Monday, 13 July 2015

भावप्रकाश आयुर्वेद

अभी श्री भाव मिश्र जी द्वारा प्रणीत ‘भाव प्रकाश’ को मैंने प्रथमदृष्टया ही देखा है । पर तब भी आयुर्वेद की अमूल्य निधि ये ग्रन्थ मुझे बेजोङ ही लगा । इंटरनेट पर सर्च करने पर भी इसके बारे में कोई अधिक जानकारी नहीं मिली । सिवाय इसके -
‘भावप्रकाश आयुर्वेद का एक मूल ग्रन्थ है । इसके रचयिता आचार्य भाव मिश्र थे । भावप्रकाश में आयुर्वेदिक औषधियों में प्रयुक्त वनस्पतियों एवं जड़ी बूटियों का वर्णन है । भावप्रकाश, माधवनिदान तथा शार्ङ्गधर संहिता को संयुक्त रूप से 'लघुत्रयी' कहा जाता है ।’
इसके अलावा एक लिंक मिला । जहाँ इसके 100 से ऊपर पी डी एफ़ पेज तथा हिन्दी अनुवाद सहित किताब मिलने का पता है । यह ग्रन्थ लगभग 1150 रूपये और कुछ डाक खर्च के साथ प्राप्त किया जा सकता है ।
इस ब्लाग में यह पूरा ग्रन्थ लगभग सरल संस्कृत में प्रकाशित है । लेकिन फ़िर भी स्वदेशी, भारत गौरव और आयुर्वेद के पुनर्प्रतिष्ठापन हेतु इसका हिन्दी अनुवाद सहित प्रकाशन भी बेहद आवश्यक है ।
वैसे तो अभी इंटरनेट पर तमाम आयुर्वेदिक बेवपेजों और जानकारी भरे लेखों की भरमार है । पर
अपवाद को छोङकर अधिंकाश त्रुटि युक्त और कापी पेस्ट ही है । ऐसी स्थिति में भावप्रकाश जैसे ग्रन्थों का श्लोक और अनुवाद सहित त्रुटि रहित प्रकाशन अति आवश्यक है ।
तमाम परोपकार और परमार्थ के इच्छुक लोग यहाँ हैं । वे इस दिशा में पहल कर सकते हैं । इससे स्वयं उन्हें भी अकल्पनीय लाभ और यश मिलेगा । साथ ही वे अपने परिवार समाज और स्वयं को भी पूर्ण निरोगी रख सकेंगे । 

पुस्तक प्राप्ति का लिंक -
http://www.exoticindiaart.com/book/details/bhava-prakash-khemraj-edition-NZB934/

श्रीमदभावमिश्रप्रणीतः भाव प्रकाशः पूर्व खण्डम

गजमुखममरप्रवरं सिद्धिकरं विघ्नहर्तारम ।
गुरुमवगमनयनप्रदमिष्टकरीमिष्टदेवतां वन्दे 1

आयुर्वेदागमनं क्रमेण येनाभवद्भूमौ ।
प्रथमं लिखामि तमहं नानातन्त्राणि संदृश्य 2

आयुर्हिताहितं व्याधेर्निदानं शमनं तथा ।
विद्यते यत्र विद्वद्भिः स आयुर्वेद उच्यते 3

अनेन पुरुषो यस्मादायुर्विन्दति वेत्ति च ।
तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः 4

विधाताऽथर्वसर्वस्वमायुर्वेदं प्रकाशयन ।
स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम 5
ततः प्रजापतिं दक्षं दक्षं सकलकर्मसु ।
विधिर्धीनीरधिः साङ्गमायुर्वेदमुपादिशत 6

अथ दक्षः क्रियादक्षः स्वर्वैद्यौ वेदमायुषः ।
वेदयामास विद्वांसौ सूर्यांशौ सुरसत्तमौ 7

दक्षादधीत्य दस्रौ वितनुतः संहितां स्वीयाम ।
सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम 8
स्वयम्भुवः शिरश्छिन्नं भैरवेण रुषाऽथ तत ।
अश्विभ्यां संहितं तस्मात्तौ जातौ यज्ञभागिनौ 9
देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः ।
अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत 10
वज्रिणोऽभूद् भुजस्तम्भः स दस्राभ्यां चिकित्सितः ।
सोमान्निपतितश्चन्द्र स्ताभ्यामेव सुखी कृतः 11
विशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च ।
शशिनो राजयक्ष्माऽभूदश्विभ्यां ते चिकित्सिताः 12
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः ।
वीर्यवर्णस्वरोपेतः कृतोऽश्विभ्यां पुनर्युवा 13
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषजां वरौ ।
बभूवतुर्भृशं पूज्याविन्द्रा दीनां दिवौकसाम् 14

संदृश्य दस्रयोरिन्द्रः कर्माण्येतानि यत्नवान ।
आयुर्वेदं निरुद्वेगं तौ ययाचे शचीपतिः 15
नासत्यौ सत्यसन्धेन शक्रेण किल याचितौ ।
आयुर्वेदं यथाऽधीतं ददतुः शतमन्यवे 16
नासत्याभ्यामधीत्यैव आयुर्वेदं शतक्रतुः ।
अध्यापयामास बहूनात्रेयप्रमुखान्मुनीन 17

एकदा जगदालोक्य गदाकुलमितस्ततः ।
चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः 18
किं करोमि क्व गच्छामि कथं लोका निरामयाः ।
भवन्ति सामयानेतान्न शक्नोमि निरीक्षितुम 19
दयालुरहमत्यर्थं स्वभावो दुरतिक्रमः ।
एतेषां दुःखतो दुःखं ममापि हृदयेऽधिकम 20
आयुर्वेदं पठिष्यामि नैरुज्याय शरीरिणाम ।
इति निश्चित्य गतवानात्रेयस्त्रिदशालयम 21
तत्र मन्दिरमिन्द्र स्य गत्वा शक्रं ददर्श सः ।
सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः 22
भासयन्तं दिशो भासा भास्करप्रतिमं त्विषा ।
आयुर्वेदमहाचार्यं शिरोधार्यं दिवौकसाम 23
शक्रस्तु तं निरीक्ष्यैवं त्यक्तसिंहासनः स्थितः ।
तमग्रे पूजयामास भृशं भूरितपःकृशम 24
कुशलं परिपप्रच्छ तथागमनकारणम ।
स मुनिर्वक्तुमारेभे निजागमनकारणम 25
देवराज न जानासि दिव एव यतो भवान ।
विधात्रा विहितो यत्नात्त्रिलोकीलोकपालकः 26
व्याधिभिर्व्यथिता लोकाः शोकाकुलितचेतसः ।
भूतले सन्ति सन्तापं तेषां हन्तुं कृपां कुरु 27
आयुर्वेदोपदेशं मे कुरु कारुण्यतो नृणाम ।
तथेत्युक्त्वा सहस्राक्षोऽध्यापयामास तं मुनिम 28
मुनीन्द्र  इन्द्र तः साङ्गमायुर्वेदमधीत्य सः ।
अभिनन्द्य तमाशीर्भिराजगाम पुनर्महीम 29
अथात्रेयो मुनिश्रेष्ठो भगवान्करुणाकरः ।
स्वनाम्ना संहितां चक्रे नरवर्गानुकम्पया 30
ततोऽग्निवेशं भेडञ्च जातूकर्णं पराशरम ।
क्षीरपाणिञ्च हारीतमायुर्वेदमपाठयत 31
तन्त्रस्य कर्त्ता प्रथममग्निवेशोऽभवत्पुरा ।
ततो भेडादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च 32
श्रावयामासुरात्रेयं मुनिवृन्देन वन्दितम ।
श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः 33
यथावत्सूत्रितं दृष्ट्वा प्रहृष्टा मुनयोऽभवन ।
दिवि देवर्षयो देवाः श्रुत्वा साध्विति चाब्रुवन 34
एकदा हिमवत्पार्श्वे दैवादागत्य सङ्गताः ।
मुनयो बहवस्तेषां नामभिः कथयाम्यहम 35
भरद्वाजो मुनिवरः प्रथमं समुपागतः ।
ततोऽङ्गिरास्ततो गर्गो मरीचिर्भृगुभार्गवौ 36
पुलस्त्योऽगस्तिरसितो वसिष्ठः सपराशरः ।
हारीतो गौतमः सांख्यो मैत्रेयश्च्यवनोऽपि च 37
जमदग्निश्च गार्ग्यश्च कश्यपः काश्यपोऽपि च ।
नारदो वामदेवश्च मार्कण्डेयः कपिञ्जलः 38
शाण्डिल्यः सहकौण्डिन्यः शाकुनेयश्चशौनकः ।
आश्वलायनसांकृत्यौ विश्वामित्रः परीक्षकः 39
देवलो गालवो धौम्यः काप्यकात्यायनावुभौ ।
काङ्कायनो वैजपेयः कुशिको बादरायणः 40
हिरण्याक्षश्च लौगाक्षिः शरलोमा च गोभिलः ।
वैखानसा वालखिल्यास्तथैवान्ये महर्षयः 41
ब्रह्मज्ञानस्य निधयो यमस्य नियमस्य च ।
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः 42
सुखोपविष्टास्ते तत्र सर्वे चक्रुः कथामिमाम ।
धर्मार्थकाममोक्षाणां मूलमुक्तं कलेवरम ।
तच्च सर्वार्थसंसिद्ध्यै भवेद्यदि निरामयम 43
तपः स्वाध्यायधर्माणां ब्रह्मचर्यव्रतायुषाम ।
हर्त्तारः प्रसृता रोगा यत्र तत्र च सर्वशः 44
रोगाः कार्श्यकरा बलक्षयकरा देहस्य चेष्टाहरा ।
दृष्टा इन्द्रि यशक्तिसङ्क्षयकराः सर्वाङ्गपीडाकराः ।
धर्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा बलात ।
प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम 45
तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै-
र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिं तेऽब्रुवन ।
त्वं योग्यो भगवन् सहस्रनयनं याचस्व लब्धं क्रमा-
दायुर्वेदमधीत्य यं गदभयान्मुक्ता भवामो वयम 46
इत्थं स मुनिभिर्योग्यैः प्रार्थितो विनयान्वितैः ।
भरद्वाजो मुनिश्रेष्ठो जगाम त्रिदशालयम 47
तत्रेन्द्र भवनं गत्वा सुरर्षिगणमध्यगम ।
दृष्टवान् वृत्रहन्तारं दीप्यमानमिवानलम 48
दृष्ट्वैव स मुनिं प्राह भगवान मघवा मुदा ।
धर्मज्ञ स्वागतं तेऽथ मुनिं तं समपूजयत 49
सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम ।
ऋषीणां वचनं सम्यक् श्रावयामास तत्त्वतः 50
व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः ।
तेषां प्रशमनोपायं यथावद्वक्तुमर्हसि 51
अपाठयन्मुनिं साङ्गमायुर्वेदं शतक्रतुः ।
जीवेद्वर्षसहस्राणि देही नीरुङ् निशम्य यम 52
सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामुनिः ।
यथावदचिरात्सर्वं बुबुधे तन्मना मुनिः 53
तेनायुः सुचिरं लेभे भरद्वाजो निरामयम ।
अन्यानपि मुनींश्चक्रे नीरुजः सुचिरायुषः 54
तत्तन्त्रजनितज्ञानचक्षुषा ऋषयोऽखिलाः ।
गुणान्द्र व्याणि कर्माणि दृष्ट्वा तद्विधिमाश्रिताः 55
आरोग्यं लेभिरे दीर्घमायुश्च सुखसंयुतम ।
आयुर्वेदोक्तविधिनाऽन्येऽपि स्युर्मुनयो यथा 56
यदा मत्स्यावतारेण हरिणा वेद उद्धृतः ।
तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान 57
अथर्वान्तर्गतं सम्यगायुर्वेदं च लब्धवान ।
एकदा स महीवृत्तं द्र ष्टुं चर इवागतः 58
तत्रलोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान ।
स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान 59
तान्दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः ।
अनन्तश्चिन्तयामास रोगोपशमकारणम 60
सञ्चिन्त्य स स्वयं तत्र मुनेः पुत्रो बभूव ह ।
प्रसिद्धस्य विशुद्धस्य वेदवेदाङ्गवेदिनः 61
यतश्चर इवायातो न ज्ञातः केनचिद्यतः ।
तस्माच्चरकनाम्नासौ ख्यातश्च क्षितिमण्डले 62
स भाति चरकाचार्यो देवाचार्यो यथा दिवि ।
सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः 63
आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन ।
मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम 64
तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता ।
चरकेणात्मनो नाम्ना ग्रन्थोऽय चरकः कृतः 65
एकदा देवराजस्य दृष्टिर्निपतिता भुवि ।
तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः 66
तान्दृष्ट्वा हृदयं तस्य दयया परिपीडितम ।
दयार्द्र हृदयः शक्रो धन्वन्तरिमुवाच ह 67
धन्वन्तरे सुरश्रेष्ठ  भगवन् किञ्चिदुच्यते ।
योग्यो भवसि भूतानामुपकारपरो भव 68
उपकाराय लोकानां केन किं न कृतं पुरा ।
त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूपवान 69
तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव ।
प्रतीकाराय रोगाणामायुर्वेदं प्रकाशय 70
इत्युक्त्वा सुरशार्दूलः सर्वभूतहितेप्सया ।
समस्तमायुषो वेदं धन्वन्तरिमुपादिशत 71
अधीत्य चायुषो वेदमिन्द्रा द्धन्वन्तरिः पुरा ।
आगत्य पृथिवीं काश्यां जातो बाहुजवेश्मनि 72
नाम्ना तु सोऽभवत्ख्यातो दिवोदास इति क्षितौ ।
बाल एव विरक्तोऽभूच्चचार सुमहत्तपः 73
यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम ।
ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधीयते 74
हिताय देहिनां स्वीया संहिता विहिताऽमुना ।
अथ विद्यार्थिनो लोकान्संहितां तामपाठयत 75
अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन ।
अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते 76
विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान ।
वत्स वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम 77
तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः ।
स हि धन्वन्तरिः साक्षादायुर्वेदविदां वरः 78
आयुर्वेदं पठस्व त्वं लोकोपकृतिहेतवे ।
सर्वप्राणिदया तीर्थमुपकारो महामखः 79
पितुर्वचनमाकर्ण्य सुश्रुतः काशिकां गतः ।
तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ 80
अथ धन्वन्तरिं सर्वे वानप्रस्थाश्रमे स्थितम ।
भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम 81
काशिराजं दिवोदासं तेऽपश्यन्विनयान्विताः ।
स्वागतं च तदा चाह दिवोदासो यशोधनः 82
कुशलं परिपप्रच्छ तथागमनकारणम ।
ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम 83
भगवन्मानवान्दृष्ट्वा व्याधिभिः परिपीडितान ।
क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा 84
आमयानां शमोपायं विज्ञातुं वयमागताः ।
आयुर्वेदं भवानस्मानध्यापयतु यत्नतः 85
अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत ।
व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयो मुदा 86
काशिराजं जयाशीर्भिरभिनन्द्य मुदान्विताः ।
सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम 87
प्रथमं सुश्रुतस्तेषु स्वतन्त्रं कृतवान्स्फुटम ।
सुश्रुतस्य सखायोऽपि पृथक्तन्त्राणि तेनिरे 88
सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः
तस्मात्तत्सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले 89

