Wednesday 8 July 2015

अथैकपञ्चाशत्तम उपदंशाधिकारः 51-52

हस्ताभिघातान्नख दन्तघातादधावनादत्युपसेवनाद्वा
योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः 1

सतोदभेदस्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत्पवनोपदंशम
पीतैर्बहुक्लेदयुतैः सदाहैः पित्तेन रक्तैः पिशितावभासैः 2

स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम
सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन
नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम 3

प्रशीर्णमांसं कृमिभिःप्रजग्धं मुष्कावशेषं परिवर्जनीयम 4

सञ्जातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः
कालेन शोथकृमिदाहपाकैः प्रशीर्णशिश्नो म्रियते स तेन 5

उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः
मेढ्रमध्ये शिरां विध्यात्पातयेद्वा जलौकसः 6

हरेदुभयतश्चापि दोषानत्यर्थमूर्च्छितान
सद्यो निर्हृतदोषस्य रुक्शोथावुपशाम्यतः 7

यदि वा दुर्बलोजन्तुर्न वा प्राप्तविरेचनः
निरूहेण हरेत्तस्य दोषानत्यर्थमूर्च्छितान
पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः 8

प्रपौण्डरीकयष्ट्याह्वसरलागुरुदारुभिः
सरास्नाकुष्ठपृथ्वीकैर्वातिके लेपसेचने 9

निचुलैरण्डबीजानि यवगोधूमसक्तवः
एतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत 10

गैरिकाञ्चनमञ्जिष्ठा मधुकोशीरपद्मकैः
सचन्दनोत्पलैः स्निग्धः पैत्तिकं सम्प्रलेपयेत 11

पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः
सर्पिः स्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत 12

सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः
अथवाऽपि सुशीतेन कषायेण वटादिना 13

शालाजकर्णाश्वकर्णधवत्वग्भिः कफोत्थितम
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत 14

आरग्वधादिक्वाथेन परिषेकञ्च दापयेत 15

निम्बार्जुनाश्वत्थकदम्बशालजम्बूवटोदुम्बरवेतसैश्च
प्रक्षालनालेपकृतानिकुर्याच्चूर्णं सपित्तास्रभवोपदंशे 16

त्वचो दारुहरिद्रा याः शङ्खनाभी रसाञ्जनम
लाक्षागोमयनिर्यासस्तैलं क्षौद्रं  घृतं पयः 17

एभिस्तु पिष्टैस्तुल्यांशैरुपदंशं प्रलेपयेत
व्रणाश्च तेन शाम्यन्ति श्वयथुर्दाह एव च 18

उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत्क्रियाम
तयोरेव च या योग्या वीक्ष्य दोषबलाबलम 19

शस्त्रेणोल्लेखयेत्क्वापि पाकमागतमाशु वै
तमपोह्य तिलैः सर्पिः क्षौद्र युक्तैः प्रलेपयेत 20

वटप्ररोहार्जुनजम्बुपथ्या लोध्रं हरिद्रा  च हिताः प्रलेपे
तथोपदंशेष्ववरोहणार्थं चूर्णञ्च कार्यं विमलाञ्जनेन 21

त्रिफलायाः कषायेण भृङ्गराजरसेन वा
व्रणप्रक्षालनं कार्यमुपदंशप्रशान्तये 22

जयाजपाऽश्वमारार्कशम्पाकानां दलैः क्रमात
कृतं प्रक्षालनं क्वाथं मेढ्रपाके प्रयोजयेत 23

शम्पाकनिम्बत्रिफलाकिरातक्वाथं पिबेद्वा खदिरासनाभ्याम
सगुग्गुलुं वा त्रिफलायुतं वा सर्वोपदंशापहरःप्रयोगः 24

नीलोत्पलानि कुमुदं पद्मसौगन्धिकानि च
उपदंशेषु चूर्णानि प्रदेहोऽय प्रशस्यते 25

बन्धूकदलचूर्णेन दाडिमत्वग्रजोऽथवा
गुण्डनं वृषणे  शस्तं लेपः पूगफलेन वा 26

सौराष्ट्री गैरिकं तुत्थं पुष्पकासीससैन्धवम
लोध्रं रसाञ्जनञ्चापि हरितालं मनः शिला 27

हरेणुकैले तु तथा समं संहृत्य चूर्णयेत
तच्चूर्णं क्षौद्र संयुक्तमुपदंशेषु पूजितम् 28

