Sunday, 12 July 2015

अथ द्वादशः कृतान्नवर्गः

समवायिनि हेतौ ये मुनिभिर्गणिता गुणाः
कार्येऽपि तेऽखिलाज्ञेयाः परिभाषेति भाषिताः 1

क्वचित्संस्कारभेदेन गुणभेदो भवेद्यतः
भक्तं लघु पुराणस्यशालेस्तच्चिपिटो गुरुः 2

क्वचिद्योगप्रभावेण गुणान्तरमपेक्षते
कदन्नं गुरु सर्पिश्च तद्युक्तं सुपचं भवेत 3

भक्तमन्नं तथाऽन्धश्च क्वचित्कूरं च कीर्त्तितम
ओदनोऽस्त्री स्रियां भिस्सा दीदिविः पुंसि भाषितः 4

सुधौतांस्तण्डुलान स्फीतांस्तोये पञ्चगुणे पचेत
तदुक्तं प्रस्रुतं चोष्णं विशदं गुणवन्मतम 5

भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु
अधौतमस्रुतं शीतं गुर्वरुच्यं कफप्रदम 6

दलितन्तु शमीधान्यं दालिर्दाली स्त्रियामुभे
दाली तु सलिले सिद्धा लवणार्द्र कहिङ्गुभिः 7

संयुक्ता सूपनाम्नी स्यात्कथ्यन्ते तद्गुणा अथ
सूपो विष्टम्भको रूक्षः शीतस्तु स विशेषतः
निस्तुषो भृष्टसंसिद्धो लाघवं सुतरां व्रजेत 8

तण्डुला दालिसंमिश्रा लवणार्द्र कहिङ्गुभिः
संयुक्ताः सलिले सिद्धाः कृशरा कथिता बुधैः 9

कृशरा शुक्रला बल्या गुरुः पित्तकफप्रदा
दुर्जरा बुद्धिविष्टम्भमलमूत्रकरी स्मृता 10

वृते हरिद्रा संयुक्ते माषजा भर्जयेद्वटीम 11

तण्डुलांश्चापि निर्धौतान्सहैव परिभर्जयेत
सिद्धयोग्यं जलं तत्र प्रक्षिप्य कुशलः पचेत 12

लवणार्द्र कहिङ्गूनि मात्रया तत्र निक्षिपेत
एषा सिद्धि समायाता प्रोक्ता तापहरी बुधैः 13

भवेत्तापहरी बल्या वृष्या श्लेष्माणमाचरेत
बृंहणी तर्पणी रुच्या गुर्वी पित्तहरी स्मृता 14

पायसं परमान्नं स्यात्क्षीरिकाऽपि तदुच्यते
शुद्धेर्द्धऽपक्वे दुग्धे तु घृताक्तांस्तण्डुलान्पचेत 15

ते सिद्धाः क्षीरिका ख्याताः ससिताऽज्ययुतोत्तमा
क्षीरिका दुर्जरा प्रोक्ता बृंहणी बलवर्द्धिनी
विष्टम्भिनी हरेत् पित्तं रक्तपित्ताग्निमारुतान 16

नारिकेरं तनूकृत्य छिन्नं पयसि गोः क्षिपेत
सितागव्याज्यसंयुक्ते तत्पचेन्मृदुनाऽग्निना 17

नारिकेरोद्भवा क्षीरी स्निग्धा शीताऽतिपुष्टिदा
गुर्वी सुमधुरावृष्या रक्तपित्तानिलापहा 18

समितावर्त्तिकाः कृत्वा सुसूक्ष्मा यवसन्निभा
शुष्काः क्षीरेणसंसाध्या भोज्यावृत्तसिताऽन्विताः 19

सेविका तर्पणी बल्या गुर्वी पित्तानिलापहा
ग्राहिणी सन्धिकृद्रुच्या तां खादेन्नातिमात्रया 20

गोधूमा धवला धौताः कुट्टिताः शोषितास्ततः
प्रोक्षितायन्त्रनिष्पष्टाश्चालिताः समिताः स्मृताः 21

