Sunday 12 July 2015

अथ शाकवर्गः

पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा
शाकं षड्विधमुदृष्टं गुरुं विद्याद्यथोत्तरम 1

प्रायः शाकानि सर्वाणि विष्टम्भीनि गुरूणि च
रूक्षाणि बहुवर्चांसि सृष्टविण्मारुतानि च 2

शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रं वर्णं विनाशयति रक्तमथापि शुक्रम
प्रज्ञाक्षयं च कुरुते पलितं च नूनं हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः3

शाकेषु सर्वेषु वसन्ति रोगास्ते हेतवो देहविनाशनाय
तस्माद् बुधः शाकविवर्जनं तु कुर्यात्तथाऽम्लेषु स एव दोषः 4

वास्तूकं वास्तुकं च स्यात्क्षारपत्रं च शाकराट
तदेव तु बृहत्पत्रं रक्तं स्याद्गौडवास्तुकम 5

प्रायशो यवमध्ये स्याद्यवशाकमतः स्मृतम
वास्तूकद्वितयं स्वादु क्षारं पाके कटूदितम 6

दीपनं पाचनं रुच्यं लघु शुक्रबलप्रदम
सरं प्लीहास्रपित्तार्शः कृमिदोषत्रयापहम 7

पोतक्युपोदिका सा तु मालवाऽमृतवल्लरी
पोतकी शीतला स्निग्धा श्लेष्मला वातपित्तनुत 8

अकण्ठ्या पिच्छिला निद्रा शुक्रदा रक्त पित्तजित
बलदा रुचिकृत्पथ्या बृंहणी तृप्तिकारिणी 9

मारिषो वाष्पको मार्ष श्वेतो रक्तश्च संस्मृतः
मारिषो मधुरः शीतो विष्टम्भी पित्तनुद गुरुः 10

वातश्लेष्मकरो रक्तपित्तनुद् विषमाग्निजित
रक्तमार्षो गुरुर्नाति सक्षारो मधुरः सरः
श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः 11

तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः
भण्डीरस्तण्डुलीबीजो विषघ्नश्चाल्पमारिषः 12

तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित
सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः 13

पानीयतण्डुलीयं तु कञ्चटं समुदाहृतम
कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु 14

पलक्या वास्तुकाकारा छुरिका चीरितच्छदा 15

पलक्या वातला शीता श्मेष्मला भेदिनी गुरुः
विष्टम्भिनी मदश्वासपित्तरक्तकफापहा 16

नाडिकं कालशाकं च श्राद्धशाकं च कालकम
कालशाकं सरं रुच्यं वातकृत्कफशोथहृत
बल्यं रुचिकरं मेध्यं रक्तपित्तहरं हिमम 17

पट्टशाकस्तु नाडीको नाडीशाकश्च स स्मृतः
नाडीको रक्तपित्तघ्नो विष्टम्भो वातकोपनः 18

कलम्बी शतपर्वी च कथ्यन्ते तद्गुणा अथ
कलम्बी स्तन्यदा प्रोक्ता मधुरा शुक्रकारिणी 19

लोणालोणी च कथिता वृहल्लोणी तु घोटिका
लोणी रूक्षा स्मृता गुर्वी वातश्लेष्महरी पटुः 20

अर्शोघ्नी दीपनी चाम्ला मन्दाग्निविषनाशिनी
घोटिकाऽम्ला सराचोष्णा वातकृत्कफपित्तहृत 21

वाग्दोषव्रणगुल्मघ्नी श्वासकासप्रमेहनुत
शोथे लोचनरोगे च हिता तज्ज्ञैरुदाहृता 22

चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाऽम्ललोणिका
अश्मन्तकस्तु शफरी कुशली चाम्लपत्रकः 23

चाङ्गेरी दीपनी रुच्या रुक्षोष्णा कफवातनुत
पित्तलाऽम्ला ग्रहण्यर्शः कुष्ठातीसारनाशिनी 24

चुक्रिका स्यात्तु पत्राम्ला रोचनी शतवेधिनी 25

चुक्रा त्वम्लतरा स्वाद्वी वातघ्नी कफपित्तकृत
रुच्या लघुतरा पाके वृन्ताकेनातिरोचनी 26

