Friday, 10 July 2015

अथ मध्यखण्डम् तत्र द्वितीयो भागः अथ पञ्चमोऽशोऽधिकारः 5

पृथग्दोषैः समस्तैश्र शोणितात्सहजानि च
अर्शांसि षट प्रकाराणि विद्याद् गुद्वलित्रये 1

कषायकटुतिक्तानि रुक्षशीतलघूनि च
प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम 2

लङ्घनं देशकालौ च शीतौ व्यायामकर्म च
शोको वातातपस्पर्शो हेतुर्वातार्शसां ततः 3

कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः
देशकालावशिशिरौ क्रोधो मद्यमसूयनम 4

विदाहि तीक्ष्णमुष्णञ्च सर्वं पानान्नभोजनम
पित्तोल्वणानां विज्ञेयः प्रकोपे हेतुरर्शसाम 5

मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
अव्यायामदिवास्वप्नशय्याऽसनसुखे रतिः 6

प्राग्वातसेवाशीतौ च देशकालावचिन्तनम
श्लैष्मिकाणां समुद्दिष्टमेतत्कारणमर्शसाम 7

हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्वणानि च
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणं समम 8

विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता 9

ग्रहणीदोषपाण्ड्वर्त्ति प्रशङ्का चोदरस्य च
पूर्वरूपं विनिर्दिष्टमर्शसामभिवृद्धये 10

दोषास्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन
मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः 11

गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमिचिमान्विताः
म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः 12

मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः
बिम्बीकर्कन्धुखर्जूरकर्कोटीफलसन्निभाः 13

केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः
शिरःपार्श्वांसकट्यूरुवङ्क्षणाभ्यधिकव्यथाः 14

क्षवथूद्गारविष्टम्भहृद्रो गा रोचकप्रदाः
कासश्वासाग्निवैषम्य कर्णनादभ्रमावहाः 15

तैरार्त्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम
रुक्फेनपिच्छाऽनुगतं विड्बद्धमुपवेश्यते 16

कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते
गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च 17

पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः
तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः 18

शुकजिह्वा यकृत्खण्डजलौकोवक्त्रसन्निभाः
दाहपाकज्वरस्वेदतृण्मूर्च्छाऽरतिमोहदाः 19

सोष्माणो द्र्रवनीलोष्णपीतरक्तामवर्चसः
यवमध्या हरित्पीतहारिद्र्रत्वङ्नखादयः 20

रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः
वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः 21

तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिताः
स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः 22

भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रि यः 23

विट श्यावं कठिनं रुक्षमधोवायुर्न वर्त्तते
तनु चारुणबर्णं च फेनिलं चासृगर्शसाम 24

कट्यूरुगुदशूलञ्च दौर्बल्यं यदि चाधिकम
तत्रानुबन्धो वातस्य हेतुर्यदि च रुक्षणम 25

शिथिलं श्वेतपीतं च विट् स्निग्धं गुरुशीतलम
यद्यर्शसां घनं चासृक तन्तुमत्पाण्डुपिच्छिलम 26

गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः 27

श्लेष्मोल्वणा महामूला घना मन्दरुजः सिताः
उत्सन्नपचिताः स्निग्धाःस्तब्धवृत्तगुरुस्थिराः 28

पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः 29

वङ्कणानाहिनः पायुबस्तिनाभिविकर्षिणः
सकासश्वासहृल्लासप्रसेकारुचिपीनसाः 30

मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः
क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः 31

वसाभसकफप्राज्यपुरीषाः सप्रवाहिकाः
न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः 32

हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्वणानि च 33

सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च 34

अर्शांसि सहजातानि दारुणानि भवन्ति हि
दुर्दर्शनानि पाण्डूनि परुषाण्यरुणानि च 35

अन्तर्मुखाणि तैरार्त्तः क्षीणः क्षीणस्वरो भवेत
क्षीणानलः क्षीणरेताः शिरासन्नतविग्रहः
अल्पप्रजः क्रोधशीलो भग्नकांस्यस्वनान्वितः
शिरोदृक्कर्णनासासु रोगो हृल्लेपसेकवान 36

बाह्यायां तु वलौ जातान्येकदोषोल्वणानि च
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च 37

द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च
कृच्छ्रसाध्यानि तान्याहुःपरिसंवत्सराणि च 38

