Thursday 9 July 2015

अथैकोनत्रिंशो वातरक्ताधिकारः 29

लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः 1

कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः
दध्यारनालसौवीरशुक्ततक्रसुरासवैः 2

विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम
स्थूलानां सुखिनाञ्चापि प्रकुप्येद्वातशोणितम 3

हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं सविदाहाशनस्य 4

कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं शीघ्रं पादयोश्चीयते तु
तत्सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम 5

स्वेदोत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेतिरुक
सन्धिशैथिल्यमालस्यं सदनं पिडिकोद्गमः 6

जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च 7

कण्डूः सन्धिषु रुग्दाहो भूत्वा नश्यति चासकृत
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम 8

वातेऽधिकेऽधिकं तत्र शूलं स्फुरणतोदनम
शोथस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः 9

धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः 10

रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते
स्निग्धरुक्षैः शमं नैति कण्डूक्लेदसमन्वितः 11

पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मदस्तृषा
स्पर्शासहत्वं रुग्दाहः शोथः पाको भृशोष्णता 12

कफे स्तैमित्यगुरुता सुप्तिः स्निग्धत्वशीतता
कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गञ्च सङ्करे 13

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि
आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति 14

अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः
मूर्च्छा चामन्दरुक्तृष्णाज्वरमोहप्रवेपकाः 15

हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः
अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः 16

एतैरुपद्र वैर्वर्ज्यं मोहेनैकेन चापि तत
अकृत्स्नोपद्र वं याप्यं साध्यं स्यान्निरुपद्र वम 17

एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्र वाः 18

आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतञ्च यत्
उपद्र वैश्च यज्जुष्टं प्राणमांसक्षयादिभिः
वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम 19

वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत
अल्पाल्पं रक्षयेद्वायुं यथादोषं यथाबलम 20

उग्राङ्गदाहतोदेषु जलौकोभिर्विनिर्हरेत 21

शृङ्गेण वै चिमिचिमाकण्डूरुग्वेपनान्वितम
प्रच्छन्नेन शिराभिर्वा देशाद्देशान्तरं व्रजेत 22

अङ्गेम्लाने तु न स्राव्यं रक्षेद्वातोत्तरञ्च यत
गम्भीरं श्वयथुं स्तम्भं कम्पवायुं शिराऽमयान
ग्लानिमन्यांश्च वातोत्थान्कुर्याद्वायुरसृक्क्षयात 23

खञ्जादीन वातरोगांश्च मृत्युञ्चानवशेषितम
कुर्यात्तस्मात्प्रमाणेन स्निग्धाद्र क्तं विनिर्हरेत 24

रुक्षैर्वा मृदुभिः शस्तमसकृद्वस्तिकर्म च
नहि वस्तिसमं किञ्चिद्वातरक्तचिकित्सितम 25

बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः
विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत 26

दिवास्वप्नं ससन्तापं व्यायामं मैथुनं तथा
कटूष्णगुर्वभिष्यन्दि लवणाम्लौ च वर्जयेत 27

पुराणा यवगोधूमा नीवाराः शालिषष्टिकाः
भोजनार्थे रसार्थे तु विष्किराः प्रतुदा हिताः 28

आढक्यश्चणका मुद्गा मसूराः सकुलत्थकाः
यूषार्थे बहुसर्पिष्काः प्रशस्ता वातशोणिते 29

सुनिषण्णकवेत्राग्रकाकमाचीशतावरी
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा 30

घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत 31

सर्पिस्तैलवसामज्जपानाभ्यञ्जनवस्तिमिः
सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत
हितो गोधूमचूर्णश्च च्छागक्षीरघृताप्लुतः 32

लेपस्तद्वत्तिला भृष्टाः पिष्टाः पयसि निर्वृताः
क्षारपिष्टातसीलेपो वर्द्धमानफलेन वा 33

उभे शताह्वे मधुकं बलां चै प्रियालकं चापि कसेरुकं च
वृत्तं विदारीञ्च सितोपलाञ्चै कुर्यात्प्रदेहं पवने सरक्ते 34

रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च
घृतञ्च सिद्धं मधुशेषयुक्तं रक्तानिलार्त्तिं प्रणुदेत्प्रदेहः 35

वासागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम
क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम 36

दशमूलीशृतं क्षीरं सद्यः शूलनिवारणम
परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा 37

पटोलकटुकाभीरुत्रिफलाऽमृतसाधितम्
क्वाथं पीत्वा जयेज्जन्तुः सदाहं वातशोणितम 38

त्रिवृद्विदारीक्षुरकक्वाथो वातास्रनाशनः
अमृता कफवातघ्नी कफमेदोविशोषिणी 39

वातरक्तप्रशमनी कण्डूवीसर्पनाशिनी 40

गुडूच्याः स्वरसं कल्कं चूर्णं वा क्वाथमेव च
प्रभूतकालमासेव्य मुच्यते वातशोणितात 41

अमृता नागर धान्यक कर्षत्रितयेन पाचनं सिद्धम
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि 42

वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुमिश्रितः
समीरणसमायुक्तं शोणितं सम्प्रणाशयेत 43

तिस्रोऽथ वा पञ्च गुडेन पथ्या जग्ध्वा पिबेच्छिन्नरुहाकषायम
तद्वातरक्तं शमयत्युदीर्णमाजानुभिन्नं च्युतमप्यवश्यम 44

