Tuesday, 7 July 2015

अथ द्विषष्टितमः शिरोरोगाधिकारः 62

शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः
सन्निपातेन रक्तेन क्षयेण कृमिभिस्तथा 1

सूर्यावर्त्तानन्तवातशङ्ख कार्द्धावभेदकाः
एकादशविधस्यास्य लक्षणानि प्रचक्षते 2

यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम
बन्धोपतापैः प्रशमो भवेच्च शिरोऽभितापः स समीरणेन 3

यस्योष्णमङ्गारचितं यथैव भवेच्छिरो दह्यति चाक्षिनासम
शीतेन रात्रौ च भवेच्छ्रमश्च शिरोऽभितापः स तु पित्तकोपात 4

शिरो भवेद् यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च
शूनाक्षिनासावदनञ्च यस्य शिरोऽभितापः स कफप्रकोपात 5

शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति 6

रक्तात्मकः पित्तसमावलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च 7

वसाबलासक्षतसम्भवानां शिरोगतानामतिसङ्क्षयेण
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति 8

अङ्गं भ्रमति तुद्येत शिरो विभ्रान्तनेत्रता
मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मके 9

निस्तुद्यते यस्य शिरोऽतिमात्रं सम्भक्ष्यमाणं स्फुरतीव चान्तः
घ्राणाच्च गच्छेद्रुधिरं सपूयं  शिरोऽभितापः कृमिभिः स घोरः 10

सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवौ रुक् समुपैति गाढम
विवर्द्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्त्तते च 11

शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाद्वा
सर्वात्मकं कष्टतमं विकारं सूर्यापवर्त्तं तमुदाहरन्ति 12

दोषास्तु दुष्टास्त्रय एव मन्यां सम्पीड्य गाढं स्वरुजां सुतीव्राम
कुर्वन्ति योऽक्ष्णि भ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु  13

गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजान्विकारान
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम 14

पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः
तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम 15

स शिरो विषवद्वेगान्निरुध्याशु गलं तथा
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः
त्र्! यहं जीवति भैषज्यं प्रत्याख्यायास्य कारयेत 16

रूक्षाशनाद्यध्यशनप्राग्वातावश्यमैथुनैः
वेगसन्धारणायासव्यायामैः कुपितोऽनिलः 17

केवलः सकफो वाऽद्ध गृहीत्वा शिरसो बली
मन्याभ्रूशङ्खकर्णाक्षिललाटार्द्धेषु वेदनाम 18

शस्त्राशनिनिभां कुर्यात्तीव्रां सोऽद्धावभेदकः
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत 19

वातजातशिरोरोगे स्नेहस्वेदं विघर्षणम
पानाहारोपनाहांश्च कुर्याद्वातामयापहान 20

कुष्ठमेरण्डमूलञ्च नागरं तक्रपेषितम
कदुष्णं शिरसः पीडां भाले लेपनतो हरेत 21

रसः श्वासकुठारो यस्तस्य नस्यं विशेषतः
शिरः शूलं हरत्येव विधेयो नात्र संशयः 22

आ शिरो व्यायतं चर्म षोडशाङ्गुलमुच्छ्रितम
तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत 23

निश्चलस्योपविष्टस्य तैलैः कोष्णैः प्रपूरयेत
धारयेदारुजः शान्तेर्यामंयामार्द्धमेव वा 24

शिरोवस्तिर्हरत्येष शिरोरोगं मरुद्भवम
हनुमन्याऽक्षिकर्णार्त्तिमर्दितं मूर्द्धकम्पनम 25

विना भोजनमेवैष शिरोवस्तिः प्रयुज्यते
दिनानि पञ्च वा सप्त रुचितोऽग्रे ततोऽपि  च 26

ततोऽपनीतस्नेहस्तु मोचयेद्वस्तिबन्धनम
शिरोललाटवदनं ग्रीवांऽसादीन्विमर्दयेत 27

सुखोष्णेनाम्भसा गात्रं प्रक्षाल्याश्नाति यद्धितम
आमिषं जाङ्गलं पथ्यं तत्र शाल्यादयोऽपि च 28

मुद्गमाषान्कुलत्थांश्च खादेद्वा निशि केवलान
कटुकोष्णान्ससर्पिष्कानुष्णं क्षीरं पिबेत्तथा 29

पित्तात्मके शिरोरोगे शीतानां चन्दनाम्भसा
कुमुदोत्पलपद्मानां स्पर्शाः सेव्याश्च मारुताः 30

सर्पिषः शतधौतस्य शिरसा धारणं हितम
रसः श्वासकुठारोऽल्प कर्पूरः कुङ्कुमं नवम 31

सिता छागीपयः सर्वं चन्दनेनानुघर्षयेत
तस्य नस्यं भिषग्दद्यात्पित्तजायां शिरोरुजि
किन्तु मस्तकशूलेषु सर्वेष्वेवं हितं मतम 32

गुडनागरकल्कस्य नस्यं मस्तकशूलनुत 33

रक्तजे पित्तवत्सर्वं भोजनालेपसेचनम
शीतोष्णयोश्च विन्यस्य विशेषो रक्तमोक्षणम 34

कफजे लङ्घनं स्वेदो रूक्षोष्णैः पावकात्मकैः
सन्निपातभवे कार्या सन्निपातहरी क्रिया
पुराणसर्पिषः पानं विशेषेण दिशन्ति हि 35