सहजानि त्रिदोषाणि यानि चाभ्यन्तरां बलिम
जायन्तेऽशासि संश्रित्य तान्यसाध्यानि निर्दिशेत 39

शेषत्वादायुषस्तानि चतुष्पादसमन्वये
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा 40

हस्ते पादे मुखे नाभ्यां गुदे बृषणयोस्तथा
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽशसो हि सः 41

हृत्पार्श्वशूलं संमोहश्छर्दिरङ्गस्य रुग्ज्वरः
तृष्णा गुदाऽस्यपाकश्च निहन्युर्गुदजातुरम 42

तृष्णाऽरोचकशूलार्त्तमतिप्रस्रुतशोणितम
शोथातीसारसंयुक्तमर्शांसि क्षपयन्ति हि 43

मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि च
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च 44

व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः
कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः 45

वातेन तोदपारुष्यं पित्तादतिसरक्तता
श्लेष्मणा स्निग्धता तस्य ग्रन्थितत्वं सवर्णता 46

यद्वातस्यानुलोम्याय यदग्निबलवृद्धये
अन्नपानौषधं सर्वं तत्सेव्यं नित्यमर्शसैः 47

शालिषष्टिकगोधूमयवान्नानि घृतैः सह
अजाक्षीरेण वा निम्बपटोलानां रसेन वा 48

वार्त्ताकुमूलजैः कान्दै रसैर्मांसरसेन वा
जीवन्त्युपोदिकाशाकैस्तण्डुलीयकवास्तुकैः 49

अन्यैश्च सृष्टविण्मूत्रमरुद्भिर्वह्निदीपनैः
अर्शांसि भिन्नवर्चांसि हन्याद्वातार्तिसारवत 50

सतक्रं लवणं दद्याद्वातवर्चोऽनुलोमनम
न प्ररोहन्ति गुदजाः पुनस्तक्रसमाहताः 51

तक्राभ्यासोऽशसैः कार्यो बलवर्णाग्निवृद्धये
स्रोतःसु तक्रशुद्धेषु सम्यक् सरति तद्र सः 52

तेन पुष्टिस्तथा तुष्टिर्बलं वर्णश्च जायते
वातश्लेष्मविकाराणां शतञ्च विनिवर्त्तते 53

चिरबिल्वाग्निसिन्धूत्थनागरेन्द्र यवारलु
तक्रेण पिबतोऽशासि निपतन्त्यसृजा सह 54

लेपं रजनिचूर्णेन सुधादुग्धयुतेन च
अर्शोरोगनिवृत्त्यर्थं कारयेत्तु चिकित्सकः 55

पिप्पली सैन्धवं कुष्ठं शिरीषस्य फलं तथा
सुधादुग्धार्कदुग्धं वा लेपोऽय गुदजान हरेत 56

हरिद्रा जालिनीचूर्णं कटुतैलसमन्वितम
एष लेपो वरः प्रोक्तो  ह्यर्शसामन्तकारकः 57

असितानां तिलानान्तु पलं शीतजलेन च
खादतोऽशासिशाम्यन्ति दृढा दन्ता भवन्ति च 58

शस्त्रैर्वाऽथ जलौकाभिः प्रोच्छूनकठिनार्शंसः
शोणितं सञ्चितं दृष्ट्वा हरेत्प्राज्ञः पुनः पुनः 59

काशीसं सैन्धवं कृष्णा शुण्ठी कुष्ठञ्च लाङ्गली
शिलाभिदश्वमारश्च दन्तीजन्तुघ्नचित्रकम 60

तालकं कुनटी स्वर्णक्षीरी चैतैः पचेद्भिषक
तैलं स्नुह्यर्कपयसा गवां मूत्रं चतुर्गुणम 61

एतदभ्यङ्गतोऽशासि क्षारेणेव पतन्ति हि
क्षारकर्मकरं ह्येतन्न च सन्दूषयेद्वलिम 62

शुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्द्धितमूर्ध्वमन्त्यात
खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु 63

त्रिकत्रयं वचा हिङ्गु पाठाक्षारौ निशाद्वयम
चव्यतिक्ताकलिङ्गानि शक्राह्वा लवणानि च 64

ग्रन्थिबिल्वाजमोदाश्च गणोऽष्टाविंशतिर्मतः
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत 65