चिञ्चा चञ्चुश्चञ्चुकी च दीर्घपत्रा सतिक्तका
चञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा
धातुपुष्टिकरी बल्या मेध्या पिच्छिलका स्मृता 27

ब्राह्मी शङ्खधराऽचारी मत्स्याक्षी हिलमोचिका
शोथं कुष्ठं कफं पित्तं हरते हिलमोचिका 28

शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः
श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी 29

चाङ्गेरीसदृशः पत्रैश्चतुर्दल इतीरितः
शाको जलान्विते देशे चतुष्पत्रीति चोच्यते 30

सुनिषण्णो हिमो ग्राही मेदोदोषत्रयापहः 31

अविदाही लघुः स्वादुः कषायो रूक्षदीपनः
वृष्यो रुच्योज्वरश्वासमेहकुष्ठभ्रम प्रणुत् 32

पाचनं लघु रुच्योष्णं पत्रं मूलकजं नवम
स्नेहसिद्धं त्रिदोषघ्नमसिद्धं कफपित्तकृत 33

द्रोणपुष्पीदलं स्वादु रूक्षं गुरु च पित्तकृत
भेदनं कामलाशोथमेहज्वरहरं कटु 34

यवानीशाकमाग्नेयं रुच्यं वातकफप्रणुत्
उष्णं कटु च तिक्तं च पित्तलं लघु शूलहृत 35

दद्रुघ्नपत्रं दोषघ्नमम्लं वातकफापहम
कण्डूकासक्रिमिश्वासदद्रुकुष्ठप्रणुल्लघु 36

सेहुण्डस्य दलं तीक्ष्णं दीपनं रेचनं हरेत
आध्मानाष्ठीलिकागुल्मशूलशोथोदराणि च 37

पर्पटो हन्ति पित्तास्रज्वरतृष्णाकफभ्रमान
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः 38

गोजिह्वा कुष्ठमेहास्रकृच्छ्रज्वरहरी लघुः 39

पटोलपत्रं पित्तघ्नं दीपनं पाचनं लघु
स्निग्धं वृष्यं तथोष्णं च ज्वरकासक्रिमिप्रणुत 40

गुडूचीपत्रमाग्नेयं सर्वज्वरहरं लघु
कषायं कटुतित्तं च स्वादुपाकं रसायनम 41

बल्यमुष्णं च संग्राहि हन्याद्दोषत्रयं तृषाम
दाहप्रमेहवातासृक्कामलाकुष्ठपाण्डुताः 42

कासमर्दोऽरिमर्दश्च कासारिः कर्कशस्तथा
कासमर्ददलं रुच्यं वृष्यं कासविषास्रनुत 43

मधुरं कफवातघ्नं पाचनं कण्ठशोधनम
विशेषतः कासहरं पित्तघ्नं ग्राहकं लघु 44

रुच्यं चणकशाकं स्याद् दुर्जरं कफवातकृत
अम्लं विष्टम्भजनकं पित्तनुदृन्तशोथहृत 45

कलायशाकं भेदि स्याल्लघु तिक्तं त्रिदोषजित 46

कटुकं सार्षपं शाकं बहुमूत्रमलं गुरु
अम्लपाकं विदाहि स्यादुष्णं रूक्षं त्रिदोषकृत
सक्षारलवणं तीक्ष्णं स्वादु शाकेषु निन्दितम 47

अगस्तिकुसुमं शीतं चातुर्थिकनिवारणम
नक्तान्ध्यनाशनं तिक्तं कषायं कटुपाकि च
पीनसश्लेष्मपित्तघ्नं वातघ्नं मुनिभिर्मतम 48

कदल्याः कुसुमं स्निग्धं मधुरं तुवरं गुरु
वातपित्तहरं शीतं रक्तपित्तक्षयप्रणुत 49

शिग्रोः पुष्पं तु कटुकं तीक्ष्णोष्णं स्नायुशोथनुत
कृमिहृत्कफवातघ्नं विद्र धिप्लीहगुल्मजित
मधु शिग्रोस्त्वक्षिहितं रक्तपित्तप्रसादनम 50