इति भावप्रकाशे पूर्वखण्डे आयुर्वेदप्रवक्तृप्रादुर्भावप्रकरणं समाप्तम 1

अथ सृष्टिप्रकरणं ग्रन्थारम्भश्च 2

आयुर्वेदाब्धिमध्यादतिमतिमुनयो योगरत्नानि यत्नाल्लब्ध्वा
स्वे स्वे निबन्धे दधुरखिलजनव्याधिविध्वंसनाय  ।
तत्तद्ग्रन्थाद् गृहीतैः सुवचनमणिभिर्भावमिश्रैश्चिकित्साशास्त्रे
जाड्यान्धकारं प्रशमयितुमिमं संविधत्ते प्रकाशम 1
श्रीपतिपदप्रसादादाशीर्भिर्भूमिदेवानाम
भावप्रकाशनाम्ना ग्रन्थोऽयं पठ्यतां सर्वैः 2
आत्मा ज्योतिश्चिदानन्दरूपो नित्यश्च निःस्पृहः
निर्गुणः प्रकृतेर्योगात्सगुणः कुरुते जगत 3
सत्त्वं रजस्तमश्चेति गुणास्ते प्रकृतेः समाः
सा जडापि जगत्कर्त्री परमात्मचिदव्ययात 4
प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा
एतानि तस्या नामानि पुरुषं या समाश्रिता 5
सत्त्वं रजस्तमस्त्रीणि विज्ञेयाः प्रकृतेर्गुणाः
तैश्च युक्तस्य चित्तस्य कथयाम्यखिलान गुणान 6
आस्तिक्यं प्रविभज्य भोजनमनुत्तापश्च तथ्यं वचो
मेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानं च निर्दम्भता
कर्मानिन्दितमस्पृहं च विनयो धर्मः सदैवादरा-
देते सत्त्वगुणान्वितस्य मनसो गीता गुणा ज्ञानिभिः 7
क्रोधस्ताडनशीलता च बहुलं दुःखं सुखेच्छाऽधिका-
दम्भः कामुकताप्यलीकवचनं चाधीरताहङ्कृतिः
ऐश्वर्यादभिमानितातिशयितानन्दोऽधिकश्चाटनं
प्रख्याता हि रजोगुणेन सहितस्यैते गुणाश्चेतसः 8
नास्तिक्यं सुविषण्णतातिशयितालस्यं च दुष्टा मतिः
प्रीतिर्निन्दितकर्मशर्मणि सदा निद्रा लुताहर्निशम्
अज्ञानं किल सर्वतोऽपि सततं क्रोधान्धता मूढता
प्रख्याता हि तमोगुणेन सहितस्यैते गुणाश्चेतसः 9
तत्र प्रभूतसत्त्वस्तु सात्त्विकः पुरुषः स्मृतः
राजसस्तामसश्चैव त्रिविधस्तेन मानवः 10
ततोऽभवन्महत्तत्त्वं बुद्धितत्त्वापराभिधम
त्रिगुणं सत्त्वबहुलं निर्मलं स्फटिकोपमम
चिच्छायाप्राप्तचैतन्यं तदिच्छामयमीरितम 11
महतस्त्रिगुणाज्जातोऽहङ्कारस्त्रिगुणान्वितः
सात्त्विको राजसश्चापि तामसश्चेति स त्रिधा 12
जातानि सात्त्विकात्तस्मादिन्द्रि याणि सराजसात
तानि श्रोत्रं त्वचो नेत्रं रसना नासिका तथा 13
वाग्घस्तचरणोपस्थगुदान्येकादशं मनः
पञ्च बुद्धीन्द्रि याण्याहुः प्राक्तनानीतराणि च 14
कर्मेन्द्रि याणि पञ्चैव कथयन्ति विपश्चितः 15
मनो बुद्धीन्द्रि यं विज्ञैः कर्मेन्द्रि यमपि स्मृतम
मनोऽधिष्ठितमेवेदमिन्द्रि यं यत्प्रवर्त्तते 16
शब्दः स्पर्शश्च रूपश्च रसो गन्धो ह्यनुक्रमात
बुद्धीन्द्रि याणां विषयाः समाख्याता महर्षिभिः 17
वाच्यं ग्राह्यञ्च गन्तव्यमानन्दं त्याज्यमेव च
कर्मेन्द्रि याणां विषया ज्ञातव्य विषयो हृदः 18
तामसादप्यहङ्कारस्तन्मात्राणि सराजसात
पञ्चाल्पसत्त्वसम्बन्धात्तल्लिङ्गानि भवन्ति हि 19
शब्दतन्मात्रकं स्पर्शतन्मात्रं रूपमात्रकम
रसतन्मात्रकं गन्धतन्मात्रमिति तानि तु 20
तन्मात्रेभ्यो वियद्वायुर्वह्निर्वारि वसुन्धरा
एतानि पञ्च जायन्ते महाभूतानि तत्क्रमात 21
शब्दः श्रोत्रेन्द्रि यं वापि च्छिद्राणि च विविक्तता
वियतः कथिता एते गुणागुणविचारिभिः 22
स्पर्शस्त्वगिन्द्रि यञ्चापि लघुता स्पन्दनं तनोः
चेष्टा सर्वशरीरस्य वायोरेते गुणाः स्मृताः 23
रूपं नेत्रेन्द्रियं पाकः सन्तापस्तीक्ष्णता तथा
वर्णो भ्राजिष्णुताऽमर्षः शौर्यं वह्नेर्गुणा अमी 24
रसो रसेन्द्रियं शैत्यं स्नेहश्च गुरुता तथा
सर्वद्र वसमूहश्च शुक्रं वारिगुणाः स्मृताः 25
गन्धो घ्राणेन्द्रि यं चापि काठिन्यं गौरवं तथा
वसुन्धरागुणा एते गदिता गुणवेदिभिः 26
शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तत्क्रमात
तन्मात्राणां विशेषाः स्युः स्थूलभावमुपागताः 27
प्रकृतेः कारणायोगान्मता प्रकृतिरेव सा
महत्तत्त्वादयः सप्त शक्तेर्विकृतयः स्मृताः 28
इन्द्रि याणां च भूतानां कारणत्वान्महर्षिभिः
महत्तत्त्वादयः सप्त प्रोक्ताः प्रकृतयोऽपि च 29
दशेन्द्रि याणि चित्तञ्च महाभूतानि पञ्च च
एतानि सृष्टिं जानद्भिर्विकाराः षोडश स्मृताः 30
एवं चतुर्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहे
जीवात्मनियतेर्निघ्नो वसति स्वान्तदूतवान 31
स देही कथ्यते पापपुण्यदुःखसुखादिभिः
व्याप्तो बद्धश्च मनसा कृत्रिमैः कर्मबन्धनैः 32
इच्छाद्वेषसुखासुखानि विषयज्ञानं प्रयत्नो मनः
सङ्कल्पश्च विचारणा स्मृतिरथो बुद्धिः कलाविज्ञता
प्राणस्योपरियापनं गुदवशाद्वायोरधः प्रेरणं
नेत्रोन्मेषनिमेषकृत्यकरणोत्साहाश्च जीवे गुणाः 33

इति श्री मिश्रलटकनतनय श्रीमन्मिश्रभावविरचिते भावप्रकाशे
सृष्टिप्रकरणं समाप्तम 2

अथ गर्भप्रकरणम 3

द्वादशाद्वत्सरादूर्ध्वमापञ्चाशत्समाः स्त्रियः
मासि मासि भगद्वारा प्रकृत्यैवार्तवं स्रवेत 1
आर्तवस्रावदिवसादृतुः षोडश रात्रयः
गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः 2
आर्तवस्रावदिवसादहिंसा ब्रह्मचारिणी
शयीत दर्भशय्यायां पश्येदपि पतिं न च 3
करे शरावे पर्णे वा हविष्यं त्र्! यहमाहरेत
अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम 4
नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम
अत्युच्चशब्दश्रवणं हसनं बहुभाषणम
आयासं भूमिखननं प्रवातञ्च विवर्जयेत 5
अज्ञानाद्वा प्रमादाद्वा लोभाद्वा दैवतश्च वा 6
सा चेत्कुर्यान्निषिद्धानि गर्भो दोषांस्तदाऽप्नुयात
एतस्या रोदनाद्गर्भो भवेद्विकृतलोचनः 7
नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत
अनुलेपात्तथा स्नानाद दुःखशीलोऽञ्जनाददृक  8
स्वापशीलो दिवास्वापाच्चञ्चलः स्यात्प्रधावनात
अत्युच्चशब्दश्रवणाद्बधिरः खलु जायते  9
तालुदन्तौष्ठजिह्वासु श्यावो हसनतो भवेत
प्रलापी भूरिकथनादुन्मत्तस्तु परिश्रमात
स्खलते भूमिखननादुन्मत्तो वातसेवनात  10
पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना
तादृशं जनयेत्पुत्रं ततः पश्येत्पतिं प्रियम 11
प्रवहत्सलिले क्षिप्तं द्र व्यं गच्छत्यधो यथा
तथा वहति रक्ते तु क्षिप्तं वीर्यमधो व्रजेत 12
आयुः क्षयभयाद्भर्त्ता प्रथमे दिवसे स्त्रियम
द्वितीयेऽपि दिने रत्यै त्यजेदृतुमतीं तथा 13
तत्र यश्चाहितो गर्भो जायमानो न जीवति
आहितो यस्तृतीयेऽह्नि स्वल्पायुर्विकलाङ्गकः 14
अतश्चतुर्थी षष्ठी स्यादष्टमी दशमी तथा
द्वादशी वापि या रात्रिस्तस्यां तां विधिना भजेत 15
अत्रोत्तरोत्तरं विद्यादायुरारोग्यमेव च
प्रजासौभाग्यमैश्वर्यं बलञ्चाभिगमात फलम 16
मनोभवागारमुखेऽबलानां तिस्रो भवन्ति प्रमदाजनानाम
समीरणा चन्द्र मसी च गौरी विशेषमासामुपवर्णयामि 17
प्रधानभूता मदनातपत्रे समीरणा नाम विशेषनाडी
तस्या मुखे यत् पतितं तु वीर्यं तन्निष्फलं स्यादिति चन्द्र मौलिः 18
या चापरा चान्द्र मसी च नाडी कन्दर्पगेहे भवति प्रधाना
सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेषु 19
गौरीति नाडी यदुपस्थगर्भे प्रधानभूता भवति स्वभावात
पुत्रं प्रसूते बहुधाङ्गना सा कष्टोपभोग्या सुरतोपविष्टा 20
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु 21
स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोर्चितः
भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः 22
ताम्बूलवदनस्तस्यामनुरक्तोऽधिकस्मरः
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे 23
अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपासितः
बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रोगी च मैथुनम 24
पुरुषस्य गुणैर्युक्ता विहिता न्यूनभोजना
नारी ऋतुमती पुंसा सङ्गच्छेत्तु सुतार्थिनी 25
रजस्वला व्याधिमती विशेषाद्योनिरोगिणी
वयोऽधिका च निष्कामा मलिना गर्भिणी तथा
एतासां सङ्गमात्पुंसां वैगुण्यानि भवन्ति हि 26

कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः
गर्भः सञ्जायते नार्याः स जातो बाल उच्यते 27
दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितमिति  28
ऋतौ स्त्रीपुंसयोर्योगे मकरध्वजवेगतः
मेढ्रयोन्यभिसङ्घर्षाच्छरीरोष्मानिलाहतः 29
पुंसः सर्वशरीरस्थं रेतो द्रा वयतेऽथ तत
वायुर्मेहनमार्गेण पातयत्यङ्गनाभगे 30
तत् संस्रुत्य व्यात्तमुखं याति गर्भाशयं प्रति
तत्र शुक्रवदायातेनार्त्तवेन युतं भवेत 31
शङ्खनाभ्याकृतिर्योनिस्त्र्! यावर्त्ता सा च कीर्तिता
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता 32
यथा रोहितमत्स्यस्य मुखं भवति रूपतः
तत्संस्थानां तथा रूपां गर्भशय्यां विदुर्बुधाः 33
शुक्रार्त्तवसमाश्लेषो यदैव खलु जायते
जीवस्तदैव विशति युक्तः शुक्रार्त्तवान्तरः 34
सूर्यांशोः सूर्यमणित उभयस्माद्युताद्यथा
वह्निः सञ्जायते जीवस्तथा शुक्रार्तवाद्युतात 35
आत्मानादिरनन्तश्चाव्यक्तो वक्तुं न शक्यते
चिदानन्दैकरूपोऽयं मनसापि न गम्यते 36
एवम्भूतोऽपि जगतो भाविनी बलवत्तया
अविद्यास्वीकृते कर्मवशो गर्भे विशत्यसौ 37
स एव वेत्ता रसनो द्र ष्टा घ्राता स्पृशत्यसौ
श्रोता वक्ता च कर्त्ता च गन्ता रन्तोत्सृजत्यपि 38
दिने व्यतीते नियतं संकुचत्यम्बुजं यथा
ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा 39
बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ
यमावित्यभिधीयेते धर्मेतरपुरःसरौ 40
आधिक्ये रेतसः पुत्रः कन्या स्यादार्त्तवेऽधिके
नपुंसकं तयोः साम्ये यथेच्छा पारमेश्वरी 41
एवं तामभिसङ्गम्य पुनर्मासाद्भजेदसौ 41
शुक्रशोणितयोर्योनेरस्रावोऽथ श्रमोद्भवः
सक्थिसादः पिपासा च ग्लानिः स्फूर्त्तिर्भगे भवेत 42
स्तनयोर्मुखकार्ष्ण्यं स्याद्रो मराज्युद्गमस्तथा
अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः 43
छर्दयेत्पथ्यभुक्चापि गन्धादुद्विजते शुभात
प्रसेकः सदनं चैव गर्भिण्या लिङ्गमुच्यते 44
पुत्रगर्भयुतायास्तु नार्या मासि द्वितीयके
गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृणु 45
दक्षिणाक्षिमहत्वं स्यात् प्राक्क्षीरं दक्षिणे स्तने
दक्षिणोरुः सुपुष्टः स्यात्प्रसन्नमुखवर्णता 46
पुन्नामधेयद्र व्येषु स्वप्नेष्वपि मनोरथः
आम्रादिफलमाप्नोति स्वप्नेषु कमलादि च 47
कन्या गर्भवती गर्भे पेशी मासि द्वितीयके
पुत्रगर्भस्य लिङ्गानि विपरीतानि चेक्षते 48
नपुंसकं यदा गर्भे भवेद् गर्भोऽबुदाकृतिः
उन्नते भवतः पार्श्वे पुरस्तादुदरं महत 49
आसेक्यश्च सुगन्धी च कुम्भीकश्चेष्यर्यकस्तथा
अमी सशुक्रा बोद्धव्या अशुक्रः षण्ढसंज्ञकः 50
पित्रोस्तु स्वल्पवीर्यत्वादासेक्यः पुरुषो भवेत
स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम 51
यः पूतियोनौ जायेत स हि सौगन्धिको भवेत
स योनिशेफसोर्गन्धमाघ्राय लभते बलम 52
स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते
स कुम्भीक इति ज्ञेयो गुदयोनिस्तु स स्मृतः 53
दृष्ट्वा व्यवायमन्येषां व्यावाये यः प्रवर्त्तते
ईर्ष्यकः स तु विज्ञेयो दृष्टियोनिस्तु स स्मृतः 54
यो भार्यायामृतौ मोहादङ्गनेव प्रवर्त्तते
तत्र स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञकः 55
ऋतौ ॠतौ पुरुषवत् प्रवर्त्तेताङ्गना यदि
तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता 56
यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन
मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते 57
ऋतुस्नाता तु या नारी स्वप्ने मैथुनमाचरेत
आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि 58
मासि मासिप्रवर्द्धेत स गर्भो गर्भलक्षणः
कललं जायते तस्य वर्जितं पैतृकैर्गुणैः 59
सर्पवृश्चिककूष्माण्डाकृतयो विकृताश्च ये
गर्भास्ते योषितस्ताश्च ज्ञेयाः पापकृतो भृशम 60
गर्भो वातप्रकोपेण दोहदे चापमानिते
भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिन एव च 61
आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ
स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः 62
गर्भाशयगतं शुक्रमार्त्तवं जीवसंज्ञकः
प्रकृतिः सविकारा च तत्सर्वं गर्भसंज्ञकम 63
कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः
भवेत्तदा स मुनिभिः शरीरीति निगद्यते 64
तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः
मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः 65
आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः
तस्यान्तर्मस्तुलुङ्गं च ललाटं भ्रूयुगन्तथा 66
नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वे कनीनिके
दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनी 67
पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वयम
पालिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता 68
ओष्ठाधरौ च सृक्किण्यौ मुख तालु हनुद्वयम
दन्ताश्च दन्तवेष्टश्च रसना चिबुकङ्गलः 69
द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्यते
तृतीयं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे 70
तत्रोपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः
कफोणियुग्मं तदधं प्रकोष्ठयुगलन्तथा 71
मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश
नखाश्च दश ते स्थाप्या दशच्छेद्याःप्रकीर्त्तिताः 72
चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे
स्तनौ पुंसस्तथा नार्या विशेष उभयोरयम 73
यौवनागमने नार्याः पीवरौ भवतः स्तनौ
गर्भवत्या प्रसूतायास्तावेव क्षीरपूरितौ 74
हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम
जाग्रतस्तद्विकसति स्वपतस्तु निमीलति 75
आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम
अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि 76
कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते
कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ 77
उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम
सपृष्ठवंशं पृष्ठं तु समस्तं सप्तमं स्मृतम 78
उपाङ्गानि च कथ्यन्ते तानि जानीहि यत्नतः
शोणिताज्जायते प्लीहा वामतो हृदयादधः 79
रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः
हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेनजः 80
अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः
तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम 81
अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति
जलवाहिशिरामूलं तृष्णाऽच्छादनकृन्मतम 82
मेदः शोणितयोः साराद्वृक्कयोर्युगलं भवेत
तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः 83
अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्दिशेत
उक्ता सार्द्धास्त्रयो व्यामापुंसामन्त्राणि सूरिभिः 84
उन्दुकश्च कटी चापि त्रिकं वस्तिश्च वङ्क्षणौ
कण्डराणां प्ररोहःस्यान्मेढ्रोऽध्वा वीर्यमूत्रयोः 85
स एव गर्भस्याधानं कुर्याद्गर्भाशये स्त्रियाः
शङ्खनाभ्याकृतिर्योनिस्त्र्! यावर्त्ता सा च कीर्त्तिता 86
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता
वृषणौ भवतः सारात्कफासृङ्मांसमेदसाम 87
वीर्यवाहिशिराधारौ तौ मतौ पौरुषावहौ
गुदस्य मानं सर्वस्य सार्द्धं स्याच्चतुरङ्गुलम 88
तत्र स्युर्वलयस्तिस्रः शङ्खावर्तनिभास्तु ताः
प्रवाहिणी भवेत्पूर्वा सार्द्धाङ्गुलमिता मता 89
उत्सर्जनी तु तदधः सा सार्द्धाङ्गुलसम्मिता
तस्याधः संवरणी स्यादेकाङ्गुलसमा मता 90
अर्द्धाङ्गुलप्रमाणं तु बुधैर्गुदमुखं मतम
मलोत्सर्गस्य मार्गोऽय पायुर्देहे विनिर्मितः 91
पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ च योषितः
तयोः कुकुन्दरे स्यातां सक्थिनोत्वङ्गमष्टमम 92
तदुपाङ्गानि च ब्रूमो जानुनी पिण्डकाद्वयम
जंघे द्वे घुटिके पार्ष्णी तले च प्रपदे तथा 93
पादावङ्गुलयस्तत्र दश तासां नखा दश
अथ दोषाः प्रवक्ष्यन्ते धातवस्तदनन्तरम 94
आहारादेर्गतिस्तस्य परिणामश्च वक्ष्यते
आर्त्तवं चाथ धातूनां मलास्तदुपधातवः 95
आशयाश्च कलाश्चापि मर्माण्यथ च सन्धयः
शिराश्च स्नायवश्चापि धमन्यः कण्डरास्तथा 96
रन्ध्राणि भूरि स्रोतांसि जालैः कूर्च्चाश्च रज्जवः
सेवन्यश्चाथ सङ्घाताः सीमान्ताश्च तथा त्वचः 97
लोमानि लोमकूपाश्च देह एतन्मयो मतः
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः 98
विकृताविकृता देहं घ्नन्ति ते वर्द्धयन्ति च
ते व्यापिनोऽपि हृन्नाभ्योरधो मध्योर्ध्वसंश्रयाः
वयोऽहोरात्रिभुक्तानामन्तमध्यादिगाः क्रमात 99
धातवश्च मलाश्चापि दुष्यन्त्येभिर्यतस्ततः
वातपित्तकफा एते त्रयो दोषा इति स्मृताः 100
ते धातवोऽपि विद्वद्भिर्गदिता देहधारणात 101
दोषधातुमलादीनां नेता शीघ्रः समीरणः
रजोगुणमयः सूक्ष्मो रूक्षः शीतो लघुश्चलः 102
उत्साहोच्छ्वासनिःश्वासचेष्टावेगप्रवर्त्तनैः 103
सम्यग् गत्या च धातूनामन्द्रि याणाञ्च पाटवैः
अनुगृह्णात्यविकृतो हृदयेन्द्रि यचित्तधृक 104
रजोगुणमयः सूक्ष्मः शीतो रूक्षो लघुश्चलः
खरो मृदुर्योगवाही संयोगादुभयार्थकृत 105
दाहकृत् तेजसा युक्तः शीतकृत्सोमसंश्रयात
विभागकरणाद्वायुः प्रधानं दोषसंग्रहे 106
पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रि यम
स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः 107
उदानस्तदनुप्राणः समानोऽपान एव च
व्यानश्चैतानि नामानि वायोः स्थानप्रभेदतः 108
कण्ठे हृदि तथाऽधस्तात्कोष्ठवह्नेर्मलाशये
सकलेऽपि शरीरेऽसौ क्रमेण पवनो वसेत 109
उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः
तेन भाषितगीतादिप्रवृत्तिः कुपितस्तु सः 110
ऊर्ध्वजत्रुगतान् रोगान्विदधाति विशेषतः
यो वायुः प्राणनामाऽसौ मुखं गच्छति देहधृक 111
सोऽन्न प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान 112
आमपक्वाशयचरः समानो वह्निसङ्गतः
सोऽन्न पचति तज्जांश्च विशेषान्विविनक्ति हि 113
स दुष्टो वह्निमान्द्यातिसारगुल्मान् करोति हि
पक्वाशयालयोऽपानः काले कर्षति चाप्ययम 114
समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः
क्रुद्धस्तु कुरुते रोगान् घोरान्वस्तिगुदाश्रयान 115
शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान
कृत्स्नदेहचरो व्यानो रससंवाहनोद्यतः 116
स्वेदाऽसृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि
प्रस्पन्दनञ्चोद्वहनं पूरणञ्च विरेचनम 117
धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ताः नभस्वतः
गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः
प्रायः सर्वाः क्रियास्तस्मिन प्रतिबद्धाः शरीरिणाम 118
क्रुद्धः सः कुरुते रोगान् प्रायशः सर्वदेहगान
युगपत कुपिता एते देहं भिन्द्युरसंशयम 119
पित्तमुष्णं द्रवं पीतं नीलं सत्त्वगुणोत्तरम
सरं कटु लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः 120
पाचकं रञ्जकञ्चापि साधकालोचके तथा
भ्राजकञ्चेति पित्तस्य नामानि स्थानभेदतः 121
अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्वये
त्वचि सर्वशरीरेषु पित्तं निवसति क्रमात 122
पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम
रसमूत्रपुरीषाणि विरेचयति नित्यशः 123
इत्यलमप्रकृतिचिन्तनेन पुनः प्रकृतमनुसरति
रञ्जकं नाम यत्पित्तं तद्र सं शोणितं नयेत
यत्तु साधकसंज्ञं तत्कुर्याद्बुद्धिं धृतिं स्मृतम 124
यदालोचकसंज्ञं तद्रू पग्रहणकारणम
भ्राजकं कान्तिकारि स्याल्लेपाभ्यङ्गादिपाचकम 125
श्लेष्माश्वेतो गुरुः स्निग्धः पिच्छिलः शीतलस्तथा
तमोगुणाधिकः स्वादुर्विदग्धो लवणो भवेत 126
कफस्यैतानि नामानि क्लेदनश्चावलम्बनः
रसनः स्नेहनश्चापि श्लेषणः स्थानभेदतः 127
आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु
स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्ठत्यनुक्रमात 128
क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि
अनुगृह्णाति च श्लेष्मस्थानान्युदककर्मणा 129
रसयुक्तात्मवीर्येण हृदयस्यावलम्बनम
त्रिकसन्धारणं चापि विदधात्यवलम्बनः 130
उभावपि ततः सौम्यौ तिष्ठतश्चान्तिके यतः
यतो रसान्विजानीतो रसनारसनौ समौ 131
स्नेहनः स्नेहदानेन समस्तेन्द्रि यतर्पणः
श्लेषणः सर्वसन्धीनां संश्लेषं विदधात्यसौ 132
एते सप्त स्वयं स्थित्वा देहं दधति यन्नृणाम
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः 133
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे
गर्भोत्पादश्च कर्माणि धातूनां कथितानि हि 134
गत्यर्थो रस धातुर्यस्ततोऽभवदयं रसः
सद्र वं सकलं देहे रसतीति रसः स्मृतः 134
सम्यक्पक्वस्य भुक्तस्य सारो निगदितो रसः
स तु द्र वः सितः शीतः स्वादुः स्निग्धश्चलो भवेत 135
सर्वदेहचरस्यापि रसस्य हृदयं स्थलम
समानमरुता पूर्वं यदयं हृदये धृतः 136
आरुह्य धमनीर्गत्वा धातून् सर्वानयं रसः
पुष्णाति तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः 137
मन्दवह्निविदग्धस्तु कटुर्वाऽम्लो भवेद्र सः
स कुर्याद्बहुलान् रोगान् विषकृत्यं करोत्यपि 138
यदा रसो यकृद्याति तत्र रञ्जकपितत्तः
रागंपाकं च सम्प्राप्य स भवेद्र क्तसंज्ञकः 139
रक्तं सर्वशरीरस्थं जीवस्याधारमुत्तमम
स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत 140
यकृत् प्लीहा च रक्तस्य मुख्यस्थानन्तयोः स्थितम
अन्यत्र संस्थितवतां रक्तानां पोषकं भवेत 141
शोणितं स्वाग्निना पक्वं वायुना च घनीकृतम
तदेव मांसं जानीयात्तस्य भेदानपि ब्रुवे 142
यथाऽथमूष्मणा युक्तो वायुः स्रोतांसिदारयेत
अनुप्रविश्य पिशितं पेशीर्विभजते तथा 143
मांसपेश्यः समाख्याता नृणां पञ्च शतानि हि 144
तासां शतानि चत्वारि शाखासु कथितान्यथ
कोष्ठे षडुत्तरा षष्टिः कथिता मुनिपुङ्गवैः
ग्रीवाया ऊर्ध्वगास्तास्तु चतुस्त्रिंशत् प्रकीर्त्तिताः 145
स्त्रीणामपि भवन्त्येताः किन्तु विंशतिरुत्तराः
गर्भाशये गर्भमार्गे योनौ च स्तनयोरपि 146
पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता मेहनमुष्कजाः
स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः 147
शिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम
पेशीभिःसंवृतान्येव बलवन्ति भवन्ति हि 148
यन्मांसं स्वाग्निना पक्वं तन्मेद इति कथ्यते
तदतीव गुरु स्निग्धं बलकार्यतिबृंहणम 149
मेदो हि सर्वभूतानामुदरेष्वस्थि संस्थितम
अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत 150
मेदो यत् स्वाग्निना पक्वं वायुना चातिशोषितम 151
तदस्थिसंज्ञां लभते स सारः सर्वविग्रहे
अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः 152
अस्थिसारैस्तथा देहा ध्रियन्ते देहिनो ध्रुवम
तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम
अस्थीनि न विनश्यन्ति सारा एतानि सर्वथा 153
शल्यतन्त्रेऽस्थिखण्डानांशतत्रयमुदाहृतम 154
तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च
सविंशतिशतं त्वस्थ्नां शाखासु कथितं बुधैः 155
पार्श्वयोः श्रोणिफलके वक्षःपृष्ठोदरेषु च
जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम
ग्रीवायामूर्ध्वगां विद्यादस्थ्नां षष्टिंत्रिसंयुताम 156
एतान्यस्थीनि पञ्चविधानि भवन्ति तानि यथा
तरुणानि कपालानि रुचकानि भवन्ति हि
वलयानीति तानि स्युर्नलकानि च कानि चित 157
अक्षिकोश श्रुतिघ्राणग्रीवासु तरुणानि च 158
शिरः शङ्खकपोलेषु ताल्वं सप्रोथजानुषु
कपालानि भवन्त्येषु दन्तेषु रुचकानि च 159
पार्ष्ण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु
पादयोर्वलयानि स्युर्नलकानि ब्रुवेऽधुना 160
हस्ते पादाङ्गुलितले कूर्च्चे च मणिबन्धके
बाहूजङ्घाद्वये चापि जानीयान्नलकानि तु 161
मांसान्यन्त्राणि बद्धानि शिराभिः स्नायुभिस्तथा
अस्थीन्यालम्बनं कृत्वा न दीर्यन्ते पतन्ति च 162
अस्थि यत् स्वाग्निना पक्वं तस्य सारो भवेद्घनः
यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते 163
स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः 164
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः 165
यात्यामाशयमाहारः पूर्वं प्राणानिलेरितः
माधुर्यं फेनभावं च षड्रसोऽपि लभेत सः 166
षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता
आमपक्वाशयान्तःस्था ग्रहणी साऽभिधीयते 167
तत्रग्रहण्यामामाशयपक्वाशयमध्यवर्त्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाऽहारः
पच्यते स कटुश्च भवतीत्याहग्रहण्यां पच्यते कोष्ठे वह्निना जायते कटुः इति 168
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः
पञ्चाहारगुणान् स्वान् स्वान्पार्थिवादीन् पचन्त्यनु 169
पञ्च भूतात्मके देहे आहारः पाञ्चभौतिकः
विपक्वः पञ्चधा सम्यग्गुणान्स्वानभिवर्द्धयेत इति 170
मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः
कटुतिक्तकषायाणां विपाको जायते कटुः इति 171
आहारस्य रसः सारः सार हीनो मलद्र वः
शिराभिस्तज्जलं नीतं वस्तिं मूत्रत्वमाप्नुयात 172
शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते
समानवायुना नीतन्तत्तिष्ठति मलाशये 173
मूत्रञ्चोपस्थमार्गेण पुरीषं गुदमार्गतः
अपानवायुना क्षिप्तं बहिर्याति शररीतः 174
रसस्तु हृदयं याति समानमरुतेरितः
स तु व्यानेन विक्षिप्तः सर्वान धातून् विवर्द्धयेत 175
केदारेषु यथा कुल्याः पुष्णन्ति विविधौषधीः
तथा कलेवरे धातून् सर्वान् वर्द्धयते रसः 176
स्थूलः सूक्ष्मस्तन्मलश्च तत्र तत्र त्रिधा रसः
स्वं स्थूलॐऽश परं सूक्ष्मस्तन्मलो याति तन्मलम 177
धातौ रसादौ मज्जान्ते प्रत्येकं क्रमतो रसः
अहोरात्रात्स्वयं पञ्च सार्द्धदण्डं च तिष्ठति 178
स्वाग्निभिः पच्यमानेषु मज्जान्तेषु रसादिषु
षट्सु धातुषु जायन्ते मलानि मुनयो जगुः 179
यथा सहस्रधा ध्माते न मलं किल काञ्चने
तथा रसे मुहुः पक्वे न मलं शुक्रताङ्गते 180
ओजः सर्वशरीरस्थं स्निग्धं शीतं स्थिरं सितम
सोमात्मकं शरीरस्य बलपुष्टिकरं मतम 181
गुरु शीतं मृदु स्निग्धं सान्द्रं  स्वादु स्थिरं तथा
प्रसन्नं पिच्छिलं सूक्ष्ममोजो दशगुणं स्मृतम 182
अष्टविन्दुप्रमाणं तदीषद्र क्तं सपीतकम
अग्नीषोमात्मकत्वेन द्विरूपं वर्णितन्तु तत 183
ओजश्च तेजो धातूनां शुक्रान्तानां परं स्मृतम
हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम 184
यस्य प्रवृद्धौ देहस्य तुष्टिपुष्टिबलोदयाः
यन्नाशे नियतो नाशो यस्मिंस्तिष्ठति जीवनम 185
निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः
उत्साहप्रतिभाधैर्यलावण्यसुकुमारताः 186
ततः स्थूलो भागो रसो मासेन पुंसां शुक्रं स्त्रीणान्त्वार्त्तवं शुक्रञ्च भवति उक्तञ्च सुश्रुते
