Saturday 11 July 2015

अथ तृतीयो ज्वरातिसाराधिकारः 3

ज्वरातिसारयोरुक्तं निदानं यत्पृथक्पृथक
तस्माज्ज्वरातिसारस्य निदानं नोदितं पुनः 1

ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्पृथक
न तन्मिलितयोः कार्यमन्योऽन्य वर्धयेद्यतः 2

अतस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैः 3

लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजंबलिनः
समुदीर्णदोषनिचयं तत्पाचयेत्तथा शमयेत 4

लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु
उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम 5

पृश्निपर्णीबला बिल्वधनिकानागरोत्पलैः
ज्वरातिसारयोर्वाऽपि पिबेत्साम्लं शृतं नरः 6

कणाकरिकणालाजक्वाथो मधुसितायुतः
पीतो ज्वरातिसारस्य तृष्णामाशु विनाशयेत 7

नागरातिविषामुस्ताऽमृताभूनिम्बवत्सकैः
क्वाथः सर्वज्वरान्हन्ति चातिसारं सुदारुणम 8

गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दबालकैः
पाठाभूनिम्बकुटजचन्दनोशीरपर्पटैः 9

पिबेत्कषायं सक्षौद्रं  ज्वरातीसारनाशनम
हृल्लासारुचितृड्दाहवमीनाञ्च निवृत्तये 10

उत्पलं दाडिमत्वक्च पद्मकेशरमेव च
पीतं तण्डुलतोयेन ज्वरातीसारनाशनम 11

बिल्वबालकभूनिम्बगुडूचीमुस्तवत्सकैः
कषायःपाचनःशोथज्वरातीसारनाशनः 12

नागरातिविषाबिल्वगुडूचीमुस्तवत्सकैः
कषायः पाचनः शोथज्वरातीसारनाशनः 13

दशमूलीकषायेण विश्वमक्षसमां पिबेत
ज्वरे चैवातिसारे च सशोथे ग्रहणी गदे 14

इति तृतीयाज्वरातिसारः समाप्तः 3

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।