Friday 10 July 2015

अथाष्टमः पाण्डुरोगकामलाहलीमकाधिकारः 8

पण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः
चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः 1

व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम
निषेवमाणस्य विदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति 2

त्वक्स्फोटनिष्ठीवनगात्रसादमृद्भक्षण प्रेक्षणकूटशोथाः
विण्म्रूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि 3

त्वङ्मूत्रनयनादीनां रुक्षकृष्णारुणाभता
वातपाण्ड्वामये कम्पस्तोदानाहभ्रमादयः 4

पीतत्वङ्नखविण्मूत्रो दाहतृष्णाज्वरान्वितः
भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः 5

कफप्रसेकः श्वयथुस्तन्द्रा ऽलस्यातिगौरवैः
पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः 6

सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम
त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम 7

मृत्तिकाऽदनशीलस्यकुप्यत्यन्यतमो मलः
कषाया मारुतं पित्तमूषरा मधुरा कफम 8

कोपयेन्मृद्रसादींश्च रौक्ष्याद भुक्तञ्च रूक्षयेत
पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्य्पि 9

इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा
पाण्डुरोगंकरोत्याशु बलवर्णाग्निनाशनम 10

मृद्भक्षणाद्भवेत्पाण्डुस्तन्द्रा ऽलस्यनिपीडितः
सकासश्वासशूलार्त्तः सदाऽरुचिसमन्वितः 11

शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः
कृमिकोष्ठोऽतिसार्येत मलं सासृक्कफान्वितम 12

ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः
पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रि यः 13

पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति
कालप्रकर्षाच्छूनाङ्गो यो वा पीतानि पश्यति 14

बद्धाल्पविट् सहरितं सकफं योऽतिसार्यते
दीनः स्वेदातिदिग्धाङ्गश्छर्दिमूर्च्छातृषाऽन्वितः 15

पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत
पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति 16

अन्तेषु शूनं परिहीणमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम
गुदे मुखे शेफसि मुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम
विवर्जयेत्पाण्डुकिनं यशोऽथी तथाऽतिसारज्वरपीडितञ्च 17

पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते
तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते 18

हारिद्र नेत्रः स भृशं हारिद्र त्वङ्नखाननः
पीतरक्तशकृन्मूत्रो भेकवर्णो हतेन्द्रि यः 19

दाहाविपाकदौर्बल्यसदनारुचिकर्षितः 20

कामलाबहुपित्तैषा कोष्ठशाखाऽश्रया मता
कालान्तरात्खरीभूता कृच्छ्रास्यात्कुम्भकामला 21

छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः
नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली 22

कृष्णपीतशकृन्मूत्रो भृशं शूनश्र मानवः
सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति 23

दाहारुचितृषाऽनाहतन्द्रा मोहसमन्वितः
नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान्विपद्यते 24

यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः
बलोत्साहक्षयस्तन्द्र  मन्दाग्नित्वं मृदुज्वरः 25

स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासतृष्णाऽरुचिभ्रमाः
हलीमकं तदा तस्य विद्यादनिलपित्ततः 26

सप्तरात्रं गवां मूत्रैर्भावितञ्चायसो रजः
पाण्डुरोगप्रशान्त्यर्थं पयसा प्रपिबेन्नरः 27

गोमूत्रसिद्धं मण्डूरचूर्णं सगुडमश्नतः
पाण्डुरोगः क्षयं याति पक्तिशूलञ्च दारुणम 28

अयोमलं सुसन्तप्तं भूयो गोमूत्रसाधितम
मधुसर्पिर्युतं लीढ्वा पाण्डुरोगी सुखी भवेत 29

पुनर्नवा त्रिवृद्व्योषं विडङ्गं दारुचित्रकम
कुष्ठं हरिद्रे  त्रिफला दन्ती चव्यं कलिङ्गकम 30

कटुका पिप्पलीमूलं मुस्तं शृङ्गी च कारवी
यवानी कट्फलञ्चेति पृथक्पलमितं समम 31

मण्डूरं द्विगुणं चूर्णाद् गोमूत्रेऽष्टगुणे पचेत
गुडेन वटकान्कृत्वा तक्रेणालोड्य तान्पिबेत 32

पुनर्नवादिमण्डूर वटकोऽश्विविनिर्मितः
पाण्डुरोगं निहन्त्याशु कामलाञ्च हलीमकम 33

श्वासं कासञ्च यक्ष्माणं ज्वरं शोथं तथोदरम
शूलं प्लीहानमाध्मानमर्शांसि ग्रहणीकृमीन
वातरक्तञ्च कुष्ठञ्च सेवनान्नाशयेद् ध्रुवम 34