एवं मासेन रसः शुक्रो भवति  स्त्रीणामार्त्तवञ्चेति  चकारात स्त्रीणामपि शुक्रं भवति
अत एवोक्तं सुश्रुते योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे
तत्र गर्भस्य किञ्चित्तुन करोतीति न चिन्त्यते 187
स्त्रीणां गर्भोपयोगि स्यादार्त्तवं सर्वसम्मतम
तासामपि बलं वर्णं शुक्रं पुष्टिं करोति हि 188
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः 189
रसः शरीरे शब्दार्च्चिर्जलसन्तानवत् त्रिधा
सञ्चरत्यनुरूपोऽय नित्यमेव हि देहिनाम 190
वाजीकरिण्य ओषध्यः स्वप्रभावगुणोच्छ्रयात
विरेचयन्ति ताः शुक्रं विरेकिद्र व्यवन्नृणाम 191
दुग्धं माषाश्च भल्लात फलमज्जामलानि च
जनकानि निगद्यन्ते रेचनानि च रेतसः 192
बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते
पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते 193
तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि
कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा 194
रोमराज्यादयः पुंसां नारीणामपि यौवने
जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च 195
वार्द्धके वर्द्धमानेन वायुना रसशोषणात
न तथा धातुवृद्धिः स्यात्ततस्तत्रानिलं जयेत 196
शुक्रं सौम्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम
गर्भबीजं वपुःसारो जीवस्याश्रय उत्तमः 197
जीवो वसति सर्वस्मिन्देहे तत्र विशेषतः
वीर्ये रक्ते मले यस्मिन क्षीणे याति क्षयं क्षणात 198
स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च
शुक्रमिच्छन्ति केचित्तु तैलक्षौद्र निभञ्च तत 199
यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा
एवं हि सकले काये शुक्रं तिष्ठति देहिनाम 200
द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः
मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्त्तते 201
कृत्स्नदेहस्थितं शुक्रं प्रसन्नमनसस्तथा
स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते 202
शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि
शब्दसंश्रवणाद्ध्य्नाआ!त् संयोगाच्च प्रवर्त्तते 203
रसादेव रजः स्त्रीणां मासि मासि त्रयहं स्रवेत
तद्वर्षाद् द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम 204
मासेनोपचितं काले धमनीभ्यस्तदार्त्तवम्
ईषद्विवर्णं कृष्णञ्च वायुर्योनिमुखं नयेत् 205
शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम
तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत 206
अतिरिक्ता गुणा रक्ते बह्नेर्मांसे तु पार्थिवाः
मेदस्यपां भुवश्चास्थ्नि पृथिव्यनिलतेजसाम 207
मज्ज्ञि शुक्रे च सोमस्य मूत्रे च शिखिनोगुणाः
भुवस्तथाऽत्तवे त्वग्ने रसे क्षीरे तथाऽम्भसः 208
कफः पित्तं मलः खेषु प्रस्वेदो नखलोम च
नेत्रविट्त्वक्षु च स्नेहो धातूनां क्रमशो मलाः 209
वनितानां प्रसूतानां धमनीभ्यां स्तनौ गतात
रसादेव हि जायेत स्तन्यं स्तनयुगाशयम 210
शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्त्तिता
मेदसस्ताप्यमानस्य स्नेहो वा कथिता वसा 211
स्तन्यं रजो वसा स्वेदो दन्ताः केशास्तथैव च
ओजश्च सप्तधातूनां क्रमात् सप्तोपधातवः 212
उरोरक्ताशयस्तस्मादधः श्लेष्माशयः स्मृतः
आमाशयस्तु तदधस्तल्लिङ्गं चरकोऽवदत 213
आमाशयादधः पक्वाशयादूर्ध्वन्तु या कला
ग्रहणी नामिका सैव कथितः पाचकाशयः 214
ऊर्ध्वमग्न्याशयो नाभेर्मध्यभागे व्यवस्थितः
तस्योपरि तिलं ज्ञेयं तदधः पवनाशयः 215
पक्वाशयस्तुतदधः स एव तु मलाशयः
तदधः कथितो वस्तिः स हि मूत्राशयो मतः 216
कफाऽमपित्तवातानामाशया मलमूत्रयोः
पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः 217
धरा गर्भाशयः प्रोक्तः पित्तपक्वाशयान्तरे
स्तनौ प्रवृद्धौ तावेव बुधैः स्तन्याशयौ मतौ 218
स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा
श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान्विदुः 219
धात्वाशयान्तरे धातोर्यः क्लेदस्त्वधितिष्ठति
देहोष्मणाऽभिपक्वश्च सा कलेत्यभिधीयते 220
आद्या मांसधरा प्रोक्ता द्वितीया रक्तधारिणी
मेदोधरा तृतीया तु चतुर्थी श्लेष्मधारिणी 221
पञ्चमी तु मलं धत्ते षष्ठी पित्तधरा मता
रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः 222
सन्निपातः शिरास्नायुसन्धिमांसास्थिसम्भवः
मर्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः 223
सप्तोत्तरशतं सन्ति देहे मर्माणि देहिनाम
तान्येकादश मांसे स्युरष्टावस्थिषु सन्ति हि 224
सन्धीनां विंशतिस्तानि स्नायूनां सप्तविंशतिः
चत्वारिंशतत्तथैकञ्च शिरामर्माणि तत्र तु 225
द्वाविंशतिः सक्थियुगे तावत्येव भुजद्वये
द्वादशोरसि कुक्षौ च पृष्ठदेशे चतुर्दश 226
ग्रीवायामूर्ध्वभागे तु सप्तत्रिंशन्मतानि हि
मर्माणि तानि सन्तीह पञ्चधा च भवन्ति हि 227
सद्यः प्राणहराणि स्युर्मर्माण्येकोनविंशतिः
मर्मदेशास्त्रयस्त्रिंशत् स्युः कालान्तरमारकाः 228
चत्वारिंशच्च चत्वारि वैकल्यं जनयन्ति हि
मर्माष्टकं रुजाकारि विशल्यघ्नं त्रिकं मतम 229
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठशिरा गुदम
हृदयं वस्तिनाभी च सद्यो घ्नन्ति हतानि चेत 230
वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्र वस्तयः
वृहत्यौ पार्श्वयोः सन्धी कटीकतरुणे च ये
नितम्बाविति चैतानि कालान्तरहराणि तु 231
लोहिताक्षाणिजानूर्वी कूर्चा विटपकूर्पराः
कुकुन्दरे कक्षधरे विधुरे सकृकाटिके 232
अंसांसफलकापाङ्गा नीले मन्ये फणे तथा
वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च 233
गुल्फौ द्वौ मणिबन्धौ द्वौ तथा कूर्चशिरांसि च
रुजाकराणि जानीयादष्टावेतानि बुद्धिमान 234
उत्क्षेपौ स्थपनी चैव विशल्यघ्नं त्रिकम्मतम 235
सप्तरात्रान्तरे हन्युः सद्यः प्राणहराणि हि
कालान्तरप्राणहरं पक्षे मासे च मारकम 236
सद्यः प्राणहरञ्चान्ते विद्धं कालेन मारयेत
कालान्तरप्राणहरमन्ते विद्धन्तु दुःखदम 237
मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम
प्रायेण ते कृच्छ्रतमा भवन्ति वैद्येन यत्नैरपि साध्यमानाः 238
अथ सन्धयः ते द्विविधाश्चेष्टावन्तः स्थिराश्च
शाखासु हन्वोः कट्याञ्च चेष्टावन्तो भवन्ति हि
शेषास्तु सन्धयः सर्वे स्थिरास्तज्ज्ञैरुदाहृताः 239
कथिता देहिनां देहे सन्धयो द्वे शते दश
शाखासु तेऽष्टषष्टिश्च कोष्ठे त्वेकोनषष्टिका 240
ग्रीवाया ऊर्ध्वदेशे तु त्र्! यशीतिस्ते प्रकीर्त्तिताः
प्रथमं परिगण्यन्ते तेषु शाखागता इह 241
कोरोदूखलसामुद्गाः प्रतरस्तूणसेवनी
काकतुण्डं मण्डलञ्च शङ्खावर्त्तोऽष्टसन्धयः 242
अस्थ्नां तु सन्धयो ह्येते केवलाः समुदाहृताः
पेशीस्नायु शिराणान्तु सन्धिसंख्या न विद्यते 243
सन्धिबन्धनकारिण्यो दोषधातुवहाः शिराः
नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः 244
शरीरं सकलञ्चैतच्छिराभिः पोष्यते सदा
प्रणालीभिरिवारामाः कुल्याभिः क्षेत्रधान्यवत 245
प्रसारणाकुञ्चनादिक्रियाभिः सततं तनौ
शिरा एवोपकुर्वन्ति ताः स्युः सप्तशतानि तु 246
यथा द्रुमदले साक्षाद् दृश्यन्ते प्रतताः शिराः
तथैव दैहिनो देहे वर्त्तन्ते सकले शिराः 247
नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिरुपाश्रिता
शिराभिरावृता नाभिश्चक्रनाभिरिवारकैः 248
क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम
करोत्यन्यान् गुणांश्चापि स्वाः शिराः पवनश्चरन 249
यदा तु कुपितो वायुः स्वाः शिराः प्रतिपद्यते
तदाऽस्य विविधा रोगा जायन्ते वातसम्भवाः 250
भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम्
करोत्यन्यान् गुणांश्चापि पित्तमात्मशिराश्चरद 251
यदा तु कुपितं पित्तं सेवते स्ववहाः शिराः
तदाऽस्यविविधा रोगा जायन्ते पित्तसम्भवाः 252
स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमरोगाताम
करोत्यन्यान गुणांश्चापि वलासःस्वाःशिराश्चरन 253
यदा तु कुपितः श्लेष्मा स्वाः शिराः प्रतिपद्यते
तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः 254
धातूनां पूरणं वर्णस्पर्शज्ञानमसंशयम
स्वशिरासु चरद्र क्तं कुर्याच्चान्यान गुणानपि 255
यदा तु कुपितं रक्तं सेवते स्ववहाः शिराः
तदाऽस्य विविधा रोगा जायन्ते रक्तसम्भवाः 256
तत्रारुणा वातवहाः पूर्यन्ते वायुना शिराः
पित्तादुष्णाश्च नीलाश्च शीता गौर्यः स्थिराः कफात्
असृग्धरास्तु ता रक्ताः स्युश्च नात्युष्णशीतलाः 257
मेदसः स्नेहमादाय शिरा स्नायुत्वमाप्नुयात
शिराणां हि मृदुः पाकः स्नायूनान्तु ततः खरः 258
स्नायवो बन्धनानिस्युर्देहमांसास्थिमेदसाम
सन्धीनामपि यत्तास्तु शिराभ्यः सुदृढाः स्मृताः 259
नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता
नियुक्ताऽगाधसलिले भवेद्भारसहा भृशम 260
एवमेव शरीरेस्मिन्यावन्तः सन्धयः स्मृताः
स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः 261
शतानि नव जायन्ते शरीरे स्नायवो नृणाम
तासां विवरणं ब्रूमः शिष्याः शृणुत यत्नतः 262
शाखासु षट्शतानि स्युः कोष्ठे त्रिंशच्छतद्वयम
ग्रीवाया ऊर्ध्वदेशे तु स्नायूनां सप्ततिः समृता 263
धमन्यो नाभितो जाताश्चतुर्विंशतिसंख्यया
दशोर्ध्वगा दशाधोगाः शेषास्तिर्यग्गताः स्मृता 264
यथा स्वभावतः खानि मृणालेषु विसेषु च
धमनीनां तथा खानि रसो यैरभितश्चरेत 265
पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रि यं पञ्चसु भाबयन्ति
पञ्चेन्द्रियं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले 266
महत्यः स्नायवः प्रोक्ताः कण्डरास्तास्तु षोडश
प्रसारणाकुञ्चनयोर्दृष्टं तासां प्रयोजनम 267
चतस्रो हस्तयोस्तासां तावत्यः पादयोः स्मृताः
ग्रीवायामपि तावत्यस्तावत्यः पृष्ठसङ्गताः 268
नेत्रश्रवणनासानां द्वे द्वे रन्ध्रे प्रकीर्त्तिते
मुखमेहनपायूनामेकैकं रन्ध्रमुच्यते 269
दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः
स्त्रीणामन्यानि च त्रीणि स्तनयोर्गर्भवर्त्मनि 270
मनः प्राणान्नपानीयदोषधातूपधातवः
धातूनां च मला मूत्रं मलमित्यादयस्तनौ 271
सञ्चरन्ति हि यैर्मागैस्तानि स्रोतांसि सञ्जगुः
बहूनि तानि संख्याय शक्यन्ते नैव भाषितुम 272
जालानि तु शिरास्नायुमांसास्थ्नामुद्भवन्ति हि
तानि चत्वारि चत्वारि सर्वाण्येव च षोडश 273
कूर्चा स्युर्हस्तयोर्द्वौ तु तावन्तौ पादयोरपि
ग्रीवायामेक एकस्तु मेढ्रे सर्वेऽपि षट् स्मृताः 274
पृष्ठवंशस्योभयत्र महत्यो मांसरज्जवः
चतस्रो मांसपेशीनां बन्धनं तत्प्रयोजनम 275
सेवन्यः सप्त तासां तु भवेयुः पञ्च मस्तके
एका शेफसि जिह्वायामेका विध्येन्न ताः क्वचित 276
चतुर्दशास्थ्नां सङ्घातास्तेषां त्रयो गुल्फजानुवंक्षणेषु
एतेनेतरसक्थिबाहू च व्याख्यातौ त्रिकशिरसोरेकैकम 277
चतुर्दशैव सीमन्ताः कथिता मुनिपुङ्गवैः
सङ्घाताः सीविता यैस्तु सीमन्तास्ते प्रकीर्त्तिताः 278
क्षीरस्य पच्यमानस्य यथा सन्तानिका भवेत
पच्यमानस्य शुक्रस्य रजसश्च तथा त्वचः
पूर्वावभासिनी तासां सिध्मस्थानं च सा स्मृता 279
द्वितीया लोहिता ज्ञेया तिलकालकजन्मभूः 280
तृतीया तु भवेच्छ्वेता स्थानं चर्मदलस्य सा 281
ताम्रा चतुर्थी विज्ञेया किलासश्वित्रभूमिका 282
पिञ्चमी वेदिनी नाम्ना पञ्चभागप्रमाणिका
विसर्पकुष्ठाधिष्ठाना ज्ञेया षष्ठी तु रोहिणी
विख्याता रोहिणी षष्ठी ग्रन्थिगण्डापचीस्थितिः 283
स्थूला त्वक्सप्तमी ख्याता विद्र ध्यादेः स्थितिश्च सा 284
अस्थ्नो मलानि लोमानि चासंख्यानि भवन्ति हि
सन्ति यावन्ति लोमानि तावन्तो लोमकूपकाः 285
अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते
सन्निवेशश्च गात्राणां नात्रास्ते कारणान्तरम 286
अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्यगुणा गुणाः
ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः 287
दन्तानां पतनं जन्म पुनः पाते त्वसम्भवः
तलेष्वनुद्भवो लोम्नामेतत्सर्वं स्वभावतः 288
गर्भाशये निपतितं यादृक्शुक्रं तथाऽतवम
तादृगेव द्रवीभूतं प्रथमे मासि तिष्ठति 289
मरुत्पित्तकफैस्तत्स्थैः पच्यमानो द्वितीयके
कललस्थमहाभूतसमुदायो घनीभवेत 290
तृतीये मासि शिरसो हस्तयोः पादयोस्तथा
पिण्डकाः पञ्च सिध्यन्ति सूक्ष्माङ्गावयवास्तनोः 291
सर्वाण्यङ्गान्युपाङ्गानि चतुर्थे स्युः स्फुटानि हि
हृदयव्यक्तभावेन व्यज्यते चेतनाऽपि च 292
तस्माच्चतुर्थे गर्भस्तु नाना वस्तूनि वाञ्छति
ततो द्विहृदया यत्स्यान्नारी दौहृदिनी मता 293
दौहृदावज्ञया कुब्जं कुणिं षण्ढं च वामनम
विकृताक्षमनक्षं वा पुत्रं नारी प्रसूयते 294
यतः स्त्री दौहृदं प्राप्य वीर्यवन्तं चिरायुषम्
पुत्रं प्रसूयते तस्मात्तस्यै वाच्छितमर्पयेत 295
इन्द्रि यार्थांस्तु यान्यान्सा भोक्तुमिच्छति गर्भिणी
गर्भबाधाभयात्तांस्तान्भिषगाहृत्य दापयेत 296
सा प्राप्तदौहृदा पुत्रं जनयेत्तु गुणान्वितम
अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम 297
येषु येष्विन्द्रि यार्थेषु दौहृदे साऽवमानिता
प्रसूयते सुतं सार्तिं तस्मिंस्तस्मिंस्तदिन्द्रि ये 298
राजसन्दर्शने यस्या दौहृदंजायते स्त्रियाः
अर्थवन्तं महाभागं कुमारं सा प्रसूयते 299
दुकूलपट्टकौशेयभूषणादिषु दौहृदात
अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते 300
आश्रमे संयतात्मानं धर्मशीलं प्रसूयते
देवताप्रतिमायां तु प्रसूते पार्षदोपमम 301
दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते
रक्ताक्षं लोमशं शूरं महिषामिषदौहृदात 302
वाराहमांसे स्वप्नालुं शूरं सञ्जनयेत्सुतम
मृगमांसे तु जङ्घालं विक्रान्तं वनचारिणम 303
अतोऽनुक्तेषु या नारी दौहृदं विदधाति हि
शरीराचारशीलैः सा समानं जनयिष्यति 304
पञ्चमे मानसं षष्ठे बुद्धिश्चातिप्रबुद्ध्य्ते
सर्वाण्यङ्गान्युपाङ्गानि भृशं व्यक्तानि सप्तमे 305
ओजोऽष्टमे सञ्चरति माता पुत्रौ मुहुः क्रमात
तेन तौम्लानमुदितौ स्यातां जातो न जीवति 306
न जीवत्यष्टमे जातस्तत्रौजो न स्थिरं यतः
तथा नेरृत्यभागत्वाद्दापयेत्तद्वलि ततः 307
नवमे दशमे मासि नारी बालं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः 308
शिरो भवति चाङ्गस्य पूर्वमित्याह शौनकः
शिरस्येवोपजायन्ते प्रधानानीन्द्रि याणि यत 309
हृदयं जायते पूर्वं कृतवीर्योऽवदन्मुनिः
बुद्धेश्च मनसश्चापि यतस्तत्स्थानमीरितम 310
पाराशर्य इति प्राह पूर्वं नाभिसमुद्भवः
प्राणो यत्र स्थितो देहं वर्द्धयत्यूष्मसंयुतः 311
पाणिपादं भवेत्पूर्वं मार्कण्डेयमुनेर्मतम
देहिनः सकलाश्चेष्टाः पाणिपादाश्रया यतः 312
प्रथमं जायते कोष्ठं ततः सर्वांगसम्भवः
एतत्तुं कथयामास गौतमो मुनिपुंगवः 313
सर्वाण्यङ्गान्युपाङ्गानि युगपत्सम्भवन्ति हि
सूक्ष्मत्वान्नोपलभ्यन्ते मतं धन्वन्तरेरिदम 314
आम्रस्याणुफले भवन्ति युगपन्मांसास्थिमज्जादयो
लक्ष्यन्ते न पृथक्पृथक्तनुतया पुष्टास्त एव स्फुटाः
एवं गर्भसमुद्भवे त्ववयवाः सर्वे भवन्त्येकदा
लक्ष्याः सूक्ष्मतया न ते प्रकटतामायान्ति वृद्धिं गताः 315
अथ शरीरे पितृज-मातृज-रसजात्मजा भागा उच्यन्ते  तत्र
केशाःश्मश्रु च लोमानि नखा दन्ताः शिरास्तथा
धमन्यः स्नायवः शुक्रमेतानि पितृजानि हि 316
मांसासृङ्मज्जमेदांसि यकृत्प्लीहान्त्रनाभयः
हृदयं च गुदं चापि भवन्त्येतानि मातृतः 317
शरीरोपचयो वर्णो बलं देहस्थितिस्तथा
रसादेतानि जायन्ते भिषजो मुनयो जगुः 318
ज्ञानं विज्ञानमायुश्च सुखदुःखादिकं तथा
इन्द्रि याणि च सर्वाणि भवन्त्येतानि चात्मनः 319
अग्नीषोमौ मही वायुर्नभः सत्त्वं रजस्तमः
पञ्चेन्द्रि याणि भूतात्मा गर्भं सञ्जीवयन्ति हि 320
गर्भस्य नाभिनाड्या तु नाडी रसवहा स्त्रियाः
संलग्ना तेन गर्भस्य वृद्धिर्भवति नित्यशः 321
निःश्वासोच्छ्वाससंक्षोभस्वप्नांशान्सोऽधिगच्छति
मातुर्निःश्वसितोच्छ्वाससंक्षोभस्वप्नसंभवान 322
गर्भस्य नाभिमध्ये तु ज्योतिःस्थानं ध्रुवं स्मृतम
तदाधमति वातश्च देहस्तेनास्य वर्धते 323
ऊष्मणा सहिताश्चापि दारयत्यस्य मारुतः
ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांसि तु यथा तथा 324
दृष्टिश्च रामकूपाश्च न वर्धन्ते कदा च न
ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम 325
शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा
स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः 326
चेतनानामधिष्ठानं मनो देहश्च सेन्द्रि यः
केशलोमनखाग्रान्नमलद्र वगुणैर्विना 327
वाताल्पत्वादयोगाच्च वायोः पक्वाशयस्य च
वातमूत्रपुरीषाणि गर्भस्थो न विमुञ्चति 328
जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति 329
गर्भिणी प्रथमादह्नः प्रहृष्टा भूषिता शुचिः
भवेच्छुक्लाम्बरधरा गुरुविप्रार्चने रता 330
भोज्यं तु मधुरप्रायं स्निग्धं हृद्यं द्र वं लघु
सस्कृतं दीपनीयं तु नित्यमेवोपयोजयेत 331
गर्भिणी न तु कुर्वीत व्यायाममपतर्पणम
व्यवायं च न सेवेत न कुर्यादतितर्पणम 332
रात्रौ जागरणं शोकं यानस्यारोहणं तथा
रक्तमोक्षं वेगरोधं न कुर्यादुत्कटासनम 333
दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते
स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते 334
मलिनां विकृताकारां हीनाङ्गीं न स्पृशेत्स्त्रियम
न जिघ्रेदपि दुर्गन्धं न पश्येन्नयनाप्रिय 335
वचांसि नापि शृणुयात्कर्णयोरप्रियाणि च
नान्नं पर्युषितं शुष्कं भुञ्जीत क्वथितं न च 336
चैत्यश्मशानवृक्षांश्च भावांश्चाप्ययशस्करान्
बहिर्निष्क्रमणं क्रोधं शून्यागारं च वर्जयेत 337
नोच्चैर्ब्रूयान्न तत्कुर्याद्येन गर्भो विनश्यति
तैलाभ्यङ्गोद्वर्तनं च नात्यर्थं कारयेदपि 338
नामृद्वास्तरणं कुर्यान्नात्युच्चं शयनासनम
एतांस्तु नियमान्सर्वान्यत्नात्कुर्वीत गर्भिणी 339
नवमे दशमे मासि नारी गर्भं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः 340
अष्टहस्तायतं चारु चतुर्हस्तविशालकम
प्राचीद्वारमुदग्द्वारं विदध्यात्सूतिकागृहम 341
जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने
सशूले जघने नारी विज्ञेया प्रसवोत्सुका 342
आसन्नप्रसवायास्तु कटीपृष्ठं तु सव्यथम
भवेन्मुहुः प्रवृत्तिश्च मूत्रस्य च मलस्य च 343
तैलेनाभ्यक्तगात्रान्तां संस्नातामुष्णवारिणा
यवागूं पाययेत्कोष्णां मात्रया घृतसंयुताम 344
कृतोपधाने मृदुनि विस्तीर्णे शयने शनैः
अभुग्नसक्थी चोत्ताना नारी तिष्ठेद्व्यथाऽन्विता 345
चतस्रोऽशकनीयाश्च स्रावणे कुशला हिताः
वृद्धाः परिचरेयुस्ताः सम्यक्छिन्ननखाः स्त्रियः 346
अपत्यमार्गं तैलेन समभ्यज्य समन्ततः
एका तु तासु सुभगे प्रवाहस्वेति तां वदेत 347
अव्यथा मा प्रवाहिष्ठाः प्रावहेथा व्यथा यदि
प्रवाहेथाः शनैः पूर्वंप्रगाढं च ततः परम 348
ततो गाढतमं गर्भे योनिद्वारमुपागते
अपरासहितो गर्भो यावत्पतति भूतले 349
मूकं वा बधिरं कुब्जं श्वासकासक्षयान्वितम
सूते स्रस्ततनुं बालमकाले तु प्रवाहणात 350

इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते
भावप्रकाशे गर्भप्रकरणं तृतीयम 3

अथ चतुर्थं बालप्रकरणम 4

अथ बाले समुत्पन्ने विदधीत विधिं तथा
यथैव कुलवृद्धस्त्रीव्यवहारपरम्परा 1
प्रसूता हितमाहारं विहारं च समाचरेत
व्यायामं मैथुनं क्रोधं शीतसेवां विवर्जयेत 2
मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते
स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत 3
सर्वतः परिशुद्धा स्यात्स्निग्धपथ्याऽल्पभोजना
स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता 4
प्रसूता सार्धमासान्ते दृष्टे वा पुनरार्त्तवे
सूतिकानामहीना स्यादिति धन्वन्तरेर्मतम 5
व्युपद्र वां विशुद्धां च विज्ञाय वरवर्णिनीम
ऊर्ध्वं चतुर्भ्यो मासेभ्यो नियमं परिहारयेत 6
रसप्रसादो मधुरः पक्वाहारनिमित्तजः
कृत्स्नाद्देहात्स्तनौ प्राप्तः स्तन्यमित्यभिधीयते 7
स्तन्यं त्रिरात्रात्स्त्रीणां वा चतूरात्रादनन्तरम
प्रवर्त्तयन्ति विवृता धमन्यो हृदये स्थिताः 8
पयः पुत्रस्य संस्पर्शाद्दर्शनात्स्मरणादपि
ग्रहणादप्युरोजस्य शुक्रवत्सम्प्रवर्त्तते
स्नेहो निरन्तरस्तस्य प्रवाहे हेतुरुच्यते 9
अवात्सल्याद्भयाच्छोकात्क्रोधादत्यपतर्पणात
स्त्रीणां स्तन्यं भवेत्स्वल्पं गर्भान्तरविधारणात 10
शालिषष्टिकगोधूमान्मांसक्षुद्र झषानपि
कालशाकमलाबूं च नारिकेलं कसेरुकम 11
शृङ्गाटकं वरीं चापि विदारीकन्दमेव च
लशुनं दुग्धवृद्धयै स्त्री सेवेत सुमना भवेत 12
कलमस्य तण्डुलानां कल्कं या क्षीरपेषितं पिबति
सा भवति भृशं तरुणी क्षीरभरेणैव तुङ्गकुचयुगला 13
कलमः कलिविख्यातो जायते स बृहद्ध्रदे
काश्मीरदेश एवोक्तो महातण्डुलसंज्ञकः 14
विदारिकन्दस्य रसं पिबेत्स्तन्यस्य वृद्धये
तच्चूर्णं तस्य वृर्द्ध्य्थं पिबेद्वा क्षीरसंयुतम 15
धात्र्! या गुरुभिराहारैर्विहारैर्दोषलैस्तथा
देहे दोषाः प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति 16
मिथ्याऽहारविहारिण्या दुष्टा वातादयः स्त्रियाः
दूषयन्ति पयस्तेन शरीरं व्याधयः शिशोः 17
कषायं सलिलप्लावि स्तन्यं मारुतदूषितम
पित्तादम्लं च कटुकं राज्योऽम्भसि तु पीतिकाः 18
कफदुष्टं तु यत्तोये निमज्जति च पिच्छिलम
द्वन्द्वजं तु द्विलिङ्गं स्यात्त्रिलिङ्गं सान्निपातिकम 19
धात्री क्षीरविशुर्द्ध्य्थं मुद्गयूषरसाशिनी
भार्ङ्गीदारुवचाः पिष्ट्वा पिबेत्साऽतिविषास्तथा 20
पाठामूर्वाऽब्दभूनिम्बदारुशुण्ठीकलिङ्गकैः
सारिवामत्स्यपित्ताऽख्यै क्वाथः स्तन्यविशोधनः 21
पटोलनिम्बासनदारुपाठा मूर्वां गुडूचीं कटुरोहिणीं च
सनागरां च क्वथितां च तोये धात्री पिबेत्स्तन्यविशुद्धिहेतोः 22
नीरे स्यन्यं यदेकि स्वादविवर्णमतन्तुमत
पाण्डुरं तनु शीतं च तद्दुग्धं शुंद्धमादिशेत 23
पीताय यदि बालस्य विदध्यादुपमातरम
सुविचार्य गुणान्दोषान्कुर्याद्धात्रीं तदेदृशीम 24
सवर्णां मध्यवयसां सच्छीलां मुदितां सदा
शुद्धदुग्धां बहुक्षीरां सवत्सामतिवत्सलाम 25
स्वाधीनामल्पसन्तुष्टां कुलीनां सज्जनात्मजाम
कैतवेन परित्यक्तां निजपुत्रशदृशं शिशौ 26
शोकाकुलाक्षु धार्ता च श्रान्ता व्याधिमती सदा
अत्युच्चा नितरां नीचा स्थूलातीव भृशं कृशा 27
गर्भिणी ज्वरिणी चापि लम्बोन्नतपयोधरा
अजीर्णभोजिनी चापि तथा पथ्यविवर्जिता 28
आसक्ता क्षुद्र कार्येषु दुःखार्ता चञ्चलाऽपि च
एतासां स्तन्यपानेन शिशुर्भवति सामयः 29
तत्र माता प्रशस्ताङ्गी चारुवस्त्रा पुरोमुखी
उपविश्यासने सम्यग्दक्षिणं स्तनमम्बुना 30
प्रक्षाल्येषत्परिस्राव्य मन्त्राभ्यामभिमन्त्रितम
उदङ्मुखं शिशुं क्रोडे शनैः सन्धाय पाययेत 31
अस्रावितं स्तनं बालः पिबन्स्तन्येन भूयसा
पूर्णस्रोता वमीकासश्वासैर्भवति पीडितः 32
क्षीरनीरनिधिस्तेऽस्तु स्तनयोः क्षीरपूरकः
सदैव सुभगो बालो भवत्वेष महाबलः 33
पयोऽमृतसमं पीत्वा कुमारस्ते शुभानने
दीर्घमायुरवाप्नोतु देवाः प्राप्यामृतं यथा 34
क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा
दद्यादास्तन्यपर्याप्तेर्बालेभ्यो वीक्ष्य मात्रया 35
यथोक्तविधिना बालं मासि षष्ठेऽष्टमेऽपि च
अन्नं सम्प्राशयेत्किञ्चित्ततस्तद्वर्धयेत्क्रमात 36
बालमङ्के सुखं दध्यान्न चैनं तर्जयेत्क्वचित
सहसा बोधये न्नैव नायोग्यमुपवेशयेत 37
नाकृष्य स्थापयेत्क्रोडे न क्षिप्रं शयने क्षिपेत
रोदयेन्न क्वचित्कार्ये विधिमावश्यकं विना 38
तच्चित्तमनुवर्त्तेत तं सदैवानुमोदयेत
विआतातपतडिद्वृष्टिधूमानलजलादितः
निम्नोच्चस्थानतश्चापि रक्षेद्बालं प्रयत्नतः 39
अभ्यङ्गोद्वर्त्तन स्नानं नेत्रयोरञ्जनं तथा
वसनं मृदु यत्तच्च तथा मृद्वनुलेपनम
जन्मप्रभृति पथ्यानि बालस्यैतानि सर्वथा 40
कवलः पञ्चमाद्वर्षादष्टमान्नस्यकर्म च
विरेकः षोडशाद्वर्षाद्विंशतेश्चैव मैथुनम 41
वयस्तु त्रिविधं बाल्यं मध्यमं वार्धकं तथा
ऊनषोडशवर्षस्तु नरो बालो निगद्यते 42
त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथाऽन्नभुक
दुग्धाशी वर्षपर्यन्तं दुग्धान्नाशी शरद्द्वयम 43
तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधा मतः
मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः 44
चतुर्धा मध्यमं वृद्धियुवपूर्णक्षयान्वितम
भवेदाविंशतेर्वृद्धिर्युवा त्वान्त्रिंशतो मतः 45
चत्वारिंशत्समा यावत्तिष्ठेद्वीर्यादिपूरितः
ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः 46
ततस्तु सप्ततेरूर्ध्वं क्षीणधातुरसादिकः
क्षीयमाणेन्द्रि यबलः क्षीणरेता दिने दिने 47
बलीपलितखालित्ययुक्तः कर्मसु चाक्षमः
कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः 48
बाल्ये विवर्धते श्लेष्मा पित्तं स्यान्मध्यमेऽधिकम
वार्धके वर्द्धते वायुर्विचार्यैतदुपक्रमेत 49
बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ
बुद्धिः कर्मेन्द्रि यं चेतो जीवितं दशतो ह्रसेत 50
सप्त प्रकृतयो नॄणां वातात्पित्तात्कफात्तथा
संसर्गात्सन्निपाताच्च भवन्ति भिषजां मते 51
शुक्रशोणितसंयोगे यो दोषस्तूत्कटो भवेत
प्रकृतिर्जायते तेन तस्या लक्षणमुच्यते 52
शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयार्त्तिषु
यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता 53
जागरूकोऽल्पकेशश्च स्फुटितांघ्रिकरः कृशः
शीघ्रगो बहुवाग्रूक्षः स्वप्ने वियति गच्छति
एवंविधः स विज्ञेयो वातप्रकृतिको नरः 54
पित्तप्रकृतिको लोको यादृशोऽथ निगद्यते
अकालपलितो गौरः क्रोधी स्वेदी च बुद्धिमान 55
बहुभुक्ताम्रनेत्रश्च स्वप्ने ज्योतींषि पश्यति
एवंविधो भवेद्यस्तु पित्तप्रकृतिको नरः 56
श्यामकेशः क्षमी स्थूलो बहुवीर्यो महाबलः
स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः 57
दृश्यते प्रकृतौ यत्र रूपं दोषद्वयस्य तु
द्विसंसर्गेण जानीयात्सर्वलिङ्गैस्त्रिदोषजम 58
विभुत्वादाशुकारित्वाद्वलित्वादन्यकोपनात
स्वातन्त्र्! याद्बहुरोगत्वाद्दोषाणां प्रबलोऽनिलः 59
प्रायोऽत एव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटितधूसरकेशगात्राः
शीतद्विषश्चलधृतिस्मृतिबुद्धिचेष्टासौहार्ददृष्टिगतयोऽतिबहुप्रलापाः 60
अल्पपित्तबलजीवितनिद्राः! सन्नसक्तचलजर्जरवाचः
नास्तिका बहुभुजः सविलासा गीतहास्यमृगयाकलिलोलाः 61
मधुराम्लपटूष्णसात्म्यकांक्षाः कृशदीर्घाकृतयः सशब्दयाताः
न दृढा न जितेन्द्रि या न चार्या न च कान्तादयिता बहुप्रजा वा 62
नेत्राणि चैषां खरधूसराणि वृत्तान्यचारूणि मृतोपमानि
उन्मीलितानीव भवन्ति सुप्ते शैलद्रुमांस्ते गगनं च यान्ति 63
अधन्या मत्सराध्माताः स्तेना प्रोद्बद्धपिण्डिकाः
श्वशृगालोष्ट्रगृध्राखुकाकानूकाश्च वातिकाः 64
पित्तं वह्निर्वह्निजं वा यदस्मात्पित्तोद्रि क्तस्तीक्ष्णतृष्णाबुभुक्षः
गौरोष्णाङ्गस्ताम्रहस्ताङ्घ्रिवक्त्रः शूरो मानी पिङ्गकेशोऽल्परोमा 65
दयितमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः
विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि 66
मेधावी प्रशिथिलसन्धिबन्धमांसो नारीणामनभिमतोऽल्पशुक्रकामः
आवासः पलिततरंगनीलिकानां भुक्तान्नं मधुरकषायतिक्तशीतम 67
धर्मद्वेषी स्वेदनः पूतिगन्धिर्भूर्युच्चारक्रोधपानाशनेर्ष्यः
सुप्तं पश्येत्कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च 68
तनूनि पिङ्गानि चलानि चैषां तन्वल्पपक्ष्माणि हिमप्रियाणि
क्रोधेन मद्येन रवेश्च भासा रागं व्रजन्त्याशु विलोचनानि 69
मध्यायुषो मध्यबलाः पण्डिताः क्लेशभीरवः
व्याघ्रर्क्षकपिमार्जारवृकानूकाश्च पैत्तिकाः 70
श्लेष्मा सोमं श्लेष्मलस्तेन सौम्यो गूढस्निग्धश्लिष्टसन्ध्यस्थिमांसः
क्षुत्तृड्दुःखक्लेशधर्मैरतप्तो बुद्ध्या युक्तः सात्त्विकः सत्यसन्धः 71
प्रियंगुदूर्वाशरकाण्डदर्भगोरोचनापद्मसुवर्णवर्णः
प्रलम्बबाहुः पृथुपीनवक्षा महाललाटो घननीलकेशः 72
मृद्वङ्गः समसुविभक्तचारुदेहो बह्वोजोरतिरसशुक्रपुत्रभृत्यः
धर्मात्मा वदति न निष्ठुरं च जातु प्रच्छन्नं वहति दृढं चिरं च वैरम 73
समदद्विरदेन्द्र तुल्ययातो जलदाम्भोधिमृदङ्गसिंहघोषः
स्मृतिमानभियोगवान्विनीतो न च बाल्येऽप्यतिरोदनो न लोलः 74
तिक्तं कषायं कटुकोष्णरूक्षमल्पं स भुंक्ते बलवांस्तथाऽपि
रक्तान्तसुस्निग्धविशालदीर्घसुव्यक्तशुक्लासितपक्ष्मलाक्षः 75
अल्पव्याहारक्रोधपानाशनेर्ष्यः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः
श्राद्धो गम्भीरः स्थूललक्ष्यः क्षमावानार्योनिद्रा लुर्दीर्घसूत्रः कृतज्ञः 76
ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां स्थिरसौहृदश्च
स्वप्ने सपद्मान्सविहङ्गमालांस्तोयाशयान्पश्यति तोयदांश्च 77
ब्रह्मरुद्रे न्द्र वरुणतार्क्ष्यहंसगजाधिपैः
श्लेष्मप्रकृतयस्तुल्यास्तथा सिंहाश्वगोवृषैः 78
विषजातो यथा कीटो न विषेण प्रबाध्यते
तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम 79
प्रकोपो वाऽन्यभावो वा शमो वा नोपजायते
प्रकृतीनां स्वभावेन जायते तु गतायुषः 80

इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते
भावप्रकाशे बालप्रकरणं चतुर्थम् 4