शाल्मलीपुष्पशाकं तु घृतसैन्धवसाधितम
प्रदरं नाशयत्येव दुःसाध्यं च न संशयः 51

रसे पाके च मधुरं कषायं शीतलं गुरु
कफपित्तास्रजिद ग्राहि वातलं च प्रकीर्त्तितम 52

इति पुष्पशाकानि

अथ फलशाकानि

कूष्माडं स्यात्पुष्पफलं पीतपुष्पं बृहत्फलम 53

कूष्माण्डं बृंहणं वृष्यं गुरु पित्तास्रवातनुत
बालं पित्तापहं शीतं मध्यमं कफकारकम 54

बृद्धंनातिहिमं स्वादु सक्षारं दीपनं लघु
बस्तिशुद्धिकरं चेतोरोगहृत्सर्वदोषजित 55

कूष्माण्डी तु भृशं लघ्वी कर्कारुरपि कीर्त्तिता
कर्कारुग्राहिणी शीता रक्तपित्तहरा गुरुः
पक्वा तिक्ताऽग्निजननी सक्षारा कफवातनुत 56

अलाबूः कथिता तुम्बी द्विधा दीर्घा च वर्तुला 57

मिष्टतुम्बीफलं हृद्यं पित्तश्लेष्मापहं गुरु
वृष्यं रुचिकरं प्रोक्तं धातु पुष्टिविवर्धनम 58

इक्ष्वाकुः कटुतुम्बी स्यात्सा तूम्बी च महाफला
कटुतुम्बी हिमा हृद्या पित्तकासविषापहा
तिक्ता कटुर्विपाके च वातपित्तज्वरान्तकृत 59

एर्वारुः कर्कटी प्रोक्ता कथ्यन्ते तद्गुणा अथ 60

कर्कटी शीतला रूक्षा ग्राहिणी मधुरा गुरुः
रुच्या पित्तहरा सामा पक्वा तृष्णाऽग्निपित्तकृत 61

चिचिण्डः श्वेतराजिः स्यात्सुदीर्घो गृहकूलकः
चिचिण्डो वातपित्तघ्नो बल्यः पथ्यो रुचिप्रदः
शोषणोऽतिहितः किञ्चिद् गुणैर्न्यूनः पटोलतः 62

कारवेल्लं कटिल्लं स्यात्कारवेल्ली ततोलघुः
कारवेल्लं हिमं भेदि लघुतिक्तमवातलम 63

ज्वरपित्तकफास्रघ्नं पाण्डुमेहकृमीन् हरेत
तद्गुणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः 64

महाकोशातकी प्रोक्ता हस्तिघोषा महाफला 65

धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः
महाकोशातकीस्निग्धा रक्तपित्तानिलापहा 66

धामार्गवः पीतपुष्पो जालिनी कृतवेधना
राजकोशातकी चेति तथोक्ता राजिमत्फला 67

राजकोशातकी शीता मधुरा कफवातकृत
पितघ्नी दीपनी श्वासज्वरकासकृमिप्रणुत 68

पटोलः कुलकस्तिक्तः पाण्डुकः कर्कशच्छदः
राजीफलः पाण्डुफलो राजेयश्चामृतफलः 69

बीजगर्भः प्रतीकश्च कुष्ठहा कासभञ्जनः
पटोलं पाचनं हृद्यं वृष्यं लघ्वग्निदीपनम
स्निग्धोष्णं हन्ति कासास्रज्वरदोषत्रयक्रिमीन 70

पटोलस्य भवेन्मूलं विरेचनकरं सुखात 71

नालं श्लेष्महरं पत्रं पित्तहारी फलं पुनः
दोषत्रयहरं प्रोक्तं तद्वतिक्ता पटोलिका 72

बिम्बी रक्तफला तुण्डी तुण्डीकेरी च बिम्बिका
ओष्ठोपमफला प्रोक्ता पीलुपर्णी च कथ्यते 73