गुग्गुल्वमृतवल्लीभिद्रा र्क्षा! लुङ्गरसेन वा
त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः 45

भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम्
पादस्फोटं महाघोरं स्फुटत्सर्वाङ्गसञ्चयम
तत्सर्वं नाशयत्याशु साध्यञ्चैव सशोणितम 46

माहिषं नवनीतं तु बलिना परिमिश्रितम
गोमूत्रमिश्रितं कृत्वा क्षीरेण लवणेन च 47

तदेकत्र समालोड्य वह्निना भावयेच्छनैः
गात्रमुद्वर्त्तयेत्तेन देहस्फुटनशान्तये 48

इति गुग्गुलवटिका

घृतेन वातं सगुडा विबन्धं पित्तं सिताढ्या मधुना कफञ्च
वातासृगुग्रं रुबुतैलमिश्रा शुण्ठ्यामवातं शमयेद् गुडूची 49

सिंहास्यपञ्चमूलीच्छिन्नरुहैरण्डगोक्षुरक्वाथः
एरण्डतैलरामठसैन्धवचूर्णान्वितः पीतः 50

प्रशमयति वातरक्तं तथामवातं कटीशूलम
मूत्रपुरीषविबन्धं ब्रध्नविकारं सुदुर्वारम 51

गन्धर्वहस्तवृषगोक्षुरकामृतानां
मूलं बलेक्षुरकयोश्च पचेत्तु धीमान
वातासृगाशु विनिहन्ति चिरप्ररुढ
माजानुगं स्फुटितमूर्ध्वगतन्तु धीमान 52

कफपित्तप्रशमनं कण्डूवीसर्पनाशनम
वातरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम 53

पिप्पलीवर्द्धमानं वा सेव्यं पथ्या गुडेन वा 54

कोकिलाक्षामृताक्वाथे पिबेत्कृष्णां यथाबलम
पथ्यभोजी त्रिसप्ताहान्मुच्यते वातशोणितात 55

मधुकाद द्विगुणं तैलं तैलादाजं पयो भवेत
तद्यथाऽग्निबलं पेयं वातरक्तरुजाऽपहम 56

अगस्ति पुष्पचूर्णेन माहिषं जनयेद्दधि
तदुत्थनवनीतेन देहजं स्फुटनं जयेत 57

नवकार्षिकक्वाथः

त्रिफलानिम्बमञ्जिष्ठा वचा कटुकरोहिणी
वत्सादनी दारुनिशा कषायो नवकार्षिकः
वातरक्तं तथा कुष्ठं पामानं रक्तमण्डलम 58

कण्डूकपालिकाकुष्ठं पानादेवापकर्षति
पञ्चरक्तिकमाषेण कषायो नवकार्षिकः 59

किञ्चैवं साधिते क्वाथे योग्या मात्रा प्रदीयते
कर्षादौ तु पलं यावद्दद्यात्षोडशिकं जलम 60

ततस्तु कुडवं यावदष्टादशगुणं जलम
चतुर्गुणमतश्चोर्ध्वं यावत्प्रस्थादिकं भवेत 61

विरेचनैर्घृतक्षीरपानैः सेकैः सवस्तिभिः
लेपनं शाल्मलीकल्कमविक्षीरेण संयुतम 62

रक्तोत्तरं क्षीरघृतं मधुकोशीरवारिभिः
सेचनं चात्र कर्त्तव्यमविक्षीरैः क्षणं क्षणम 63

सहस्रशतधौतेन घृतेन रुधिरोत्तरे
लेपनं सुष्ठु शीतेन घृतसर्जरसेन वा 64

शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत
सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत 65

तिलाः प्रियालं मधुकं बिसमूलं च वेतसम
सघृतं पयसा पिष्टं प्रलेपो दाहरोगनुत 66

पित्तोत्तरे तुकाश्मर्यद्रा क्षाऽरग्वधचन्दनैः 67

मधुकक्षीरकाकोलीयुक्तैः क्वाथं सुशीतलम
शर्करामधुसंयुक्तं वातरक्ते पिबेन्नरः 68

धारोष्णं मूत्रसंयुक्तं क्षीरं दोषानुलोमनम
पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिले 69

क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः
बहुदोषे विरेकार्थं जीर्णे क्षीरौदनाशनः 70

पटोलं त्रिफला भीरु गुडूची कटुरोहिणी
क्वाथः पित्ताधिके शस्तः शर्करामधुसंयुतः 71

तिक्तस्य सर्पिषःपानं बहुशश्च विरेचनम
वमनं मृदुनाऽत्यर्थं स्नेहसेको विलङ्घनम 72

कोष्णाः सेकाश्च शस्यन्ते वारतक्ते कफोत्तरे
तैलमूत्रसुराशुक्तैः परिषेकाः सदा हिताः 73

गौरसर्षपकल्केन प्रदेहो वा रुजापहः 74

सवरुणशिग्रोः कल्को धान्याम्लेनानिलार्त्तिजिल्लेपात
भवति न वेति विकल्पो न विधेयः सिद्धयोगेऽस्मिन  75

कल्कः श्लेष्मोत्तरे लेपो वाजिगन्धातिलोद्भवः
लेपः सर्षपनिम्बार्क हिंस्राक्षारतिलैर्हितः 76

