Sunday 12 July 2015

अथैकादशो मांसवर्गः

मासं तु पिशितं क्रव्यमामिषं पललं पलम
मांसं वातहरं सर्वं बृंहणं बलपुष्टिकृत
प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः 1

मांसवर्गो द्विधा ज्ञेयो जाङ्गलानूपभेदतः 2

मांसवर्गेऽत्र जङ्घाला बिलस्थाश्च गुहाशयाः
तथा पर्णमृगा ज्ञेया विष्किराः प्रतुदस्तथा 3

प्रसहा अथ च ग्राम्या अष्टौ जाङ्गलजातयः
जाङ्गला मधुरा रूक्षास्तुवरा लघवस्तथा 4

बल्यास्ते बृंहणं वृष्या दीपना दोषहारिणः
मूकतां मिन्मिनत्वं च गद्गदत्वार्दिते तथा 5

बाधिर्य्यमरुचिच्छर्दिप्रमेहमुखजान् गदान
श्लीपदं गलगण्डञ्च नाशयत्यनिलामयान 6

कूलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा
मत्स्या एते समाख्याताः पञ्चधाऽनूपजातयः 7

अनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः
श्लेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशम
तथाऽभिष्यन्दिनस्ते हि प्रायः पथ्यतमाः स्मृताः 8

हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः 9

राजीवोऽपि च मुण्डी चेत्याद्या जङ्घालसंज्ञकाः
हरिणस्ताम्रवर्णः स्यादेणः कृष्णः प्रकीर्त्तितः 10

कुरङ्गईषत्ताम्रः स्यादेणतुल्याकृतिर्महान
ऋष्यो नीलाङ्गको लोके स रोझ इति कीर्त्तितः 11

पृषतश्चन्द्र बिन्दुः स्याद्धरिणात्किञ्चिदल्पकः
न्यङ्कुर्बहुविषाणोऽथ शम्बरो गवयो महान 12

राजीवस्तु मृगो ज्ञेयो राजिभिः परितोवृतः
यो मृगः शृङ्गहीनः स्यात्स मुण्डीति निगद्यते 13

जङ्घालाः प्रायशः सर्वे पित्तश्लेष्महराः स्मृतः
किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः 14

गोधाशशभुजङ्गाखुशल्लक्याद्या बिलेशयाः
बिलेशया वातहरा मधुरा रसपाकयोः
बृंहणा बद्धविण्मूत्रा वीर्योष्णाश्च प्रकीर्त्तिताः 15

सिंहव्याघ्रवृका ॠक्षतरक्षुद्वीपिनस्तथा
बभ्रुजम्बूकमार्जारा इत्याद्याः स्युर्गुहाशयाः 16

गुहाशया वातहरा गुरूष्णा मधुराश्च ते
स्निग्धा बल्या हिता नित्यं नेत्र गुद विकारिणाम 17

अथ पर्णमृगाः विऋ!क्षॐ पर चढने वाले प्राणीइ!  तेषां गणनां
वनौका वृक्षमार्जारो वृक्षमर्कटिकाऽदयः
एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः 18

स्मृताः पर्ण मृगा वृष्याश्चक्षुष्या शोषिणे हिताः
श्वासार्शः कास शमनाः सृष्ट मूत्र पुरीषकाः 19

वर्त्तका लाववर्त्तीरकपिञ्जलकतित्तिराः
कुलिङ्गकुक्कुटाद्याश्च विष्किरा समुदाहृताः 20

विकीर्य भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः
कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरिः 21

विष्किरा मधुराः शीताः कषायाः कटुपाकिनः
बल्या वृष्यास्रिदोषघ्नाः पथ्यास्ते लघवः स्मृताः 22

कालकण्ठकहारीतकपोतशतपत्रकाः
पारावतः खञ्जरीटः पिकाद्याः प्रतुदाः स्मृताः
प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः 23

प्रतुदा मधुराः पित्तकफघ्नास्तुवरा हिमाः
लघवो बद्धवर्चस्काः किञ्चिद्वातकराःस्मृताः 24

काको गृध्र उलूकश्च चिल्लश्च शशघातकः
चाषो भासश्च कुरर इत्याद्याः प्रसहाः स्मृताः 25

प्रसहाः कीर्त्तिता एते प्रसह्याच्छिद्य भक्षणात 26

प्रसहाः खलु वीर्योष्णास्तन्मांसं भक्षयन्ति ये
ते शोषभस्मकोन्मादशुक्रक्षीणा भवन्ति हि 27

