Thursday, 9 July 2015

अथाष्टत्रिंशत्तमः प्रमेहपिडिकाऽधिकारः 38

आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम 1

मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफो वस्तिगतं प्रदूष्य
करोति मेहान्समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि
क्षीणेषु दोषेष्ववकृष्य धातून्सन्दूष्य मेहान्कुरुतेऽनिलश्च 2

साध्याः कफोत्था दश पित्तजाः षट् याप्या न साध्याः पवनाच्चतुष्काः
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते 3

कफश्च पित्तं पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः
मज्जारसौजः पिशितञ्च दूष्याः प्रमेहिणां विंशतिरेव मेहाः 4

दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः
दाहश्चिक्कणता देहे तृट् स्वाद्वास्यञ्च जायते 5

सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता 6

दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते  7

अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम
मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छलम 8

इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः
सान्द्री भवेत्पर्युषितं सान्द्र मेहेन मेहति 9

सुरामेही सुरातुल्यमुपर्यच्छमधोघनम
संहृष्टरोमा पिष्टेन पिष्टवद् बहुलं सितम 10

शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति
मूर्ताणून्सिकता मेही सिकतारूपिणो मलान 11

शीतमेही सुबहुशो मधुरं भृशशीतलम
शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छलम 12

गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत 13

नीलमेहेन नीलाभं कालमेही मसीनिभम
हारिद्र मेही कटुकंहरिद्रा सन्निभं दहत 14

विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम
विस्रमुष्णं सलवणं रक्ताभं रक्तमेहिनः 15

वसामेही वसामिश्रं वसाऽभ मूत्रयेन्मुहुः
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहः 16

कषायं मधुरं रूक्षं क्षौद्र मेहं वदेद् बुधः
हस्ती मत्त इवाजस्रं मूत्रवेगविवर्जितम
सलसीकं विबद्धञ्च हस्तिमेही प्रमेहति 17

अविपाकोऽरुचिश्छर्दिर्निद्रा  कासः सपीनसः
उपद्र वाः प्रजायन्ते मेहानां कफजन्मनाम 18

वस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः
दाहस्तृष्णाऽम्लको मूर्च्छा विड्भेदः पित्तजन्मनाम 19

वातजानामुदावर्त्तकम्पहृद्ग्रहलोलताः
शूलमुन्निद्र ता शोषःश्वासः कासश्चजायते 20

यथोक्तोपद्र वाविष्टमतिप्रस्रुतमेव च
पिडिकापीडितं गाढं प्रमेहो हन्ति मानवम 21

मूर्च्छाच्छर्दि ज्वरश्वासकासवीसर्पगौरवैः
उपद्र वैरुपेतो यः प्रमेही दुष्प्रतिक्रियः 22

रजः प्रवर्त्ततेयस्मान्मासि मासि विशोधयेत
सर्वाञ्छरीरदोषांश्च न प्रमेहन्त्यतः स्त्रियः 23

जातः प्रमेहीमधुमेहिनो वा न साध्यरोगः स हि बीजदोषात
ये चापि केचित्कुलजा विकारा
भवन्ति तांश्चापि वदन्त्यसाध्यान 24

सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति च 25

मधुमेहोमधुनिभो जायते स किल द्विधा
क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा 26

आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन
क्षणात्क्षीणःक्षणात्पूर्णो भजते कृच्छ्रसाध्यताम 27

मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति
सर्वेऽपि मधुमेहाख्या माधुर्य्याच्च तनोरतः 28

शराविका कच्छपिका जालिनी विनताऽलजी
मसूरिका सर्षपिका पुत्रिणी सविदारिका 29

विद्रधिश्चेति पिडिकाः प्रमेहोपेक्षया दश
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु 30

अन्तोन्नता च तद्रू पा निम्नमध्या शराविका
गौरसर्षपसंस्थाना तत्प्रमाणा तु सर्षपी 31

सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः
जालिनी तीव्रदाहा तु मांसजालसमावृता 32

अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा
महती पिडिका नीला सा बुधैर्विनता स्मृता 33

