Sunday, 12 July 2015

अथ नवमो धान्यवर्गः

शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम
शिम्बीधान्यं क्षुद्र धान्यमित्युक्तं धान्यपञ्चकम 1

शालयो रक्तशाल्याद्या व्रीहयः षष्टिकादयः
यवादिकं शूकधान्यं मुद्गाद्यंशिम्बिधान्यकम
कङ्ग्वादिकं क्षुद्र धान्यं तृणधान्यञ्च तत्स्मृतम 2

कण्डनेन विना शुक्ला हैमन्ताः शालयः स्मृताः 3

रक्तशालि सकलमः पाण्डुकः शकुनाहृतः
सुगन्धकः कर्दमको महाशालिश्च दूषकः 4

पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः
दीर्घशूकः काञ्चनको हायनो लोध्रपुष्पकः 5

इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः
ग्रन्थविस्तरभीतेस्ते समस्ता नात्र भाषिताः 6

शालयो मधुरा स्निग्धा बल्या बद्धाल्पवर्चसः
कषाया लघवो रुच्याः स्वर्या वृष्याश्च बृंहणाः
अल्पानिलकफाः शीताः पित्तघ्ना मूत्रलास्तथा 7

शालयो दग्धमृज्जाताः कषाया लघुपाकिनः
सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षणाः 8

कैदारा वातपित्तघ्ना गुरवः कफशुक्रलाः
कषायाश्चाल्पवर्चस्का मेध्याश्चैव बलावहाः 9

स्थलजाः स्वादवः पित्तकफघ्ना वातपित्तदाः
किञ्चित्तिक्ताः कषायाश्च विपाके कटुका अपि 10

वापिता मधुरा वृष्या बल्याः पित्तप्रणाशनाः
श्लेष्मलाश्चाल्पवर्चस्काः कषाया गुरवो हिमाः 11

वापितेभ्यो गुणैः किञ्चिद्धीनाः प्रोक्ता अवापिताः 12

रोपितास्तु नवा वृष्या पुराणा लघवः स्मृताः
तेभ्यस्तुरोपिता भूयः शीघ्रपाका गुणाधिकाः 13

छिन्नरूढा हिमा रूक्षा बल्याः पित्तकफापहाः
बद्धविट्काः कषायाश्च लघवश्चाल्पतिक्तकाः 14

रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित्
चक्षुष्यो मूत्रलः स्वर्यः शुक्रलस्तृड्ज्वरापहः 15

विषव्रणश्वासकासदाहनुद् वह्निपुष्टिदः
तस्मादल्पान्तरगुणाः शालयो महदादयः 16

वार्षिकाः कण्डिताः शुक्ला व्रीहयश्चिरपाकिनः
कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि 17

शालामुखो जतुमुख इत्याद्या व्रीहयः स्मृताः
कृष्णब्रीहिः स विज्ञेयो यत्कृष्णतुषतण्डुलः 18

पाटलः पाटलापुष्पवर्णको ब्रीहिरुच्यते
कुक्कुटाण्डाकृतिव्रीहिः कुक्कुटाण्डक उच्यते 19

शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते
लाक्षावर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः 20

व्रीहयः कथिताः पाके मधुरा वीर्यतो हिमाः
अल्पाभिष्यदिनो बद्धवर्चस्काः षष्टिकैः समाः
कृष्णव्रीहिर्वरस्तेषां तस्मादल्पगुणाः परे 21

गर्भस्था एव ये पाकं यान्ति ते षष्टिका मताः 22

षष्टिकः शतपुष्पश्च प्रमोदकमुकुन्दकौ
महाषष्टिक इत्याद्याः षष्टिकाः समुदाहृताः
एतेऽपि व्रीहयः प्रोक्ता व्रीहिलक्षणदर्शनात् 23

षष्टिका मधुरा शीता लघवो बद्धवर्चसः
वातपित्तप्रशमनाः शालिभिः सदृशा गुणैः 24

षष्टिका प्रवरा तेषां लघ्वी स्निग्धा त्रिदोषजित 25

स्वाद्वी मृद्वी ग्राहिणी च बलदा ज्वरहारिणी
रक्तशालिगुणैस्तुल्या ततः स्वल्पगुणाः परे 26

यवस्तु सितशूकः स्यान्निःशूकोऽतियवः स्मृतः
तोक्यस्तद्वत्स हरितस्ततः स्वल्पश्च कीर्त्तितः 27

यवः कषायो मधुरः शीतलो लेखनो मृदुः
व्रणेषु तिलवत्पथ्यो रूक्षो मेधाऽग्निवर्धनः 28

कटुपाकोऽनभिष्यन्दी स्वर्यो बलकरो गुरुः
बहुवातमलो वर्णस्थैर्यकारी च पिच्छिलः 29

कण्ठत्वगामयश्लेष्मपित्तमेदःप्रणाशनः
पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत
अस्मादतियवो न्यूनस्तोक्यो न्यूनतरस्ततः 30