छागमेषवृषाश्वाद्या ग्राम्याः प्रोक्ता महर्षिभिः
ग्राम्या वातहराः सर्वे दीपनाः कफपित्तलाः
मधुरा रसपाकाभ्यां बृंहणा बलवर्द्धनाः 28

लुलायगण्डवाराहचमरीवारणादयः
एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यपाम 29

कूलेचरा मरुत्पित्तहरा वृष्या बलावहाः
मधुराः शीतलाः स्निग्धामूत्रलाः श्लेष्म वर्धना 30

हंससारसकारण्डबकक्रौञ्चशरारिकाः 31

नन्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः
प्लवन्ति सलिले यस्मादेते तस्मात्प्लवाः स्मृताः 32

प्लवाः पित्तहराः स्निग्धा मधुरा गुखो हिमाः
वात श्लेष्म प्रदाश्चापि बल शुक्र कराः सराः 33

शङ्खः शङ्खनखश्चापिशुक्तिशम्बूककर्कटाः
जीवा एवंविधाश्चान्येकोशस्थाः परिकीर्त्तिताः 34

कोशस्था मधुराःस्निग्धा वातपित्तहरा हिमाः
बृंहणा बहुवर्चस्का वृष्याश्च बलवर्द्धनाः 35

कुम्भीरकूर्मनक्राश्च गोधामकरशङ्कव
घण्टिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः 36

पादनोऽपि च ये तेतु कोशस्थानां गुणैः समाः 37

मत्स्यो मीनो विसारश्च झषो वैसारिणोऽण्डजः
शकुली पृथुरोमा च स सुदर्शन इत्यपि 38

रोहिताद्यास्तु ये जीवास्ते मत्स्याः परिकीर्त्तिताः
मत्स्याः स्निग्धोष्णमधुरा गुरवः कफपित्तलाः 39

वातघ्ना बृंहणा वृष्या रोचका बलवर्द्धनाः
मद्यव्यवायसक्तानां दीप्ताग्नीनाञ्च पूजिताः 40

हरिणः शीतलो बद्धविण्मूत्रो दीपनो लघुः
रसे पाके च मधुरः सुगन्धिः सन्निपातहा 41

एणः कषायो मधुरः पित्तासृक्कफवातहृत
संग्राही रोचनो बल्यो ज्वरप्रशमनः स्मृतः 42

कुरङ्गो बृंहणो बल्यः शीतलः पित्तहृद गुरुः
मधुरो वातहृद् ग्राही किञ्चित्कफकरः स्मृतः 43

ऋष्यो नीलाण्डकश्चापि गवयो रोझ इत्यपि
गवयो मधुरो बल्यः स्निग्धोष्णः कफपित्तलः 44

पृषतस्तु भवेत्स्वादुर्ग्राहकः शीतलो लघुः
दीपनो रोचनः श्वासज्वरदोषत्रयास्रजित 45

न्यङ्कुः स्वादुर्लघुर्बल्यो वृष्यो दोषत्रयापहः 46

साबरं पललं स्निग्धं शीतलं गुरु च स्मृतम
रसे पाके च मधुरं कफदं रक्तपित्तहृत 47

राजीवस्तु गुणैर्ज्ञेयः पृषतेन समो जनैः 48

मुण्डी तु ज्वरकासास्रक्षयश्वासापहो हिमः 49

लम्बकर्णः शशः शूली लोमकर्णो बिलेशयः
शशः शीतो लघुर्ग्राही रूक्षः स्वादुः सदा हितः
वह्निकृत्कफपित्तघ्नो वातसाधारणः स्मृतः
ज्वरातीसारशोषास्रश्वासामयहरश्च सः 50

सेधा तु शल्यकः श्वावित्कथ्यन्ते तद्गुणा अथ
शल्यकः श्वासकासास्रशोषदोषत्रयापहः 51

पक्षी खगो विहङ्गश्च विहगश्च विहङ्गमः
शकुनिर्विः पतत्री च विष्किरो विकिरोऽण्डजः
धान्याङ्कुरचरा येऽत्र तेषां मांसं लघूत्तमम्
आनूपं बलकृन्मांसं स्निग्धं गुरुतरं स्मृतम 52

वर्तीको वर्त्तकश्चित्रस्ततोऽन्या वर्त्तका स्मृता
वर्त्तकोऽग्निकरः शीतो ज्वरदोषत्रयापहः
सुरुच्यः शुक्रदो बल्यो वर्त्तकाऽल्पगुणा ततः 53