चूर्णं विडालपदकं पिबेदुष्णेन वारिणा
एरण्डतैलयुक्तं वा लिह्याच्चूर्णमिदं नरः 66

हन्यादर्शांसि सर्वाणि श्वासशोषभगन्दरान
हृच्छूलं पार्श्वशूलञ्च वातगुल्मं तथोदरम 67

हिक्कां कासं प्रमेहांश्च पाण्डुरोगं सकामलम
आमवातमुदावर्त्तमन्त्रवृद्धिं गुदाकृमीन 68

अन्ये च ग्रहणीदोषा भिषग्भिर्ये प्रकीर्त्तिताः
विजयो नाम चूर्णोऽय तान्सर्वानाशु नाशयेत 69

महाज्वरोपसृष्टानां भूतोपहतचेतसाम
अप्रजानाञ्च नारीणां हितमेतद्धि भेषजम 70

मरिचमहौषधचित्रकशूरणभागा यथोत्तरं द्विगुणाः
सर्वसमो गुडभागः सेव्योऽय मोदकः प्रसिद्धफलः 71

ज्वलनं ज्वलयति जाठरमुन्मूलयतीह शूलगुल्मगदान
निःशेषयति श्लीपदमर्शांसि विनाशयत्याशु 72

षोडश शूरणभागा वह्नेरष्टौ महौषधस्यातः
अर्द्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्द्धेन 73

त्रिफला कणा समूला तालीसारुष्करकृमिघ्नानाम
भागा महौषधसमा दहनांशा तालमूली च 74

भागाः शूरणतुल्या दातव्या वृद्धदारकस्यापि
भृङ्गैले मरिचांशे सर्वाण्येकत्र कारयेच्चूर्णम 75

द्विगुणेन गुडेन युतः सेव्योऽय मोदकः प्रकामधनैः
गुरुवृष्यभोजनरतैरितरेषूपद्र वं कुर्यात 76

भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन
भीमस्य मारुतेरपि महाशनौ तेन तौ यातौ 77

अग्निबलवर्णहेतुर्न केवलं शूरणो महावीर्यः
हन्ता शस्त्रक्षारानलैर्विनाऽप्यर्शसामेषः 78

श्वयथुश्लीपदमदहृद् ग्रहणीं च कफानिलोद्भूताम
नाशयति बलीपलितं मेधांकुरुतेजराञ्चहरेत 79

हिक्कां कासं श्वासं च राजरोगं प्रमेहांश्च
प्लीहानं च तथोग्रं हन्त्याशु रसायनं पुंसाम 80

त्रिवृत्तेजोवती दन्ती श्वदंष्ट्रा चित्रकं शटी
गवाक्षी मुस्तविश्वाह्वविडङ्गानि हरीतकी 81

पलोन्मितानि चैतानि पलान्यष्टावरुष्करात
बृद्धदारात् पलान्यष्टौ शूरणस्य तु षोडश 82

जलद्रोणद्वये क्वाथ्यं चतुर्भागावशेषितम
पूतन्तु तं रसं भूयः क्वाथ्येभ्यस्त्रिगुणं गुडम 83

मेलयित्वा पचेत्तावद्यावद्दर्वींप्रलेपनम
अवतार्य ततः पश्चाच्चूर्णानीमानि दापयेत 84

त्रिवृत्तेजोवतीकन्दचित्रकान्द्विपलांशिकान
एलात्वङ्मरिचं चापि नागाह्वाञ्चापि षट्पलम 85

द्वात्रिंशच्च पलान्यत्र चूर्णयित्वा निधापयेत
ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशिनः 86

हन्यादर्शांसि सर्वाणि तथा सर्वोदराण्यपि
गुल्मानपि प्रमेहांश्च पाण्डुरोगं हलीमकम 87

दीपयेदनलं मन्दं यक्ष्माणं चापकर्षति
आढ्यवाते प्रतिश्याये पीनसे च हितो मतः 88

भवन्त्यनेन पुरुषाः शतं वर्षाण्यनामयाः
दीर्घायुषः प्रजनना वलीपलितवर्जिताः 89

गुडः श्रीबाहुशालोऽय रसायनवरो मतः
दुर्नामान्तकरो ह्येष दृष्टो वारसहस्रशः 90

यावद्दर्वीप्रलेपः स्याद् गुडो वा तन्तुमान भवेत
तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः 91

क्षिप्तस्तु निश्चलस्तिष्ठेत्पतितस्तु न शीर्यति
एष पाकः समस्तानां गुडानां परिकीर्त्तितः 92

