Saturday, 11 July 2015

अथ द्वितीयोऽतिसाराधिकारः 2


गुर्वतिस्निग्धरूक्षोष्णद्र वस्थूलातिशीतलैः
विरूद्धाध्यशनाजीणैर्विषमैश्चापि भोजनैः 1

स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः
शोकदुष्टाम्बुमद्यातिपानैः सात्म्यर्त्तुपर्ययैः 2

जलाभिरमणैर्वेगविघातैः कृमिदोषतः
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते 3

हृन्नाभिपार्श्वोदरकुक्षितोदगात्रावसादा निलसन्निरोधाः
विट्सङ्गआध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि 4

संशम्यापां धातुरग्निं प्रवृद्धो वर्चोमिश्रो वायुनाऽध प्रणुन्नः
सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति 5

एकैकशः सर्वशश्चापि दोषैः शोकेनान्यःषष्ठ आमेन चोक्तः 6

आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः
अतोऽतिसारे सर्वस्मिन्नामं पक्वञ्च लक्षयेत 7

संसृष्टमामैर्दोषैस्तु न्यस्तमप्सु निमज्जति
पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितम 8

एतान्येव तु लिङ्गानि विपरीतानि यस्य वै
लाघवञ्च विशेषेण तं तु पक्वं विनिर्दिशेत 9

न च संग्राहकं दद्यात्पूर्वमामातिसारिणे
अकाले संगृहीतस्तु विकारान्कुरुते बहून 10

दण्डकालसकाध्मानग्रहण्यर्शोभगन्दरान
शोथपाण्ड्वामयप्लीहगुल्ममेहोदरज्वरान 11

डिम्भस्थः स्थविरस्थश्च वातपित्तात्मकश्च यः
क्षीणधातुबलश्चापि बहुदोषोऽतिनिस्रुतः
आमोऽपि स्तम्भनीयः स्यात्पाचनान्मरणं भवेत 12

लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः
समुदीर्णदोषनिचयं तत्पाचयेत्तथा च शमयेत 13

धान्याम्बुभ्यां शृतं तोयं तृष्णादाहातिसारिणे
ह्रीबेरशृङ्गबेराभ्यां मुस्तपर्पटकेन वा
मुस्तोदीच्यशृतं शीतं प्रदातव्यं पिपासवे 14

हितं लङ्घनमेवादौ पूर्वरूपेऽतिसारिणे
कार्यं वाऽनशनस्यान्ते प्रद्र वं लघु भोजनम 15

पथ्यादारुवचामुस्तैर्नागरातिविषाऽन्वितैः
आमातिसारनाशाय क्वाथमेभिः पिबेन्नरः 16

पाठाहिङ्ग्वजमोदोग्रापञ्चकोलाह्वजं रजः
उष्णाम्बुपीतं सरुजं जयत्यामं ससैन्धवम 17

हरीतकी सातिविषा हिङ्गु सौवर्चलं वचा
सैन्धवञ्चापि संपिष्य पाययेदुष्णवारिणा 18

आमातिसारयोगोऽय पाचयित्वा चिकित्सति
आमातिसारो योगेन यस्त्वेतेन न शाम्यति 19

न तं योगशतेनापि चिकित्सति चिकित्सकः 20

वत्सकातिविषाबिल्वं मुस्तकं बालकं शटी
अतीसारं जयेत्सामं चिरजं रक्तशूलजित 21

एरण्डरससम्पिष्टं पक्वमामञ्च नागरम
आमातिसारशूलघ्नं पाचनं दीपनं परम 22

धान्यबालकबिल्वाब्दनागरैः पाचितं जलम
आमशूलविबन्धघ्नं पाचनं दीपनं परम 23

पित्ते धान्यचतुष्कन्तु शुण्ठीत्यागाद्वदन्ति हि
रक्तेऽपि पित्तसाधर्म्याद्देयं धान्यचतुष्टयम 24

इत्यामातिसारचिकित्सा

अथ पक्कातीसारचिकित्सा 

सलोध्रं धातकीबिल्वमुस्ताऽम्रास्थिकलिङ्गकम
पिबेन्माहिषतक्रेण पक्वातीसारनाशनम 25

समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्र एव च
शाल्मलीवेष्टको लोध्रो दाडिमद्रुफलत्वचौ 26

