Thursday, 9 July 2015

अथ मध्यखण्डम तृतीयो भागः अथ तरिंशः शूलाधिकारः 30

दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः 1

व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात
कलायमुद्गाढकिकोरदूषादतयर्थरुक्षाध्यशनाभिघातात 2

कषायतिक्तातिविरुढजान्नविरुद्धवल्लूरकशुष्कशाकैः
विट्छुक्रमूतरानिलसन्निरोधाच्छोकोपवासादतिहास्यभाषात 3

वायुः प्रवृद्धो जनयेद्धि शूलं हृतपृष्ठपार्श्वतरिकवस्तिदेशे
जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम 4

मुहुर्मुहुश्चोपशमप्रकोपौ विण्मूतरसंस्तमभनतोदभेदैः
संस्वेदनाभ्यञ्जनमर्दनाद्यैःस्निग्धोष्णभोज्यैश्च शमं प्रयाति 5

कफपिततावरुद्धस्तु मारुतो रसवर्द्धितः
हृदयस्थः प्रकुरुते शूलमुच्छ्वासरोधकम
सहृच्छूल इति ख्यातो रसमारुतकोपजः 6

कफं निगृह्य पवनः सूचीभिरिव निस्तुदन
पार्श्वस्थः पार्श्वयोः शूलं कुर्यादाध्मानसंयुतम 7

तेनोच्छ्वसिति वक्तरेण नरोऽन्नञ्च न काङ्क्षति
निद्रा ञ्च नाप्नुयादेव पार्श्वशूलः पकीर्ततितः 8

संरोधातकुपितोवायुर्बस्तिं संश्रितय तिष्ठति 9

बस्तेरध्वनि नाडीषु ततः शूलोऽस्य जायते
विण्मूतरवातसंरोधी बस्तिशूलः स उच्यते 10

क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलतथयूषैः
कट्वमलसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः 11

ग्रामयातियोगादशनैर्विदग्धैः पिततं प्रकुप्याथ करोति शूलम
तृण्मोहदाहार्ततिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम 12

मध्यन्दिने कुप्यति चार्द्धरातरे निदाघकाले जलदातयये च
शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च 13

आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः
अन्यैर्बलासजनकैरपिहेतुभिश्च श्लेष्मा प्रकोपमुपगमय करोतिशूलम 14

हृल्लासकाससदनारुचिसमप्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुतवैः
भुक्ते सदैव हि रुजं कुरुतेऽतिमातरं सूर्योदयेऽथ शिशिरे कुसुमागमे च 15

द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम 16

सर्वेषु देशेषु च सर्वलिङ्गं विद्याद्भिषक्सर्वभवं हि शूलम
सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः 17

आटोपहृल्लासवमीगुरुतवस्तैमितयकानाहकफप्रसेकैः
कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति 18

वातातमकं वस्तिगतं वदन्ति पिततातमकञ्चापि वदन्ति नाभ्याम
हृतपार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्निपातात 19

बस्तौ हृतकटिपार्श्वेषु स शूलः कफवातिकः
कुक्षौ हृन्नाभिमध्ये तु स शूलः कफपैततिकः
दाहज्वरकरो घोरो विज्ञेयो वातपैततिकः 20

अतिमातरं यदा भुक्तं पावके मृदुतां गते
स्थिरीकृतन्तु ततकोष्ठे वायुरावृतय तिष्ठति 21

यदाऽन्न न गतं पाकं तच्छूलं कुरुते भृशम
मूर्च्छाध्मानविदाहांश्च हृतक्लेशं सविलमबिकम 22

कमपं वान्तिमतीसारं प्रमोहं जनयेदपि
अविपाकोद्भवं शूलमेतमाहुर्मनीषिणः 23

वेदनातितृषा मूर्च्छा आनाहो गौरवारुची
कासः श्वासो वमिर्हिक्का शूलास्योपद्र वाः स्मृताः 24

एकदोषानुगः  साध्यः कृच्छ्रसाध्यो द्विदोषजः
सर्वदोषान्वितो घोरस्तवसाध्यो भूर्युपद्र वः 25

वेदनातितृषामूर्च्छा आनाहो गौरवं ज्वरः 26

भ्रमो रुचिः कृशतवञ्च बलहानिस्तथैव च
उपद्र वा दशैवैते यस्य शूलेषु नास्ति सः 27

स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा
कफपितते समावृतय शूलकारी भवेद बली
भुक्ते जीर्यति यच्छूलं तदेव परिणामजम 28

तस्य लक्षणमप्येततसमासेनाभिधीयते 29

आध्मानाटोपविण्मूतरविबन्धारतिवेपनैः
स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक 30

तृष्णादाहारतिस्वेदकट्वमललवणोततरम
शूलं शीतशमप्रायं पैततिकं लक्षयेद बुधः 31

छर्दिहृल्लाससंमोहस्वल्परुग्दीर्घसन्तति
कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफातमकम 32