लावा विष्करवर्गेषु ते चतुर्धा मता बुधैः 54

पांशुलोगौरकोऽन्यस्तु पौण्ड्रको दर्भरस्तथा
लावा वह्निकराः स्निग्धा  गरघ्ना ग्राहका हिताः 55

पांशुलः श्लेष्मलस्तेषु वीर्योऽष्णोनिलनाशनः
गौरोलघुतरो रूक्षो वह्निकारी त्रिदोषजित 56

पौण्ड्रकः पित्तकृत्किञ्चिल्लघुर्वातकफापहः
दर्भरो रक्तपित्तघ्नो हृदामयहरो हिमः 57

वर्त्तीको वर्त्तिचटको वार्त्तीकश्चैव स स्मृतः
वर्त्तीको मधुरः शीतो रूक्षश्च कफपित्तनुत 58

तित्तिरिः कृष्णवर्णः स्यात्स तु गौरः कपिञ्जलः
तित्तिरिर्बलदो ग्राही हिक्कादोषत्रयापहः
श्वासकासज्वरहरस्तस्माद्गौरोऽधिको गुणैः 59

चटकः कलविङ्कः स्यात्कुलिङ्गः कालकण्ठकः 60

कुलिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफप्रदः
सन्निपातहरो वेश्मचटकश्चातिशुक्रलः 61

कुक्कुटः कृकवाकुः स्यात्कालज्ञश्चरणायुधः
ताम्रचूडस्तथा दक्षो यामनादी शिखण्डिकः 62

कुक्कुटो बृंहणः स्निग्धो वीर्योष्णोऽनिलहृद गुरुः
चक्षुष्यः शुक्रकफकृद् बल्यो वृष्यः कषायकः 63

आरण्यकुक्कुटः स्निग्धो बृंहणः श्लेष्मलो गुरुः
वातपित्तक्षयवमिविषमज्वरनाशनः 64

हारीतो रक्तपीतः स्याद्धरितोऽपि स कथ्यते
हारीतो रूक्ष उष्णश्च रक्तपित्तकफापहः
स्वेदस्वरकरः प्रोक्तः ईषद्वातकरश्च सः 65

पाण्डुस्तु द्विविधो ज्ञेयश्चित्रपक्षः कलध्वनिः 66

द्वितीयो धवलः प्रोक्तः स कपोतः स्फुटध्वनिः
चित्रपक्षः कफहरो वातघ्नो ग्रहणीप्रणुत 67

धवलः पाण्डुरुद्दिष्टो रक्तपित्तहरो हिमः
रसे पाके च मधुरः संग्राही वातशान्तिकृत 68

मयूरश्चन्द्र की केकी मेघरावो भुजङ्गभुक
शिखी शिखावलो बर्ही शिखण्डी नीलकण्ठकः 69

शुक्लापाङ्गः कलापी च मेघनादानुलास्यपि
रसे पाके च मधुरः संग्राही वातशान्तिकृत 70

पारावतः कलरवः कपोतो रक्तलोचनः
पारावतो गुरुः स्निग्धो रक्तपित्तानिलापहः
संग्राही शीतलस्तज्ज्ञैः कथितो वीर्यवर्द्धनः 71

नातिस्निग्धानि वृष्याणि स्वादुपाकरसानि च
वातघ्नान्यतिशुक्राणि गुरूण्यण्डानि पक्षिणाम 72

छागलो बर्करश्छागो बस्तोऽजश्छेलकः स्तुभः 73

अजा छागी स्तुभा चापि छेलिका च गलस्तनी
छागमांसं लघु स्निग्धं स्वादुपाकं त्रिदोषनुत 74

नातिशीतमदाहि स्यात्स्वादु पीनसनाशनम
परं बलकरं रुच्यं बृहणं वीर्यवर्द्धनम 75

अजायास्त्वप्रसूताया मांसं पीनसनाशनम
शुष्ककासेऽरुचौ शोषे हितमग्नेश्च दीपनम 76

अजासुतस्य बालस्य मांसं लघुतरं स्मृतम
हृद्यं ज्वरहरं श्रेष्ठं सुखदं बलदं भृशम 77

मासंनिष्कासिताण्डस्य छागस्य कफकृद गुरु
स्रोतःशुद्धिकरं बल्यं मांसदं वातपित्तनुत 78

वृद्धस्य वातलं रूक्षं तथा व्याधिमृतस्य च
ऊर्ध्वजत्रुविकारघ्नं छागमुण्डं रुचिप्रदम 79

अथ मेषः मिए!ढाइ!  तस्य नामान्यण्डविहीनस्य तस्य च
मेढ्रो मेढो हुडो मेष उरणोऽप्येडकोऽपि च
अविर्वृष्णिस्तथोर्णायुः कथ्यन्ते तद्गुणा अथ 80