महत्यल्पचिता ज्ञेया पिडिकाऽपि च पुत्रिणी
मसूरदलसंस्थाना विज्ञेया तु मसूरिका 34

रक्ताऽसिता स्फोटचिता विज्ञेया त्वलजी बुधैः
विदारीकन्दवद् वृत्ता कठिना च विदारिका 35

विद्रधेर्लक्षणैर्युक्ता  ज्ञेया विद्र धिका तु सा 36
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मयाः 37

विना प्रमेहमप्येता जायन्ते दुष्टमेदसः
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहाः 38

गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थिताः
सोपद्र वादुर्बलाग्नेः पिडिकाः परिवर्जयेत 39

तृट्शोषमांससंकोचमोहहिक्कामदज्वराः
विसर्पमर्मसंरोधाः पिडिकानामुपद्र वाः 40

श्यामाककोद्र वोद्दाल गोधूमाश्चणकास्तथा
आढक्यश्च कुलत्थाश्चपुराणा मेहिनां हिताः 41

मेहिनां तिक्तशाकानिजाङ्गला हरिणाण्डजाः
यवान्नविकृतिर्मुद्गाः शस्यन्ते शालिषष्टिकाः 42

सौवीरकं सुरा तक्रं तैलं क्षीरं घृतं गुडम
अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत 43

तत्रादित एव प्रमेहिणमुपस्निग्धमन्यतमेन  प्रियङ्ग्वादिसिद्धेन तैलेन वामयेत्
प्रगाढं  विरेचयेच्च  विरेचनादनन्तरं सुरसाऽदिक कषायेणास्थापयेतै  महौषधभद्र
दारुमुस्तावापेन मधुसैन्धवयुक्तेनै दह्यमानं वा न्यग्रोधादिकषायेण निस्तैलेन
वातोत्कटेषु मेहेषु स्नेहपानं विशेषतः  पारिजातजयानिम्बवह्निगायत्रीणां पृथक 44

पाठायाः सागुरोः पीताद्बयस्य शारदस्य च
जलेक्षुमद्यसिकताशनैर्ल वणपिष्टकान्
सान्द्र मेहान्क्रमाद्  घ्नन्ति क्वाथाश्चाष्टौ समाक्षिकाः 45

हरीतकीकट्फलमुस्तलोध्राः पाठाविडङ्गार्जुनधन्वनाश्च
उभे हरिद्रे  तगरं विडङ्गं कन्दं विशालाऽजुनदीप्यकाश्च 46

दार्वी विडङ्गः खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि
दार्व्यग्निमन्थो त्रिफलावचा च पाठा च मूर्वा च तथा श्वदंष्ट्रा  47

वचा ह्युशीराण्यभया गुडूची वृषं शिवाचित्रकसप्तपर्णाः
पादैः कषायाः कफमेहविज्ञैर्दशोपदिष्टा मधुसम्प्रयुक्ताः 48

उशीरलोध्रार्जुन चन्दनानामुशीरमुस्तामलकाभयानाम
पटोलनिम्बामलकामृतानां मुस्ताभयामुष्ककवृक्षकाणाम 49

लोध्राम्रकासीसकधातकीनां विश्वार्जुनैलाशिरिषोत्पलानाम
शिरीषधान्यार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम 50

अश्वत्थपाठाऽसनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम
पैत्तेषु मेहेषु दशोपदिष्टाः कषाययोगा मधुसम्प्रयुक्ताः 51

कफमेहहरक्वाथसिद्धं सर्पिः कफे हितम
पित्तमेहघ्ननिर्यूहसिद्धं पित्तहरं घृतम 52

कम्पिल्लसप्तच्छदशालजानि बैभीतरोहीतककौटजानि
पटोलकालीयगदागुरूणि क्षौद्रे ण लिह्यात्कफपित्तमेही 53

दूर्वाकसेरुपूतीक कुम्भीकप्लवशैवलम
जलेन क्वथितं पीतं शुक्रमेहहरं परम 54

त्रिफलाऽरग्वधद्रा क्षाकषायो मधुसंयुतः
पीतो निहन्ति फेनाभं प्रमेहं नियतं नृणाम 55

अश्वत्थाच्चतुरङ्गुल्यान्न्यग्रोधादेः फलत्रयात
सरक्तसारमञ्जिष्ठाः क्वाथाः पञ्च समाक्षिकाः
नीलहारिद्र फेनाख्यक्षारमाञ्जिष्ठकाह्वयान 56