वारिणा कोमलां कृत्वा समितां साधु मर्दयेत
हस्तचालनया तस्या लोप्त्रद्यं सम्यक्प्रसारयेत 22

अधोमुखघटस्यैतद्बिस्तृतं प्रक्षिपेद बहिः
मृदुना वह्निना साध्या सिद्धो मण्डक उच्यते 23

दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः
अथवा सिद्धमांसेन सतक्रवटकेन वा 24

मण्डको बृंहणो वृष्यो बल्यो रुचिकरो भृशम
पाकेऽपि मधुरो ग्राही लघुर्दोषत्रयापहः25

कुर्यात्समितयाऽतीव तन्वी पर्पटिका ततः 26

स्वेदयेत्तप्तके तां तु पोलिकां जगदुर्बुधाः
तां खादेल्लप्सिकायुक्तां तस्या मण्डकवद गुणाः 27

समितां सर्पिषा भृष्टां शर्करां पयसि क्षिपेत
तस्मिन्घनीकृते न्यस्येल्लवङ्गं मरिचादिकम
सिद्धषा लप्सिका ख्याता गुणानस्या वदाम्यहम 28

लप्सिका बृंहणी वृष्या बल्या पित्तानिलापहा
स्निग्धा श्लेष्मकरी गुर्वी रोचनी तर्पणी परम 29

शुष्कगोधूमचूर्णेन किञ्चित्पुष्टाञ्च पोलिकाम 30

तप्तके स्वेदयेत्कृत्वा भूर्यङ्गारेऽपि तां पचेत
सिद्धैषारोटिका प्रोक्ता गुणानस्याः प्रचक्ष्महे 31

रोटिका बलकृद्रुच्या बृंहणी धातुवर्द्धनी
वातघ्नी कफकृद् गुर्वी दीप्ताग्नीनां प्रपूजिता 32

शुष्कगोधूमचूर्णन्तु साम्बु गाढं विमर्दयेत
विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत  33

अङ्गारकर्कटी ह्येषा बृंहणी शुक्रला लघुः
दीपनी कफकृद्बल्या पीनसश्वासकासजित 34

यवजारोटिका रुच्या मधुरा विशदा लघुः
मलशुक्रानिलकरी बल्या हन्ति कफामयान 35

चूर्ण यच्छुष्कमाषाणां चमसी साऽभिधीयते
चमसीरचिता रोटी कथ्यते बलभद्रिका
रूक्षोष्णा वातला बल्या दीप्ताग्नीनां सुपूजिता 36

माषाणां दालयस्तोये स्यापितास्त्यक्तकञ्चुकाः
आतपे शोषिता यन्त्रे पिष्टास्ता धूमसी स्मृता 37

धूमसीरचिता चैव प्रोक्ता झर्झरिका बुधैः
झर्झरी कफपित्तघ्नी किञ्चिद्वातकरी स्मृता 38

चणक्या रोटिका रूक्षा श्लेष्मपित्तास्रनुद्गुरुः
विष्टम्भिनी न चक्षुष्या तद्गुणा चापि शष्कुली 39

दालि संस्थापिता तोये ततोऽपहृतकञ्चुका
शिलायां साधु सम्पिष्टा पिष्टिका कथिता बुधैः 40

माषपिष्टिकया पूर्णगर्भा गोधूमचूर्णतः
रचिता रोटिका सैव प्रोक्ता बेढमिका बुधैः 41

भवेद्बेढमिका बल्या वृष्या रुच्याऽनिलापहा
उष्णा सन्तर्पणी गुर्वी बृंहणी शुक्रला परम 42

भिन्नमूत्रमला स्तन्यमेदःपित्तकफप्रदा
गुदकीलार्दितश्वासपक्तिशूलानि नाशयेत 43

धूमसीरचिता हिङ्गुहरिद्रा लवणैर्युताः
जीरकस्वर्जिकाभ्याञ्च तनूकृत्य च वेल्लिताः 44