आम्रास्थिमध्यं लोध्रश्च विल्वमध्यं प्रियङ्गु च
मधुकं शृङ्गबेरञ्च दीर्घवृन्तत्वगेव च 27

चत्वार एते योगाः स्युः पक्वातीसारनाशनाः
ते योगा उपयोज्याःस्युः सक्षौद्रा स्तण्डुलाम्बुना 28

कञ्चटदाडिमजम्बू शृङ्गाटकपत्रबिल्वबर्हिष्ठम
जलधरनागरसहितं गङ्गामपि वेगवाहिनीं रुन्ध्यात  29

मोचरसमुस्तनागर पाठाऽरलुधातकीकुसुमैः
चूर्ण मथितसमेतं रुणद्धि गङ्गाप्रवाहमपि सद्यं 30

मुस्ता वत्सकबीजं मोचरसो बिल्वधातकीलोध्रम
गुडमथितसंप्रयुक्तं गङ्गामपि वेगवाहिनीं रुन्ध्यात 31

मुस्ताऽरलुकशुण्ठीभिर्धातकीलोध्रबालकैः
बिल्वमोचरसाभ्यां च पाठेन्द्र यववत्सकैः 32

आम्रबीजसमङ्गाऽतिविषायुक्तैश्च चूर्णितैः
मधु तण्डुलपानीयं पीतं हन्ति प्रवाहिकाम 33

हन्ति सर्वानतीसारान् ग्रहणीं हन्ति वेगतः
वृद्धगङ्गाधरं चूर्णरुन्ध्याद्गीर्वाणवाहिनीम 34

अङ्कोलमूलकल्कस्तण्डुलपयसा समाक्षिकः पीतः
सेतुरिववारिवेगं झटिति निरुन्ध्यादतीसारम 35

कुटजत्वक्तुलामाद्रा रं द्रोणनीरे पचेद्भिषक
पादशेषं शृतं नीत्वा वस्त्रपूतं पुनः पचेत 36

लज्जालुर्धातकी बिल्वं पाठा मोचरसस्तथा
मुस्ता चातिविषा चैव चूर्णमेषां पलं पलम 37

निक्षिप्य विपचेत्तावद् यावद्दर्वी प्रलिप्यते
जलेन च्छागदुग्धेन पीतो मण्डेन वा जयेत 38

घोरान्सर्वानतीसारान्नाना वर्णान्सवेदनान
असृग्दरं समस्तञ्च तथाऽशासि प्रवाहिकाम 39

कृत्वाऽलवालं सुदृढं पिष्टैरामलकैर्भिषक
आर्द्र कस्य रसेनाशु पूरयेन्नाभिमण्डलम 40

नदीवेगोपमं घोरं प्रवृद्धं दुर्द्धरं नृणाम
सद्योऽतीसारमजयं नाशयत्येष योगराट 41

पाठा पिष्टा च गोदध्ना तथा मध्यत्वगाम्रजा
अतीसारं व्यथादाहं हन्त्येवाशु न संशयः 42

अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः
शकृदामं सरुक्शब्दं मारुतेनातिसार्यते 43

वचा चातिविषा मुस्तं बीजानि कुटजस्य च
श्रेष्ठः कषाय एतेषां वातातीसारशान्तये 44

पित्तात्पीतं शकृद्र क्तं दुर्गन्धि हरितं द्रुतम
गुदपाकतृषामूर्च्छादाहयुक्तं प्रवर्त्तते 45

बिल्वशक्रयवाम्भोदबालकातिविषाकृतः
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम 46

रसाञ्जनं सातिविषं कुटजस्य फलत्वचम
धातकी शृङ्गबेरञ्च पाययेत्तण्डुलाम्बुना 47

निहन्ति मधुना पीतं पित्तातीसारमुल्वणम
अग्निं सन्दीपयेदेतच्छूलमाशु निवारयेत 48

पित्तकृन्ति यदाऽत्यर्थं द्र व्याण्यश्नाति पैत्तिके
तदाऽस्य जायतेऽभीक्ष्णं रक्तातीसार उल्वणः 49

वत्सत्वग्दाडिमतरु शलाटुफलसम्भवां त्वक् च
त्वग्युगलं पलमानं विपचेदष्टांशसंमिते तोये अं50

अष्टमभागं शेषं क्वाथं मधुना पिबेत्पुरुषः
रक्तातिसारमुल्वणमतिशयितं नाशयेन्नियतम 51