मधुना त्रिफलाचूर्णमथवाश्मजतूद्भवम
लौहजं वाभयोत्थं वा लिहेन्मेहनिवृत्तये 57

कटङ्कटेरीमधुकत्रिफलाचित्रकैः समैः
सिद्धः कषायः पातव्यः प्रमेहाणां विनाशनः 58

फलत्रिकंदारुनिशां विशालां मुस्तां च निष्क्वाथ्य निशांश कल्कम
पिबेत्कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुच्छ्रितेषु 59

गोभक्षितान्यवान्मूत्रभावितान्केवलानपि
चित्रकोदश्विता खादेन्निम्बमुद्गरसेन वा 60

भक्षयीताम्बुना मासं प्रमेही यवपिष्टकम
मेदोघ्ना बद्धमूत्राश्च समाः सर्वेषु धातुषु
यवास्तस्माद्विशिष्यन्ते प्रमेहेषु विशेषतः 61

त्रिकटु त्रिफला पाठा मूलं शोभाञ्जनस्य च
विडङ्गतण्डुला हिङ्गु तथा कटुकरोहिणी 62

बृहती कण्टकारी च हरिद्रे  द्वे यवानिका
केबुकं शालपर्णी च तथाऽतिविषचित्रकौ 63

सौवर्चलं जीरकञ्च हपुषा धान्यमेव च
एषां कर्षप्रमाणञ्च श्लक्ष्णचूर्णञ्च कारयेत 64

यवशक्तु पलानाञ्च नवतिं द्वितयाधिकाम
घृततैलमधूनाञ्च प्रत्येकञ्च पलानि षट 65

एभिः कर्षप्रमाणञ्च प्रत्यहं मोदकं सुधीः
भक्षयेन्नाशयेदुग्रान्प्रमेहानतिदारुणान 66

न्यग्रोधोदुम्बराश्वत्थश्योनाकारग्वधासनम
आम्रं कपित्थं जम्बूञ्च प्रियालं ककुभं धवम 67

मधूकं मधुकं लोध्रं वरुणं पारिभद्र कम
पटोलं मेषशृङ्गी च दन्ती चित्रकमाढकी 68

करञ्जत्रिफलाशक्रभल्लातकफलानि च
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत 69

न्यग्रोधाद्यमिदं चूर्णं मधुना सह योजयेत
फलत्रयरसं चानु पिबेन्मूत्रं विशुद्ध्य्ति 70

एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च
प्रशमं यान्ति योगेन पिडिका न च जायते 71

चूर्णानिलोहत्रिफलासितानां क्षौद्रे ण लिह्याच्च पृथक् समं वा
मेहान्समस्तानपि नाशयन्ति पीतः कदाचित्स्वरसो गुडूच्याः 72

त्रिकटु त्रिफलातुल्यं गुग्गुलुञ्च समांशिकम
गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद् बुधः 73

दोषकालबलापेक्षी  भक्षयेच्चानुलोमिकीम
न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम 74

प्रमेहान्वातरोगांश्च वातशोणितमेव च
मूत्राघातं मूत्रदोषं प्रदरं चाशु नाशयेत 75

दाडिमस्य च बीजानि कृमिघ्नस्य च तण्डुलाः
रजनी चविकाऽजाजी नागरं त्रिफला कणा 76

त्रिकण्टकस्य च फलं यवानी धान्यकं तथा
वृक्षाम्लचविकालोध्रसिन्धूद्भवसमाहितैः 77

कल्कैरक्षसमैरेभिर्घृतप्रस्थं विपाचयेत
भोज्ये पाने प्रदातव्यं सर्वर्त्तुषु च मात्रया 78

प्रमेहान्विंशतिं चैव मूत्राघातं तथाऽश्मरीम
कृच्छ्रं सुदारुणञ्चैव हन्यादेव न संशयः 79

विबन्धानाहशूलघ्नं कामलाज्वरनाशनम
दाडिमाद्यं घृतं चैतदश्विभ्यां परकीर्त्तितम 80

श्वदंष्ट्रा सकणा मुस्ता गुडूची फल्गुपल्लवाः
दर्भाङ्कुरास्तु गण्डीरो रोहिषस्य च पल्लवाः 81