पर्पटास्ते सदाऽङ्गारभृष्टाः परमरोचकाः
दीपनाः पाचनाः रूक्षा गुरवः किञ्चिदीरिताः 45

मौद्गाश्च तद्गुणाः प्रोक्ता विशेषाल्लघवो हिताः 46

चणकस्य गुणैर्युक्ताः पर्पटाश्चणकोद्भवाः
स्नेहभृष्टास्तु ते सर्वे भवेयुर्मध्यमा गुणैः 47

माषाणां पिष्टिकां पूर्याल्लवणार्द्र कहिङ्गुभिः
तया पिष्टिकया पूर्णा समिता कृत पोलिका 48

ततस्तैलेन पक्वा सा पूरिका कथिता बुधैः
रुच्या स्वादी गुरुः स्निग्धा बल्या पितास्रदूषिका 49

चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी
तथैव घृतपक्वाऽपि चक्षुष्या रक्तपित्तहृत 50

अथ वटकः शुष्कः सरसश्च सूखा व रसदार बरा
माषाणांपिष्टिकां युक्तां लवणार्द्र कहिङ्गुभिः
कृत्वा विदध्याद्वटकांस्तांस्तैलेषु पचेच्छनैः 51

विशुष्का वटका बल्या बृंहणा वीर्य्यवर्द्धनाः
वातामयहरा रुच्या विशेषादर्दितापहाः 52

विबन्धभेदिनः श्लेष्मकारिणोऽत्यग्निपूजिताः
संचूर्ण्यनिक्षिपेत्तक्रे भृष्टं जीरकहिङ्गु च 53

लवणं तत्र वटकान्सकलानपि मज्जयेत
शुक्रलस्तत्र वटको बलकृद्रो चनो गुरुः 54

विबन्धहृद्विदाही च श्लेष्मलः पवनापहः
राज्यक्तयाऽतिरोचन्या पाचन्या तांस्तु भक्षयेत 55

मन्थनी नूतना धार्या कटुतैलेन लेपिता
निर्मलेनाम्बुनाऽपूर्य तस्यां चूर्णं विनिक्षिपेत
राजिकाजीरकलवणहिङ्गुशुण्ठीनिशाकृतम 56

निक्षिपेद्वटकांस्तत्र भाण्डस्यास्यञ्च मुद्रयेत
ततो दिनत्रयादूर्ध्वमम्लाः स्युर्वटका ध्रुवम 57

काञ्जिकावटको रुच्यो वातघ्नः श्लेष्मकारकः
शूलघ्नोऽजीर्णदाहनुद् नेत्ररोगे तु नो हितः 58

अम्लिकां स्वेदयित्वा तु जलेन सह मर्दयेत
तन्नीरे कृतसंस्कारे वटकान्मज्जयेज्जनः 59

अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः
वटकस्य गुणैः पूर्वै रेतेऽपि च समन्विताः 60

मुद्गानां वटकास्तक्रे मज्जिता लघवो हिमाः
संस्कारजप्रभावेण त्रिदोषशमना हिताः 61

माषाणां पिष्टिका हिङ्गुलवणार्द्र कसंस्कृता
तया विरचिता वस्त्रे वटिकाः साधु शोषिताः 62

भर्जितास्तप्ततैलैस्ता अथवाऽम्बुप्रयोगतः
वटकस्य गुणैर्युक्ता ज्ञातव्या रोचना भृशम 63

कूष्माण्डकवटी ज्ञेया पूर्वोक्तवटिकागुणा
विशेषात्पित्तरक्तघ्नी लघ्वी च कथिता बुधैः 64

मूद्गानां वटिका तद्वद्र चिता साधिता तथा
पथ्या रुच्या तथा लघ्वी मुद्गसूपगुणा स्मृता 65

माषपिष्टिकया लिप्तं नागवल्लीदलं महत 66

तत्तु संस्वेदयेद्युक्त्या स्थाल्यामास्तारकोपरि
ततो निष्कास्य तं खण्ड्यं ततस्तैलेन भर्जयेत 67