सार्द्धं पलं पलं चार्द्धं भक्षयेद् गुडखण्डयोः
श्रेष्ठा तु मध्यमा हीना मात्रोक्ता मुनिभिस्त्रिधा 93

तिलभल्लातकैः पथ्या गुडश्चेति समांशकैः
दुर्नामश्वासकासघ्नं प्लीहपाण्डुज्वरापहम 94

पित्तश्लेष्मप्रशमनी कण्डूकुक्षिरुजाऽपहा
गुदजान्नाशयत्याशु भक्षिता सगुडाऽभया 95

प्रणम्य शङ्करं रुद्र दण्डपाणिं महेश्वरम
जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम 96

सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना
चिकित्सामर्शसां नॄणांकारुण्याद्वक्तुमर्हसि 97

नारदस्य वचः श्रुत्वा नराणां हितकाम्यया
अर्शसां नाशनं श्रेष्ठं भैषज्यं शङ्करोऽवदत 98

पाण्ड्यवज्रादिलोहानामादायान्यतमं शुभम
कृत्वा निर्मलमादौ तु कुनट्या माक्षिकेण च 99

पत्तूरमूलकल्केन लिम्पेद्रसयुतेन च
वह्नौ निक्षिप्य विधिवत्साराङ्गारेण निर्द्धमेत 100

ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च
ततो विज्ञान गलितं शङ्कुनोर्ध्वं समुच्छ्रयेत 101

त्रिफलाया रसे पूते तदाकृष्य तु निर्धमेत
न सम्यग्गालितं यत्तु तेनैव विधिना पुनः 102

ध्मातं निर्वापयेत्तस्मिंल्लोहं तत्त्रिफलारसे
यल्लोहं न मृतं तत्तु पाच्यं भूयोऽपि पूर्ववत 103

मारणान्न मृतं यच्च तत्त्यक्तव्यमलोहवत
ततः सशोष्य विधिवच्चूर्णयेल्लोहभाजने 104

लोहेन च तथा पिष्याद् दृषदा सूक्ष्मचूर्णितम
कृत्वा लोहमये पात्रे मार्दे वा लिप्तरन्ध्रके
रसैः पङ्कोपमं कृत्वा तं पचेद्गोमयाग्निना 105

पुटानि क्रमतो दद्यात्पृथगेभिर्विधानतः
त्रिफलाऽद्र कभृङ्गाणां केशराजस्य बुद्धिमान 106

मानकन्दकभल्लातवह्नीनां शूरणस्य च
हस्तिकर्णपलाशस्य कुलिशस्य तथैव च 107

पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम 108

तन्मात्रं त्रिफलायाश्च पलेनाधिकमाहरेत
अष्टभागावशषे तु रसे तस्याः पचेद् बुधः 109

अष्टौ पलानि दत्वा च सर्पिषो लोहभाजने
ताम्रे वा लोहदर्व्या तु चालयेद्विधिपूर्वकम 110

ततः पाकविधानज्ञः स्वच्छे चोर्ध्वं च सर्पिषि
मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः 111

आरम्भे तद्विधानज्ञः कृतकौतुकमङ्गलः
घृतभ्रामरसंयुक्तं विलिह्याद्र क्तिकाक्रमात 112

वर्द्धमानानुपानञ्च गव्यक्षीरोत्तमं मतम
गव्याभावे त्वजायाश्च स्निग्धवृष्यादिभोजनम 113

सद्यो वह्निकरश्चैव भस्मकञ्च नियच्छति
हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम 114

गुल्माक्षिपाण्डुरोगांश्च निद्रा लस्यमरोचकम
शूलञ्च परिणामञ्च प्रमेहमपबाहुकम 115

श्वयथुंरुधिरस्रावं दुर्नामानं विशेषतः
बलकृद् बृंहणञ्चैव कान्तिदं स्वरबोधनम 116

शरीरलाघवकरमारोग्य पुष्टिवर्द्धनम
आयुष्यं श्रीकरञ्चैव बलतेजस्करं शुभम 117

सश्रीकपुत्रजननं वलीपलितनाशनम
दुर्नामारिरयं नाम्ना दृष्टो वारसहस्त्रशः 118

अनेनार्शांसि दह्यन्ते यथा तूलञ्च वह्निना
सौकुमार्याल्पकायत्वान्मद्यसेवी यदा नरः
जीर्णमद्यादियुक्तादिभोजनैः सह दापयेत 119