मेषस्य मांसं पुष्टौ स्यात्पित्तश्लेष्मकरं गुरु
तस्यैवाण्डविहीनस्य मांसं किञ्चिल्लघु स्मृतम 81

अथैडकः  दिउ!म्बा मेढाइ!  तस्य नामानि तद्भेदस्य च
एडकः पृथुशृङ्गः स्यान्मेदः पुच्छस्तु दुम्बकः
एडकस्य पलं ज्ञेयं मेषामिषसमं गुणैः 82

मेदः पुच्छोद्भवं मांसं हृद्यं वृष्यं श्रमापहम
पित्तश्लेष्मकरं किञ्चिद्वातव्याधिविनाशानम 83

बलीवर्दस्तु वृषभः ऋषभश्च तथा वृषः
अनड्वान्सौरभेयोऽपि गौरुक्षा भद्र  इत्यपि 84

सुरभिः सौरभेयी च माहेयी गौरुदाहृता
गोमांसं सुगुरु स्निग्धं पित्तश्लेष्मविवर्द्धनम
बृंहणं वातहृत् बल्यमपथ्यं पीनसप्रणुत 85

घोटकेऽप्यश्वतुरगास्तुरङ्गमाश्च तुरङ्गाः
बाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः 86

अश्वमांसन्तु तुवरं वह्निकृत्कफपित्तलम
वातहृद् बृहणं बल्यं चक्षुष्यं मधुरं लघु 87

महिषो घोटकारिः स्यात्कासरश्च रजस्वलः 88

पीनस्कन्धः कृष्णकायो लुलायो यमवाहनः
महिषस्यामिषं स्वादु स्निग्धोष्णं वातनाशनम 89

निद्रा शुक्रप्रदं बल्यं तनुदार्ढ्यकरं गुरु
वृष्यञ्च सृष्टविण्मूत्रं वातपित्तास्रनाशनम 90

मण्डूकः प्लवगो भेको वर्षाभूर्दर्दुरो हरिः
मण्डूकः श्लेष्मलो नातिपित्तलो बलकारकः 91

कच्छपो गूढपात्कूर्मः कमठो दृढपृष्ठकः
कच्छपो बलदो वातपित्तनुत्पुंस्त्वकारकः 92

सद्योहतस्य मांसं स्थाद्व्याधिघाति यथाऽमृतम
वयस्यं बृंहणं सात्म्यमन्यथा तद् विवर्जयेत 93

स्वयं मृतस्य चाबल्यमतीसारकरं गुरु 94

वृद्धानां दोषलं मांसं बालानां बलदं लघु 95

सर्पदष्टस्य मांसञ्च शुष्कमांस त्रिदोषकृत
त्रिदोषकृद व्यालदष्टं शुष्कं शूलकरं परम 96

विषाम्बुरुङ्मृतस्यैतन्मृत्युदोषरुजाकरम
क्लिन्नमुत्क्लेशजनकं कृशं वातप्रकोपणम
तोयपूर्णं शिराराजं मृतमप्सु त्रिदोषकृत 97

विहङ्गेषु पुमाञ्छ्रेष्ठः स्त्री चतुष्पदजातिषु
परार्द्धं लघु पुंसां स्यात्स्त्रीणां पूर्वार्द्धमादिशेत
देहमध्यं गुरुप्रायं सर्वेषां प्राणिनां स्मृतम 98

पक्षक्षेपाद्विहङ्गानां तदेव लघु कथ्यते
गुरूण्यण्डानि सर्वेषां गुर्वी ग्रीवा च पक्षिणाम 99

उरः स्कन्धोदरं कुक्षी पादौ पाणी कटी तथा
पृष्ठत्वग्यकृदन्त्राणि गुरूणीह यथोत्तरम 100

लघुवातकरं मांसं खगानां धान्यचारिणाम
मत्स्याशिनां पित्तकरं वातघ्नं गुरु कीर्त्तितम 101

फलाशिनां श्लेष्मकरं लघु रूक्षमुदीरितम
बृंहणं गुरु वातघ्नं तेषामेव पलाशिनाम 102

तुल्यजातिष्वल्पदेहा महादेहेषु पूजिताः
अल्पदेहेषु शस्यन्ते तथैव स्थूलदेहिनाः 103

रक्तोदरो रक्तमुखो रक्ताक्षो रक्तपक्षतिः
कृष्णपुच्छो झषः श्रेष्ठो रोहितः कथितो बुधैः 104