श्रेष्ठः शक्तुघृतक्षारकपित्थत्वग्भिरेव च
मसूरशिग्रोस्तद्बीजं हितं धान्याम्लसंयुतम
मुहूर्त्ताल्लिप्तमम्लैश्च सिञ्चैद्वातकफोत्तरे 77

मुस्तामलकनिशाभिः क्वथितं तोयं समाक्षिकं पेयम
जयति सदागतिरक्तं सकफं वा सततयोगेन 78

हरिद्रा मृतकक्वाथं मधुना मधुरीकृतम
पिबेद्वा त्रिफलाक्वाथं वातरक्ते कफाधिके 79

हरीतकीं वा तक्रेण पाययेदुदकेन वा
गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम
प्रलेपःशूलनुद्वातरक्ते वातकफोत्तरे 80

अमृताकटुकायष्टी शुण्ठीकल्कं समाक्षिकम 81

गोमूत्रपीतं जयति सकफं वातशोणितम
धात्रीहरिद्रा मुस्तानां कषायं वा समाक्षिकम 82

लाङ्गल्यास्त्वमृतातुल्यं कन्दमुद्धृत्य यत्नतः
योजयेत्त्रिफलालौहरजस्त्रिकटुकैः समैः 83

गुग्गुल्वमृतवल्लीभिद्रा र्क्षा!लुङ्गरसेन वा
त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः 84

भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम
पादस्फुटितं दुर्भग्नं जानुप्राप्तं च यद्भवेत 85

यच्च देहोद्गतं रक्तं यच्चासाध्यं प्रकीर्त्तितम
घ्नन्त्येता भक्ष्यमाणस्य प्रबलं वातशोणितम 86

बलामतिबलां मेदामात्मगुप्तां शतावरीम
काकोलद्यं क्षीरकाकोलद्यं रास्नां मृद्वीं च पेषयेत 87

घृतं चतुर्गुणं क्षीरं तैः सिद्धं वातरक्तनुत
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम 88

बलास्थिरा नागबला गुडूची शतावरी कल्क कषायसिद्धम
तैलं विदध्यादनुवासनेषुतद्वातरक्तं शमयत्युदीर्णम 89

त्रायन्तिका चामलकी द्विकाकोली शतावरी
कसेरुका कषायेण कल्कैरेभिः पचेद् घृतम 90

उभे परुषके द्रा क्षा काश्मर्यः ससुरद्रुमाः
पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम 91

एतदायोजितं सर्पिः पारूषकमिति स्मृतम
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे 92

शतावरीकल्कगर्भं रसे तस्याश्चतुर्गुणे
क्षीरतुल्यं घृतं सिद्धं वातशोणितनाशनम 93

ॠषभक्षीरकाकोलीक्षीरिकाजीवकैः समैः
सिद्धं त्वार्षभकं सर्पिः सक्षीरं वातरक्तनुत 94

गुडूचीक्वाथकल्काभ्यां सपयस्कं घृतं शृतम
हन्ति वातं तथारक्तं कुष्ठं जयति दुस्तरम 95

क्षीरं स्नेहसमं दद्याच्चतुर्भिश्च  चतुर्गुणम
एकद्वित्रिद्र वद्र व्यैः कुर्यात्स्नेहाच्चतुर्गुणम 96

अमृतायाः कषायेण कल्केन च महौषधात
मृद्वग्निना घृतं सिद्धं वातरक्तहरं परम 97

आमवाताढ्यवातादीन्कृमिकुष्ठव्रणानपि
अर्शांसि गुल्मांश्च तथा नाशयेदाशु योजितम 98

अमृतास्वरसविपक्वं सर्पिस्तत्कल्कसाधितं पीतम
अपहरति वातरक्तमुत्तानं चावगाढं च 99

अमृतायाः पलशतं जलद्रो णावशेषितम
घृतप्रस्थं विपक्तव्यं कल्कादष्टौ पलानि च 100

चतुर्गुणेन पयसा वातासृक्कुष्ठनाशनम
कामलापाण्डुरोगघ्नं प्लीहकासज्वरापहम 101

अमृता मधुकं द्रा क्षा त्रिफला नागरं बला
वासारग्वधवृश्चीरदेवदारुत्रिकण्टकम 102

कटुका रोहिणी कृष्णा काश्मर्यस्य फलानि च
रास्नाक्षुरकगन्धर्ववृद्धदारघनोत्पलैः 103

कल्कैरेभिः समैः कृत्वा सर्पिः प्रस्थं विपाचयेत
धात्रीरसः समो देयो वारित्रिगुणसंयुतः 104

सम्यक्सिद्धं च विज्ञाय भोज्ये पाने च शस्यते
बहुदोषोत्थितं वातरक्तेन सह मूर्च्छितम 105

उत्तानं चापि गम्भीरं त्रिकजङ्घोरुजानुकम
क्रोष्टुशीर्षे महामूले आमवाते सुदारुणे 106

दाहरोगोपसृष्टस्य वेदनां चातिदुस्तराम
मूत्रकृच्छ्रमुदावर्त्तं प्रमेहं विषमज्वरान 107

एतान्सर्वान्निहन्त्याशु वातपित्तकफोत्थितान
सर्वकालोपयोगेन वर्णायुर्बलबर्द्धनम
अश्विभ्यां निर्मितं श्रेष्ठं  घृतमेतदनुत्तमम 108

