रन्थिकं मूर्वा गुडूची धन्वयासकः 125

कटुका पर्पटो मुस्तं त्रायमाणा च बालकम
निम्बः पुष्करमूलञ्च मधुयष्टी च वत्सकः 126

यवानीन्द्र्यवो भार्गी शिग्रुबीजं सुराष्ट्रजा
वचात्वक्पद्मकोशीरचन्दनातिविषाबलाः 127

शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा
चित्रकं देवकाष्ठञ्च चव्यं पत्रं पटोलजम 128

जीवकर्षभकौ चैव लवङ्गं वंशलोचनम
पुण्डरीकञ्च काकोली पत्रकं जातिपत्रकम 129

तालीसपत्रमेतानि समभागानि चूर्णयेत
अर्द्धांशं सर्वचूर्णस्य किरातं प्रक्षिपेत्सुधीः 130

एतत्सुदर्शनं नाम चूर्णं दोषत्रयापहम
ज्वरांश्च निखिलान् हन्ति नात्र कार्या विचारणा 131

दोषजागन्तुकांश्चापि धातुस्थान्विषमज्वरान
सन्निपातोद्भवांश्चापि मानसानपि नाशयेत 132

शीतादीनपि दाहादीन्मेहं तन्द्रां! भ्रमं तृषाम
कासं श्वासञ्च पाण्डुञ्च हृद्रो गं कामलामपि 133

त्रिकपृष्ठकटीजानुपार्श्वशूलं निवारयेत
शीताम्बुना पिबेदेतत्सर्वज्वरनिवृत्तये 134

सुदर्शनं यथा चक्रं दानवानां विनाशनम
तथा ज्वराणां सर्वेषां चूर्णमेतत्प्रणाशनम 135

निम्बपत्रवराव्योषयवानी लवणत्रयम्
क्षारो दिग्वह्निरामेषुत्रिनेत्रान् क्रमतॐऽशकान 136

सर्वमेकीकृतं चूर्णं प्रत्यूषे भक्षयेन्नरः
एकाहिकं द्व्याहिकञ्च तथा त्रिदिवसज्वरम 137

चातुर्थिकं महाघोरं सततं सन्ततं दिवा
धातुस्थं च त्रिदोषोत्थं ज्वरं हन्ति नसंशयम 138

इति निम्बादिचूर्णम्

शटी निशाद्वयं शुण्ठी दारु पुष्करमूलकम
एला गुडूची कटुका पर्पटश्च यवासकः
शृङ्गी किराततिक्तञ्च दशमूली तथैव च 139

क्वाथमेषां पिबेत्कोष्णं सिन्धुचूर्णयुतं नरः
ज्वरान्सर्वान्द्रुतं हन्ति नात्र कार्या विचारणा 140

हरीतकीत्रिवृद्वृद्धदारकाणां पृथग्भवेत
पलद्वयं कणा शुण्ठी गुडूची गोक्षुरो वरी 141

सहदेवी विडङ्गञ्च प्रत्येकं पलसम्मितम
मधुना वटिकां कृत्वा खादञ्ज्वरमपोहति 142

कासं श्वासं मलस्तम्भं वह्निमान्द्यं नियच्छति 143

लाक्षा दशाक्षा त्वरुणा षडक्षा सचन्दनं लोहितचन्दनञ्च
त्वक्पत्रकं वारि मुरा समुस्ता प्रत्येकमेतानि पलोन्मितानि 144

किराततिक्तात्रिवृतासतिक्ताऽमृताकणापर्पटकण्टकार्यः
विडङ्गविश्वाऽमलकानि वासारसानिशावीरणसिन्दुवाराः 145

एतानि देयानि पृथक्पलार्द्धमानानिसर्वाणि च भेषजानि
कल्कानमीषां विदधीत गव्यदुग्धेन वै सार्द्धतुलामितेन 146

तैलं तिलानां तु तुलाऽनुमानं  तेनैव कल्केन शनैः पचेच्च
हन्याज्ज्वरांस्तैलमिदं समस्तान् कुर्याद् बलं वीर्यमतीव पुष्टिम 147

विमर्दनादाशु परिश्रमं भ्रमं शमं नयेत्सञ्जनयेद् द्युतिं तनोः
तथा व्यथामस्थिसमुद्भवामपि प्रहृत्य निद्रां! समुपार्जयेत्सुखम 148

लाक्षारससमं तैलं तैलान्मस्तु चतुर्गुणम
अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः149

समूर्वारोहिणीरास्नाशताह्वामधुकैः समैः
सिद्धं लाक्षाऽदिकं नाम तैलमभ्यञ्जनादिना 150

सर्वज्वरक्षयोन्मादश्वासापस्मारवातनुत
यक्षराक्षसभूतध्नं गर्भिणीनां च शस्यते 151

लाक्षा हरिद्रा  मञ्जिष्ठा फेनिलं मधुकं वला
लामज्जकं चन्दनं च चम्पकं नीलमुत्पलम 152