अलीकमत्स्य उक्तोऽय प्रकारः पाक पण्डितैः
तं वृन्ताक भटित्रेण वास्तूकेन च भक्षयेत 68

स्थाल्यां घृते वा तैले वा हरिद्रां हिङ्गु भर्जयेत
अवलेहनसंयुक्तं तक्रं तत्रैव निक्षिपेत
एषा सिद्धा समरिचा क्वथिता कथिता बुधैः 69

क्वथिता पाचनी रुच्या लघ्वी वह्निप्रदीपनी
कफानिलाविबन्धघ्नी किञ्चित्पित्तप्रकोपणी 70

अलीकमत्स्याः शुष्का वा किं वा क्वथितया पुनः
बृंहणा रोचना वृष्या बल्या वातगदापहः 71

कोष्ठशुद्धिकराः शुष्काः किञ्चित्पित्तप्रकोपणाः
अर्दिते सहनुस्तम्भे विशेषेण हिताः स्मृताः 72

मुद्गपिष्टीविरचितान वटकांस्तैलपाचितान
हस्तेन चूर्णयेत्सम्यक तस्मिंश्चूर्णं विनिक्षिपेत 73

भृष्टं हिङ्ग्वार्द्रकं सूक्ष्मं मरिचं जीरकं तथा
निम्बूरसं यवानीं च युक्त्या सर्वं विमिश्रयेत 74

मुद्गपिष्टि पचेत्सम्यक् स्थाल्याभास्तारकोपरि
तस्यास्तु गोलकं कुर्यात्तन्मध्ये पूरण क्षिपेत 75

तैले तान्गोलकान्पक्त्वा क्वथितायां निमज्जयेत
गोलकाःपाचक्! प्रोक्तास्ते त्वार्द्र कवटा अपि 76

मुद्गार्द्र कवटा रुच्या लघ्वो बलकारकाः
दीपनास्तर्पणाः पथ्यास्त्रिषु दोषेषु पूजिताः 77

दालयश्चणकानां तु निस्तुषा यन्त्रपेषिताः
तच्चूर्णं वेसनं प्रोक्तं पाकशास्त्रविशारदैः 78

वटिकावेसनस्यापि क्वथितायां निमज्जिता
रुच्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता 79

पाकपात्रे घृतं दद्यात्तैलञ्च तदभावतः
तत्र हिङ्गुहरिद्रां च भर्जयेत्तदनन्तरम 80

छागादेरस्थिरहितं मांसं तत्खण्डितं ध्रुवम्
धौतं निर्गालितं तस्मिन्घृते तद्भर्जयेच्छनैः 81

सिद्धयोग्यं जलं दत्वा लवणन्तु पचेत्ततः
सिद्धे जलेन सम्पिष्य वेशवारं परिक्षिपेत 82

द्रव्याणि वेशवारस्य नागवल्लीदलानि च
तण्डुलाश्च लवङ्गानि मरिचानि समासतः 83

अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम 84

शुद्धमांसं परं वृष्यं बल्यं रुच्यञ्च बृंहणम
त्रिदोषशमनं श्रेष्ठं दीपनं धातुवर्द्धनम 85

छागादेर्मांसमूर्वादेः कुट्टितं खण्डितं पुनः
शुद्धमांसविधानेन पचेदेतत्सहद्र कम
सहद्रकं गुणैर्ग्रन्थे शुद्धमांसगुणं स्मृतम 86

पाकपात्रे घृतं दत्त्वा हरिद्रां हिङ्गु भर्जयेत
छागादेः सकलस्यापि खण्डान्यपि च भर्जयेत 87

सिद्धयोग्यं जलं दत्त्वा पचेन्मृदुतरं तथा
जीरकादियुते तक्रे मांसखण्डानि भावयेत 88

तक्रमांसन्तु वातघ्नं लघु रुच्यं बलप्रदम
कफघ्नं पित्तलं किञ्चित्सर्वाहारस्य पाचनम 89