गुडूचीस्वरसे सर्पिर्जीवनीयैश्च साधितम
कल्कैश्चतुर्गुणैः क्षीरैः सिद्धं वाप्यस्रवातनुत 109

अमृतायाः शतं प्राप्य जलद्रो णे विपाचयेत
चतुर्भागावशिष्टन्तु घृतप्रस्थं विपाचयेत 110

क्षीरं चतुर्गुणं तत्र दापयेन्मतिमान् भिषक
कल्कञ्चात्र प्रवक्ष्यामि यथावदनुपूर्वशः 111

काकोली क्षीरकाकोली जीवकर्षभकौ च यत
शतावरी पयस्या च मधुकं नीलमुत्पलम 112

अश्वकन्दस्य मूलानि स्थिरां वा कटुरोहिणीम
ऋद्धिं वृद्धिं तथा मेदे  श्वदंष्ट्रां बृहतीद्वयम113

गुडूचीं पिप्पलद्यं रास्नां वासकं चापि संहरेत
तदेकस्थं समैर्भागैः पाचयेन्मृदुनाग्निना 114

पानाभ्यञ्जननस्येषु परिषेके च दापयेत
वातरक्तं सशोषाढ्यं सदाहं क्रोष्टुशीर्षकम 115

खञ्जोरुस्तम्भवातञ्च वातरक्तं सुदारुणम
बहूदितं वातकृच्छ्रं गृध्रसीं वातकण्टकम 116

नाशयेद्योजितं सर्पिर्धन्वन्तरिवचो यथा 117

क्वाथेन शतपुष्पायाः कुष्ठस्य मधुकस्य च
एकैकं साधयेत्तैलं वातरक्तरुजापह्रम 118

सारिवारिष्टकूष्माण्डपोतकीभस्मजाम्बुना
गुडूचीगव्यदुग्धाभ्यां कर्मरङ्गरसेन च 119

विपचेत्तिलजं तैलं दत्वैतानि भिषग्वरः
काकोल्यौ जीवकं मेदे शताह्वाक्षीरिणीयुतैः 120

जिङ्गीसिक्थामृतानन्तासर्जसैन्धवचन्दनैः
हन्याद्वातास्रजं घोरं स्फुटितं गलितं तथा 121

चर्मदलाख्यं पामादींस्त्वग्दोषञ्च विपादिकाम
कुष्ठान्यर्शांसि वीसर्प व्रणशोथं भगन्दरम 122

न सोस्ति वातरक्तस्य विकारो योभिवर्द्धितः
यं न हन्यात्प्रसह्यैतत्पिण्डतैलं महत्स्मृतम 123

सारिवासर्जमञ्जिष्ठायष्टीसिक्थैः पयोन्वितैः
तैलं पक्वं प्रयोक्तव्यं पिण्डाख्यं वातशोणिते 124

सारिवासर्जयष्ट्याह्वमधुसिक्थैः पयोन्वितैः
सिद्धमेरण्डजं तैलं वातरक्तरुजापहम
अपूतमथितस्यास्य पिण्डतैलस्य योगतः 125

पद्मकेशरयष्ट्याह्वफेनिलैः पद्मकोत्पलैः
पृथक्पञ्चपलैर्दत्तं बलाकिंशुकचन्दनैः 126

जले शृतं पचेत्तैलं प्रस्थं सौवीरसम्मितम
लोध्रकाकोलिकोशीरजीवकर्षभकेशरैः 127

मदयन्तिलतापत्रपद्मकेशरपद्मकैः
प्रपौण्डरीककालीयमेदामांसीप्रियङ्गुभिः 128

कुङ्कुमैर्द्विगुणैः कर्षैर्मञ्जिष्ठायाः पलेन च
महापद्ममिदं तैलं वातासृग्ज्वरनाशनम 129

पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम 130

स्यात्पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः
खुड्डाकपद्मकमिदं तैलं वातास्रपित्तनुत 131

तुलां पचेज्जलद्रो णे गुडूच्याः पादशेषितम
क्षीरद्रो णन्तु ताभ्यां च पचेत्तैलाढकं शनैः 132

कल्कैर्मधुकमञ्जिष्ठाजीवनीयगणोत्थितैः
कुष्ठैलाऽगुरुमृद्वीका मांसी व्याघ्रनखं नखी 133

हरेणुः श्रावणी व्योषं शताह्वा शृङ्गिसारिवे
त्वक्पत्रागुरुविक्रान्ताः स्थिरा तामलकी तथा 134

नतकेशरह्रीबेरं पद्मकोत्पलचन्दनम
सिद्धं कर्षसमैर्भागैः पानाभ्यङ्गानुवासनैः 135

सेव्यं वातास्रजान्हन्ति स्रोतोधात्वन्तराश्रितान
धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत 136

स्वेदकण्डूरुजाऽयामशिरः कम्पामयार्दितान
हन्याद् ब्रणकृतान्दोषान्गुडूचीतैलमुत्तमम 137

गुडूची मधुकं ह्रस्वपञ्चमूलं पुनर्नवाम
रास्नामेरण्डमूलञ्च जीवनीयानि लाभतः 138

पलानां शतिकैर्भागैर्बलापञ्चशतं भवेत
कोलं बिल्वं यवान्माषान कुलत्थांश्चाढकोन्मितान 139