कुटजातिविषामुस्ताबालकं लोध्रचन्दनम
धातकी दाडिमं पाठा क्वाथमेषां समाक्षिकम 52

पिबद्र क्तातिसारे तु दाहशूलप्रशान्तये
कुटजादिकषायोऽय सर्वातीसारनाशनः 53

कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः
आजेन पयसा पीतः सद्योऽतीसारनाशनः 54

सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः
सामे सशूले सहशोणिते च चिरप्रवृत्तेऽपि हितोऽतिसारे 55

कृष्णमृन्मधुकं लोध्रं कौटजं तण्डुलाम्बुना
पीतमेकत्र सक्षौद्रं  रक्तसंग्रहणं परम 56

गुडेन भक्षयेद्बिल्वं रक्तातीसारनाशनम
आमशूलविबन्धघ्नं कुक्षिरोगहरं परम 57

जम्ब्वाम्रामलकीनान्तु कुट्टयेत्पल्लवान्नवान
तत्पीतं मधुना युक्तं रक्तातीसारनाशनम 58

निक्वाथ्य मूलममलं गिरिमल्लिकायाःसम्यक् पलद्वितयमम्बुचतुःशरावे
तत्पादशेषसलिलं खलु शोषणीयं क्षीरे पलद्वयमिते कुशलैरजप्याः 59

प्रक्षिप्य माषकानष्टौ मधुनस्तत्र शीतले
रक्तातिसारी तत्पीत्वा नैरुज्यंक्षिप्रमाप्नुयात 60

पीत्वा शतावरीकल्कं पयसा क्षीरभुग् जयेत्
रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः 61

गोदुग्धनवनीतं च मधुना सितया सह
लीढं रक्तातिसारे तु ग्राहकं परमं मतम 62

पीतं मधुसितायुक्तं चन्दनं तण्डुलाम्बुना
रक्तातीसारजिद्र क्तपित्ततृड्दाहमेहनुत 63

विरेकैर्बहुभिर्यस्य गुदं पित्तेन दह्यते
पच्यते वा तयोः कार्यं सेकप्रक्षालनादिकम 64

पटोलयष्टिमधुकक्वाथेन शिशिरेण हि
गुदप्रक्षालनं कार्यं तेनैव गुदसेचनम 65

दाहे पाके हितं छागीदुग्धं सक्षौद्र शर्करम
गुदस्य क्षालने सेके युक्तं पाने च भोजने 66

अतिप्रवृत्त्या महती भवेद्यदि गुदव्यथा
स्विन्नमूषकमांसेन तदा संस्वेदयेद् गुदम 67

अथ गोधूमचूर्णस्य संशृतस्य तु वारिणा
साज्यस्य गोलकं कृत्वा मृदु संस्वेदयेद् गुदम 68

गुदनिःसरणे प्रोक्तं चाङ्गेरीघृतमुत्तमम
गुदभ्रंशे गुदं स्नेहैरभ्यज्यान्तःप्रवेशयेत 69

प्रविष्टं स्वेदयेन्मन्दं मूषकस्यामिषेण हि 70

शम्बूकमांसं सुस्विन्नंसतैललवणान्वितम
ईषद् घृतेन चाभ्यज्य स्वेदयेत्तेन यत्नतः 71

गुदभ्रंशमशेषेण नाशयेत्क्षिप्रमेव च
मूषकस्याथ वसया पायुं सम्यक्प्रलेपयेत
गुदभ्रंशाभिधो व्याधिः प्रणश्यति  न संशयः 72

चाङ्गेरीकोलदध्यम्लक्षारनागरसंयुतम
घृतं विपक्वं पातव्यं गुदभ्रंशगदापहम 73

कोमलं पद्मिनीपत्रं यः खादेच्छर्कराऽन्वितम
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः 74

श्वेतं स्निग्धं घनं बद्धं शीतलं मन्दवेदनम
गौरवारुचिसंयुक्तं श्लेष्मणा सार्यते शकृत 75

श्लेष्मातिसारे प्रथमं हितंलङ्घनपाचनम
योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः 76

चव्यं सातिविषामुस्तं बालबिल्वं सनागरम
वत्सकत्वक्फलं पथ्या च्छर्दिश्लेष्मातिसारनुत 77