संसृष्टलक्षणं  बुद्ध्वा द्विदोषं परिकल्पयेत
तरिदोषजमसाध्यं स्यातक्षीणमांसबलानलम 33

जीर्णे जीर्यति चाप्यन्ने यच्छूलमुपजायते
पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा
न शमं याति नियमातसोऽन्नद्र व उदाहृतः 34

वमनं लङ्घनं स्वेदः पाचनं फलवर्ततयः
 क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलशान्तये 35

विज्ञाय वातशूलन्तु स्नेहस्वेदैरुपाचरेत
स्वल्पशूलाकुलस्य स्यातस्वेद एव सुखावहः 36

मृततिकां सजलां पाकाद्घनीभूतां पटे क्षिपेत
कृतवा ततपोट्टलद्यं शूली यथास्वेदं विधारयेत 37

कार्पासास्थिकुलतथ कैस्तिलयवैरेरण्डमूलातसी
वर्षाभूशणबीजकाञ्जिकयुतैरेकीकृतैर्वा पृथक 38

स्वेदः स्यादथ कूर्परोदरशिरः स्फिग्जानुपादाङ्गुली
गुल्फस्कन्धकटीरुजो विजयते निःशेषवातार्ततिहा 38

तिलैश्च गुटिकां कृतवा भ्रामयेज्जठरोपरि 39

शूलं सुदुस्तरं तेन शान्तिं गच्छति सतवरम
नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम 40

विश्वमेरण्डजं मूलं क्वाथयितवा जलं पिबेत
हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम 41

पुंसः शूलाभिपन्नस्य स्वेद एव सुखावहः
पायसैः कृशरैः पिण्डैः स्निग्धैर्वा पिशितोतकरैः 42

वातातमकं हन्तयचिरेण शूलं स्नेहेन युक्तस्तु कुलतथयूषः
ससैन्धवव्योषयुतः सलावः सहिङ्गुसौवर्चलदाडिमाढ्यः 43

बलापुनर्नवैरण्ड बृहतीद्बयगोक्षुरैः
सहिङ्गुलवणोपेतं सद्यो वातरुजापहम 44

तुमबुरुण्यभया हिङ्गु पौष्करं लवणतरयम
पिबेदुष्णामबुनां वापि शूलगुल्मापतन्तरकी 45

यवानीहिङ्गुसिन्धूतथ क्षारसौवर्चलाभयाः
सुरामण्डेन पातव्या वातशूलनिषूदनाः 46

सौवर्चलामलिकाजा जीमरिचैर्द्विगुणोततरैः
मातुलुङ्गरसैः पिष्ट्वा गुटिका वातशूलनुत 47

बीजपूरकमूलं च घृतेन सह पाययेत
जयेद्वातभवं शूलं कर्षमेकं प्रमाणतः 48

गुडः शालिर्यवक्षारः सर्पिष्पानं विरेचनम
जाङ्गलानि च मांसानि भेषजं पिततशूलिनाम 49

मणीरजततामराणां भाजनानि गुरूणि च
तोयेन परिपूर्णानि शूलस्योपरि धारयेत 50

विरेचनं पिततहरं प्रशस्तं रसाश्च शस्ताः शशलावकानाम
सगुडां घृतसंयुक्तां भक्षयेद्वा हरीतकीम
प्रलिह्याच्छूलशान्तयर्थं धातरीचूर्णं समाक्षिकम 51

शाल्यन्नं जाङ्गलं मांसमरिष्टं कटुकंरसम
मधुना जीर्णगोधूमं कफशूले प्रयोजयेत 52

लवणतरयसंयुक्तं पञ्चकोलं सरामठम
सुखोष्णेनामबुना पीतं कफशूलं प्रणाशयेत 53

आमशूले क्रिया कार्या कफशूलप्रणाशिनी
सेव्यमामहरं सर्वमग्नेर्मन्दस्य वर्द्धनम 54

तीक्ष्णायाश्चूर्णसंयुक्तं तरिफलाचूर्णमुततमम
प्रयोज्यं मधुसर्पिभ्यां सर्वशूलनिवारणम 55

दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः
अमलपिष्टैः सुखोष्णैश्च लिमपेच्छूलयुतोदरम 56

मूलं बैल्वं तथैरण्डं चितरकं विश्वभेषजम
हिङ्गुसैन्धवसंयुक्तं सद्यः शूलनिवारणम 57

कूष्माण्डं तनु कृतवा तु क्षिप्तवा घर्मे विशोषयेत
स्थाल्यां निक्षिप्य ततसर्वं पिधानेन पिधाय च 58

चुल्ल्यां निवेश्य वह्निञ्च ज्वालयेतकुशलो जनः
यथा तन्न भवेद्भस्म किन्तवङ्गारो दृढो भवेत 59

तदा निर्वापयेच्छीतं सर्वथा चूर्णितं तु तत
माषद्वयमितं तावच्छुण्ठीचूर्णेन मिश्रितम 60