काश्मर्याणाञ्च शुष्काणां द्रोणं द्रोणशतेऽम्भसः
साधयेज्जर्जरं पूतं चतुद्रो र्ण!ञ्च शेषयेत 140

तैलद्रो णं पचेत्तेन दत्वा पञ्चगुणं पयः
पिष्ट्वा त्रिपलिकञ्चैव चन्दनोशीरकेशरम 141

पत्रैलाऽगुरुकुष्ठानि तगरं मधुयष्टिकाम
मञ्जिष्ठाऽद्धपलञ्चैव तत्सिद्धं सर्वयौगिकम 142

वातरक्ते क्षते क्षीणे भारार्त्ते क्षीणरेतसि
वेपनोत्क्षिप्तभग्नानां सर्वैकाङ्गजरोगिणाम 143

योनिदोषमपस्मारमुन्मादं विषमज्वरम
हन्यात्पुंसवनञ्चैव तैलाग्र्यममृताह्वयम 144

मृणालोत्पलशालूक सारिवोदीच्यकेशरैः
चन्दनद्वयभूनिम्ब पद्मबीजकसेरुकैः 145

पटोलकटुकानन्ता गुन्द्रा पर्पटवासकैः
पिष्ट्वा तैलं घृतं पक्वं तृणमूलरसेन वा 146

क्षीरद्विगुणसंयुक्तं वस्तिकर्मसु योजितम
नस्याभ्यञ्जनपानैर्वा हन्यात्पित्तगदानिदम 147

कनकशिखरिमानक्षारसंसिद्धतोये कुसुमलवणयुक्तैः सर्जनिर्यासचूर्णैः
विधिशृततिलतैलं कल्कयुक्तं निहन्ति प्रचुर तरमिदानीमिन्द्र लुप्तास्रवातम 148

शुद्धां पचेन्नागबलातुलान्तु जलार्मणे पादकषायसिद्धम
विस्राव्य तैलाढकमत्र देयमजापयस्तैलविमिश्रितन्तु 149

नतं सयष्टीमधुकञ्चकल्कं दत्वा पृथक्पञ्चपलं विपक्वम
तद्वातरक्तं शमयत्युदीर्णं वस्तिप्रदानेन हि सप्तरात्रात
दशाहयोगेन करोत्यरोगं पीतञ्च तैलोत्तममश्विनोक्तम 150

जीवकर्षभकौ मेदे ॠष्यप्रोक्ता शतावरी
मधुकं मधुपर्णी च काकोलीद्वयमेव च 151

मुद्गमाषाख्यपर्णी च दशमूलं पुनर्नवा
बलाऽमृता विदारी च साश्वगन्धाऽश्मभेदकौ 152

कुर्यात्कल्कं कषायञ्च ताभ्यां तैलं घृतं पचेत
लाभतश्च वसामज्जामांसं प्रतुदविष्किरात 153

चतुर्गुणेन पयसा संसिद्धं वातशोणितम
सर्वदेहाश्रितान्हन्ति व्याधीन्घोरांश्च वातजान 154

बलाकषायकल्काभ्यां तैलं क्षीरचतुर्गुणम
शतपाकं भवेदेतद्वातासृग्वातपित्तनुत 155

धन्यं पुंसवनञ्चैव नराणां शुक्रवर्द्धनम
रेतोयोनिविकारघ्नमेतद्वातविकारनुत 156

मधुयष्ट्याः पलशतं कषाये पादशेषिते
तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः 157

शतपुष्पावरी मूर्वापयस्यागुरुचन्दनैः
स्थिरहंसपदीमांसी द्विमेदामधुपर्णिभिः 158

काकोलीक्षीर काकोलीतामलक्यृद्धिपद्मकैः
जीवकर्षभजीवन्तीत्वक्पत्र नखबालकैः 159

प्रपौण्डरीकमञ्जिष्ठा सारिवेन्दुवितुन्नकैः
वातासृक्पित्तदाहार्त्तिज्वरघ्नं बलवर्णकृत 160

मधुयष्ट्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे
क्षीरे साध्यं शतं वारांस्तदेव मधुकान्वितम 161

सिद्धं देयं त्रिदोषे स्याद्वातास्रश्वासकासनुत
धन्यं पुंसवनञ्चैव कामलादाहनाशनम 162

बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत
सहस्रशतपाकं वा वातासृग्वातरोगनुत 163

रसायनमिदं श्रेष्ठमिन्द्रि याणां प्रसादनम
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम 164

पुनर्नवामूलशतं विशुद्धं रुवूकमूलञ्च तथा प्रयोज्य
दत्वा पलं षोडशकञ्च शुण्ठ्याः सङ्कुट्य सम्यग्विपचेद्घटेऽपाम 165

पलानि चाष्टावथ कौशिकस्यतेनाष्टशेषेण पुनः पचेत
एरण्डतैलं कुडवञ्च दद्याद्दत्वा त्रिवृच्चूर्णपलानि पञ्च 166

निकुम्भचूर्णस्य पलं गुडूच्याः पलद्वयं चार्द्धपलं पलं वा
पलत्रयत्र्! यूषणचित्रकाणि सिन्धूत्थभल्लातविडङ्गकानि 167

कर्षं तथा माक्षिकधातुचूर्णं पुनर्नवायाः पलमेव चूर्णम
चूर्णानि दत्वा ह्यवतार्य शीतं खादेन्नरः कर्षसमप्रमाणम 168