अथ पञ्चमं दिनचर्यादिप्रकरणम 5


भूमिदेशस्त्रिधाऽनूपो जांगलो मिश्रलक्षणः 1
नदीपल्वलशैलाढ्यः फुल्लोत्पलकुलैर्युतः
हंससारसकारंडचक्रवाकादिसेवितः 2
शशवाराहमहिषरुरुरोहिकुलाकुलः
प्रभूतद्रुमपुष्पाढ्यो नीलशस्यफलान्वितः 3
अनेकशालिकेदारकदलीक्षुविभूषितः
अनूपदेशो ज्ञातव्यो वातश्लेष्मामयार्त्तिमान 4
आकाशसम उच्चश्च स्वल्पपानीयपादपः
शमीकरीरबिल्वार्कपीलुकर्कंधुसङ्कुलः 5
हरिणैणर्क्षपृषतगोकर्णखरसङ्कुलः
सुस्वादुफलवान्देशो वातलो जाङ्गलः स्मृतः 6
बहूदकनगोऽनूपः कफमारुतरोगवान्
जाङ्गलोऽल्पाम्बुशाखी च पित्तासृङ्मारुतोत्तरः 7
संसृष्टलक्षणो यस्तु देशः साधारणो मतः
समाः सधारणे यस्माच्छीतवर्षोष्णमारुताः
समता तेन दोषाणां तस्मात्साधारणो वरः 8
उचिते वर्तमानस्य नास्ति दुर्देशजं भयम
आहारस्वप्नचेष्टाऽदौ तद्देशस्य कृते सति 9
यस्य देशस्य यो जन्तुस्तज्जं तस्यौषधं हितम
देशादन्यत्र वसतस्तत्तुल्यगुणमौषधम 10
स्वे देशेनिचिता दोषा अन्यस्मिन्कोपमागताः
बलवन्तस्तथा न स्युर्जलजाः स्थलजास्तथा 11
मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा
तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम 12
दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम
आचरन्पुरुषः स्वस्थः सदा तिष्ठति नान्यथा 13
समदोषः समाग्निश्च समधातुमलक्रियः
प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते 14
ब्राह्मे मुहूर्ते बुध्येत स्वस्थो रक्षाऽथमायुषः
तत्र सर्वाघशान्त्यर्थं स्मरेद्धि मधुसूदनम 15
दध्याज्यादर्शसिद्धार्थं बिल्वगोरोचनस्रजाम
दर्शनं स्पर्शनं कार्यं प्रबुद्धेन शुभावहम 16
स्वमाननं घृते पश्येद् यदीच्छेच्चिरजीवितम
आयुष्यमुषसि प्रोक्तं मलादीनां विसर्जनम
तदन्त्रकूजनाध्मानोदरगौरववारणम 17
आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य 18
वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
जठरे वातजाश्चान्येरोगाः स्युर्वातनिग्रहात 19
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
विनामो वङ्क्षणानाहः स्यालिङ्गं मूत्रनिग्रहे 20
न वेगितोऽन्यकार्यः स्यान्न वेगानीरयेद्बलात
कामशोकभयक्रोधान्मनोवेगान्विधारयेत 21
गुदादिमलमार्गाणां शौचं कान्तिबलप्रदम
पवित्रकरमाख्यातमलक्ष्मीकलिपापहृत 22
प्रक्षालनं मतं पाण्योः पादयोः शुद्धिकारणम
मलश्रमहरं वृष्यं चक्षुष्यं राजसापहम 23
भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम
कनिष्ठिकाऽग्रवत्स्थूलमृज्वग्रन्थिं तथाऽव्रणम 24
एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन तु
दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन 25
क्षौद्र त्रिकटुकाक्तेन तैलसिन्धुभवेन वा
चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत 26
मधुको मधुरे श्रेष्ठः करञ्जः कटुके तथा
निम्बः स्यात्तिक्तके श्रेष्ठः कषाये खदिरस्तथा 27
समयं तु समालोक्य दोषं च प्रकृतिं तथा
यथोचितै रसैर्वीर्यैर्युक्तं द्रव्यं प्रयोजयेत 28
तेनास्य मुखवैरस्यदन्तजिह्वाऽस्यजा गदाः
रुचिवैशद्यलघुता न भवन्ति भवन्ति च 29
अर्के वीर्यं वटे दीप्तिः करञ्जे विजयो भवेत
प्लक्षे चैवार्थसम्पत्तिर्वैदर्यां मधुरोध्वनिः 30
खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम
उदुम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च 31
कदम्बे तु धृतिर्मेधा चम्पके च दृढा मतिः
शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च 32
अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथाऽसने
दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा 33
जातीतगरमन्दारैर्दुःस्वप्नं च विनश्यति 34
गुर्वाकस्तालहिन्तालौ केतकश्च बृहत्तृणः
खर्जूरं नारिकेलं च सप्तैते तृणराजकाः 35
तृणराजसमुत्पन्नं यः कुर्याद्दन्तधावनम
नरश्चाण्डालयोनिः स्याद्यावद्गङ्गां न पश्यति 36
न खादेद्गलताल्वोष्ठजिह्वादन्तगदेषु तत
मुखस्य पाके शोथे च श्वासकासवमीषु च 37
दुर्बलोऽजीर्णभुक्तश्च हिक्कामूर्च्छामदान्वितः
शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः 38
अर्दितः कर्णशूली च नेत्ररोगी नवज्वरी
वर्जयेद्दन्तकाष्ठं तु हृदामययुतोऽपि च 39
जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा
पाटितं मृदु तत्काष्ठं मृदुपत्रमयं तथा 40
दशाङ्गुलं मृदु स्निग्धं तेन जिह्वां लिखेत्सुखम
तज्जिह्वामलवैरस्यदुर्गन्धजडताहरम् 41
गण्डूषमपि कुर्वीत शीतेन पयसा मुहुः
कफतृष्णामलहरं मुखान्तःशुद्धिकारकम 42
सुखोष्णोदकगण्डूषः कफारुचिमलापहः
दन्तजाड्यहरश्चापि मुखलाघवकारकः 43
विषमूर्च्छामदार्त्तानां शोषिणां रक्तपित्तिनाम
कुपिताक्षिमलक्षीणरूक्षाणां स न शस्यते 44
मुखप्रक्षालनं शीतपयसा रक्तपित्तजित
मुखस्य पिडिकाशोषनीलिकाव्यङ्गनाशनम 45
कुर्याद्वाऽपि कदुष्णेन पयसाऽस्यविशोधनम
कफवातहरं स्निग्धं मुखशोषविनाशनम 46
कटुतैलादि नस्यार्थे नित्याभ्यासेन योजयेत
प्रातः श्लेष्मणि मध्याह्ने पित्ते सायं समीरणे 47
सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रि याः
निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः 48
सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत
लोचने भवतस्तेन मनोज्ञे सूक्ष्मदर्शने 49
स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम
दृष्टेः कण्डूमलहरं दाहक्लेदरुजापहम 50
अक्ष्णो रूपावहं चैव सहते मारुतातपौ
नेत्रे रोगा न जायन्ते तस्मादञ्जनमाचरेत 51
रात्रौ जागरितः श्रान्तश्छर्दितो भुक्तवांस्तथा
ज्वरातुरः शिरः स्नातो नाक्ष्णोरञ्जनमाचरेत 52
पञ्चरात्रान्नखश्मश्रुकेशरोमाणि कर्त्तयेत
केशश्मश्रुनखादीनां कर्त्तनं सम्प्रसाधनम
पौष्टिकं धन्यमायुष्यं शौचकान्तिकरं परम 53
उत्पाटयेत्तु लोमानि नासाया न कदाचन
तदुत्पाटनतो दृष्टेर्दौर्बल्यं त्वरया भवेत 54
केशपाशे प्रकुर्वीत प्रसाधन्या प्रसाधनम
केशप्रसाधनं केश्यं रजोजन्तुमलापहम 55
आदर्शालोकनं प्रोक्तं मङ्गल्यं कान्तिकारम
पौष्टिकं बल्यमायुष्यं पापालक्ष्मीविनाशनम 56
लाघवं कर्मसमर्थ्यं विभक्तघनगात्रता
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते 57
व्यायामदृढगात्रस्य व्याधिर्नास्ति कदाचन
विरुद्धं वा विदग्धं वा भुक्तं शीघ्रं विपच्यते 58
भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः
न चैवं सहसाऽक्रम्य जरा समधिरोहति 59
न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षकम
स सदा गुणमाधत्ते बलिनां स्निग्धभोजिनाम 60
वसन्ते शीतसमये सुतरां स हितो मतः
अन्यदाऽपि च कर्त्तव्यो बलार्धेन यथा बलम 61
हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते
मुखं च शोषं लभते तद्बलार्धस्य लक्षणम 62
किं वा ललाटे नासायां गात्रसन्धिषु कक्षयोः
यदा सञ्जायते स्वेदो बलार्धं तु तदादिशेत 63
भुक्तवान्कृतसम्भोगः कासी श्वासी कृशः क्षयी
रक्तपित्ती क्षती शोषी न तं कुर्यात्कदाचन 64
अतिव्यायामतः कासो ज्वरश्छर्दिं श्रमः क्लमः
तृष्णा क्षयः प्रतमको रक्तपित्तं च जायते 65
अभ्यङ्गं कारयेन्नित्यं सर्वेष्वङ्गेषु पुष्टिदम
शिरः श्रवणपादेषु तं विशेषेण शीलयेत 66
सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम
अन्यद्र व्ययुतं तैलं न दुष्यति कदाचन 67
अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलं सुखम
निद्रा वर्णमृदुत्वायुष्कुरुते देहपुष्टिकृत 68
अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रि यतर्पकः
दृष्टितुष्टिकरो हन्ति शिरोभूमिगतान्गदान 69
केशानां बहुतां दार्ढ्यं मृदुतां दीर्घतां तथा
कृष्णतां कुरुते कुर्याच्छिरसःपूर्णतामपि 70
न कर्णरोगा न मलं न च मन्याहनुग्रहः
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णपूरणात 71
रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते 72
पादाभ्यङ्गश्च तत्स्थैर्यनिद्रा दृष्टिप्रसादकृत
पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत 73
व्यायामक्षुण्णवपुषं पद्भ्यां सम्मर्दितं तथा
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः 74
लोमकूपशिराजालधमनीभिः कलेवरे
तर्पयेद्बलमाधत्ते स्नेहयुक्तेऽवगाहने 75
अद्भिः संसिक्तमूलानां तरूणां पल्लवादयः
वर्द्धन्ते हि तथा नॄणां स्नेहसंसिक्तधातवः 76
नवज्वरी अजीर्णी च नाभ्यक्तव्यः कथञ्चन
तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः 77
पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा
शेषाणां च त्विह प्रोक्ता वह्निसादादयो गदाः 78
उद्वर्त्तनं कफहरं मेदोघ्नं शुक्रदं परम
बल्यं शोणितकृच्चापि त्वक्प्रसादमृदुत्वकृत 79
मुखलेपादृढं चक्षुः पीनो गण्डस्तथाऽननम
कान्तमव्यङ्गपिडकं भवेत्कमलसन्निभम 80
दीपनंवृष्यमायुष्यं स्नानमोजोबलप्रदम
कण्डूमलश्रमस्वेदतन्द्रा तृड्दाहपाप्मनुत 81
बाह्यैश्च सेकैः शीताद्यैरूष्माऽन्तर्याति पीडितः
नरस्य स्नानमात्रस्य दीप्यते तेन पावकः 82
शीतेन पयसा स्नानं रक्तपित्तप्रशान्तिकृत
तदेवोष्णेन तोयेन बल्यं वातकफापहम 83
शिरः स्नानमचक्षुष्यमत्युष्णेनाग्बुना सदा
वातश्लेष्मप्रकोपे तु हितं तच्च प्रकीर्त्तितम 84
अशीतेनाम्भसा स्नानं पयःपानं नवाःस्त्रियः
एतद्वो मानवाः पथ्यं स्निग्धमल्पं च भोजनम 85
यः सदाऽमलकैः स्नानं करोति स विनिश्चितम
बलीपलितनिर्मुक्तो जीवेद्वर्षशतं नरः 86
स्नानं ज्वरेऽतिसारे च नेत्रकर्णानिलार्तिषु
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम 87
स्नानस्यानन्तरं सम्यग्वस्त्रेणाङ्गस्य मार्जनम
कान्तिप्रदं शरीरस्य कण्डूत्वग्दोषनाशनम 88
कौशेयौर्णिकवस्त्रं च रक्तवस्त्रं तथैव च
वातश्लेष्महरं तत्तु शीतकाले विधारयेत 89
मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते
तद्धारयेदुष्णकाले तत्रापि लघु शस्यते 90
शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम
न चोष्णं न च वा शीतं तत्तुवर्षासु धारयेत 91
यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्धनम
त्वच्यं वशीकरं रुच्यं नवनिर्मलमम्बरम 92
कदाऽपि न जनैः सद्भिर्धार्यं मलिनमम्बरम
तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम 93
कुङ्कुमं चन्दनं चापि कृष्णागुरु च मिश्रितम
उष्णं वातकफध्वंसि शीतकाले तदिष्यते 94
चन्दनं घनसारेण बालकेन च मिश्रितम
सुगन्धि परमं शीतमुष्णकाले प्रशस्यते 95
चन्दनं घुसृणोपेतं मृगनाभिसमायुतम
न चोष्णं न च वा शीतं वर्षाकाले तदिष्यते 96
अनुलेपस्तृषामूर्च्छादुर्गन्धस्वेददाहजित
सौभाग्यतेजस्त्वग्वर्णप्रीत्यौजोबलवर्धनः
स स्नानानर्हलोकानाममुलेपोऽपि नो हितः 97
सुगन्धिपुष्पपत्राणां धारणं कान्तिकारकम
पापरक्षोग्रहहरं कामदं श्रीविवर्द्धनम 98
भूषणैर्भूषयेदङ्गं यथायोग्यं विधानतः
शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम 99
ग्रहदृष्टिहरं पुष्टिकरं दुःस्वप्ननाशनम
पापदौर्भाग्यशमनं रत्नाभरणधारणम 100
माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगो
र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम
देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शने
र्नीलं निर्मलमन्ययोश्च गदिते गोमेदवैदूर्यके 101
वासःशृङ्गाररत्नानां धारणं प्रीतिबर्धकम
रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम 102
सततं सिद्धमन्त्रस्य महौषध्यास्तथैव च
रोचनासर्षपादीनां मङ्गल्यानां च धारणम 103
आयुर्लक्ष्मीकरं रक्षोहरं मङ्गलदं शुभम
हिंस्नादिभयविध्वंसि वशीकरणकारणम 104
ततो भोजनवेलायां कुर्यान्मङ्गल्यदर्शनम
तस्य प्रदर्शनं नित्यमायुर्धर्मविवर्धनम 105
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः
पुष्पस्रक्सर्पिरादित्य आपो राजा तथाऽष्टमः 106
पादुकाधारणं कुर्यात्पूर्वं भोजनतः परम
पादरोगहरं वृष्यं चक्षुष्यं चायुषो हितम 107
शरीरे जायते नित्यं वाञ्छा नॄणां चतुर्विधः
बुभुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा 108
भोजनेच्छाविघातात्स्यादङ्गमर्दोऽरुचिः श्रमः
तन्द्रा  लोचनदौर्बल्य धातुदाहो बलक्षयः 109
विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत
श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा 110
निद्रा विघाततो जृम्भा शिरोलोचनगौरवम
अङ्गमर्दस्तथा तन्द्रा  स्यादन्नापाक एव च 111
बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात
मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः 112
आहारं पचति शिखी दोषानाहारवर्जितः
पचेद् दोषक्षये धातून्प्राणान्धातुक्षयेऽपि च 113
आहारः प्रीणनः सद्यो बलकृद् देहधारणः
स्मृत्यायुःशक्तिवर्णौजःसत्त्वशोभाविवर्धनः 114
यथोक्तगुणसम्पन्नं नरः सेवेत भोजनम
विचार्य दोषकालादीन्कालयोरुभयोरपि 115
सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः 116
याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत
याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः 117
क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च
काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः 118
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम 119
आहारं तु रहः कुर्यान्निर्हारमपि सर्वदा
उभाभ्यां लक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया 120
आहारनिर्हारविहारयोगाः सदैव सद्भिर्विजने विधेयाः 121
पितृमातृसुहृद्वैद्यपाककृद्धंसबर्हिणाम
सारसस्य चकोरस्य भोजने दृष्टिरुत्तमा 122
दीनहीनक्षुधाऽत्तानां पापपाषण्डरोगिणाम
कुक्कुटादेः शुनो दृष्टिर्भोजने नैव शोभना 123
दोषहृद् दृष्टिदं पथ्यं हैमं भोजनभाजनम
रौप्यं भवति चक्षुष्यं पित्तहृत्कफवातकृत 124
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम
पैत्तलं वातकृद्रू क्षमुष्णं कृमिकफप्रणुत 125
आयसे काचपात्रे च भोजनं सिद्धिकारकम
शोथपाण्डुहरं बल्यं कामलाऽपहमुत्तमम 126
शैलेये मृण्मये पात्रे भोजनं श्रीनिवारणम
दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च
पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत 127
जलपात्रं तु ताम्रस्य तदभावे मृदो हितम 128
पवित्रं शीतलं पात्रं रचितं स्फटिकेन यत
काचेन रचितं तद्वत्तथा वैदूर्यसम्भवम 129
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम 130
अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः
इति सञ्चिन्त्य भुञ्जानं दृष्टिदोषो न बाधते 131
अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम
दृष्टिदोषविनाशाय हनुमन्तं स्मराम्यहम 132
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान 133
फलान्यादौ समश्नीयाद्दाडिमादीनि बुद्धिमान
विना मोचफलं तद्वद्वर्जनीया च कर्कटी 134
मृणालबिसशालूककन्देक्षुप्रभृतीनपि
पूर्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन 135
गुरु पिष्टमयं द्र व्यं तण्डुलान्पृथुकानपि
न जातु भुक्तवान्खादेन्मात्रां खादेद्बुभुक्षितः 136
घृतपूर्वं समश्नीयात्कठिनं प्राक् ततो मृदु
अन्ते पुनर्द्र वाशी तु बलाद्रो गेण मुञ्चति 137
यद्यत्स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम
भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम 138
सौमनस्यं बलं पुष्टिमुत्साहं वृद्धिमायुषः
स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम 139
अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम
अतिक्लिन्नं ग्लानिकरं युक्तियुक्तं हि भोजनम 140
अतिद्रुताशिताहारे गुणान्दोषान्न विन्दति
भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः 141
मन्दानलो नरो द्र व्यं मात्रागुरु विवर्जयेत
स्वभावतश्च गुरु यत्तथा संस्कारतो गुरु 142
मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः
संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम 143
आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च
भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम 144
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते
द्र वो द्र वोत्तरश्चापि न मात्रागुरुरिष्यते 145
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति 146
शुष्कं निरुद्धं विष्टम्भि वह्निव्यापादकृद्भवेत 147
न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून
न जलान्तरितानद्भिः सक्तूनद्यान्न केवलान 148
पुनर्दानं पृथक्पानं सामिषं पयसा निशि
सदन्तच्छेदमुष्णं च सप्त सक्तुषु वर्जयेत 149
सक्तूनामाशु जीर्येत मृदुत्वादवलेहिका 150
यथाकालेऽतिमात्रं यत तद्भवेद्विषमाशनम
बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम 151
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम
हीनमात्रं तनोःकार्श्यं करोति च बलक्षयम 152
अप्राप्तकाले भुञ्जानो ह्यसमर्थतनुर्नरः
तांस्तान् व्याधीनवाप्नोति मरणं चाधिगच्छति 153
कालेतीतेश्नतो जन्तोर्वायुनोपहतेऽनले
कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा 154
कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत
वायोः सञ्चारणार्थाय चतुर्थमवशेषयेत 155
रसेनान्नस्य रसना प्रथमेनोपतर्पिता
न तथा स्वादमाप्नोति ततः शोध्याम्बुनान्तरा 156
अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः
तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि 157
भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत
मध्येऽग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम 158
समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः 159
तृषितस्तु न चाश्नीयात्क्षुधितो न पिबेज्जलम
तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी 160
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान 161
दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्धनम
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम 162
विदाहीन्यन्नपानानि यानि भुंङ्क्ते हि मानवः
तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत 163
कुर्यात्क्षीरान्तमाहारं न दध्यन्तं कदाचन
लवणाम्लकटूष्णानि विदाहीन्यत्ति यानि तु
तद्दोषं हर्तुमाहारं मधुरेण समापयेत 164
बलवच्छत्रुविनाशनेन शत्रुहन्तुः क्षीणता च दृश्यते तथा च
नाशनात्प्रत्यनीकस्य स्वयं च क्षीयते यथा
वह्निसन्तप्तलोहस्य तप्ततां नाशयेज्जलम 165
ननु भोजनावसानसमये प्रयुक्ताः कटुतिक्तकषायरसाः कफं
शमयिष्यन्ति वातस्य वृद्धिं विधास्यन्तीति चेतै तन्न
कट्वादीनां क्षीणशक्तित्वात्  तथा च
यदेकं नाशयेद्दोषं तदन्यं वर्धयेत्कुतः
नाशने ह्येकदोषस्य यतस्तत्क्षीणशक्तिकम 166
जग्धाः सर्वेऽपि गच्छन्ति बलिनो वश्यतां रसाः
यथा प्रकुपिता दोषा वशं यान्ति बलीयसः 167
एवं भुक्त्वा समाचामेद्रू क्षग्रहणपूर्वकम
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत 168
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम 169
दन्तलग्नमनिर्हार्यं लेपं मन्येत दन्तवत
न तत्र बहुशः कुर्याद्यत्नं निर्हरणं प्रति 170
आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत
भिउ!क्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
अचिरेणैव तद्वारि तिमिराणि व्यपोहति 171
भुक्त्वा च संस्मरेन्नित्यमगस्त्यादीन्सुखावहान 172
विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा
सत्येन तेन मद्भुक्तं जीर्यत्वन्नमिदं तथा 173
अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं जरयन्त्वशेषम
सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहम 174
अङ्गारकमगस्तिं च पावकं सूर्यमश्विनौ
पञ्चैतान्संस्मरेन्नित्यं भुक्तं तस्याशु जीर्यति 175
इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम
अनायासप्रदायीनि कुर्यात्कर्माण्यतन्द्रि तः 176
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेधते
भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि 177
धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः
पूगैः कर्पूरकस्तूरीलवंगसुमनः फलैः 178
फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः 179
रतौ सुप्तोत्थिते स्नाते भुक्तेवान्ते च संगरे
