Sunday 12 July 2015

अथ घृतवर्गः

घृतमाज्यं हविः सर्पिः कथ्यन्ते तद्गुणा अथ
घृतं रसायनं स्वादु चक्षुष्यं वह्निदीपनम 1

शीतवीर्यविषालक्ष्मीपापपित्तानिलापहम
अल्पाभिष्यन्दि कान्त्योजस्तेजोलावण्यवृद्धिकृत 2

स्वरस्मृतिकरं मेध्यमायुष्यं बलकृद्गुरु
उदावर्त्तज्वरोन्मादशूलानाहव्रणान हरेत
स्निग्धं कफकरं रक्षःक्षयवीसर्परक्तनुत 3

गव्यं घृतं विशेषेण चक्षुष्यं वृष्यमग्निकृत
स्वादु पाककरं शीतं वातपित्तकफापहम 4

मेधालावण्यकान्त्योजस्तेजोवृद्धिकरं परम
अलक्ष्मीपापरक्षोघ्नं वयसः स्थापकं गुरु 5

बल्यं पवित्रमायुष्यं सुमङ्गल्यं रसायनम
सुगन्धं रोचनं चारु सर्वाज्येषु गुणाधिकम ६

माहिषन्तु घृतं स्वादु पित्तरक्तानिलापहम
शीतलं श्लेष्मलं वृष्यं गुरु स्वादु विपच्यते 7

आजमाज्यं करोत्यग्निं चक्षुष्यं बलवर्द्धनम
कासे श्वासे क्षये चापि हितं पाके भवेत कटु 8

औष्ट्रं कटु घृतं पाके शोषकृमिविषापहम
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम 9

पाके लघ्वाविकं सर्पिः सर्वरोगविनाशनम 10

वृद्धिं करोति चास्थ्नां वा अश्मरीशर्कराऽपहम
चक्षुष्यमग्निसंधुक्ष्यं वातदोषनिवारणम 11

कफेऽनिले योनिदोषे पित्ते रक्ते च तद्धितम
चज्ञुष्यमाज्यं स्त्रीणां वा सर्पिः स्यादमृतोपमम 12

वृद्धिं करोति देहाग्नेर्लघु पाके विषापहम
तर्पणं नेत्ररोगघ्नं दाहनुद वडवाघृतम 13

घृतं दुग्धभवं ग्राहि शीतलं नेत्ररोगहृत
निहन्ति पित्तदाहास्रमदमूर्च्छाभ्रमानिलान 14

हविर्ह्यस्तनदुग्धोत्थं तत्स्याद्धैयङ्गवीनकम
हैयङ्गवीनं चक्षुष्यं दीपनं रुचिकृत्परम
बलकृद बृंहणं वृष्यं विशेषाज्ज्वरनाशनम 15

बर्षादूर्ध्वं भवेदाज्यं पुराणं तत् त्रिदोषनुत
मूर्च्छाकुष्ठविषोन्मादापस्मारतिमिरापहम 1६

यथा यथा ऽखिलं सर्पिः पुराणमधिकं भवेत
तथा तथा गुणैः स्वैः स्वैरधिकं तदुदाहृतम 17

योजयेन्नवमेवाज्यं भोजने तर्पणे श्रमे
बलक्षये पाण्डुरोगे कामलानेत्ररोगयोः 18

राजयक्ष्मणि बाले च वृद्धे श्लेष्मकृते गदे 19

रोगे सोमे विषूच्याञ्च विबन्धे च मदात्यये
ज्वरे च दहने मन्दे न सर्पिर्बहु मन्यते 20

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे
मिश्रप्रकरणेऽष्टादशो घृतवर्गः समाप्तः  18 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।