वातासृजं वृद्धिगदं च सप्त जयत्यवश्यं त्वथ गृध्रसीं च
जङ्घोरुपृष्ठत्रिकवस्तिजं च तथामवातं प्रबलं च हन्ति 169

यावशूकसुरदारुसैन्धवं मुस्तकत्रुटिवचायवानिकाः
व्योषदीप्यकनिशाफलत्रिकं जीरकद्वयविडङ्गचित्रकम 170

कार्षिकं सुमसृणं सुयोजितं संयुतं पुरपलैश्च पञ्चभिः
शर्करां पुरसमां सुपेषयेत्तप्तसर्पिषि विनिक्षिपेत्ततः 171

वातरक्तमुदरं भगन्दरं प्लीहयक्ष्मविषमज्वरं गरम
श्वित्रकुष्ठमखिलव्रणानयं चित्तविभ्रमगदांश्च दारुणान 172

गृध्रसीं च गुदजाग्निमन्दतां हन्ति कोष्ठजनितं महागदम
वज्रमिन्द्र सुकरादिव च्युतं गुप्तशैलकुलमुत्तमं द्रुतम 173

अन्नपानपरिहारवर्जितं सर्वकालसुखदं निरत्ययम
सेव्यमानमिदमश्विनिर्मितं गुग्गुलोर्हि वटिका रसायनम 174

चत्वारो माषका हीने मध्यमेऽष्टौ च माषकाः
श्रेष्ठा द्वादशकाः प्रोक्ताः कोष्ठं विज्ञाय पाययेत 175

स्रंसनत्वाद् गुरुत्वाद्वा गुग्गुलोः करणक्रमः 176

प्रस्थमेकं गुडूच्याश्च अर्द्धप्रस्थं च गुग्गुलोः
प्रत्येकं त्रिफलायास्तु तत्प्रमाणं विनिर्दिशेत
सर्वमेकत्र सङ्कुट्य क्वाथयेन्नल्वणेऽम्भसि 177

पादशेषं परिस्राव्य कषायं  ग्राहयेद्भिषक
पुनः पचेत्कषायन्तु यावत्सान्द्र त्वमागतम 178

दन्तीव्योषविडङ्गानि गुडूची त्रिफलात्वचः
ततश्चार्द्धपलं चूर्णं गृह्णीयाच्च प्रतिप्रति 179

कर्षन्तु त्रिवृतायाश्च सर्वमेकत्र चूर्णयेत
तस्मिन्सुसिद्धं विज्ञाय कवोष्णे प्रक्षिपेद बुधः 180

ततश्चाग्निबलं मत्वा खादेत्कर्षप्रमाणतः
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम 181

दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम
नाड्याढ्यवातं श्वयथुं सर्वानेतान्व्यपोहति 182

त्रिप्रस्थममृतायाश्च प्रस्थमेकन्तु गुग्गुलोः
प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च 183

सर्वमेकत्र सङ्कुट्य साधयेन्नल्वणेऽम्भसि
पुनः पचेत्पादशेषं  यावत्सान्द्र त्वमागतम 184

दन्तीचित्रकमूलानां कणाविश्व फलत्रिकम
गुडुचीत्वग्विडङ्गानां प्रत्येकार्धपलं मतम 185

त्रिवृताकर्षमेकन्तु सर्वमेकत्र चूर्णयेत
सिद्धे चोष्णे क्षिपेत्तत्र अमृतागुग्गुलुं परम 186

अतो यथाबलं खादेदम्लपित्ती विशेषतः
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम 187

दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम
नाड्याढ्यवातं श्वयथुं हन्यात्सर्वामयांस्तथा 188

अश्विभ्यां निर्मिताश्चायममृताऽख्यो हि गुग्गुलुः 189

गुडरामठशुण्ठीनां मांसकूष्माण्डयोरपि
गुडूच्या गुग्गुलोश्चैव प्रस्थः षोडशभिः पलैः 190

स्निग्धः काञ्चनसङ्कांशः पक्वजम्बूफलोपमः
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः 191

शुष्को दुर्गन्धिकश्चैव वर्णान्यत्वमुपागतः
पुराणः स तु विज्ञेयो न स देयस्तु रोगिणे 192

कृमिरिपुदहनव्योष त्रिफलाऽमरदारुचव्यभूनिम्बाः
मागधिमूलं मुस्तं शटीवचाधातुमाक्षिकञ्चैव
लवणक्षारनिशायुक्कुस्तुम्बुरुगजकणाः सहातिविषाः 193

कर्षांशिकान्येव समानि कुर्यात्पलाष्टकं चाश्मजतु प्रदद्यात्
निष्पत्रशुद्धस्य पुरस्य धीमान्पलद्वयं लौहरजस्तथैव 194

सिताचतुष्कं पलमत्र वांश्या निकुम्भकुम्भत्रिसुगन्धियुक्तम
पृथक्पलं चूर्णमथावपेच्च चन्द्र्रप्रभेयं गुटिका विधेया 195

ज्वरातिसारग्रहणीविकारांश्चार्शांसि निर्णाशयते षडेव
भगन्दरान्कामलपाण्डुरोगान्विनष्टवह्नेः कुरुते च दीप्तिम 196