हिङ्गु सौवर्चलंव्योषमभयाऽतिविषा वचा
पीतमुष्णाम्बुना चूर्णमेषां श्लेष्मातिसारनुत 78

अथ द्विदोषजातीसारस्य सामान्यचिकित्सा 

तत्र कृमिशत्र्वादिक्वाथः 

कृमिशत्रुवचाबिल्वपाठाधान्याककट्फलम
एषां क्वाथं भिषग्दद्यादतीसारे द्विदोषजे 79

तेषां चिकित्सा प्रोक्तैव विशिष्टा च निगद्यते 80

अथ वातश्लेष्मातिसारस्य चिकित्सा 

तत्र कट्फलादिक्वाथः 

कट्फलं मधुकं लोध्रं त्वग्दाडिमफलस्य च
सतण्डुलजलं चूर्णं वातश्लेष्मातिसारनुत 81

अथ वातपित्तातिसारस्य चिकित्सा 

तत्र चित्रकादिक्वाथः 

चित्रकातिविषामुस्तं वालबिल्वं सनागरम
वत्सकत्वक्फलं पथ्या वातपित्तातिसारनुत 82

अथ पित्तकफातीसारस्य चिकित्सा 

तत्र मुस्तादिक्वाथः 

मुस्ता सातिविषा मूर्वा वचा च कुटजः समाः
एषां कषायः सक्षौद्रः पित्तश्लेष्मातिसारनुत 83

तन्द्रा युक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकरूपं तृषाऽत्त
सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रः साध्योबालवृद्धाबलानाम 84

अथ सन्निपातातीसारस्य चिकित्सा

पञ्चमूलीबलाबिल्वगुडूची मुस्तनागरैः
पाठाभूनिम्बबर्हिष्ठकुटजत्वक्फलैः शृतम 85

सर्वजं हन्त्यतीसारं ज्वरञ्चापि तथा वमिम
सशूलोपद्र वं श्वासं कासं चापि सुदुस्तरम 86

पञ्चमूली च सामान्या पित्ते योज्या कनीयसी
वाते पुनर्बलासे च सा योज्या महती मता 87

अभया नागरं मुस्तं गुडेन सह योजितम
चतुःसमेयं गुटिका सर्वातीसारनाशनी 88

आमातीसारमानाहं सविबन्धं विसूचिकाम
कृमीनरोचकं हन्याद्दीपयत्याशु चानलम 89

तत्कालाकृष्टकुटजत्वचं तण्डुलवारिणा
पिष्ट्वा चतुःपलमितां जम्बूपत्रेण वेष्टिताम 90

सूत्रेण बद्ध्वा गोधूमपिष्टेन परिवेष्टिताम
लिप्ताञ्च घनपङ्केन निर्दहेद् गोमयाग्निना 91

अङ्गारवर्णाञ्च मृदं दृष्ट्वा वह्नेः समुद्धरेत
ततो रसं समादाय शीतं क्षौद्र युतं पिबेत 92

उक्तः कृष्णात्रिपुत्रेण पुटपाकस्तु कौटजः
जयेत्सर्वानतीसारान् रक्तजान्सुचिरोत्थितान 93

कुटजत्वक्कृतः क्वाथो वस्त्रपूतो हिमीकृतः
स लीढोऽतिविषायुक्तः स्यात् त्रिदोषातिसारनुत 94

इच्छन्त्यत्राष्टमांशेन क्वाथादतिविषारजः
प्रक्षेपयेच्चतुर्थांशमिति केचिद्वदन्ति हि 95

पलमङ्कोटमूलस्य पाठां दार्वीञ्च तत्समाम
पिष्ट्वा तण्डुलतोयेन वटकानक्षसम्मितान 96

छायाशुष्कांश्च तान्कुर्यात्तेष्वेकं तण्डुलाम्बुना
पेषयित्वा प्रदद्यात्तं पानाय गदिने भिषक 97

वातपित्तकफोद्भूतान्द्वन्द्वजान्सान्निपातिकान
हन्यात्सर्वानतीसारान्वटकोऽय प्रयोजितः 98

तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तोः
कोष्ठं गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात्काकणन्तीप्रकाशम 99

निर्गच्छेद् वै विड्विमिश्रं  ह्यविड् वा निर्गन्धं वा गन्धवद्वाऽतिसारः
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः 100