प्रत्येकमेषां षण्मुष्टीः पक्त्वा तोये चतुर्गुणे
चतुर्भागावशेषे तु गर्भे चैतत्समावपेत 153

रेणुका पद्मकञ्चैव वाजिगन्धा तथैव च
वेतसं चोरकं कुष्ठं देवदारु नखं त्वचम 154

शतपुष्पा पुण्डरीकं मांसी मधुकमेव च
एभिरक्षमितैः कल्कैः कषायेणैव पेषितैः 155

मस्तुशुक्तारनालानामाढकांशं समावपेत
क्षीराढकसमायुक्तं तैलप्रस्थं विपाचयेत 156

अभ्यङ्गात्तैलमेतद्धि शीघ्रं दाहमपोहति
व्यपोहति  तथा वातपित्तश्लेष्मभवज्वरम 157

सप्रलापं सतृष्णञ्च तालुशोषभ्रमान्वितम
ग्रहोपसृष्टा ये बाला रक्षसा दूषिताश्च ये
तेषां कष्टं प्रशमयेत्तैलं लाक्षाऽदिकं महत 158

सूतो गन्धष्टङ्कणः शोषणश्च सर्वैस्तुल्या शर्करा मत्स्यपित्तैः
भूयो भूयो मर्दयेत्तत् त्रिरात्रं वल्लो देयः शृङ्गवेरद्र वेण 159

तापे शीतं व्यञ्जनैस्तक्रभक्तं वृन्ताकाढ्यं पथ्यमेतत्प्रदिष्टम
अह्नायोग्रं हन्ति सद्यो ज्वरन्तु पित्ताधिक्ये मूर्ध्नि तोयं च दद्यात 160

भवेत् समं सूतसमुद्र फेनहिङ्गूलगन्धं परिमर्द्य यामम
नवज्वरे वह्रयुगं त्रिघस्रमाद्रा र्म्भ!साऽय ज्वरधूमकेतुः 161

शुद्धसूतो विषं गन्धः प्रत्येकं शाणसम्मितः
धूर्त्तबीजं त्रिशाणं स्यात्सर्वेभ्यो द्विगुणा भवेत  162

हेमाह्व कारयेदेषां सूक्ष्मं चूर्णं प्रयत्नतः
देयं जम्बीरमज्जाभिश्चूर्णं गुञ्जाद्वयोन्मितम 163

आर्द्र कस्य रसेनापि ज्वरं हन्ति त्रिदोषजम
एकाहिकं द्वयाहिकं च त्र्! याहिकं च चतुर्थकम 164

विषमञ्च ज्वरं हन्यान्नवं जीर्णञ्च सर्वथा
महाज्वराङ्कुशो नाम्ना रसोऽय सर्वसम्मतः 165

एको भागो रसाच्छुद्धाच्छैलेयःपिप्पली शिवा
आकारकरभो गन्धः कटुतैलेन शोधितः 166

फलानि चेन्द्र वारुण्याश्चतुर्भागमिता अमी
एकत्र मर्दयेच्चूर्णमिन्द्र वारुणिकारसैः 167

माषोन्मितां वटीं कृत्वा दद्यात्सद्योज्वरे बुधः
छिन्नारसानुपानेन ज्वरघ्नी वटिका मता 168

रसं गन्धञ्च दरदं जैपालंक्रमवर्द्धितम
दन्तीरसेन संपिष्य वटी गुञ्जामिता भवेत 169

प्रभाते सितया सार्द्धमशिता शीतवारिणा
एकेन दिवसेनैषा नवज्वरहरी भवेत 170

रसो गन्धो विषं शुण्ठीपिप्पलीमरिचानि च
पथ्या बिभीतकं धात्री दन्तीबीजं च शोधितम 171

चूर्णमेषां समांशानां द्रो णपुष्पीरसैः पुटेत
वटीं माषनिभांकुर्याद्भक्षयेन्नूतने ज्वरे 172

एकभागो रसो भागद्वयं शुद्धञ्च गन्धकम
गरलस्य त्रयो भागाश्चतुर्भागा हिमावती 173

जैपालकः पञ्चभागो निम्बूद्र वविमर्दितः
कृमिघ्नप्रमिता वट्यः कार्याः सर्वज्वरच्छिदः 174

शृङ्गवेरेण दातव्या वटिकैका दिने दिने
जीर्णज्वरे तथाऽजीर्णे सामे वा विषमे तथा 175

ज्वरं सर्व निहन्त्यसौ दावो वनमिवानलः 176

शुद्धं सूतं विषं गन्धं धूर्त्तबीजं त्रिभिः समम
चतुर्णां द्विगुणं व्योषं चूर्णं गुञ्जाद्वयोन्मितम 177

आर्द्र कस्य रसैः किं वा जम्बीरस्य रसैर्युतम
महाज्वराङ्कुशो नाम्ना सर्वज्वरविनाशनः 178

एकाहिकं द्व्याहिकञ्च त्र्! याहिकञ्च चतुर्थकम
विषमं वा त्रिदोषं वा ज्वरं हन्ति न संशयः 179