पाकपात्रे तु बृहति मांसखण्डानि निक्षिपेत
पानीयं प्रचुरं सर्पिः प्रभूतं हिङ्गु जीरकम 90

हरिद्रा मार्द्रकं शुण्ठीं लवणं मरिचानि च
तण्डुलांश्चापि गोधूमाञ्जम्बीराणां रसान बहून 91

यथा सर्वाणि वस्तूनि सुपक्वानि भवन्ति हि
तथा पचेत्तु निपुणो बहुमण्डस्थितिर्यथा 92

एषा हरीसा बलकृद्वातपित्तापहा गुरुः
शीतोष्णा शुक्रदा स्निग्धा सरा सन्धानकारिणी 93

शुद्धमांसविधानेन मांसं सम्यक्प्रसाधितम
पुनस्तदाज्ये सम्भृष्टं तलितं प्रोच्यते बुधैः 94

तलितं बलमेधाऽग्निमांसौजःशुक्रवृद्धिकृत
तर्पणं लघु सुस्निग्धं रोचनं दृढताकरम 95

कालखण्डादिमांसानि ग्रथितानि शलाकया
घृतं सलवणं दत्त्वा निर्धूमे दहने पचेत 96

तत्तु शूल्यमिति प्रोक्तं पाककर्मविचक्षणैः 97

शूल्यं पलं सुधातुल्यं रुच्यं बह्निकरं लघु
कफवातहरं बल्यं किञ्चित्पित्तकरं हि तत 98

शुद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं जले
लवङ्गहिङ्गुलवणमरिचार्द्र कसंयुतम 99

एलाजीरकधान्याकनिम्बूरससमन्वितम
घृते सुगन्धे तद् भृष्टं पूरणं प्रोच्यते बुधैः 100

शृङ्गाटकं समितया कृतं पूरणपूरितम
पुनः सर्पिषि सभृष्टं मांसशृङ्गाटकं वदेत 101

मांसशृङ्गाटकं रुच्यं बृंहणं बलकृद् गुरु
वातपित्तहरं वृष्यं कफघ्नं वीर्यवर्धनम 102

सिद्धमांसरसो रुच्यः श्रमश्वासक्षयापहः
प्रीणनो वातपित्तघ्नः क्षीणानामल्परेतसाम
विश्लिष्टभग्नसन्धीनां शुद्धानां शुद्धिकाङ्क्षिणाम 103

स्मृत्योजोबलहीनानां ज्वरक्षीणक्षतोरसाम
शस्यते स्वरहीनानां दृष्ट्यायुःश्रवणार्थिनाम 104

प्रकाराः कथिताः सन्ति बहवो मांससम्भवाः
ग्रन्थविस्तरभीतेस्ते मया नात्र प्रकीर्त्तिताः 105

हिङ्गुजीरयुते तैले क्षिपेच्छाकं सुखण्डितम् 106

लवणं चात्र चूर्णादि सिद्धे हिङ्गूदकं क्षिपेत
इत्येवं सर्वशाकानां साधनेऽभिहितो विधिः 107

समितां मर्दयेदाज्यैर्जलेनापि च सन्नयेत
तस्यास्तु वटिकां कृत्वा पचेत्सर्पिषि नीरसम
एलालवङ्गकर्पूरमरिचाद्यैरलङ्कृते 108

मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत
अयं प्रकारः संसिद्धौ मण्ठ इत्यभिधीयते 109

मण्ठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः
पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः 110

समिताशर्करासर्पिर्निर्मिता अपरेऽपि ये
प्रकारा अमुना तुल्यास्तेऽपि चेत्तद्गुणाः स्मृताः 111

पर्पट्यः साज्यसमिता निर्मिता घृतभर्जिताः
कुट्टिताश्चालिताः शुद्धशर्कराभिर्विमर्दिताः 112

तत्र चूर्णं क्षिपेदेलालवङ्गमरिचानि च
नारिकेरं सकर्पूरं चारबीजान्यनेकधा 113

घृताक्तसमिता पुष्टरोटिका रचिता ततः
तस्यान्तःपूरणं तस्य कुर्यान्मुद्रां! दृढां सुधीः 114