त्र्यूषणं त्रिफला मस्तं विडङ्गं चित्रकं तथा
एतानि नवभागानि नवभागा हतायसः 35

एतदेकीकृतं चूर्णं नरोऽष्टादशरक्तिकम
प्रलिह्यान्मधुसर्पिर्भ्यां पिबेत्तक्रेण वा सह 36

गोमूत्रेण पिबेद्वाऽपि पाण्डुरोगं विनाशयेत
शोथं हृद्र्रोगमुदरकृमिकुष्ठं भगन्दरम 37

नाशयेदग्निमान्द्यञ्च दुर्नामकमरोचकम
आर्द्र कस्य रसेनापि लिह्यात्कफसमृद्धिमान 38

त्रिफलाया गुडूच्यावा दार्व्या मरिचकस्य वा
क्वाथो माक्षिकसंयुक्तः शीतलः कामलाऽपहः 39

अञ्जने कामलार्त्तानां द्रो णपुष्पीरसो हितः
गुडूचीपत्रकल्कं वा पिबेत्तक्रेण कामली 40

धात्रीलौहरजोव्योषनिशाक्षौद्रा ज्यशर्कराः
लीढा निवारयन्त्याशु कामलामुद्धतामपि 41

कुम्भाख्यकामलायां तु हितः कामलिको विधिः
गोमूत्रेण पिबेत्कुम्भकामलावाञ्छिलाजतुम 42

दग्धाऽक्षकाष्ठैर्मलमायसन्तु गोमूत्रनिर्वापितमष्टवारान
विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति 43

अपहरति कामलार्तिं नस्येन कुमारिकाजलं सद्यः 44

मारितं चायसं चूर्णं मुस्ताचूर्णेन संयुतम
खदिरस्य कषायेण पिबेद्धन्तुं हलीमकम 45

सितातिलबलायष्टित्रिफलारजनीयुगैः
लौहं लिह्यात्समध्वाज्यं हलीमकनिवृत्तये 46

अमृतलतारसकल्कं प्रसाधितंतुरगविद्विषः सर्पिः
क्षीरं चतुर्गुणमेतद्वितरेच्च हलीमकार्त्तेभ्यः 47

मधुरैरन्नपानैस्तं वातपित्तहरैर्हरेत
कामलापाण्डुरोगोक्तां क्रियां चात्रोपयोजयेत 48

फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः क्वाथः
क्षौद्र युतोऽय हन्याद्धलीमकं पाण्डुकामलारोगम 49

त्र्यूषणंत्रिफला मुस्तं विडङ्गं चव्यचित्रकम
दार्वीत्वङ् माक्षिको धातुर्ग्रन्थिको देवदारु च 50

एषां द्विपलिकान्भागान्कृत्वा चूर्णं पृथक पृथक
मण्डूरचूर्णं द्विगुणंशुद्धमञ्जनसन्निभम 51

मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तत्प्रक्षिपेन्नरः
उदुम्बरसमाकारान्वटकांस्तान्यथाऽग्नि च 52

उपयुञ्जीत तक्रेण जीर्णे सात्म्यञ्च भोजनम
मण्डूरवटिका ह्येताः प्राणदाः पाण्डुरोगिणाम 53

कुष्ठानि जठरं शोथमूरुस्तम्भं कफामयान
अर्शांसि कामलां मेहंप्लीहानं शमयन्ति च 54

किराततिक्ता सुरदारु दार्वी मुस्ता गुडूची कटुका पटोलम
दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकञ्च 55

फलं विडङ्गस्य समांशकानि सर्वैः समं चूर्णकमायसञ्च
सर्पिर्मधुभ्यां वटिका विधेया तक्रानुपानाद्भिषजा प्रयोज्या 56

निहन्ति पाण्डुञ्च हलीमकं च शोथं प्रमेहं ग्रहणीरुजञ्ज
श्वासञ्ज कासञ्च सरक्तपित्तमर्शांस्यथो वाग्ग्रहमामवातम
व्रणांश्च गुल्मान्कफविद्र धिञ्च श्वित्रञ्च कुष्ठञ्च ततः प्रयोगात 57

यवगोधूमशाल्यन्नैः रसैर्जाङ्गलजैर्हितैः
मुद्गाढकीमसूराद्यैरेषु भोजनमिष्यते 58

इत्यष्टमः पाण्डुरोगकामलाहलीमकाधिकारः समाप्तः 8

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।