सूतं गन्धं विषं चैव टङ्कणं च मनःशिला
एतानि टङ्कमात्राणि मरिचं त्वष्टटङ्ककम 180

कटुत्रयं टङ्कषट्कं खल्ले क्षिप्त्वा विचूर्णयेत
रसः श्वासकुठारोऽय सर्वज्वरहरः परः 181

दारुमुखां शिखिग्रीवां रसकञ्च पृथक् पृथक
टङ्कत्रयानुमानेन गृहीत्वा कनकद्र वैः 182

मर्दयेत् त्रिदिनं कार्या वटी चणकमात्रया
मरिचैरेकविंशत्या सप्तभिस्तुलसीदलैः 183

खादेद्वटीद्वयं पथ्यं दुग्धभक्तं सशर्करम
तरुणं विषमं जीर्णं हन्यात्सर्वज्वरं ध्रुवम 184

नागरं कर्षमात्रञ्च टङ्कणं कर्षकद्वयम
मरिचं सार्द्धकर्षं स्यात्तावद्दग्धवराटकम 185

विषं कर्षचतुर्थांशं सर्वमेकत्र चूर्णयेत्
रसो हुताशनो नाम्ना खाद्यो गुञ्जामितो ज्वरे 186

शुद्धजैपालटङ्कं तु कट्वीं टङ्कद्वयोन्मिताम
गैरिकं टङ्कमेकञ्च कन्यानीरेण मर्दयेत् 187

कलायसदृशी कार्या वटिका ताञ्च भक्षयेत
शीतलेन जलेनैव वटी जीर्णज्वरापहा 188

द्विभागतालेन हतं च ताम्रं रसं च गन्धं च समीनमायुम
विषं समं च द्विगुणञ्च ताम्रं त्रिःसप्तवारेण दिवाकरांशौ 189

विमर्द्य चारिष्टरसेनचूर्णं गुञ्जैकदत्तं सितया समेतम
ज्वराङ्कुशोऽय रविसुन्दराख्यो ज्वरान्निहन्त्यष्टविधान्समस्तान 190

शुद्धं सूतं तथा गन्धं खल्ले तावद्विमर्दयेत
सूतं न दृश्यते यावत्किन्तु तत्कज्जलं भवेत 191

एषा कज्जलिका ख्याता वृंहणी वीर्यवर्द्धिनी
नानाऽनुपानयोगेन सर्वव्याधिविनाशिनी 192

जपापत्ररसेनाथ वर्द्धमानरसेन च
भृङ्गराजरसेनापि काकमाच्या रसेन च 193

रसं संशोधयेत्तेन तत्समं शोधयेद्वलिम्
भृङ्गराजरसैः पिष्ट्वा शोषयेदर्करश्मिभिः 194

सप्तधा वा त्रिधा वाऽपि पश्चाच्चूर्णन्तु कारयेत
चूर्णयित्वा समं तेन रसेन सह मर्दयेत 195

नष्टसूतं यदा चूर्णं भवेत्कज्जलसन्निभम
निर्धूमबदराङ्गारे द्र वीकुर्यात्प्रयत्नतः 196

तत्र तं महिषीविष्ठास्थापिते कदलीदले
निक्षिपेत्तदुपर्य्यन्यत् पत्रं दत्वा प्रपीडयेत 197

शीतलञ्च ततः पत्रात् समुद्धृत्य विचूर्णयेत
एवं सिद्धा भवेद्व्याधिघातिनी रसपर्पटी 198

ज्वरादिव्याधिभिर्व्याप्तं विश्वं दृष्ट्वा पुरा हरः
चकार कृपया युक्तः सुधावद्र सपर्पटीम 199

रक्तिकासम्मितां तावद् भृष्टजीरकसंयुताम
गुञ्जाऽद्धभृष्टहिङ्ग्वाढ्यां भक्षयेद्र सपर्पटीम 200

रोगानुरूपभैषज्यैरपि तां भक्षयेद्बुधः
पिबेत्तदनु पानीयं शीतलंचुलुकत्रयम 201

प्रत्यहं वर्धयेत्तस्याएकैकां रक्तिकां भिषक
नाधिकां दशगुञ्जातो भक्षयेत्तां कदाचन 202

एकादशदिनारम्भात्तां ततो वाऽपकर्षयेत
एवमेतां समश्नीयान्नरो विंशतिवासरान 203

शिवं गुरूंस्तथा विप्रान्पूजयित्वा प्रणम्य च
श्रद्धया भक्षयेदेतां क्षीरमांसरसाशनः 204

ज्वरञ्च ग्रहणीं वाऽपि तथाऽतीसारमेव च
कामला पाण्डुरोगञ्च शूलं प्लीहं जलोदरम 205

एवमादीन गदान हत्वा हृष्टः पुष्टश्च वीर्यवान
जीवेद्वर्षशतं साग्रं वलीपलितवर्जितः 206

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।