हन्त्यामयान्पित्तकफानिलोत्थान्नाडीगते मर्मगते व्रणे च
क्षतक्षये गृध्रसियक्ष्मरोगे मेहे गजाख्ये प्रबले प्रयोज्य 197

शुक्रक्षये चाश्मरिमूत्रकृच्छ्रे शुक्रप्रवाहेऽप्युदरामये च
शम्भुं समभ्यर्च्य कृतप्रसादं प्राप्ता गुटी चन्द्र मसा प्रशस्ता 198

न पानभोज्ये परिहारवादो न शीतवातातपमैथुनेषु
भक्तस्य पूर्वं सततं प्रयोज्या तक्रानुपानाऽप्यथ मस्तुपाना 199

अजारसो जाङ्गलजो रसो वा परोऽथ वा शीतजलानुपानम 200

शुक्रदोषान्निहन्त्यष्टौ प्रमेहांश्चापि विंशतिम
वलीपलितनिर्मुक्तो वृद्धोऽपि तरुणायते 201

गिरिजतुगुग्गुलुलौहान्येकीकृत्याथ भावयेद् बहुशः
क्वाथैस्तद्व्याधिहरैस्तदनु च चूर्णीकृतं मिलितम
कृमिरिप्वादिकचूर्णैर्गिरिजतुसमधान्यपटोलयूषेण 202

वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलोः प्रस्थम
प्रक्षिप्य तोयराशौ त्रिफलाञ्च यथोक्तपरिमाणम 203

द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन
विपचेत्तदप्रमत्तो दर्व्या सङ्घट्टयेन्मुहुर्यावत 204

अर्द्धक्षयितं तोयं जातं ज्वलनस्य सम्पर्कात
अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयः पात्रे 205

सान्द्री भूते तस्मिन्नवतार्य हिमोपलप्रख्ये
त्रिफलाचूर्णार्द्धपलं त्रिकटोश्चूर्णं षडक्षपरिमाणम 206

कृमिरिपुचूर्णार्द्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः
पलमेकन्तु गुडूच्या दत्वा सञ्चूर्ण्य यत्नेन 207

उपयुज्य चानुपानं यूषं क्षीरं सुगन्धि सलिलञ्च
इच्छाऽहारविहारी भेषजमुपयुज्य सर्वकालमिदम 208

तनुरोधी वातशोणितमेकद्वित्र्! युल्बणं चिरोत्थमपि
भग्नस्रुतपरिशुष्कं स्फुटितं दीर्णमाजानु यच्चापि 209

व्रणकासकुष्ठगुल्मश्वयथुं गरपाण्डुमेहांश्च नाशयत्याशु
मन्दाग्निञ्च विबन्धं प्रमेहपिडकाश्च नाशयत्याशु 210

सततं निषेव्यमाणः कालवशाद्धन्ति सर्वगदान
अभिभूय जरादोषं करोति कैशोरकं रूपम 211

प्रत्येकं त्रिफलाप्रस्थो जलञ्चाढकमाढकम
गुडवद् गुग्गुलोः पाकः सन्धेयस्तु विशेषतः 212

त्रिफलाऽतिविषादारुदार्वीमुस्तापरुषकैः
खदिरासननक्ताह्वगुडूचीनृपपादपैः 213

भूनिम्बनिम्बकटुकाकलिङ्गकुलकैः समैः
क्वाथं कृत्वा ततः पूतं शृतमष्टगुणेऽम्भसि 214

गुडूच्यास्तत्र सुकृतं चूर्णमर्द्धं तु वारिणि
क्षिप्त्वा सुनूतने भाण्डे वासयेद्र जनीगतम
सोमोपेतेन पूतेन कौशिकं परिभावयेत
षड्गुडेन तु सप्ताहं शिलाजतुसमन्वितम 216

शुक्तस्य तु पलान्यष्टौ समावाप्य विचक्षणः
ताप्यचूर्णं पलञ्चैकं द्वे पले मधुसर्पिषोः 217

एकीकृत्य समं सर्वं लिह्यात्तु त्रिफलाऽम्बुना
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा 218

जीर्णेऽजीर्णे तु भुञ्जीत पुराणं शालिषष्टिकम 219

यथारोगं यथासात्म्यं रसैर्यूषैश्च  संस्कृतैः
त्रिसप्ताहप्रयोगेण वातरक्तं सुदारुणम 220

निहन्ति वीर्यतः क्षिप्रं कुष्ठरोगान्व्रणानपि
छिन्नं भिन्नञ्च सन्धत्ते त्रिफलाऽख्यो हि गुग्गुलुः 221

पलत्रयं कषायस्य त्रिफलायाः सुचूर्णितम
सौगन्धिकं पलञ्चैकं कौशिकस्य पलत्रयम 222

कुडवं चित्रतैलस्य  सर्वमादाय यत्नतः
पाचयेत्पाकविद्वैद्यः पात्रे लोहमये दृढे 223

हन्ति वातं तथा पित्तं श्लेष्माणं खञ्जपङ्गुताम
श्वासं सुदुर्जयं हन्ति कासं पञ्चविधं तथा
कुष्ठानिवातरक्तञ्च गुल्मशूलोदराणि च
आमवातं जयत्येतदपि वैद्यविवर्जितम 225