जलेन भक्षयेन्नितयं महाशूलाकुलो नरः
असाध्यमपि यच्छूलं तदप्येतेन शामयति 61

लङ्घनं प्रथमं कुर्याद्वमनं सविरेचनम
पक्तिशूलोपशान्तयर्थं ततर वान्तेर्विधिर्यथा 62

पीतवा तु क्षीरमाकण्ठं मदनक्वाथसंयुतम
कान्तारकस्य पौण्ड्रस्य कोशकारस्य वा रसम 63

कषायो वाऽथ निमबस्य कटुतुमबीरसोऽथवा
यथाविधि वमेद्धीमान्पक्तिशूलार्दितो जनः 64

तरिवृता च तथा दन्तया तैलेनैरण्डजेन वा
दततं विरेचनं सद्यः पक्तिशूलनिवारणम 65

विडङ्गतण्डुलव्योषतरिवृद्दन्ती सचितरका
सर्वाण्येतानि संहृतय सूक्ष्मचूर्णानि कारयेत 66

गुडेन मोदकान्कृतवा खादेदुष्णेन वारिणा
जयेततरिदोषजं शूलं परिणामसमुद्भवम 67

नागरतिलगुडकल्कं पयसा समपिष्य यः पुमांल्लिह्यात
उग्रं परिणतिशूलं नश्येततस्य तरिरातरेण 68

पीतं शमबूकजं भस्म जलेनोष्णेन ततक्षणात
पक्तिजं नाशयतयेव शूलं विष्णुरिवासुरान 69

लौहपथ्याकणाशुण्ठीचूर्णं समधुसर्पिषा
विलिहन्विनिहन्तयेव शूलं हि परिणामजम 70

नारिकेलं सतोयं च लवणेन सुपूरितम
मृदाऽववेष्टितं शुष्कं पक्वं  गोमयवह्निना 71

पिप्पल्या भक्षितं हन्ति शूलं हि परिणामजम
वातिकं पैततिकञ्चापि श्लैष्मिकं सान्निपातिकम 72

अन्नद्र वाख्ये शूले तु न तावतस्वास्थ्यमश्नुते
यावतकटुकपिततामलमन्नं न च्छर्दयेद द्रवम 73

जातमातरे जरतपितते शूलमाशु विनाशयेत
पिततान्तं वमनं कृतवा कफान्तञ्च विरेचनम 74

अन्नद्र वे च ततकार्यं जरतपितते यदीरितम
जरतपिततेऽपि ततपथ्यं प्रोक्तमन्नद्र वे तु यत 75

आमपक्वाशये शुद्धे गच्छेदन्नद्र वः शमम 76

माषेण्डरीं सलवणां सुस्विन्नां तैलपाचिताम
तादृशीं सर्पिषा खादेदन्नद्र वनिपीडितः 77

धातरीफलभवं चूर्णमयश्चूर्णसमन्वितम
यष्टीचूर्णेन वा युक्तं लिह्यातक्षौद्रे ण तद्गदे 78

श्यामाकतण्डुलैः सिद्धं सिद्धं कोद्र वतण्डुलैः
प्रियङ्गुतण्डुलैः सिद्धं पायसं सहितं हितम 79

गौडिकं शौरणं कन्दं कूष्माण्डमपि भक्षयेत
कलाययवसक्तून्वा सक्तून्वा लाजसमभवान् 80

गोधूममण्डकं ततर सर्पिषा गुडसंयुतम
ससितं शीतदुग्धेनं मृदितं क्वथितं हितम 81

अन्नद्र वो दुश्चिकितस्यो दुर्विज्ञेयो महागदः
तस्माततस्य प्रशमने परं यतनं समाचरेत 82

अन्नद्र वे जरतपितते वह्निर्मन्दो भवेद्यतः
तस्मादतरान्नपानानि मातराहीनानि कारयेत 83

कलाययवगोधूमाः श्यामाकाः कोरदूषकाः
राजमाषाश्च माषाश्च कुलतथाः कङ्गुशालयः 84

दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहितम
वास्तूकं कारवेल्ली च कर्कोटकफलानिच  85

बर्हिणो हरिणा मतस्या रोहिताद्याः कपिञ्जलाः
एतस्मिन्नामये शस्ता मता मुनिचिकितसकैः 86

गुडामलकपथ्यानां चूर्णं प्रतयेकशः पलम
तरिपलं लोहकिट्टस्य ततसर्वं मधुसर्पिषा 87

समालोड्य समश्नीयादक्षमातरप्रमाणतः
आदिमध्यावसानेषु भोजनस्य निहन्ति तत 88

अन्नद्र वं जरतपिततममलपिततं सुदारुणम
परिणामसमुतथञ्च शूलं संवतसरोतथितम 89

व्यायामं मैथुनं मद्यं लवणं कटुकं रसम
वेगरोधं शुचं क्रोधं द्विदलं शूलवांस्तयजेत 90

इति तरिंशः शूलाधिकारोऽथवा शूलपरिणामशूलान्नद्र वजरतपितताधिकारः समाप्तः 30
Related Posts Plugin for WordPress, Blogger...

Follow by Email