रोहितः सर्वमत्स्यानां वरो वृष्योऽदितार्त्तिजित
कषायानुरसः स्वादुर्वातघ्नो नातिपित्तकृत
ऊर्ध्वजत्रुगतान रोगान हन्याद्रो हितमुण्डकम 105

शिलीन्ध्रः श्लेष्मलो बल्यो विपाके मधुरो गुरुः
वातपित्तहरो हृद्यः आमवातकरश्च सः 106

भाकुरो मधुरः शीतो वृष्यः श्लेष्मकरो गुरुः
विष्टम्भजनकश्चापि रक्तपित्तहरः स्मृतः 107

मोचिका वातहृद् बल्या बृंहणी मधुरा गुरुः
पित्तहृत्कफकृद्रुच्या वृष्या दीप्ताग्नये हिता 108

पाठीनः श्लेष्मलो बल्यो निद्रा लुः पिशिताशनः
दूषयेद्रुधिरं पित्तं कुष्ठरोगं करोति च 109

शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपणी
रसे तिक्ता कषाया च लघ्वी रुच्या स्मृताबुधैः 110

इल्लीसो मधुरः स्निग्धो रोचनो वह्निवर्द्धनः
पित्तहृत्कफकृत्किञ्चिल्लघुर्वृष्योऽनिलापहः 111

शष्कुली ग्राहिणी हृद्या मधुरा तुवरा स्मृता 112

गर्गरः पित्तलः किञ्चिद्वातजित्कफकोपनः 113

कविका मधुरा स्निग्धा कफघ्नी रुचिकारिणी
कञ्चित्पित्तकरी वातनाशिनी वह्निवर्द्धिनी 114

वर्मिमत्स्यो हरेद्वातं पित्तं रुचिकरो लघुः 115

दण्डमत्स्यो रसे तिक्तः पित्तरक्तं कफं हरेत
वातसाधारणः प्रोक्तः शुक्रलो बलवर्द्धनः 116

एरङ्गो मधुरः स्निग्धो विष्टम्भी शीतलो लघुः 117

महाशफरसंज्ञस्तु तिक्तः पित्तकफापहः
शिशिरो मधुरो रुच्यो वातसाधारणः स्मृतः 118

गरघ्नी मधुरा तिक्ता तुवरा वातपित्तहृत
कफघ्नी रुचिकृल्लघ्वी दीपनी बलवीर्यकृत 119

मद्गुरो वातहृद् बल्यो वृष्यः कफकरो लघुः 120

सपादमत्स्यो मेधाकृन्मेदः क्षयकरश्च सः
वातपित्तकरश्चापि रुचिकृत्परमो मतः 121

प्रोष्ठी तिक्ता कटुः स्वादुः शुक्रदा कफवातजित
स्निग्धाऽस्यकण्ठरोगघ्नी रोचनी च लघुः स्मृता 122

क्षुद्र मत्स्याः स्वादुरसा दोषत्रयविनाशनाः
लघुपाका रुचिकरा बलदास्ते हिता मताः 123

अतिसूक्ष्माः पुंस्त्वहरा रुच्याः कासानिलापहाः 124

मत्स्यगर्भो भृशं वृष्यः स्निग्धः पुष्टिकरो लघुः
कफमेदःप्रदो बल्यो ग्लानिकृन्मेहनाशनः 125

शुष्कमत्स्या नवा बल्या दुर्जरा विड्विबन्धिनः 126

दग्धमत्स्यो गुणैः श्रेष्ठः पुष्टिकृद् बलवर्द्धनः 127

कौपमत्स्याः शुक्रमूत्रकुष्ठश्लेष्मविवर्द्धनाः
सरोजा मधुराः स्निग्धा बल्या वातविनाशनाः
नादेया बृंहणा मत्स्या गुरवोऽनिलनाशनाः
रक्तपित्तकरा वृष्याः स्निग्धोष्णाः स्वल्पवर्चसः
चौञ्ज्याः पित्तकराः स्निग्धा मधुरा लघवो हिमाः
तडागा गुरवो वृष्याः शीतला मलमूत्रदाः
ताडागवन्निर्झरजा बलायुर्मतिदृक्कराः 128

हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः
वसन्ते ते तु नादेया ग्रीष्मे चौञ्ज्यसमुद्भवाः
तडागजाता वर्षासु तास्वपथ्या नदीभवाः
नैर्झरा शरदि श्रेष्ठा विशेषोऽयमुदाहृतः 129

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे
मिश्रप्रकरणे एकादशो मांसवर्गः समाप्तः 11

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।