सर्वदाऽस्योपयोगेन जरापलितनाशनम
सर्पिस्तैलरसोपेतमश्नीयाच्छालिषष्टिकम 226

सिंहनादइति ख्यातो रोगवारणदर्पहा
वह्नेर्दीप्तिकरं पुसां भाषितो दण्डपाणिना 227

अत्राहुस्त्रिफलाक्वाथं पृथक् त्रिपलसम्मितम
किञ्चिन्निर्याति चैरण्डस्नेहे पाकोऽधिके खरः 228

अष्टौ पलान्यत्र पलङ्कषायाः प्रस्थः पृथक शुद्धफलत्रयस्य
दत्वा पचेद् द्रो णयुगे जलस्य पादावशेषं पुनरेव वैद्यः 229

दन्तीत्रिवृत्त्र् यूषणवारुणीनां बिडङ्गमुस्तत्रिफलाऽमृतानाम
कटूग्रगन्धालुकमाणकानां सगन्धकानाञ्च सपारदानाम 230

पलार्द्धमानं प्रमितं सुचूर्णं  दद्याद्विपक्वं पुनरेव तत्र
फलानि सञ्चूर्ण्य च कानकानिसहस्रसङ्ख्याकलितानि पश्चात 231

खादेद्धि माषद्वितयं प्रतप्तं तोयादिकं देयमतोऽनुपाने
आमानिलं सन्धिगतं सशूलं शिरोगतं जानुकटिस्थितञ्च 232

अर्शोऽतिवृत्तिं विषमज्वरार्त्तिं प्रमेहकुष्ठानि भगन्दरञ्च
हन्यान्नराणामिति सिंहनादो मेदोमरुच्छ्लेष्मगदान्पुरोऽयम 233

दाहोऽत्यन्तप्रवृत्तिर्वा विकारोऽन्यो न चेद बहुः
तत्कृतस्तुतदा तत्र तक्रभक्तं हितं भवेत
उद्वर्त्तनं शीतजलस्नानञ्च शयनं तथा 234

विरेकातिशयं कुर्यात्सिंहनादो यतः सुधीः
ज्ञात्वा बलं शरीरे तु दद्यादेवं न वा भिषक 235

तोयारनालगोक्षीरैः क्रमात्पक्वं विशुध्यति
फलं कानकसञ्ज्ञन्तु कृत्वा चूर्णं ततः क्षिपेत 236

पिण्डितां गुग्गुलोर्मानीं कटुतैले पलाष्टके
प्रत्येकं त्रिफलाप्रस्थं सार्द्धद्रो णे जले पचेत 237

पादशेषं सुपूतञ्च पुनरग्नावधिश्रयेत
त्रिकटुत्रिफलामुस्तविडङ्गामलकानि च 238

गुडूच्यग्नित्रिवृद्दन्ती वचासूरणमानकम
कस्तूरीरससूतांशं प्रत्येकं शुक्तिसम्मितम 239

सहस्रं कानकफलं सिद्धे सञ्चूर्ण्य निक्षिपेत
ततो माषद्वयं जग्ध्वा पिबेत्तप्तजलादिकम 240

अग्निञ्च कुरुते शीघ्रं वडवाऽनलसन्निभम
मेधावृद्धिं वयोवृद्धिं बलं सुविपुलं तथा 241

आमवातं शिरोवातं ग्रन्थिवातं भगन्दरम
जानुजङ्घाश्रितं वातं सकटीग्रहवेदनम 242

अश्मरीमूत्रकृच्छ्रे च भग्ने च तिमिरोदरे
अम्लपित्तं तथा कुष्ठं प्रमेहं गुदनिर्गमम 243

कासं पञ्चविधं श्वासं क्षयञ्च विषमज्वरम
प्लीहानं श्लीपदं गुल्मान्पाण्डुरोगं सकामलम 244

शोथान्त्रवृद्धिशूलानि गुदजानि विनाशयेत
मेदः कफामसञ्जातरोगवारणदर्पहा 245

सिंहनाद इति ख्यातो योगोऽयममृतोपमः
भिषग्भिर्वर्जिते रोगे भाषितो दण्डपाणिना 246

शतावरी नागबला वृद्धदारकमुच्चटा
पुनर्नवामृता कृष्णा वाजिगन्धा त्रिकण्टकम 247

पृथग्दशपलान्येषां श्लक्ष्णचूर्णानि कारयेत
तदर्धशर्करायुक्तं चूर्णं संमर्दयेद् बुधः 248

स्थापयेत्सुदृढे भाण्डे मध्वर्द्धाढकसंयुतम
घृतप्रस्थेन वालोड्य त्रिसुगन्धपलेन च 249

तं खादेदिष्टभक्ष्यान्नो यथावह्निबलं नरः
वातरक्तं क्षयं कुष्ठं कार्श्यं पित्तास्रसम्भवम 250

वातपित्तकफोत्थांश्च रोगानन्यांश्च तत्कृतान
हत्वा करोति पुरुषं हत्वा सर्वामयान्  द्रुतम 251

बलीपलितनिर्मुक्तं मेधास्मृतिविभूषितम
करोति पुरुषं धन्यं पञ्चवर्षशतायुषम 252

योगसारामृतो नाम लक्ष्मीकीर्त्तिविवर्द्धनः 253

व्यायामं मैथुनं कोपमुष्णाम्ललवणं रसम
दिवास्वप्नमभिष्यन्दि गुरु चान्यद्विवर्जयेत 254

इत्येकोनत्रिंशोवातरक्ताधिकारः समाप्तः 29

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।