लावतित्तिरिवर्त्तीर मयूरशशकादयः
चटकः कलविङ्कश्च वर्त्तका हरितालकः 120

श्येनकश्च बृहल्लावो वनविष्किरकादयः
पारावतमृगादीनां मांसं जाङ्गलकं शुभम 121

मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः
मत्स्यराजा इति प्रोक्ता हितमत्स्याय देहिने 122

वृन्ताकस्य फलं शस्तं पटोलं बृहतीफलम
प्रलम्बाभीरुवेत्राग्रताडकं तण्डुलीयकम 123

वास्तूकं धान्यशाकञ्च चित्रकं चक्रमर्दकम
नालिकेरञ्च  खर्जूरं दाडिमं लवलीफलम 124

शृङ्गाटकञ्च पक्वाम्रं द्रा क्षातालफलानि च
जातिकोशं लवङ्गं च पूगं ताम्बूलपत्रकम
हितान्येतानि वस्तूनि लोहमेतत्समश्नताम 125

नाश्नीयाल्लकुचं कोलकर्कन्धूबदराणि च 126

जम्बीरं बीजपूरञ्च तिन्तिडीं करमर्दकम
आनूपानि च मांसानि क्रकरं पुण्ड्रकाणि च 127

हंससारसदात्यूहचाषक्रौञ्चबलाकिकाः
मानकन्दं कसेरूणि करकञ्च कलिङ्गकम 128

कूष्माण्डकञ्च कर्कोटं क्रमुकञ्च विशेपतः
कटुकं कालशाकञ्च कुण्टुरुः कर्कटीं तथा 129

ककारादीनि सर्वाणि द्विदलानि च वर्जयेत 130

शङ्करेण समाख्यातो यक्षराजानुकम्पया
जगतामुपकाराय दुर्नामारिरयं ध्रुवम 131

स्थानाच्चलति मेरुश्च पृथ्वी पर्येति वायुना
पतन्ति चन्द्र ताराश्च मिथ्या चेदहमब्रुवम 132

ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूरा येऽसत्यवादिनः
वर्जनीयाः सधर्मेण भिषजा गुरुनिन्दकाः 133

मुनिरसपिष्टविडङ्ग मुनिरसलीढं चिरस्थितं घर्मे
द्रा वयति लोहदोषान्वह्निर्नवनीतपिण्डमिव 134

कालेमलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्गारे
अङ्गेषु नावसादो मनः प्रसादोऽस्य परिपाके 135

क्रिमिरिपुर्चूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य
क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम 136

भवेद्यद्यतिसारस्तु दुग्धं पीत्वा तु तं जयेत
गुञ्जाद्वादशकादूर्ध्वं वृद्धिरस्य भयप्रदा 137

रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक
दुष्टास्रे निःसृते न स्युः शूलानाहासृगामयाः 138

चन्दनादिक्वाथः

चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः
रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च 139

नवनीततिलाभ्यासात्केशरनवनीतशर्कराऽभ्यासात
दधिसरमथिताभ्यासाद् गुदजाः शाम्यन्ति रक्तवहाः 140

सपद्मकेशरं क्षौद्रं  नवनीतं नवं लिहन
सिताकेशरसंयुक्तं रक्तार्शसि सुखी भवेत 141

पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम
ओदनमद्यादम्लैः शालिश्यामाककोद्रवजम
शशहरिणलावमांसैः कपिञ्जलैरेणमांसैश्च 142

समङ्गोत्पलमोचाकतिरीटोत्पलचन्दनैः
सिद्धं छागीपयो दद्याद् गुदजे शोणितात्मके 143

भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः
बन्धनात्सुदृढं सूत्रं छिनत्त्यर्शो भगन्दरम 144

नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि
त्रिष्वप्यर्शःसु कुर्वीत तत्र तत्र यथोचितम 145

चर्मकीलन्तु संछिद्य दहेत्क्षारेण चाग्निना 146

स्त्रीपृष्ठं वेगरोधं च यानान्युत्कटकासनम
यथास्वं दोषलं चान्नमर्शसः परिवर्जयेत 147

इति पञ्चमोऽशो रोगाधिकारः समाप्तः 5
Related Posts Plugin for WordPress, Blogger...

Follow by Email