सभायां विदुषां राज्ञां कुर्यात्ताम्बूलचर्वणम 180
ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनं तुवरं सरम
तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु 181
वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम 182
हनुदन्तमलध्वंसि जिह्वेन्द्रि यविशोधनम
मुखप्रसेकशमनं गलामयविनाशनम 183
नवं तदेव मधुरं कषायानुरसं गुरु
बलासजननंप्रायः पत्रशाकगुणं स्मृतम 184
वङ्गदेशोद्भवं पर्णं परं कटुरसं सरम
पाचनं पित्तजनकमुष्णं कफहरं स्मृतम 185
पर्णं पुराणमकटु क्षुल्लकं तनु पाण्डुरम
विशेषाद्गुणवद्वेद्यमन्वद्धीनगुणं स्मृतम 186
पूगं गुरु हिमं रूक्षं कषायं कफपित्तनुत
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम 187
पूगं स्यात दृढमध्यं यत्स्विन्नं वाऽपि त्रिदोषनुत
सरसङ्गुर्वभिष्यन्दि तद भृशं वह्निनाशनम 188
खदिरं कफपित्तघ्नश्चूर्णं वातबलासनुत
संयोगतस्त्रिदोषघ्नं सौमनस्यं करोति च 189
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम
प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा
निशासु चूर्णमधिकं ताम्बूलं भक्षयेत्सदा 190
आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता
तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत 191
पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः
पर्णमध्यं हरत्यायुः शिरा बुद्धि विनाशिनी 192
आद्यं विषोपमं पीतं द्वितीयं भेदि दुर्जरम
तृतीयादनुपातव्यं सुधातुल्यं रसायनम 193
ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः 194
देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः
शोषः पित्तानिलास्रं स्यादतिताम्बूलचर्वणात 195
ताम्बूलं न हितं दन्तदुर्बलेक्षणरोगिणाम
विषमूर्च्छामदार्त्तानां क्षयिणां रक्तपित्तिनाम 196
भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते
अन्नसंघातशैथिल्यं ग्रीवाजानुकटीषु च 197
भुक्त्वोपविशतस्तन्द्रा  शयानस्य तु पुष्टता
आयुश्च्रंकममाणस्य मृत्युर्धावति धावतः 198
श्वासानष्टौ समुत्तानस्तान् द्विःपार्श्वे तु दक्षिणे
ततस्तद्द्विगुणान्वामे पश्चात्स्वप्याद्यथासुखम 199
वामदिशायामनलो नाभेरूर्ध्वेऽस्ति जन्तूनाम
तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम 200
त्रिदोषशमनी षट्वा तूली वातकफापहा
भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला 201
भूशय्या वातलाऽतीवरूक्षा पित्तास्रनाशिनी
सुशय्याशयनं हृद्यं पुष्टिनिद्रा धृतिप्रदम
श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा 202
संवाहनं मांसरक्तत्वक्प्रसादकरं परम
प्रीतिनिद्रा करं वृष्यं कफवातश्रमापहम 203
प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत
स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा 204
सुखं प्रवातं सेवेत ग्रीष्मे शरदि चान्तरा
निर्वातमायुषे सेव्यमारोग्याय च सर्वदा 205
पूर्वाऽनिलो गुरुः सोष्णः स्निग्धः पित्तास्नदूषकः
विदाही वातलः श्रान्तिकफशोषवतां हितः 206
स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविषकृमीन
सन्निपातं ज्वरं श्वासमामवातं च कोपयेत 207
दक्षिणः पवनः स्वादुः पित्तरक्तहरो लघुः
वीर्येण शीतलो बल्यश्चक्षुष्यो न तु वातलः 208
पश्चिमः पवनस्तीक्ष्णः शोषणो बलहृल्लघुः
मेदः पित्तकफध्वंसी प्रभञ्जनविवर्धनः 209
उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोपकृत
क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः 210
आग्नेयो दाहकृद्रू क्षो नैरृतो न विदाहकृत
वायव्यस्तु भवेत्तिक्त एशानः कटुकः स्मृतः 211
विष्वग्वायुरनायुष्यः प्राणिनां बहुरोगकृत
अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे 212
व्यजनस्यानिलो दाहस्वेदमूर्च्छाश्रमापहः
तालवृन्तभवो वातस्त्रिदोषशमको मतः 213
वंशब्यजनजस्तूष्णो रक्तपित्तप्रकोपणः
चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा 214
पूते दोषजिता वाताः स्निग्धाः हृद्याः सुपूजिताः 215
दिवा स्वापं न कुर्वीत यतोसौ स्यात्कफावहः
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नो निषिध्यते 216
उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम
वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा 217
व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः
शूलश्वासवतस्तृषापरिगतान् हिक्कामरुत्पीडितान्
क्षीणान् क्षीणकफाञ्छिशून्मदहतान्वृद्धान् रसाजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत 218
दिवा वा यदि वा रात्रौ निद्रा  सात्मीकृता तु यैः
न तेषां स्वपतां दोषो जाग्रतां चोपजायते 219
भोजनानन्तरं निद्रा  वातं हरति पित्तहृत
कफं करोति वपुषः पुष्टिं सौख्यं तनोति हि 220
शयनं पित्तनाशाय वातनाशाय मर्दनम
वमनं कफनाशाय ज्वरनाशाय लङ्घनम 221
आसीनं घूर्णितं यत्तु नाभिष्यन्दि न रूक्षणम 222
शब्दान् स्पर्शांश्च रूपाणि रसान्गन्धान्मनःप्रियान
भुक्तवानपि सेवेत तेनान्नं साधु तिष्ठति 223
शब्दः स्पर्शस्तथा रूपं रसो गन्धो जुगुप्सितः
भुक्तमप्रयतं चान्नमतिहास्यं च वामयेत 224
शयनं चाशनं चाति न भजेन्न द्र वाधिकम
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम 225
व्यायामं च व्यवायं च धावनं यानमेव च
युंद्धं गीतं च पाठं च मुहूर्त्तं भुक्तवांस्त्यजेत 226
अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य 227
ईर्ष्याभय क्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन
विद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति 228
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते 229
प्राग्भुक्ते चानले मन्दे द्विरह्नि न समाहरेत 230
पूर्व भुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम 231
सायमाशे त्वजीर्णे तु प्रातर्भुक्तं विषोपमम 232
भवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम
विचूर्णितां शीतजलेन भुक्त्वा भुञ्जीत चान्नं मितमन्नकाले 233
आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम
अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः 234
आस्या वर्णकफस्थौल्यसौकुमार्यसुखप्रदा
अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः 235
यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत
तदायुर्बलमेधाऽग्निप्रदमिन्द्रि यबोधनम 236
उष्णीषं कान्तिकृत्केश्यं रजोवातकफापहम
लघु यच्छस्यते तस्माद् गुरु पित्ताक्षिरोगकृत 237
उपानद्धारणं नेत्र्! यमायुष्यं पादरोगहृत
सुखप्रचारमोजस्यं वृष्यं च परिकीर्तितम 238
पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम
अनारोग्यमनायुष्यमिन्द्रि यघ्नमदृष्टिदम 239
छत्रस्य धारणं वर्षातपवातरजोऽपहम
हिमघ्नं हितमक्ष्णोश्च मङ्गल्यमपि कीर्त्तितम 240
सत्त्वोत्साहवलस्थैर्यधैर्यतेजोविवर्धनम
अवष्टम्भकरं चापि भयघ्नं दण्डधारणम 241
ऊर्ध्वाच्छादनसंयुक्ता शिबिका सर्ववल्लभा
तस्यामारोहणं नॄणां त्रिदोषशमकं मतम 242
वातश्लेष्मगदार्त्तानामहिता भ्रमकृत्तरिः
पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टिवर्द्धनः 243
घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम
मेदोवर्णकफघ्नं च हितं तद्वलिनां परम 244
आतपः स्वेदमूर्च्छाऽस्रपित्ततृष्णाक्लमश्रमान
दाहं विवर्णतां कुर्यादेतांश्छाया व्यपोहति 245
वृष्टिर्वृष्या हिमा बल्या निद्रा ऽलस्यविधायिनी
भयावहा मोहकरी कुहेलि कफवातला 246
अग्निर्वातकफस्तम्भशीतवेपथुनाशनः
आमाभिष्यन्दशमनो रक्तपित्तप्रकोपणः 247
सद्यः श्लेष्मकरो धूमो नेत्रयोरहितो भृशम
शिरोगौरवकृच्चापि वातपित्तं च कोपयेत 248
मैत्री सद्भिः समं कुर्यात्स्नेहं सत्सु तु सर्वथा
संसर्गं साधुभिः कुर्यादसत्सङ्गं परित्यजेत 249
सेवेत देवभूदेववृद्धवैद्यनृपातिथीन
विमुखान्नार्थिनः कुर्यान्नावमन्येत कानपि 250
गुरूणां सन्निधौ तिष्ठेत्सदैव विनयान्वितः
पादप्रसारणादीनि तत्र नैव समाचरेत 251
अपकारपरेऽपि स्यादुपकारपरः पुमान
आत्मवत्सकलान्पश्येद्वैरिणो दूरतो वसेत 252
न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रि पुम
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः 253
नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम
तथा नाज्ञातगाम्भीर्यं न हिंस्रप्राणिसेवितम 254
काले हितं मितं सत्यं संवादि मधुरं वदेत
भुञ्जीत मधुरप्रायं स्निग्धं काले हितं मितम 255
न रात्रौ दधि भुञ्जीत न च निर्लवणं तथा
नामुद्गसूपं नाक्षौद्रं  न चाप्यघृतशर्करम 256
जनस्याशयमालक्ष्य यो यथा परितुष्यति
तं तथैवानुवर्तेत पराराधनपण्डितः 257
नैकः सुखी न सर्वत्र विश्वस्तो न च शङ्कितः
नोद्यमेविरमेत्क्वापि हेतावीर्ष्येत्फले न तु 258
वेगान्न धारयेज्जातु मनोवेगान्विधारयेत
न पीडयेदिन्द्रि याणि न चैतान्यतिलालयेत 259
वर्षाऽतपादिषु च्छत्री दण्डी रात्रौ भयेषु च
सोपानत्कस्तनुं रक्षेद्विचरेद्युगमात्रदृक 260
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत
सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानकम 261
नासंवृतमुखः कुर्यात्सभायां च विचक्षणः
कासं हासं तथोद्गारं जृम्भणं क्षवथुं तथा 262
नासिकां न विकुष्णीयान्नासीतोत्कटकः क्वचित्
नोर्ध्वजानुश्चिरं तिष्ठेन्न नखेन लिखेद्भुवम 263
सम्मार्जनीरजो नैव देहे दद्यात्कदाचन
न नखेन तृणं छिन्द्यान्नोच्छिष्टो ब्राह्मणं स्पृशेत 264
नोपरक्तं न चोद्यन्तं नास्तं यातं दिवाकरम
सर्वथा न समीक्षेत न जले प्रतिबिम्बितम 265
नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च
पौरन्दरं धनुर्नैव दर्शयेत्कमपि क्वचित 266
नेच्छेद्बलवता युद्धं न भारं शिरसा वहेत
गात्रं न वादयेत्केशान्हस्तेन धुनुयान्न च 267
न गच्छेत्पूज्ययोर्मध्ये दम्पत्योरन्तरेण च
रिपोरन्नं न भुञ्जीत गणिकाऽन्नमपि क्वचित 268
प्रतिभूर्न भवेत्क्वापि न च साक्षी वृथा भवेत 269
स्थागं न धारयेज्जातु द्यूतं दूरात्परित्यजेत 270
विश्वासं नाचरेत्स्त्रीणां ताः स्वतंत्रा न चारयेत
रक्षणीयाः सदा यत्नाद्यौवने तु विशेषतः 271
न भिन्ने शयने स्वप्यान्नानेकविवरेऽपि च
नैको देवालये नैव रात्रौ तरुतलेऽपि च 272
एवं दिनानि गमयेत्सदाचारपरः सदा
ततो रात्रिप्रयुक्तानि कुर्यात्कर्माणि मानवः 273
इत्याचारं समासेन भाषितं यः समाचरेत
स विंदत्यायुरारोग्यं प्रीतिं धर्मं धनं यशः 274
एतानि पञ्च कर्माणि सन्ध्यायां वर्जयेद् बुधः
आहारं मैथुनं निद्रा ं! संपाठं गतिमध्वनि 275
भोजनाज्जायते व्याधिर्मैथुनाद्गर्भवैकृतिः
निद्रया निःस्वता पाठादायुर्हानिर्गतेर्भयम 276
ज्योत्स्ना शीता स्मरानन्दप्रदा तृट्पित्तदाहहृत्
ततो हीनगुणः कुर्यादवश्यायोऽनिलं कफम 277
तमो भयावहं मोहदिङ्मोहजनकं भवेत
पित्तहृत्कफहृत्कामवर्धनं क्लमकृच्च तत 278
रात्रौ च भोजनं कुर्यात्प्रथमप्रहरान्तरे
किञ्चिदूनं समश्नीयाद् दुर्जरं तत्र वर्जयेत 279
शरीरे जायते नित्यं देहिनः सुरतस्पृहा
अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनोः 280
बालेति गीयते नारी यावद्वर्षाणि षोडश
ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि 281
तदूर्ध्वमधिरुढा स्यात्पञ्चाशद्वत्सरावधि
वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्जिता 282
निदाघशरदोर्वाला हिता विषयिणां मता
तरुणी शीतसमये प्रौढा वर्षावसन्तयोः 283
नित्यं बाला सेव्यमाना नित्यं वर्धयते वलम
तरुणी ह्रासयेच्छक्तिं प्रौढोद्भावयते जराम् 284
सद्यो मांसं नवं चान्नं वाला स्त्री क्षीरभोजनम
घृतमुष्णोदके स्नानं सद्यः प्राणकराणिषट 285
पूतिमांसं स्त्रियो वृद्धा बालाऽकस्तरुणं दधि
प्रभाते मैथुनं निद्रा  सद्यः प्राणहराणि षट 286
वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात
वयोधिकां स्त्रियं गत्वा तरुणः स्थविरायते 287
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः 288
सेवेत कामतः कामं बलाद्वाजीकृतो हिमे
प्रकामं तु निषेवेत मैथुनं शिशिरागमे 289
त्र्! यहाद्वसन्तशरदोः पक्षाद् वृष्टिनिदाघयोः 290
त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः
सर्वेष्वृतुषु घर्मे तु पक्षात्पक्षाद् व्रजेद बुधः 291
शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवा निशि
वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः 292
उपेयात्पुरुषो नारीं संध्ययोर्न च पर्वसु
गोसर्गे चार्द्धरात्रे च तथा मध्यदिनेऽपि च 293
विहारं भार्यया कुर्याद् देशेऽतिशयसंवृते
रम्ये श्राव्याङ्गनागाने सुगन्धे सुखमारुते 294
देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे
श्रूयमाणे व्यथाहेतुवचने न रमेत ना 295
स्नातचन्दनलिप्ताङ्गः सुगन्धः सुमनोऽन्वितः
भुक्तवृष्यः सुवसनः सुवेषः समलंकृतः 296
ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे 297
अत्याशितोऽधृतिः क्षुद्वान्सव्यथाङ्गः पिपासितः
बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रोगी च मैथुनम 298
भार्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम
अतिकामोऽभिकामां तु हृष्टो हृष्टामलंकृताम
सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः 299
रजस्वलामकामां च मलिनामप्रियां तथा 300
वर्णबृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम 301
सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि
नाधिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया 302
रजस्वलां गतवतो नरस्यासंयतात्मनः
दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत 303
लिगिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु
वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः 304
गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः 305
हीनाङ्गीं मलिनां द्वेष्यां क्षामां वन्ध्यामसंवृते
देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत 306
क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः
स्थितस्य हानिं शुक्रस्य वायोः कोपं च विन्दति 307
व्याधितस्य रुजा प्लीहा मूर्च्छा मृत्युश्च जायते
प्रत्यूषे चार्धरात्रे च वातपित्ते प्रक्प्यतः 308
तिर्यग्योनावयोनौ वा दुष्टयोनौ तथैव च
उपदंशस्तथा वायोः कोपः शुक्रसुखक्षयः 309
उच्चारिते मूत्रिते च रेतसश्च विधारणे
उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु सम्भवः 310
सर्वमेतत्त्यजेत्तस्माद्यतो लोकद्वयाहितम
शुक्रं तूपस्थितं मोहान्न सन्धार्यं कदा चन 311
स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम
वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी 312
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः 313
रोत्रौ जागरणं रूक्षं कफदोषविषार्तिजित
निद्रा  तु सेविताकाले धातुसाम्यमतन्द्रि ताम 314
पुष्टिं वर्णं बलोत्साहं वह्निदीप्तिं करोति हि 315
यो लेढि शयनसमये मधुमिश्रं बीजपूरदलचूर्णम
स तु लज्जाकरवातप्रसरनिरोधात्सुखं स्वपिति 316
सवितुः समुदयकाले प्रसृतीः सलिलस्य यः पिबेदष्टौ
रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम 317
अर्शःशोथग्रहण्यो ज्वरजठरजराकुष्ठमेदोविकाराः
मूत्राघातास्रपित्तश्रवणगलशिरःश्रोणिशूलाक्षिरोगाः
ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तो
स्तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः 318
विगतघननिशीथे प्रातरुत्थाय नित्यं पिबति खलु नरो यो घ्राणरन्ध्रेण वारि
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो वलिपलितविहीनः सर्वरोगैर्विमुक्तः 319
पातव्यं नासया नीरं प्रसृतित्रयमात्रया 320
व्यङ्गवलीपलितघ्नंपीनसवैस्वर्यकासशोथहरम
रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिसञ्जननम 321
स्नेहे पीते क्षते शुद्धावाध्माने स्तिमितोदरे
हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत 322
क्षयकोपशमा यस्मिन्दोषाणां सम्भवन्ति हि
ऋतुषट्कं तदाख्यातं रवेः राशिषु संक्रमात 323
ग्रीष्मो मेषबृषौ प्रोक्तः प्रावृण्मिथुनकर्कटौ
सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत 324
धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनयोः 325
शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमाः
माघादिमासयुग्मं स्युरृतवः षट क्रमादमी 326
गङ्गाया दक्षिणे देशे वृष्टेर्बहुलभावतः
उभौ मुनिभिराख्यातौ प्रावृड्वर्षाभिधावृतू 327
तिस्याएवोत्तरेदेशे हिमप्रचुरभावतः
एतावुभौ समाख्यातौ हेमन्तशिशिरावृतू 328
उत्तरायणमाद्यैस्तैः परैः स्याद्दक्षिणायनम
आद्यमुष्णं बलहरं ततोऽन्यद्बलदं हिमम 329
हेमन्तं शीतलः स्निग्धः स्वादुर्जठरवह्निकृत
शिशिरः शीतलोऽतीव रूक्षो वाताग्निवर्धनः 330
वसन्तो मधुरः स्निग्धः श्लेष्मवृद्धिकरश्च सः
ग्रीष्मो रूक्षोऽतिकटुकः पित्तकृत्कफनाशनः 331
वर्षाः शीता विदाहिन्यो वह्निमान्द्यानिलप्रदाः
शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा 332
चयप्रकोपोपशमा वायोर्ग्रीष्मादिषु त्रिषु
वर्षाऽदिषु च पित्तस्य श्लेष्मणः शिशिरादिषु 333
चीयते लघुरूक्षाभिरोषधीभिः समीरणः
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति 334
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः 335
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः
तुल्ये च काले देहे च स्कन्नत्वान्न प्रकुप्यति 336
हिमे याति शमं पित्तं वायुः श्लेष्मा च चीयते
स वायुः शिशिरे कोपं यात्येवोपचितः कफः 337
हेमन्ते सञ्चितः श्लेष्मा शिशिरे त्वतिचीयते
शीतस्निग्धगुरुद्र व्यैः शैत्यस्कन्नो न कुप्यति 338
इति कालस्वभावोऽयमाहारादिवशात्पुनः
चयादीन् यान्ति सद्योऽपि दोषाः काले विशेषतः 339
चयकोपमशमान्दोषा विहाराहारसेवनैः
समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्ययम 340
स्वस्थानस्थस्य दोषस्य वृद्धिः स्यात्स्तब्धकोषता
पीतावभासता वह्निमन्दता चाङ्गगौरवम 341
आलस्यं चयहेतौ तु द्वेषश्च चयलक्षणम
सञ्चये ऽपहृता दोषा लभन्ते नोत्तरां गतिम 342
ते तूत्तरासु गतिषु भवन्ति बलवत्तराः 343
वर्षासुप्रबलो वायुस्तस्मान्मिष्टादयस्त्रयः
रसाः सेव्या विशेषेण पवनस्योपशान्तये 344
भवेद्वर्षासु वपुषः क्लिन्नत्वं यद्विशेषतः
तत्क्लेदशान्तये सेव्या अपि कट्वादयस्त्रयः 345
स्वेदनं मर्दनं सेव्यं दध्युष्णंजाङ्गलामिषम
शालयो यवगोधूमा जलं कौपं जलं च्युतम 346
न भजेत्पूर्वपवनं वृष्टिं घर्मं हिमं श्रमम
नदीतीरं दिवास्वप्नं रूक्षं नित्यं च मैथुनम 347
सर्पिः स्वादुकषायतिक्तकरसा यच्छीतलं यल्लघु
क्षीरं स्वच्छसितैक्षवः पटुरसः स्वल्पं पलं जाङ्गलम
गोधूमा यवमुद्गशालिसहिता नादेयमंशूदकं
चन्द्र श्चन्दनमिन्दुरादिरजनी माल्यं पटो निर्मलः 348
दिविसेऽककरैर्जुष्टं निशि शीतकरांशुभिः
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम
विश्रामः सुहृदां गणेषु मधुरा वाचः सरः क्रीडनं
पित्तानां च विरेचनं बलवतो युक्तं शिरामोक्षणम
एतान्यत्र घनावसानसमयेपथ्यानिऐ !
मुञ्चेद्दधिव्यायामाम्लकटूष्णतीक्ष्ण दिवसस्वप्नं हिमञ्चातपम 349
इक्षवः शालयो मुद्गाः सरोऽम्भ क्वथितं पयः
शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः 350
प्रातर्भोजनमम्लमिष्टलवणानभ्यङ्गघर्मश्रमान
गोधूमैक्षवशालिमाषपिशितं पिष्टं नवान्नं तिलान
कस्तूरीं वरकुङ्कुमागुरुयुतामुष्णाम्बुशौचं
तथौ स्निग्धं स्त्रीषु सुखं गुरूष्णवसनं सेवेत हेमन्तके 351
शिशिरे शीतमधिकं रौक्ष्यं चादानकालजम
विशेषतस्ततस्तत्र हेमन्तस्य मतो विधिः 352
वान्तिं नस्यमथाभयां च मधुना व्यायाममुद्वर्त्तनं
संसेवेत मधौ कफघ्नकवलं शूल्यं पलं जाङ्गलम
गोधूमान्बहुशालिभेदसहितान्मुद्गान्यवान्षष्टिकां
ल्लेपञ्चन्दनकुङ्कुमागुरुकृतं रूक्षं कटूष्णं लघु 353
मिष्टमम्लं दधिस्निग्धं दिवास्वप्नं च दुर्जरम
अवश्यायमपि प्राज्ञो वसन्ते परिवर्जयेत 354
स्वादुस्निग्धहिमं लघु द्र वमयं द्रव्यं रसालां सितां-
सक्तुंक्षीरमजाङ्गलानि सितया शालि रसं मांसजम
शीतांशुं शयनं दिवा मलयजं शीतं पयः पानकं
सेवेतोष्णदिने त्यजेत्तु कटुकक्षाराम्लघर्मश्रमान 355
ॠतुष्वेषु य एतैस्तु विधिभिर्वर्त्तते नरः
दोषानृतुकृतान्नैव लभते स कदाचन 356