बिम्बीफलं स्वादु शीतं गुरु पित्तास्रवातजित
स्तभनं लेखनं रुच्यं विबन्धाध्मानकारकम् 74

शिम्बिः शिम्बी पुस्तशिम्बी तथा पुस्तकशिम्बिका
शिम्बीद्वयं च मधुरं रसे पाके हिमं गुरु
बल्यं दाहकरं प्रोक्तं श्लेष्मलं वातपित्तजित 75

कोलशिम्बिः कृष्णफला तथा पर्यङ्कपट्टिका 76

कोलशिम्बिः समीरघ्नी गुर्व्युष्णा कफपित्तकृत
शुक्राग्निसादकृत वृष्या रुचिकृद बद्धविड गुरुः 77

शोभाञ्जनफलं स्वादु कषायं कफपित्तनुत्
शूलकुष्ठक्षयश्वासगुल्महृद दीपनं परम 78

वृन्ताकं स्त्री तु वार्त्ताकुर्भण्टाकी भाण्टिकाऽपि च
वृन्ताकं स्वादु तीक्ष्णोष्णं कटुपाकमपित्तलम
ज्वरवातबलासघ्नं दीपनं शुक्रलं लघु 79

तद्बालं कफपित्तघ्नं वृद्धं पित्तकरं गुरु 80

वृन्ताकं पित्तलं किञ्चिदङ्गारपरिपाचितम
कफमेदोऽनिलामघ्नमत्यर्थं लघु दीपनम 81

तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम
अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भवेत
तदर्शःसु विशेषेण हितं हीनं च पूर्वतः 82

डिण्डिशो रोमशफलो मुनिनिर्मित इत्यपि 83

डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः
सुशीतो वातलो रूक्षो मूत्रलश्चाश्मरीहरः 84

पिण्डारं शीतलं बल्यं पित्तघ्नंरुचिकारकम
पाके लघु विशेषेण विषशान्तिकरं स्मृतम 85

कर्कोटकी पीतपुष्पा महाजालीति चोच्यते
कर्कोटी मलहृत्कुष्ठहृल्लासारुचिनाशिनी
श्वासकासज्वरान्हन्ति कटुपाका च दीपनी 86

डोडिका विषमुष्टिश्च डोडित्यपि सुमुष्टिका 87

डोडिका पुष्टिदा वृष्या रुच्या वह्निप्रदा लघुः
हन्ति पित्तकफार्शांसि कृमिगुल्मविषामयान 88

कण्टकारीफलं तिक्तं कटुकं दीपनं लघु
रूक्षोष्णं श्वासकासघ्नं ज्वरानिलकफापहम 89

इति फल शाकानि

तीक्ष्णोष्णं सार्षपं नालं वातश्लेष्मव्रणापहम
कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम 90

इति नालशाकानि

अथ कन्दशाकानि

सूरणः कन्द ओलश्च कन्दलोऽशोघ्न इत्यपि
सूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः 91

विष्टम्भी विशदो रुच्यः कफार्शः कृन्तनो लघुः
विशेषादर्शसे पथ्यः प्लीहगुल्मविनाशनः 92

सर्वेषां कन्दशाकानां सूरणः श्रेष्ठ उच्यते
दद्रू णां कुष्ठिनां रक्तपित्तिनां न हितो हि सः
सन्धानयोगं सम्प्राप्तः सूरणो गुणवत्तरः 93

आरूकं वीरसेनञ्च वीरं वीरारुकं तथा
आरुकमप्यालुकं तत्कथितं वीरसेनकम 94

काष्ठालुकशङ्खालुकहस्त्यालुकानि कथ्यन्ते
पिण्डालुकमघ्वालुक रक्तालुकानि चोक्तानि 95
आलुकं शीतलं सर्वं विष्टम्भि मधुरं गुरु 96

सृष्टमूत्रमलं रूक्षं दुर्जरं रक्तपित्तनुत
कफानिलकरं बल्यं वृष्यं स्वल्पाग्निवर्द्धनम 97

रक्तालुभेदो या दीर्घा तन्वी च प्रथिताऽलुकी
आलुकी बलकृत्स्निग्धा गुर्वी हृत्कफनाशिनी
विष्टम्भकारिणी तैले तलिताऽतिरुचिप्रदा 98

मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम
शालामर्कटकं विस्रं शालेयं मरुसम्भवम 99

चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका
नेपालमूलकं चान्यत्तद्भवेद्गजदन्तवत 100

लघुमूलं कटूष्णं स्याद्रुच्यं लघु च पाचनम
दोषत्रयहरं स्वर्यं ज्वरश्वासविनाशनम 101

नासिकाकण्ठरोगघ्नं नयनामयनाशनम 102

महत्तदेव रूक्षोष्णं गुरु दोषत्रयप्रदस
स्नेहसिद्धं तदेव स्याद् दोषत्रयविनाशनम 103

गृञ्जनं गाजरं प्रोक्तं तथा नारङ्गवर्णकम
गाजरं मधुरं तीक्ष्णं तिक्तोष्णं दीपनं लघु
संग्राहि रक्तपित्तार्शोग्रहणीकफवातजित 104

शीतलः कदलीकन्दो बल्यः केश्योऽम्लपित्तजित
वह्निकृद्दाहहारी च मधुरो रुचिकारकः 105

मानकः स्यान्महापत्रः कथ्यन्ते तद्गुणा अथ
मानकः शोथहृच्छीतो रक्तपित्तहरो लघुः 106

वाराही पित्तला बल्या कट्वी तिक्ता रसायनी
आयुःशुक्राग्निकृन्मेहकफकुष्ठानिलापहा 107

गजकर्णा तु तिक्तोष्णा तथा वातकफाञ्जयेत
शीतज्वरहरी स्वादुः पाके तस्यास्तु कन्दकः 108

पाण्डुशोथकृमिप्लीहगुल्मानाहोदरापहः
ग्रहण्यर्शोविकारघ्नी वनसूरणकन्दवत 109

केमुकं कटुकं पाके तिक्तं ग्राहि हिमं लघु 110
दीपनं पाचनं हृद्यं कफपित्तज्वरापहम
कुष्ठकासप्रमेहास्रनाशनं वातलं कटु 111

कसेरु द्विविधं तत्तु महद्रा जकसेरुकम्
मुस्ताकृति लघु स्याद्यत्तच्चिचोढमिति स्मृतम 112

कसेरुकद्वयं शीतं मधुरं तुवरं गुरु
पित्तशोणितदाहघ्नं नयनामयनाशनम
ग्राहि शुक्रानिलश्लेष्मारुचिस्तन्यकरं स्मृतम 113

पद्मादिकन्दः शालूकं करहाटश्च कथ्यते 114

मृणालमूलं भिस्साण्डं जलालूकञ्च कथ्यते
शालूकं शीतलं वृष्यं पित्तदाहास्रनुद गुरु 115

दुर्जरं स्वादुपाकश्च स्तन्यानिलकफप्रदम्
संग्राहि मधुरं रूक्षं भिस्साण्डमपि तद्गुणम 116

बालं ह्यनार्त्तवं जीर्णं व्याधितं कृमिभक्षितम
कन्दं विवर्जयेत्सर्वं यद्वाऽग्न्यादिविदूषितम
अतिजीर्णमकालोत्थं रूक्षसिद्धमदेशजम 117

कर्कशं कोमलं चातिशीतव्यालादिदूषितम
संशुष्कं सकलं शाकं नाश्नीयान्मूलकं विना 118

इति कन्द शाकानि

उक्तं संस्वेदजं शाकं भूमिच्छत्रं शिलीन्ध्रकम
क्षितिगोमयकाष्ठेषु वृक्षादिषु तदुद्भवेत 119

सर्वे संस्वेदजाः शीता दोषलाः पिच्छिलाश्च ते
गुरवश्छर्द्यतीसारज्वरश्लेष्मामयप्रदाः 120

श्वेताशुचिस्थलीकाष्ठवंशगोमयसम्भवाः
नातिदोषकरास्ते स्युः शेषास्तेभ्यो विगर्हिताः 121

इति श्रीलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिस्रप्रकरणे
दशमः शाकवर्गं समाप्तः 10

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।