Saturday, 11 July 2015

भाव प्रकाशः पूर्वखण्डे द्वितीयो भागः तत्र सप्तमं परिभाषादिप्रकरणम 7

सप्तस्वर्थेषु कथितः काकशब्दो विचक्षणैः 2

सर्पद्विरदमेषेषु सीसके नागकेसरे
नागबल्ल्यां नागदन्त्यां नागशब्दः प्रयुज्यते 3

मांसेद्र वे चेक्षुरसे पारदे मधुरादिषु
बोले रागे विषे नीरे रसो नवसु वर्त्तते 4

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे
चतुर्विंशोऽनेकार्थवर्गःसमाप्तः 24 

इति भावप्रकाशे पूर्वखण्डे प्रथमभागे द्रव्यगुणप्रकरणापरनामकं षष्ठं 
मिश्रप्रकरणं समाप्तम 6 समाप्तश्चायं निघण्टुभागः


भाव प्रकाशः 
पूर्वखण्डे द्वितीयो भागः 
तत्र सप्तमं परिभाषादिप्रकरणम 7

न मानेन विना युक्तिर्द्र व्याणां जायते क्वचित
अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया 1

चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः
विहाय सर्वमानानि मागधं मानमुच्यते 2

त्रसरेणुर्बुधैः प्रोक्तस्त्रिशता परमाणुभिः
त्रसरेणुस्तु पर्यायनाम्ना वंशी निगद्यते 3

जालान्तरगतैः सूर्यकरैर्वंशी विलोक्यते
षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका 4

तिसृभी राजिकाभिश्च्न सर्षपः प्रोच्यते बुधैः
यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम 5

षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधानकौ
माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते 6

टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते
क्षुद्र को वटकश्चैव द्र ङ्क्षणः स निगद्यते 7

कोलद्वयन्तुं कर्षः स्यात्स प्रोक्तः पाणिमानिका
अक्षः पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम 8

विडालपदकं चैव तथा षोडशिका मता
करमध्यो हंसपदं सुवर्णं कवलग्रहः 9

उदुम्बरञ्च पर्यायैः कर्षमेव निगद्यते
स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा 10

शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका
प्रकुञ्चः षोडशी बिल्वं पलमेवात्र कीत्तर्यते 11

पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते
प्रसृतिभ्यामञ्जलि स्यात्कुडवोऽद्धशरावकः 12

अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका
शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः 13

शरावाभ्यां भवेत्प्रस्थश्चतुः प्रस्थस्तथाऽढकः
भाजनं कांस्यपात्रं च चतुःषष्टिपलश्च सः 14

चतुर्भिराढकैद्रोर्णः कलशो नल्वणोऽमणः
उन्मानञ्चघटो राशिद्रो र्ण!पर्यायसंज्ञितः 15

द्रोणाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः
शूर्पाभ्याञ्च भवेद् द्रोणी वाहो गोणी च सा स्मृता 16

द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः
चतुःसहस्रपलिका षण्णवत्यधिका च सा 17

पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः
तुलापलशतं ज्ञेयं सर्वत्रैवैष निश्चयः 18

माषटङ्काक्षबिल्वानि कुडवप्रस्थमाढकम
राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम 19

गुञ्जाऽदिमानमारभ्य यावत्स्यात्कुडवस्थितिः
द्रवार्द्र शुष्कद्र व्याणां तावन्मानं समं मतम 20

प्रस्थादिमानमारभ्य द्विगुणं तद द्रवार्द्र योः
मानं तथा तुलायास्तु द्विगुणं न क्वचित्स्मृतम 21

मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम
विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत 22

इति मागधमानं समाप्तम

यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ
अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसंमता 23

यवो द्वादशभिर्गौरसर्षपैः प्रोच्यते बुधैः
यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते 24

माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत्क्वचित
चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च 25

गद्याणो माषकैः षड्भिः कर्षः स्याद्दशमाषकैः
चतुष्कर्षैः पलं प्रोक्तं दशशाणमितं बुधैः 26

चतुष्पलैश्च कुडवः प्रस्थाद्याः पूर्ववन्मताः
स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम 27

प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत
नाल्पं हन्त्यौषधं व्याधिं यथाऽम्भोऽल्प महानलः
अतिमात्रं च दोषाय यथा शस्ये बहूदकम 28

इति कालिङ्गमानं समाप्तम 
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे
प्रथमं मानपरिभाषाख्यं प्रकरणं समाप्तम  1 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।