गोधूमः सुमनोऽपि स्यात्त्रिविधः स च कीर्त्तितः
महागोधूम इत्याख्यः पश्चाद्देशात्समागतः 31

मधूली तु ततः किञ्चिदल्पा सा मध्यदेशजा
निः शूको दीर्घगोधूमः क्वचिन्नन्दीमुखाभिघः 32

गोधूमः मधुरः शीतो वातपित्तहरो गुरुः
कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत्सरः 33

जीवनो बृंहणो वर्ण्यो व्रण्यो रुच्यः स्थिरत्वकृत 34

मधूली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः
शुक्रला वृंहणी पथ्या तद्वन्नन्दीमुखः स्मृतः 35

शमीजाः शिम्बिजाः शिम्बीभवाः सूप्याश्च वैदलाः 36

वैदला मधुरा रूक्षाः कषायाः कटुपाकिनः
वातलाः कफपित्तघ्ना बद्धमूत्रमला हिमाः
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारिणः 37

मुद्गो रूक्षो लघुर्ग्राही कफपित्तहरो हिमः
स्वादुरल्पानिलो नेत्र्! यो ज्वरघ्नो वनजस्तथा 38

मुद्गो बहुविधः श्यामो हरितः पीतकस्तथा
श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो लघुः स्मृतः 39

सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः
चरकादिभिरप्युक्त एष एव गुणाधिकः 40

माषो गुरुः स्वादुपाकः स्निग्धो रुच्योऽनिलापहः
स्रंसनस्तर्पणो बल्यः शुक्रलो वृंहणः परः 41

भिन्नमूत्रमलः स्तन्यो मेदःपित्तकफप्रदः
गुदकीलार्दितश्वासपक्तिशूलानि नाशयेत 42

कफपित्तकरा माषाः कफपित्तकरं दधि
कफपित्तकरा मत्स्या वृन्ताकं कफपित्तकृत 43

राजमाषो महामाषश्चपलश्च बलः स्मृतः
राजमाषो गुरुः स्वादुस्तुवरस्तर्पणः सरः 44

रूक्षो वातकरो रुच्यः स्तन्यो भूरिबलप्रदः
श्वेतो रक्तस्तथा कृष्णस्त्रिविधः स प्रकीर्त्तितः
यो महांस्तेषु भवति स एवोक्तो गुणाधिकः 45

निष्पावो राजशिम्बिः स्याद्वल्लकः श्वेतशिम्बिकः
निष्पावो मधुरो रूक्षो विपाकेऽम्लो गुरुः सरः 46

कषायः स्तन्यपित्तास्रमूत्रवातविबन्धकृत
विदाह्युष्णो विषश्लेष्मशोथहृच्छुक्रनाशनः 47

मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ 48

मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः
वह्निजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः 49

मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका
मसूरो मधुरः पाके संग्राही शीतलो लघुः
कफपित्तास्रजिद्रू क्षो वातलो ज्वरनाशनः 50

आढकी तुवरी चापि सा प्रोक्ता शणपुष्पिका 51

आढकी तुवरा रूक्षा मधुरा शीतला लघुः
ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित 52

चणको हरिमन्थः स्यात्सकलप्रिय इत्यपि
चणकः शीतलो रूक्षः पित्तरक्तकफापहः
लघुः कषायो विष्टम्भी वातलो ज्वरनाशनः 53

स चाङ्गारेण सम्भृष्टस्तैलभृष्टश्च तद्गुणः
आर्द्र भृष्टो बलकरो रोचनश्च प्रकीर्त्तितः 54

शुष्कभृष्टोऽतिरूक्षश्च वातकुष्ठप्रकोपणः
स्विन्नः पित्तकफौ हन्यात् सूपः क्षोभकरो मतः 55

आद्रो र्!ऽतिकोमलो रुच्यः पित्तशुक्रहरो हिमः
कषायो वातलो ग्राही कफपित्तहरो लघुः 56

कलायो वर्त्तुलः प्रोक्तः सतीनश्च हरेणुकः
कलायो मधुरः स्वादुः पाके रूक्षश्च शीतलः 57

त्रिपुटः खण्डिकोऽपि स्यात्कथ्यन्ते तद्गुणा अथ
त्रिपुटो मधुरस्तिक्तस्तुवरो रूक्षणो भृशम 58

कफपित्तहरो रुच्यो ग्राहकः शीतलस्तथा
किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः 59

कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ 60

कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत
लघुर्विदाही वीर्योष्णः श्वासकासकफानिलान 61

