Thursday 9 July 2015

अथाष्टाविंशः श्लेष्मव्याध्यधिकारः 28

गुरुमधुररसादि स्निग्धमन्दोदराग्नि
द्र वदधिदिननिद्रा  शीतनिश्चेष्टितानि
प्रथमदिवसभागे भुक्तमात्रे वसन्ते
भवति हि कफरोगो रात्रिभागेपि चाद्ये 1

प्रथमं मुखमाधुर्यं तथैव मुखलिप्तता
मुखप्रसेकश्च तथा निद्रा धिक्यं तथैव च 2

कण्ठे घुर्घुरता चापि कटुकाङ्क्षोष्णकामिता
बुद्धिमान्द्यमचैतन्यमालस्यं तृप्तिरेव च 3

अग्निमान्द्यं मलाधिक्यं मलशौक्ल्यं तथैव च
मूत्राधिक्यं मूत्रशौक्ल्यं शुक्राधिक्यं तथैव च  4

स्तैमित्यं गौरवं शैत्यमेत एव हि विंशतिः
योगतो रूढितः प्रोक्ता मुनिभिः श्लैष्मिका गदाः 5

रुक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमोष्मानलघर्मनस्यवमनं स्वेदोपवासादिकम 6

तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनम
पानाहारविहारभेषजमिदं श्लेष्मामयान संहरेत 7

इत्यष्टाविंशः श्लेष्मव्याध्यधिकारः समाप्तः 28

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।