Friday, 10 July 2015

अथ द्वाविंश उन्मादाधिकारः 22

मदयन्तयुद्धता दोषा यस्मादुन्मार्गमाश्रिताः
मानसोऽयमतो व्याधिरुन्माद इति कीर्ततितः 1

स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्तति च 2

विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमा च चेष्टा 3

एकैकशः सर्वशश्च दोषैरतयर्थमूर्च्छितैः
मानसेन च दुःखेन स पञ्चविध उच्यते
विषाद्भवति षष्ठश्च यथास्वं ततर भेषजम 4

तैरल्पसततवस्य  मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्तयाशु नरस्य चेतः 5

धीविभ्रमः सततवपरिप्लवश्च पर्याकुला दृष्टिरधीरता च
अबद्धवाक्यं हृदयञ्च शून्यं सामान्यमुन्मादगदस्य लिङ्गम 6

रुक्षाल्पशीतान्नविरेकधातुक्ष योपवासैरनिलोऽतिवृद्धः
चिन्ताऽदिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम 7

अस्थानहास्यस्मितनृतयगीतवा गङ्गविक्षेपणरोदनानि
 पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलञ्चानिलजस्य रूपम 8

अजीर्णकट्वम्लविदाहशीतैर्भोज्यैश्चितं पिततमुदीर्णवेगम
उन्मादमतयुग्रमनातमकस्य हृदि स्थितं पूर्ववदाशु कुर्यात 9

अमर्षसंरम्भविनग्नभावाः सन्तर्जनाभिद्र वणौष्ण्यरोषाः
प्रच्छायशीतान्नजलाभिलाषा पीता च भा पिततकृतस्य लिङ्गम 10

सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः
बुद्धिं स्मृतिञ्चाप्युपहन्ति चिततं प्रमोहयन्सञ्जनयेद्विकारम 11

वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा
छर्दिश्च लाला च बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफातमके स्यात 12

यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स तु हेतुभिः स्यात
सर्वाणि रूपाणि बिभर्तति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः 13

चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यैर्वितरासितस्य धनबान्धवसंक्षयाद्वा
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोतकटतरो मनसो विकारः 14

चितरं ब्रवीति च मनोऽनुगतं विसंज्ञो गायतयथो हसति रोदिति चातिमूढः 15

रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः श्यावाननो विषकृते तु भवेतपरासुः 16

अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः
जागरूको ह्यसन्देहमुन्मादेन विनश्यति 17

अमततर्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादियुक्तः
प्रकोपकालो नियतश्च यस्य देवादिजन्मा मनसो विकारः 18

सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रो ऽप्यवितथसंस्कृतप्रभाषी
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः 19

संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टातमा भवति स देवशतरुजुष्टः 20

हृष्टातमा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
नृतयन्वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः 21

ताम्राक्षः प्रियतनुरक्तवस्तरधारी गम्भीरो द्रुतगतिरल्पवाक्सहिष्णुः
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः 22

प्रेतानां स दिशति संस्तरेषु पिण्डाञ् शान्तातमा जलमपि चापसव्यवस्तरः
मांसेप्सुस्तिलगुडपायसाभिलाषी तद्भक्तो भवति पितृग्रहाभिजुष्टः 23

यस्तूर्व्यां प्रसरति सर्पवतकदाचित सृक्किण्यौ मुहुरपि जिह्वयाऽवलेढि  
क्रोधालुर्घृतमधुदुग्धपायसेप्सुर्विज्ञेयः स खलु भुजङ्गमेन जुष्टः 24

मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
क्रोधालुर्विविधबलो निशाविहारी शौचद्विड् भवति स राक्षसैर्गृहीतः 25

देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः
आतमपीडाकरोऽहिस्रो ब्रह्मराक्षससेवितः 26

उद्बस्तरः कृशपरुषो विरुद्धभाषी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः
बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टंस्तरसति रुदन्पिशाचजुष्टः 27

स्थूलाक्षो द्रुतमटनः सफेनवामी निद्रा लुः पतति च कम्पते च योऽति
यश्चाद्रि द्विरदनगादिविच्युतः स्यातसोऽसाध्यो भवति तथा तरयोदशेऽब्दे 28

देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ 29

पितरः कृष्णपक्षे च पञ्चम्यामपि चोरगाः
रक्षःपिशाचा रातरौ च चतुर्दश्यां विशन्ति हि 30

वातिके स्नेहपानं प्राग्विरेकः पिततसम्भवे
कफजे वमनं कार्यं परो वस्तयादिकः क्रम
यच्चोपद्रे क्ष्यते किञ्चिदपस्मारे चिकितसितम
उन्मादे तच्च कर्ततव्यं सामान्याद्  दोषदूष्ययोः 31

जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा
रक्षेदुन्मादिनं यतनातसद्यः प्राणहरं हि तत 32

ब्राह्मीकूष्माण्डीफलषड्ग्रन्थाशङ्खपुष्पिकास्वरसाः
दृष्टा उन्मादहृतः पृथगेते कुष्ठमधुमिश्राः 33

सिद्धार्थको हिङ्गु वचा करञ्जो देवदारु च
मञ्जिष्ठा तरिफला श्वेता कटभी तवक कटुतरयम 34

समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम
बस्तमूतरेण पिष्टोऽयमगदः पानमञ्जनम 35

नस्यमालेपनञ्चैव स्नानमुद्वर्ततनं तथा
अपस्मारविषोन्मादकृतयाऽलक्ष्मीज्वरापहम 36

भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते
सर्पिरेतेन संसिद्धं सगोमूतरं तदर्थकृत 37