हन्ति हिक्काऽश्मरीशुक्रदाहानाहान् सपीनसान
स्वेदसंग्राहको मेदोज्वरकृमिहरः सरः 62

तिलः कृष्णः सितो रक्तः स वन्योऽल्पतिलःस्मृतः
तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः 63

विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत
बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः 64

दन्त्योऽल्पमूत्रकृद् ग्राही वातघ्नोऽग्निमतिप्रदः
कृष्णः श्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः
अन्ये हीनतराः प्रोक्तास्तज्ज्ञै रक्तादयस्तिलाः 65

अतसी नीलपुष्पी च पार्वती स्यादुमा क्षुमा 66

अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरुः
उष्णा दृक्छुक्रवातघ्नी कफपित्तविनाशिनी 67

तुवरी ग्राहिणी प्रोक्ता लघ्वी कफविषास्रजित
तीक्ष्णोष्णा वह्निदा कण्डूकुष्ठकोष्ठकृमिप्रणुत 68

सर्षपः कटुकः स्नेहस्तुन्तुभश्च कदम्बकः
गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते 69

सर्षपस्तु रसे पाके कटुः स्निग्धः सतिक्तकः
तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निवर्धनः 70

रक्षोहरो जयेत्कण्डूं कुष्ठकोष्ठकृमिग्रहान्
यथा रक्तस्तथा गौरः किन्तु गौरो वरो मतः 71

राजीतु राजिका तीक्ष्णगन्धा क्षुज्जनिकाऽसुरी
क्षवः क्षुताभिजनकः कृष्णीका कृष्णसर्षपः 72

राजिका कफपित्तघ्नी तीक्ष्णोष्णा रक्तपित्तकृत
किञ्चित रूक्षाऽग्निदा कण्डूकुष्ठकोष्ठकृमीन्हरेत
अतितीक्ष्णा विशेषेण तद्वत्कृष्णाऽपि राजिका 73

क्षुद्र धान्यं कुधान्यं च तृणधान्यमिति स्मृतम
क्षुद्र धान्यमनुष्णं स्यात्कषायं लघु लेखनम 74

मधुरं कटुकं पाके रूक्षं च क्लेदशोषकम
वातकृद् बद्धविट्कं च पित्तरक्तकफापहम 75

स्त्रियां कङ्गुप्रियङ्गु द्वे कृष्णारक्ता सिता तथा
पीता चतुर्विधा कङ्गुस्तासां पीता वरा स्मृता 76

कङ्गुस्तु भग्नसन्धानवातकृद् बृंहणी गुरुः
रूक्षा श्लेष्महराऽतीव वाजिनां गुणकृद भृशम 77

चीनाकः काककङ्गुश्च सुश्लक्ष्णः श्लक्ष्णकः स्मृतः
चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गुवद गुणैः 78

श्यामाकः श्यामकः श्यामास्त्रिबीजः स्यादविप्रियः
सुकुमारो राजधान्यं तृणबीजोत्तमश्च सः
श्यामाकः शोषणो रूक्षो वातलः कफपित्तहृत 79

कोद्र वः कोरदूषः स्यादुद्दालो वनकोद्र वः
कोद्र वो वातलो ग्राही हिमः पित्तकफापहः
उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम 80

चारुकः शरबीजः स्यात्कथ्यन्ते तद्गुणा अथ
चारुको मधुरो रूक्षो रक्तपित्तकफापहः
शीतलो लघुवृष्यश्च कषायो वातकोपनः 81

यवा वंशभवा रूक्षाः कषायाः कटुपाकिनः
बद्धमूत्राः कफघ्नाश्च वातपित्तकराः सराः 82

कुसुम्भबीजं वरटा सैव प्रोक्ता वरट्टिका 83

वरटा मधुरा स्निग्धा रक्तपित्तकफापहा
कषाया शीतला गुर्वी स्यादवृष्याऽनिलापहा 84

गवेधुका तु विद्वद्भिर्गवेधुः कथिता स्त्रियाम
गवेधुः कटुका स्वाद्वी कार्श्यकृत्कफनाशिनी 85

प्रसाधिका तु नीवारस्तृणान्नमिति च स्मृतम
नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत 86

यावनालो हिमः स्वादुर्लोहितः श्लेष्मपित्तजित
अवृष्यस्तुवरो रूक्षः क्लेदकृत्कथितो लघुः 87

धान्यं सर्वं नवं स्वादु गुरु श्लेष्मकरं स्मृतम
तत्तु वर्षोषितं पथ्यं यतो लघुतरं हि तत 88

वर्षोषितं सर्वधान्यं गौरवं परिमुञ्चति
न तु त्यजति वीर्यं स्वं क्रमान्मुञ्चत्यतः परम 89

एतेषु यवगोधूमतिलमाषा नवा हिताः
पुराणा विरसा रूक्षा न तथा गुणकारिणः 90

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे 
नवमो धान्यवर्गः समाप्तः 9

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।