काला पुनर्नवा श्यामा शारिवा देवदारु च
पिप्पली शृङ्गवेरञ्च विडङ्गं मरिचानि च
पाठा कम्पिल्लकं भार्गी द्वे हरिद्रे  निदिग्धिका
एरण्डमूलं दन्ती च चित्रकं कटुरोहिणी 83

एतानि समभागानि सूक्ष्मचूर्णानि कारयेत
यावन्त्येतानि चूर्णानि तावत्स्याच्चाप्ययोरजः 84

ततो विडालपदकं पिबेदुष्णेन वारिणा
अलाभे चापि मद्यानां प्रमेहान्हन्तिविंशतिम 85

श्वयथुञ्च तथाऽशासि पाण्डुरोगं हलीमकम
उदाराण्यथ शूलानि प्लीहानं चापकर्षति 86

एभिर्गोमूत्रपिष्टैस्तु गुटिकाः कारयेद्भिषक
रोगेष्वेतेषु मुख्याः स्युर्बलमांसविवर्द्धनाः 87

कण्टकार्या गुडूच्याश्च संहरेच्च शतं शतम
संकुट्योदूखले  विद्वांश्चतुद्रो र्णे!ऽम्भसः पचेत 88

तेन पादावशेषेण घृतप्रस्थं विपाचयेत
त्रिकटुत्रिफलारास्नाविडङ्गान्यथ चित्रकम 89

काश्मर्याणाञ्च मूलानि पूतीकस्य त्वगेव च
कलिङ्ग इति सर्वाणि सूक्ष्मपिष्टानि कारयेत 90

अक्षमात्रां पिबेत्प्राज्ञः शालिभिः पयसा हि तैः
प्रमेहं मधुमेहञ्च मूत्रकृच्छ्रं भगन्दरम 91

आलस्यं चान्त्रवृद्धिञ्च कुष्ठरोगं विशेषतः
क्षयञ्चैव निहन्त्येतन्नाम्ना सिंहामृतं घृतम 92

दशमूलं करञ्जौ द्वौ देवदारु हरीतकी
वर्षाभूर्वरुणो दन्ती चित्रकं सपुनर्नवम 93

सुधानीपकदम्बाश्च बिल्वं भल्लातकानिच
शटी पुष्करमूलं च पिप्पलीमूलमेव च 94

पृथग्दशपलान्भागानेतास्तोयेऽमणे पचेत
यवकोलकुलत्थानां प्रस्थं प्रस्थं विपाचयेत 95

तेन पादावशेषेण घृतप्रस्थं पचेद्भिषक
निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली 96

शृङ्गबेरविडङ्गानि चव्यं कम्पिल्लकं तथा
गर्भेणानेन तत्सिद्धं पाययेत्तु यथाबलम 97

एतद्धान्वन्तरं नाम विख्यातं सर्पिरुत्तमम
कुष्ठप्रमेहगुल्मांश्च श्वयथुं वातशोणितम 98

प्लीहोदराणि चार्शांसि विद्र धिं पिडिकाश्च याः
अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति 99

पृथक्तोयेऽमणे ह्यत्र पचेद् द्र व्याच्छतं शतम
शतत्रयाधिके तोये व्युत्सर्गः क्रमतो भवेत 100

अर्जुनपटोलनिम्बैः सवचादीप्यकरसासमञ्जिष्ठैः
भल्लातकागुरुघनैः सगदानलचन्दनोशीरैः 101

गोक्षुरकसोमवल्कैर्नवपटोलैर्हरिद्र या त्रिफलया
अश्मन्तकार्जुनाभ्यां दीप्यकयुक्तेन चैव लोध्रेण 102

मञ्जिष्ठाऽतिविषाभ्यां कल्ककषायैः पचेत्तैलम
कफवातोत्थे मेहे पित्तकृते साधयेत्सर्पिः 103

सारवर्गकषायं चतुर्थांशावशिष्टमवतार्य परिस्राव्य पुनरपनीय साधयेत
सिद्ध्य्ति  चामलकलोध्रप्रियङ्गुदन्तीकृष्णायसताम्रचूर्णान्यावपेत
तदेतद् दग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात
ततो यथायोगमुपयञ्जीत  एष लेहः सर्वमेहानपहन्ति 104