पुटदग्धं कृतं भस्म हरितालं मनःशिला
उपदंशविसर्पाणामेतद्धानिकरं परम 29

दहेत्कटाहे त्रिफलां तां मसीं मधुसैन्धवम
उपदंशे प्रलेपोऽय सद्यो रोपयति व्रणम 30

तिरीटाञ्जनवज्राक्षकोविदारेभकेशरैः
लेपनं पुरुषव्याधौ जलपिष्टैः प्रशस्यते 31

रसाञ्जनं शिरीषेण पथ्यया वा समन्वितम
सक्षौद्रं  लेपनं योज्यं सर्वाङ्गगगदापहम 32

भार्गीसम्भवशिखरिजमूलं भद्र श्रियं सुसम्पिष्टम
मनःशिला वै मधुना शमयत्युपदंशमचिरेण 33

शतधौतं प्रयत्नेन लिङ्गोत्थमवचूर्णयेत
रोगं कासीसचूर्णेन पुरुषः सुखमाप्नुयात 34

करवीरस्य मूलेन परिपिष्टेन वारिणा
असाध्याऽपि व्रजत्यस्तं लिङ्गोत्था रुक्प्रलेपनात 35

वरानिम्बार्जुनाश्वत्थखदिरासनवासकैः
चूर्णितैर्गुग्गुलुसमैर्वटका अक्षसंमिताः 36

कर्त्तव्या नाशयन्त्याशु सर्वांल्लिङ्गसमुत्थितान्
उपदंशानसृग्दोषांस्तथा  दुष्टव्रणानपि 37

करञ्जनिम्बार्जुनशालजम्बूवटादिभिः कल्ककषायसिद्धम
सर्पिर्निहन्यादुपदंशदोषं सदाहपाकस्रुतिरागयुक्तम् 38

भूनिम्बनिम्बत्रिफलापटोलकरञ्जधात्रीखदिरासनानाम
सतोयकल्कैर्घृतमाशु पक्वं सर्वोपदंशापहरं प्रदिष्टम 39

घृतानि यानि वक्ष्यामि कुष्ठे नाडीव्रणे व्रणे
उपदंशे प्रयोज्यानि सेकाभ्यञ्जनभोजनैः 40

आगारधूमो रजनी सुराकिट्टं च तैस्त्रिभिः
यथोत्तरैः पचेत्तैलं कण्डूशोथरुजाऽपहम
शोधनं रोपणं चैव ह्युपदंशहरं परम 41

गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम
एतत्सर्वोपदंशेषु तैलं रोपणमिष्यते 42

जम्बुवेतसपत्राणि धात्रीपत्रं तथैव च
नक्तमालस्य पत्राणि तद्वत्पद्मोत्पलानि च 43

एला चातिविषाऽम्रास्थि मधुकञ्च प्रियङ्गवः
लाक्षा कालीयकं लोध्रं चन्दनं त्रिवृताह्वया 44

एतान्येकीकृतान्येव बस्तमूत्रेण पेषयेत
अक्षमात्रैरिमैर्द्र व्यैस्तैलप्रस्थं विपाचयेत 45

सर्वव्रणहरं तैलमेतत्सिद्धं न संशयः
उपदंशहरं श्रेष्ठं मुनिभिः परिकीर्तितम 46

यस्य लिङ्गस्य मांसं तु शीर्यते मुष्कशेषतः 47
तिक्तकोशातकीलाबुबीजं नागरसाधितम
तैलं हन्त्यविशेषेण व्रणं दुष्टमनेकधा 48

सेवेन्नित्यं यवान्नञ्च  पानीयं कौपमेव च
अर्शसां च्छिन्नदग्धानां क्रियां चात्र प्रयोजयेत 49

इत्येकपञ्चाशत्तम उपदंशाधिकारः समाप्तः 51

अथ द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः 52

अङ्कुरैरिव सञ्जातैरुपर्युपरि संस्थितैः
क्रमेण जायते वर्त्तिस्ताम्रचूडशिखोपमा 1

कोषस्याभ्यन्तरे सन्धौ पर्वसन्धिगतापि वा
लिङ्गवर्त्तिरिति ख्याता लिङ्गार्श इति चापरे
सवेदनापिच्छिला च दुश्चिकित्स्या त्रिदोषजा 2

क्षारेण प्रदहेच्छित्त्वा लिङ्गवर्त्तिमशेषतः
व्रणवच्चाचरेत्सम्यक्  समं चूर्णमुपद्र वान 3

स्वर्जिकातुत्थशैलेयमञ्जनं सरसाञ्जनम
मनःशिलाऽले च समं चूर्णं मांसाङ्कुरापहम 4

हरति घृतकुमारीपत्रमावेष्टेनेन ग्रथनविधिविशेषांश्चर्मकीलांस्तृतीये
अहनि गुरुतरानप्यङ्गलब्धप्रतिष्ठान् विधिरिव विपरीतः पौरुषस्य प्रकारान 5

शुभे तु चारटीमूलं वृषमूत्रेण पेषयेत्
चर्मकीलान्निहन्त्याशु प्रलेपात्साधनोद्भवान 6

इति द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः समाप्तः 52

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।