ब्रूयादिष्टविनाशञ्च दर्शयेदद्भुतानि च
बद्धं सर्षपतैलाक्तं रक्षेदुततानमातपे 38

कपिकच्छ्वाऽथ वा तप्तैर्लोहतैलजलैः स्पृशेत
कशाभिस्ताडयेततं वा सुबद्धं विजने गृहे 39

सर्पेणोद्धृतदंष्ट्रेण  दशेतसिंहैर्गजैश्च तम
तरासयेच्छस्तरहस्तैश्च शतरुभिस्तस्करैस्तथा 40

अथवा राजपुरुषा बहिर्नीतवा सुसंयतम
तरासयेयुर्वधैरेनं तर्जयन्तो नृपाज्ञया 41

देहदुःखभयेभ्यो हि यतः प्राणभयं भवेत
ततस्तस्य शमं याति सर्वतो विप्लुतं मनः 42

इष्टद्र व्यविनाशेन मनो यस्याभिहन्यते
तस्य ततसदृशप्राप्तया ज्ञातवाऽश्वासैः शमं नयेत 43

तर यूषणं हिङ्गु लवणं वचा कटुकरोहिणी
शिरीषस्य करञ्जस्य बीजं गौराश्च सर्षपाः 44

गोमूतरपिष्टैरेभिस्तु वर्तिर्नेतराञ्जने हिता
हन्तयुन्मादमपस्मारं तथा चातुर्थकं ज्वरम  45

कुष्ठाश्वगन्धे लवणाजमोदे द्वेजीरके तरीणि कटूनि पाठा
मङ्गल्यपुष्पी च समान्यमूनि सर्वैः समानाञ्च वचां विचूर्ण्य 46

ब्राह्मीरसेनाखिलमेव भाव्यं वारतरयं शुष्कमिदं हि चूर्णम
अक्षप्रमाणं मधुना घृतेन लिह्यान्नरः सप्त दिनानि चूर्णम 47

सारस्वतमिदं चूर्णं ब्रह्मणा निर्मितं पुरा
हिताय सर्वलोकानां दुर्मेधानां विचेतसाम 48

एतस्याभ्यासतः पुंसां बुद्धिर्मेधा धृतिः स्मृतिः
सम्पततिः कविताशक्तिः प्रवर्द्धेतोततरोततरम 49

विश्वाऽजमोदरजनीद्वयसैन्धवोग्रायष्ट्याह्वकुष्ठमगधोद्भवजीरकाणाम
चूर्णं प्रभातसमये लिहतः ससर्पिर्वाग्देवता निवसति स्वयमेव वक्तरे 50

क्वाथे विचूर्णिते क्षिप्तवा ततषोडशगुणं जलम
पादशेषं प्रकर्ततव्यमेष क्वाथविधिः स्मृतः 51

दशमूली तथा रास्ना वातारिस्तरिवृता बला
मूर्वा शतावरी चेति क्वाथैस्तु कुडवैः पृथक 52

कृतैः क्वाथैर्घृतप्रस्थद्वयं मृद्वग्निना पचेत
कल्कीकृतैर्वक्ष्यमाणद्र व्यैः सम्यक् पुनः पचेत 53

विशाला त्रिफला कौन्ती देवदार्वेलवालुकम
स्थिराऽनन्ता रजन्यौ द्वे प्रियङ्गुः सारिवाद्वयम 54

नीलोतपलैला मञ्जिष्ठा दन्ती दाडिमकेसरम
विडङ्गं ह्यग्निपतरी च कुष्ठं चन्दनपद्मके 55

तालीशपतरं बृहती मालतीकुसुमं नवम
अष्टाविंशतिभिः कल्कैरेतैः कर्षमितैः पृथक 56

चतुर्गुणं जलं दतवा पिष्टैस्तद्विपचेद् घृतम
महाचैतसनामेदं सर्वचेतोविकारनुत 57

अपस्मारे महोन्मादे मन्देऽग्नौ ज्वरकासयोः
वातरक्ते प्रतिश्याये शोषे कार्श्ये तृतीयके 58

म्रूतरकृच्छ्रे कटीशूले विसर्पाभिहतेषु च
पाण्ड्वामये तथा कण्ड्वां विषे मेहे गरेऽपि च 59

देवादिहतचिततानां गद्गदानामचेतसाम
शस्तं स्तरीणाञ्च वन्ध्यानां धन्यमायुर्बलप्रदम 60

अलक्ष्मी पापरक्षोध्नं सर्वग्रहनिवारणम
हन्ति भ्रमं मदं मूर्च्छां मेधास्मृतिमतिप्रदम 61

पूजाबल्युपहारेष्टिहोममन्तराञ्जनादिभिः
जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक 62

कृष्णामरिचसिन्धूतथमधुगोरोचनाकृतम
अञ्जनं सर्वदेवादिकृतोन्मादहरं परम 63

ॠक्षजम्बुकलोमानि शल्लकी लशुनं तथा
हिङ्गु मूतरञ्च बस्तस्य धूममस्य प्रयोजयेत
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः 64

कल्याणकञ्च युञ्जीत महद् वा चैतसं घृतम
तैलं नारायणं वाऽथ महानारायणं तथा 65

ॠते पिशाचादन्येषु प्रतिकूलं न वाऽचरेत
रोगिणंभिषजं यतते क्रुद्धा हन्युर्महौजसः 66

इति द्वाविंश उन्मादाधिकारः समाप्तः 22
Related Posts Plugin for WordPress, Blogger...

Follow by Email