भयेन क्षोभिता दोषा दूषयन्ति मलं यदा
तदाऽतिसार्यते जन्तुः क्षिप्रमुष्णं जलप्लवम 101

वातपित्तातिसारस्य प्रायो लिङ्गैः समन्वितम  
अभयोपशमाच्छर्म यस्मिन्स्यात्स भयात्स्मृतः 102

भयशोकसमुद्भूतौ ज्ञेयौ वातातिसारवत
तयोर्वातहरी कार्या हर्षणाश्वासनैः क्रिया 103

अन्नाजीर्णात्प्रद्रुताः क्षोभयन्तो दोषाः कोष्ठे धातुसंघान्मलांश्च
नानावर्णान्नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति 104

अथामातीसारस्य चिकित्सा 

तत्र वत्सकादिक्वाथः 

वत्सकातिविषाशुण्ठीबिल्वहिङ्गुयवाम्बुदाः
चित्रकेण युतः क्वाथ आमातीसारनाशनः 105

अथ शोथातीसारस्य चिकित्सा

तत्र शोथघ्न्यादिक्वाथः

शोथघ्नीन्द्र यवौ पाठा श्रीफलातिविषाघनः
क्वथिताः सोषणाः पीताः शोथातीसारनाशनाः 106

अथ छर्द्यतीसारस्य चिकित्सा 

तत्राम्रास्थ्यादिक्वाथः 

आम्रास्थिमध्यमालूरफलक्वाथः समाक्षिकः
शर्करासहितो हन्याच्छर्द्यतीसारमुल्वणम 107

कषायो भृष्टमुद्गस्य सलाजमधुशर्करः
निहन्याच्छर्द्यतीसारं तृष्णां दाहं ज्वरं भ्रमम 108

दध्ना ससारेण समाक्षिकेण भुञ्जीत निःसारकपीडितस्तु
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन 109

दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत
स पिबेत्फाणितं शुण्ठीं दधि तैलं पयो घृतम
बलाविश्वाशृतं क्षीरं गुडतैलानुयोजितम
दीप्ताग्निं पाययेत्प्रातः सुखदं वर्चसः क्षये 111

तुलां संकुट्य बिल्वस्य पचेत्पादावशेषितम
सक्षीरं साधयेत्तैलं श्लक्ष्णपिष्टैरिमैः समैः 112

बिल्वं सधातकीकुष्ठं शुण्ठीरास्नापुनर्नवाः
देवदारुवचामुस्तं लोध्रमोचरसान्वितम 113

एभिर्मृद्वग्निना पक्वं ग्रहण्यर्शोऽतिसारनुत
बिल्वतैलमितिख्यातमत्रिपुत्रेण भाषितम 114

ग्रहण्यर्शोऽधिकारे ये स्नेहाः समुपदर्शिताः
योज्यास्ते ह्यतिसारेऽपि त्रयाणां तुल्यहेतुना 115

वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य
प्रवाहतोऽल्प बहुशो मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः 116

प्रवाहिका वातकृता सशूला पित्तात्सदाहा सकफा कफाच्च
सशोणिता शोणितसम्भवा च ताः स्नेहरूक्षप्रभवा मतास्तु 117

तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च 118

अथ प्रवाहिकाचिकित्सा 

बिल्वपेषी गुडं लोध्रं तैलं मरिचसंयुतम
लीढ्वा प्रवाहिकाऽक्रान्तः सत्वरं सुखमाप्नुयात 119

धातकी बदरीपत्रं कपित्थं रसमाक्षिकम
सलोध्रमेकतो दध्ना पिबेन्निर्वाहिकाऽदितः 120

पक्कजाम्बवसङ्काशं यकृत्खण्डनिभं तनु
घृततैलवसामज्जवेसवारपयोदधि 121

मांसधावनतोयाभं कृष्णं नीलारुणप्रभम
कर्वुरं मेचकं स्निग्धं चन्द्र कोपगतं घनम 122

कुणपं मस्तुलुङ्गाभं सगन्धं कुथितं बहु
तृष्णादाहारुचिश्वासहिक्वापार्श्वास्थिशूलिनम 123