सर्पिषि प्रचुरे तान्तु सुपचेन्निपुणो जनः
प्रकारज्ञैः प्रकारोऽय सम्पाव इति कीर्त्तितः 115

मण्ठकेन समो ज्ञेयः सम्पावोऽपि गुणैर्जनैः 116

घृताढ्यया समितया लम्बं कृत्वा पुटं ततः
लवङ्गोषणकर्पूरयुतया सितयाऽन्वितम 117

पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका
सम्पावसदृशा ज्ञेया गुणैः कर्पूरनालिका 118

समिताया घृताढ्याया वर्त्तीर्दीर्घाः समाचरेत
तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत 119

वेल्लयेद्वेल्लनेनैता यथैका पर्पटी भवेत
ततश्छुरिकया तान्तु संलग्नामेव कर्त्तयेत 120

ततस्तु वेल्लयेद्भूयः सट्टकेन च लेपयेत
शालिचूर्णं घृतं तोयं मिश्रितं सट्टकं वदेत 121

ततः संवृत्य तल्लोप्त्रद्यं विदधीत पृथक्पृथक
पुनस्तां वेल्लययेल्लोप्त्रद्यं यथा स्यान्मण्डलाकृतिः 122

ततस्तां सुपचेदाज्ये भवेयुश्च स्फुटाः स्फुटाः
सुगन्धया शर्करया तद्धूलनमाचरेत 123

सिद्धैषा फेनिकानाम्नी मण्ठकेन समा गुणैः
ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः 124

समिताया घृताक्ताया लोप्त्रद्यं कृत्वा च वेल्लयेत
आज्ये तां भर्जयेत्सिद्धा शष्कुली फेनिकागुणा 125

वृताढ्यया समितया कृत्वा सूत्राणि तानि तु
निपुणो भर्जयेदाज्ये खण्डपाकेन योजयेत
युक्तेन मोदकान् कुर्यात्ते गुणैर्मण्ठका यथा 126

मुद्गानां धूमसीं सम्यग्घोलयेन्निर्मलाऽम्बुना 127

कटाहस्य घृतस्योर्ध्वं झर्झरं स्थापयेत्ततः
घूमसीन्तु द्रवीभूतां प्रक्षिपेज्झर्झरोपरि 128

पतन्ति बिन्दवस्तस्मात्तान्सुपक्वान्समुद्धरेत
सितापाकेन संयोज्य कुर्याद्धस्तेन मोदकान 129

लघुर्ग्राही त्रिदोषघ्नः स्वादुः शीतो रुचिप्रदः
चक्षुष्यो ज्वरहृद्बल्यस्तर्पणो मुद्गमोदकः 130

एवमेव प्रकारेण कार्या वेसनमोदकाः 131

ते बल्या लघवः शीताः किञ्चिद्वातकरास्तथा
विष्टम्भिनो ज्वरघ्नाश्च पित्तरक्तकफापहाः 132

तण्डुलचूर्णविमिश्रितनष्टक्षीरेण सान्द्र पिष्टेन
दृढकूपिकां विदध्यात्ताञ्च पचेत्सर्पिषा सम्यक 133

अथ तां कोरितमध्यां घनपयसा पूर्णगर्भाञ्च
सट्टकमुद्रि तवदनां तप्तघृते सुपक्ववदनाञ्च
अथ पाण्डुखण्डपाके स्नपयेत्कर्पूरवासिते कुशलः
अथ दुग्धकूपिका सा बल्या पित्तानिलापहाचैव 134

वृष्या शीता गुर्वी शुक्रकरी च तर्पणी रुच्या
विदधाति कायपुष्टिं दृष्टिं दूरप्रसारिणीं सुचिरम 135

नूतनं घटमानीय तस्यान्तः कुशलो जनः
प्रस्थार्द्धपरिमाणेन दध्नाऽम्लेन प्रलेपयेत 137

द्विप्रस्थां समितां तत्र दध्यम्ल प्रस्थसम्मितम
घृतमर्द्धशरावञ्च घोलयित्वा घटे क्षिपेत 138