एरण्डमूलं तगरं शताह्वा जीवन्तिका रास्निकसैन्धवं च
भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम 36

अजापयस्तैलविमिश्रितञ्च चतुर्गुणं भृङ्गरसे विपक्वम
षड्बिन्दवो नासिकया प्रदेयाः सर्वान्निहन्युः शिरसो विकारान  37

च्युतांश्च केशान्पलितांश्च दन्तान्निर्बन्धमूलान्सुदृढीकरोति
सुपर्णगृध्रप्रतिमञ्च चक्षुः कुर्वन्ति बाह्वोरधिकं बलञ्च 38

क्षयजे क्षयनाशाय कर्त्तव्यो बृंहणो विधिः
पाने नस्ये च सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम 39

कृमिजे व्योषनक्ताह्वशिग्रुबीजैश्च नावनम
अजामूत्रयुतं नस्यं कर्त्तव्यं कृमिनुत्परम 40

सूर्यावर्त्ते विधातव्यं नस्यकर्मादि भेषजम 41

कुमार्याः स्वरसप्रस्थे धत्तूरस्य रसे तथा
भृङ्गराजस्य च रसे प्रस्थद्वयसमायुते 42

चतुःप्रस्थमिते क्षीरे तैलप्रस्थं विपाचयेत
कल्कैर्मधुकह्रीबेरमञ्जिष्ठा  भद्र मुस्तकैः 43

नखकर्पूरभृङ्गैलाजीवन्ती पद्मकुष्ठकैः
मार्कवासकतालीस सर्जनिर्यासपत्रकैः 44

विडङ्गशतपुष्पाऽश्व गन्धागन्धर्वहस्तकैः
शोथहृन्नारिकेलाभ्यां कर्षमानैर्विपाचिते 45

उत्तार्य वस्त्रपूतं तु शुभे भाण्डे सुधूपिते
त्रिरात्रमथ गुप्तञ्च धारयेद्विधिवद्भिषक 46

ततस्तु तैलमभ्यङ्गे मूर्ध्नि क्षेपे नियोजयेत
शमयेदर्दितं गाढं मन्यास्तम्भशिरोगदान 47

तालुनासाऽक्षिजातन्तु शोषं मूर्च्छां हलीमकम
हनुग्रहगदार्त्तिं वा बाधिर्यं कर्णवेदनाम 48

योजयेत्सगुडं सर्पिर्घृतपूरांश्च भक्षयेत
नावनं क्षीरसर्पिर्भ्यां पानञ्च क्षीरसर्पिषोः 49

क्षीरपिष्टैस्तिलैः स्वेदो जीवनीयैश्च शस्यते
भृङ्गराजरसश्छागी क्षीरतुल्योऽकतापितः
सूर्यावर्त्तं निहन्त्याशु नस्येनैव प्रयोगराट 50

अर्द्धावभेदके पूर्वं स्नेहस्वेदौ हि भेषजम
विरेकः कायशुद्धिश्च धूपः स्निग्धोष्णभोजनम 51

विडङ्गानि तिलान्कृष्णान्समान्पिष्टान्विलेपयेत
नस्यञ्चाप्याचरेत्तस्मादर्द्धभेदो व्यपोहति 52

पिबेत्सशर्करं क्षीरं नीरं वा नारिकेलजम
सुशीतं वाऽपि पानीयं सर्पिर्वा नस्यतस्तयोः 53

अनन्तवाते कर्त्तव्यः सूर्यावर्तहितो विधिः
शिरावेधश्च कर्त्तव्योऽनन्तवातप्रशान्तये 54

आहारश्च प्रदातव्यो वातपित्तविनाशनः
मधुमस्तकसंयावो घृतपूपो विशेषतः 55

पथ्याऽक्षधात्रीरजनीगुडूचीभूनिम्बनिम्बैःसगुडः कषायः
भ्रूशङ्खकर्णाक्षिशिरोऽद्धशूलं निहन्ति नासानिहितः क्षणेन 56

दार्वीः हरिद्रा  मञ्जिष्ठा सनिम्बोशीरपद्मकम
एतत्प्रलेपनं कुर्याच्छङ्खकस्य प्रशान्तये 57

शीततोयाभिषेकश्च शीतलक्षीरसेवनम
कल्पश्च क्षीरवृक्षाणां शङ्खके लेपनंहितम 58

यष्टीमधुकमाषः स्यात्तुर्यांशं तु विषं भवेत
तयोश्चूर्णं सुसूक्ष्मं स्यात्तच्चूर्णं सर्षपोन्मितम 59

नासिकाऽभ्यन्तरे न्यस्तं सर्वां शीर्षव्यथांहरेत
दृष्टप्रयोगो योगोऽयमनुभाविभिरादृतः 60

आद्र रं! यच्छुक्तिकाचूर्णं चूर्णितं नवसादरम
उभयं योजितं तस्य गन्धान्नश्यति शीर्षरुक 61

इति द्विषष्टित्तमः शिरोरोगाधिकारः समाप्तः 62  

Related Posts Plugin for WordPress, Blogger...

Follow by Email