गोकण्टकं सदलमूलफलं गृहीत्वा सङकुट्टितं पलशतं क्वथितं तु तोये
पादस्थितेन सलिलेन पलानि दत्वा पञ्चाशतं तु विपचेदथ शर्करायाः 105

तस्मिन्घनत्वमुपगच्छति चूर्णितानि दद्यात्पलद्वयमितानि सुभाजनानि
शुण्ठीकणामरिचनागदलत्वगेला जातीयकोषककुभत्रपुसीफलानि 106

वांशीपलाष्टकमिह प्रणिधाय नित्यं लेह्यं तु शुद्धममृतं पलसम्मितन्तु
हन्त्याशु मूत्रपरिदाहविबन्धशुक्रकृच्छ्राश्मरीरुधिरमेहमधुप्रमेहान 107

असनश्च प्रियालञ्च शालं खादिरकं तथा
शालवर्गं तथा ग्राह्यं भवेच्चैतद्विचक्षणैः 108

मधुमेहत्वमापन्नं भिषग्भिः परिवर्जितम
योगेनानेन मतिमान्प्रमेहिणमुपाचरेत 109

मासि शुक्रे शुचौ वाऽपि शैलाः सूर्यांशुतापिताः
जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि 110

शिलाजत्विति विख्यातं महाव्याधिनिवारणम
त्रप्वादीनां तु लोहानां षण्णामन्यतमञ्च यत 111

ज्ञेयं स्वगन्धतश्चापि षड्योनिप्रथितं क्षितौ
लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम 112

तस्य लोहस्य तद्वीर्यं रसं वापि बिभर्त्ति तत
त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम 113

यथा तथा प्रयोगेपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः
तत्सर्वं तिक्तकटुकं कषायानुरसं सरम 114

कटुपाक्युष्णवीर्यञ्च शोषणं छेदनं तथा
तत्र यल्लघु कृष्णाभं स्निग्धं निःशर्करञ्च यत 115

गोमूत्रगन्धि नीलं वा तत्प्रधानञ्च वक्ष्यते
तद्भावितं सारगणैर्हृतदोषं दिनादितः 116

पिबेत्सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम
जाङ्गलेन रसेनाद्यात्तस्मिञ्जीर्णे तु भोजनम 117

उपयुज्य तुलामेकाममृतस्यास्य जन्मतः
विजित्य मधुमेहाख्यमातङ्कं रोगकारकम 118

वपुर्वर्णबलोपेतः शतं जीवत्यनामयः
शतं शतं तुलायां तु सहस्रं दशतौलिकम 119

भल्लातकविधानेन परिहारविधिः स्मृतः
मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम 120

शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम
व्यपोहत्यचिरात्कालाच्छिलाजतु निषेवितम 121

न सोऽस्ति रोगो यं वापि न निहन्याच्छिलाजतु
शर्करा चिरसम्भूतां भिनत्ति च तथाश्मरीम 122

भावनालोडने चास्य कर्त्तव्ये भेषजैर्हितैः
एवं च माक्षिकं धातुं तापीजममृतोपमम 123

मधुरं काञ्चनाभासमम्लं वा रजतप्रभम
व्यपोहति  जराकुष्ठमेहपाण्ड्वामयक्षयान 124

तद्भावितान्कुलत्थांश्च कपोतांश्च विवर्जयेत 125

प्रमेहपिडिकानां प्राक्कार्यं रक्तावसेचनम
पाटनञ्च विपक्वानां  तासां पाने प्रशस्यते 126

क्वाथो वनस्पतेर्बास्त्यं मूत्रं तीक्ष्णञ्च शोधनम
एलादिकेन कल्केन तैलं च व्रणरोपणम 127

आरग्वधादिना क्वाथं कुर्यादुद्वर्त्तनानि च
शालसारादिना सेकान्भोज्यादींश्चणकादिना 128

प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलम
विशदं तिक्तकटुकं तदारोग्यं प्रचक्षते 129

इत्यष्टत्रिंशः प्रमेहपिडिकाऽधिकारः समाप्तः 38
Related Posts Plugin for WordPress, Blogger...

Follow by Email