आतपे स्थापयेत्तावद यावद्याति तदम्लताम
ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे  भाजने तु तत 139

परिभ्राम्य परिभ्राम्य सुसन्तप्ते घृते क्षिपेत
पुनः पुनः स्तदावृत्त्या विदध्यान्मण्डलाकृतिम 140

तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्र वे
कर्पूरादिसुगन्धे च स्नापयित्वोद्धरेत्ततः 141

एषा कुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा
धातुवृद्धिकरी वृष्या रुच्या चेन्द्रि यतर्पणी 142

आदौ माहिषमम्लमम्बुरहितं दध्याढकं शर्करां
शुभ्रां प्रस्थयुगोन्मितां शुचिपटे किञ्चिच्च किञ्चित्क्षिपेत
दुग्धेनार्द्धघटेन मृण्मयनवंस्थाल्यां दृढं स्रावये
देलाबीजलवङ्गचन्द्र मरिचैर्योग्यैश्च तद्योजयेत 143

भीमेन प्रियभोजनेन रचिता नाम्ना रसाला स्वयं
श्रीकृष्णेन पुरा पुनः पुनरियं प्रीत्या समास्वादिता
एषा येन वसन्तवर्जितदिने संसेव्यते नित्यश
स्तस्य स्यादतिवीर्य्यवृद्धिरनिशं सर्वेन्द्रि याणां बलम् 144

ग्रीष्मे तथाशरदि ये रविशोषिताङ्गा ये च प्रमत्तवनितासुरतातिखिन्नाः
ये चापि मार्गपरिसर्पणशीर्णगात्रास्तेषामियं वपुषि पोषणमाशु कुर्यात 145

रसाला शुक्रला वल्या रोचनी वातपित्तजित 146

दीपनी बृंहणी स्निग्धा मधुरा शिशिरा सरा
रक्तपित्तं तृषां दाहं प्रतिश्यायं विनाशयेत 147

जलेन शीतलेनैव घोलिता शुभ्रशर्करा
एलालवङ्गकर्पूरमरिचैश्च समन्विता 148

शर्करोदकनाम्ना तत्प्रसिद्धं विदुषां मुखैः
शर्करोदकमाख्यातं शुक्रलं शिशिरं सरम 149

बल्यं रुच्यं लघु स्वादु वातपित्तप्रणाशनम
मूर्च्छाछर्दितृषादाहज्वरशान्तिकरं परम 150

आम्रमामं जले स्विन्नं मर्दितं दृढपाणिना
सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम 151

प्रपाणकमिदं श्रेष्ठं भीमसेनेन निर्मितम
सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रि वतर्पणम 152

अम्लिकायाः फलं पक्वं मर्दितं वारिणा दृढम
शर्करामरिचैर्मिश्रं लवङ्गेन्दुसुवासितम 153

अम्लिकाफलसम्भूतं पानकं वातनाशनम
पित्तश्लेष्मकरं किञ्चित्सुरुच्यं वह्निबोधनम 154

भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम
लवङ्गमरिचैर्मिश्रं पानं पानकमुत्तमम 155

निम्बूकफलभवं पानमत्यम्लं वातनाशनम
वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम 156

शिलायां साधु सम्पिष्टं धान्याकं वस्त्रगालितम
शर्करोदकसंयुक्तं कर्पूरादिसुसंस्कृतम
नूतने मृण्मये पात्रे स्थितं पित्तहरं परम 157

काञ्जिकं रोचनं रुच्यं पाचनं वह्निदीपनम 158

शूलाजीर्णविबन्धघ्नं कोष्ठशुद्धिकरं परम
न भवेत्काञ्जिकं यत्र तत्र जालि प्रदीयते 159

आममाम्रफलं पिष्टं राजिकालवणान्वितम
मृष्टहिङ्गुयुतं पूतं घोलितं जालिरुच्यते 160

जालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी
मन्दं मन्दन्तु पीता सा रोचनी वह्निबोधिनी 161

