Sunday 12 July 2015

अथ तक्रवर्गः

घोलं तु मथितं तक्रमुदश्विच्छच्छिकाऽपि च
ससरं निर्जलं घोलं मथितं त्वसरोदकम 1

तक्रं पादजलं प्रोक्तमुदश्वित्त्वर्द्धवारिकम
छच्छिका सारहीना स्यात्स्वच्छा प्रचुरवारिका
घोलं तु शर्करायुक्तं गुणैर्ज्ञेयं रसालवत 2

वातपित्तहरं ह्लादि मथितं कफपित्तनुत 3

तक्रं ग्राहि कषायाम्लं स्वादुपाकरसं लघु
वीर्योष्णं दीपनं वृष्यं प्रीणनं वातनाशनम 4

ग्रहण्यादिमतां पथ्यं भवेत्संग्राहि लाघवात
किञ्च स्वादुविपाकित्वान्न च पित्तप्रकोपणम 5

अम्लोष्णं दीपनं वृष्यं प्रीणनं वातनाशनम
कषायोष्णविकाशित्वाद्रौक्ष्याच्चापि कफापहम 6

न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धाः प्रभवन्ति रोगाः
यथा सुराणाममृतं सुखाय तथा नराणां भुवि तक्रमाहुः 7

उदश्वित कफकृद बल्यमामघ्नं परमं मतम
छच्छिका शीतला लघ्वी पित्तश्रमतृषाहरी
वातनुत कफकृत सा तु दीपनी लवणान्विता 8

समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः 9

स्तोकोद्धृतघृतं तस्माद गुरु वृष्यं कफापहम
अनुद्धृतघृतं सान्द्रं  गुरुपुष्टिकफप्रदम 10

वातेऽम्ल शस्यते तक्रं शुण्ठीसैन्धवसंयुतम
पित्ते स्वादु सितायुक्तं व्योषक्षारयुतं कफे 11

हिङ्गुजीरयुतं घोलं सैन्धवेन च संयुतम
भवेदतीव वातघ्नमर्शोऽतीसारहृत्परम 12

रुचिदं पुष्टिदं बल्यं वस्तिशूलविनाशनम
मूत्रकृच्छ्रेतु सगुडं पाण्डुरोगे सचित्रकम 13

तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च
पीनसश्वासकासादौ पक्वमेव प्रयुज्यते 14

शीतकालेऽग्निमान्द्ये च तथा वातामयेषु च
अरुचौ स्रोतसां रोधे तक्रं स्यादमृतोपमम
तत्तु हन्ति गरच्छर्दिप्रसेकविषमज्वरान
पाण्डुमेदोग्रहण्यर्शोमूत्रग्रहभगन्दरान 15

मेहं गुल्ममतीसारं शूलप्लीहोदरारुचीः
श्वित्रकोष्ठगतव्याधीन् कुष्ठशोथतृषाकृमीन 16

नैव तक्रं क्षये दद्यान्नोष्णकाले न दुर्बले
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तजे 17

यान्युक्तानि दधीन्यष्टौ तद्गुणं तक्रमादिशेत 18

इति श्रीमिश्रलटकन नतनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे 
षोडशस्तक्रवर्गः समाप्तः  16 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।