संमूर्च्छाऽरतिसंमोहयुक्तं पक्ववलीगुदम
प्रलापयुक्तञ्च भिषग्वर्जयेदतिसारिणम 124

असंवृतगुदं क्षीणं शूलाध्मानैरुपद्रुतम
गुदे पक्वे गतोष्माणमतिसारिणमुत्सृजेत 125

श्वासशूलपिपासाऽत्त क्षीणंज्वरनिपीडितम
विशेषेण नरं वृद्धमतिसारो विनाशयेत 126

शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम
छर्दिं मूर्च्छां च हिक्काञ्च दृष्ट्वाऽतीसारिणं त्यजेत 127

हस्तपादाङ्गुलीसन्धिप्रपाको मूत्रनिग्रहः
पुरीषस्योष्णताऽतीव मरणायातिसारिणः128

अतिसारी राजरोगी ग्रहणीरोगवानपि
मांसाग्निबलहीनो यो दुर्लभं तस्य जीवनम 129

बाले वृद्धे त्वसाध्योऽय लिङ्गैरेतैरुपद्रुतः
अपि यूनामसाध्यं स्यादतिदुष्टेपु धातुषु 130

यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः 131

स्नानावगहावभ्यङ्गं गुरुस्निग्धादिभोजनम
व्यायाममग्निसन्तापमतिसारी विवर्जयेत 132

प्रत्येकं दश गद्याणाः शुद्धसूतकगन्धयोः
विंशतिस्त्रिदिनं खल्वे पिष्ट्वा तां कज्जलद्यं त्र्यहम 133

ततो वज्रस्य दुग्धेन पिष्ट्वा तां कज्जलद्यं त्र्यहम
आर्द्र कं चित्रकं श्वेतं निःसहायञ्च मर्दयेत 134

पेषयेत्तद्र सैरेवं कज्जलद्यं तां दिनत्रयम
पीतानाञ्च कपर्दीनां चूर्णं गद्याणविंशतिः 135

विशतिः शङ्खचूर्णस्य चत्वारिंशच्च मिश्रितम
त्रिदिनं मर्दयेत्खल्वे पूर्वोक्तेन क्रमेण च 136

त्र्यहमर्कस्य दुग्धेन वज्रीदुग्धेन  च त्र्यहम
तन्मध्ये कज्जलद्यं क्षिप्त्वा चित्रकार्द्र रसेन तु 137

खल्वे पिष्ट्वा द्वयोः कार्या गुट्यो बदरसम्मिताः
लिप्त्वा दग्ध्वाऽशु चूर्णेन पक्वकुह्लरिकांतरम 138

प्रक्षिप्य गुटिकास्तत्र चूर्णलिप्तपिधानकम
दत्त्वा वस्त्रं मृदा लिप्त्वा गर्त्तं हस्तप्रमाणकम 139

तद्गर्भे कुह्लरीं मुक्त्वा पुटो देयश्च शाणकैः
पश्चाच्चित्रकनीरेण स्वाङ्गशीतञ्च पेषयेत 140

गुटिकां पूर्वरीत्यैव कृत्वा देयः पुनः पुटः
दग्धानां गुटिकानाञ्च चूर्णं कृत्वाऽथ कूपके 141

क्षेप्यं चैव हि निष्पन्नो रसोऽय शङ्खपोटली
आमज्वरातिसारे च श्वासे कासे तथैव च 142

श्लेष्मपित्तामवातेषु मन्दाग्नौ ग्रहणीषु च
अष्टादशप्रमेहेषु जीर्णे जीर्णबलेषु च 143

द्बात्रिंशन्मरिचैः साकं सघृतं वल्लपञ्चकम
सर्वरोगेषु दातव्यं मरिचाज्यं विना ज्वरे 144

शालयो दधि दुग्धादि भोजनं मधुरं हितम
कट्वम्लक्षारतैलाद्यान्दूरतः परिवर्जयेत 145

विधिनाऽनेनकर्त्तव्यो रसोऽसौ शङ्खपोटली
क्रमेण विनिवर्त्तन्ते प्रोक्तरोगा न संशयः 146

त्रैलोक्यविजयाजातीफले तुल्ये कलिङ्गकम
गृहीत्वा द्विगुणं श्रेष्ठो लेहः सर्वातिसारनुत 147

बिल्वमोचरसलोध्रधातकीपुष्पचूतफलबीजसंयुता
नाशयेदतिविषाऽवलेहिका सिन्धुवेगमपि दुर्धरं ध्रुवम 148

इति द्वितीयोऽतीसाराधिकारः समाप्तः 2
Related Posts Plugin for WordPress, Blogger...

Follow by Email