तुर्यांशेन जलेन संयुतमतिस्थूलं सदम्लं दधि
प्रायोमाहिषमम्बुकेन विमले मृद्भाजने गालयेत
भृष्टं हिंगुच जीरकञ्चलवणं राजीञ्च किञ्चिन्मितां
पिष्टां तत्र विमिश्रयेद्भवति तत्तक्रं न कस्य प्रियम 162

तक्रं रुचिकरं वह्निदीपनं पाचनं परम
उदरे ये गदास्तेषां नाशनं तृप्तिकारकम 163

विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः
तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत 164

धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः 165

यवजाः सक्तवः शीता दीपना लघवः सराः
कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्त्तिताः 166

ते पीता बलदा वृष्या बृंहणा भेदनास्तथा
तर्पणा मधुरा रुच्याः परिणामे बलावहाः 167

कफपित्तश्रमक्षुत्तृड्व्रणनेत्रामयापहाः
प्रशस्ता घर्मदाहाध्वव्यायामार्त्तशरीरिणाम 168

निस्तुषैश्चणकैर्भृष्टैस्तुर्यांशैश्च यवैः कृताः
सक्तवः शर्करासर्पिर्युक्ता ग्रीष्मेऽपि पूजिता 169

सक्तवः शालिसम्भूता वह्निदा लघवो हिमाः
मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदा 170

न भुक्त्वा न रदैश्छित्वा न निशायां न वा बहून
नजलान्तरितानद्भिः सक्तूनद्यान्न केवलान 171

पृथक्पानं पुनर्दानं सामिषं पयसा निशि
दन्तच्छेदनमुष्णञ्च सप्त सक्तुषु वर्जयेत 172

यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम
धानाः स्युर्दुर्जरा रुक्षास्तृट्प्रदा गुरवश्च ताः
तथा मेहकफच्छर्दिनाशिन्यः सम्प्रकीर्त्तिताः 173

येषां स्युस्तण्डुलास्तानि धान्यानि सतुषाणि च
भृष्टानि स्फुटितान्याहुर्लाजा इति मनीषिणः 174

लाजाः स्युर्मधुराः शीता लघवो दीपनाश्च ते
स्वल्पमूत्रमला रूक्षा बल्याः पित्तकफच्छिदः
छर्द्यतीसारदाहास्रमेहमेदस्तृषाऽपहाः 175

शालयः सतुषा आद्रा र्! भृष्टा अस्फुटितास्ततः
कुट्टिताश्चिपिटाःप्रोक्तास्ते स्मृताः पृथुका अपि 176

पृथुका गुरवो वातनाशनाः श्लेष्मला अपि
सक्षीरा बृंहणा वृष्या बल्या भिन्नमलाश्च ते 177

अर्द्धपक्वैः शमीधान्यैस्तृणभृष्टैश्च होलकः
होलकोऽल्पानिलोः मेदः कफदोषत्रयापहः
भवेद् यो होलको यस्य स च तत्तद्गुणो भवेत 178

मञ्जरी त्वर्द्धपक्वा वा यवगोधूमयोर्भवेत
तृणानलेन संभृष्टा बुधैरूचीति सा स्मृता
ऊची कफप्रदा बल्या लघ्वी पित्तानिलापहा 179

अर्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः 180

कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः
कुल्माषागुरवो रूक्षा वातला भिन्नवर्चसः 181

पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम
पललं मलकृद् वृष्यं वातघ्नं कफपित्तकृत
बृंहणं च गुरु स्निग्धं मूत्राधिक्यनिवर्त्तकम 182

तिलकिट्टन्तु पिण्याकस्तथा तिलखलि स्मृता
पिण्याको लेखनो रूक्षो विष्टम्भी दृष्टिदूषणः 183

तुण्डुलो मेहजन्तुघ्नः स नवस्त्वतिदुर्जरः 184

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे
द्वादशः कृतान्नवर्गः समाप्तः 12

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।