इति श्रीलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे 
दिनचर्यादिप्रकरणं पञ्चमम् 5

अथ षष्ठं मिश्रप्रकरणम 6

रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता
रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते 1
ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः
मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः 2
कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे
कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः 3
कर्मक्षयात्कर्मकृता दोषजाः स्वस्वभेषजैः
कर्मदोषोद्भवा यान्ति कर्मदोषक्षयात् क्षयम 4
साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः
सुखसाध्यः कष्टसाध्यो द्विविधः साध्य उच्यते 5
यापनीयं तु तं विद्यात्क्रिया धारयते हि यम
क्रियायां तु निवृत्तायां सद्यो यश्च विनश्यति 6
प्राप्ता क्रिया धारयति सुखिनं याप्यमातुरम
प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः 7
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम 8
रोगारम्भकदोषस्य प्रकोपादुपजायते
योऽन्यो विकारः स बुधैरुपद्र व इहोदितः 9
रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते
तल्लक्षणमरिष्टं स्याद्रि ष्टं चापि तदुच्यते 10
या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते
दोषधातुमलानां या साम्यकृत्सैव रोगृहृत 11
याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः
सा चिकित्सा विकाराणां कर्म तद्भिषजां मतम 12
या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च
सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत 13
जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया गदः
वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ 14
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम
ततः कर्म भिषक पश्चाज्ज्ञानपूर्वं समाचरेत 15
यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक
अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया 16
भेषजं केवलं कर्तुं यो जानाति न चामयम
वैद्यकर्म स चेत्कुर्याद्वधमर्हति राजतः 17
यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः
तं वैद्यं प्राप्य रोगी स्याद्यथा नौर्नाविकं विना 18
यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक
स मुह्यत्यातुरं प्राप्य तथा भीरुरिवाहवम 19
यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः
देश कालविभागज्ञस्तस्य सिद्धिर्न संशयः 20
आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः
भेषजानां विधानेन ततः कुर्याच्चिकित्सतम 21
विकारनामाकुशलो न जिह्रीयात्कदाचन
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः 22
नास्ति रोगो विना दोषैर्यस्मात्तस्माच्चिकित्सकः
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत 23
ये न कुर्वन्त्यसाध्यानां चिकित्सां ते भिषग्वराः
अतो वैद्यैः श्रमः कार्यः साध्यासाध्यपरीक्षणे 24
शीते शीतप्रतीकारमुष्णे तूष्णनिवारणम
कृत्वा कुर्यात्क्रियां प्राप्तां क्रियाकालं न हापयेत 25
अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता
क्रियाहीनाऽतिरिक्ता च साध्येष्वपि न सिध्यति 26
विकारेऽल्पे महत्कर्म क्रिया लघ्वी गरीयसि
द्वयमेतदकौशल्यं कौशल्यं युक्तकर्मता 27
क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत
पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः 28
क्रियाभिस्तुल्यरूपाभिर्न क्रियासङ्करो हितः
ताभिस्तु भिन्नरूपाभिः साङ्कर्यं नैव दुष्यति 29
न चैकान्तेन निर्दिष्टे शास्त्रे निविशते बुधः
स्वयमप्यत्र भिषजा तर्कणीयं चिकित्सता 30
उत्पद्यते च साऽवस्था दोषकालबलं प्रति
यस्यां कार्यमकार्यं स्यात्कर्म कार्यं विवर्जितम 31
क्वचिदर्थः क्वचिन्मैत्री क्वचिद्धर्मः क्वचिद्यशः
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला 32
आयुर्वेदोदितां युक्तिं कुर्वाणाश्च हिताय ये
पुण्यायुर्वृद्धिसंयुक्ता नीरोगाश्च भवन्ति ते 33
नैव कुर्वीत लोभेन चिकित्सापुण्यविक्रयम
ईश्वराणां वसुमतां लिप्सेतार्थं तु वृत्तये 34
चिकित्सितं शरीरं यो न निष्क्रीणाति दुर्मतिः
स यत्करोति सुकृतं सर्वं तद्भिषगश्नुते 35
न देशो मनुजैर्हीनो न मनुष्या निरामयाः
ततः सर्वत्र वैद्यानां सुसिद्धा एव वृत्तयः 36
रोगी दूतो भिषग्दीर्घमायुर्द्र व्यं सुसेवकः
सदौषधं चिकित्साया इत्यङ्गानि बुधा जगुः 37
रोगो यस्यास्तिरोगी स सचिकित्स्यस्तु यादृशः
यादृशश्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्यताम 38
निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन चक्षुषा
चिकित्स्यो भिषजां रोगी वैद्यभक्तो जितेन्द्रि यः 39
आयुष्मान्सत्त्ववान्साध्यो द्र व्यवान्मित्रवानपि
चिकित्स्यो भिषजां रोगी वैद्यवाक्यकृदास्तिकः 40
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च
शोकाकुलो मुमूर्षुश्च विहीनः करणैश्चः यः 41
वैरी वैद्यविदग्धश्च श्रद्धाहीनश्च शङ्कितः
भिषजामविधेयः स्युर्नोपक्रम्या भिषग्विधाः 42
एतानुपाचरन वैद्यो वहून दोषानवाप्नुयात 43
यश्चिकित्सकमानेतुं याति दूतः स कथ्यते
स च यादृक समुचितस्तादृगत्र निगद्यते 44
दूताः सुजातयोऽव्यङ्गाः पटवो निर्मलाम्बराः
सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः 45
सजातयः सुचेष्टाश्च सजीवदिशि सङ्गताः
भिषजं समये प्राप्ता रोगिणः सुखहेतवे 46
वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते
न शुभं सौम्यशकुनं प्रदीप्तं तु सुखावहम 47
तथाहि रिक्तहस्तो न पश्येत्तुराजानं भिषजं गुरुम
दैवज्ञं देवतां मित्रं फलेन फलमादिशेत 48
चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते
स च यादृक्समीचीनस्तादृशोऽपि निगद्यते 49
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः 50
प्रत्युत्पन्नमतिर्धीमान् व्यवसाथी प्रियंवदः
सत्यधर्मपरो यश्च वैद्य ईदृक् प्रशस्यते 51
कुचैलः कर्कशः स्तब्धो ग्रामीणः स्वयमागतः
पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा यदि 52
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः 53
भिषगादौ परीक्षेत रुग्णस्यायुः प्रयत्नतः
तत आयुषि विस्तीर्णे चिकित्सा सफला भवेत 54
सौम्या दृष्टिर्भवेद्यस्य श्रोत्रं वक्त्रं तथैव च
स्वादु गन्धं विजानाति स साध्यो नात्र संशयः 55
पाणिपादौ च यस्योष्णौ दाहः स्वल्पतरो भवेत
जिह्वातु कोमला यस्य स रोगी न विनश्यति 56
स्वेदहीनो ज्वरो यस्य श्वासो नासिकया चरेत
कण्ठश्च कफहीनः स्यात्स रोगी जीवति ध्रुवम 57
यस्य निद्रा  सुखेन स्याच्छरीरं द्युतिमद्भवेत
इन्द्रि याणि प्रसन्नानि स रोगी नैव नश्यति 58
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत
तदरिष्टं समासेन व्यासतश्च निबोध मे 59
शृणोति विविधाञ्छब्दान्विपरीताञ्छृणोति च
यो न शृणोति चाकस्मात्तं वदन्ति गतायुषम 60
यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत
उष्णगात्रोऽतिमात्रं यो भृशं शीतेन कम्पते 61
प्रहारं नैव जानाति योऽङ्गच्छेदमथापि वा
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते 62
वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि
स्नातानुलिप्तं यं चापि भजन्ते नीलमाक्षिकाः 63
विपरीतेन गृह्णाति रसान्यश्चोपयोजितान
यो वा रसान्न संवेत्ति तं गतासुं प्रचक्षते 64
सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धं च सुगन्धवत
गृह्णाति योऽन्यथा गन्धं शान्ते दीपे निरामयः 65
रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्र वर्चसम
दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति 66
विद्युत्वतोऽसितान्मेघान् गगने निर्घने घनान
विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम 67
यश्चानिलं मूर्त्तिमन्तमन्तरिक्षेऽवलोकते
धूमनीहारवासोभिरावृतामिव मेदिनीम 68
प्रदीप्तमिव यो लोकं यो वाप्लुतमिवाम्भसा
भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति 69
यो न पश्यति ॠक्षाणि यश्च देवीमरुन्धतीम
ध्रुवमाकाशगङ्गां च तं वदन्ति गतायुषम 70
आदर्शेऽम्बुनि घर्मे वा छायां यश्च न पश्यति
पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्वजाम 71
श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम
आतुरो लभते मृत्युं स्वस्थो व्याधिमवाप्नुयात 72
ह्रीश्रियौ नश्यतो यस्य तेज ओजः स्मृतिः प्रभा
अकस्माच्च भजन्ते यं स गतासुरसंशयम 73
यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम 74
आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा
खञ्जनप्रतिभा वापि तं गतायुषमादिशेत 75
कृष्णा तथाऽनुलिप्ता च जिह्वा शून्या च यस्य वै
कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून 76
कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका
अवस्फूर्जति भग्ना वा स न जीवति मानवः 77
संक्षिप्ते विषमे स्तब्धे रूक्षे सास्रे च लोचने
स्यातां परिश्रुते यस्य स गतायुर्नरो ध्रुवम 78
केशा सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ
लुठन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे 79
नाहरत्यन्नमास्यस्थं न धारयति यः शिरः
एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान्विमुञ्चति 80
उत्थाप्यमानो बहुशः संमोहं योऽधिगच्छति
बलवान्दुर्बलो वापि तं पक्वं भिषगादिशेत 81
निद्रा  निरन्तरं यस्य यो जागर्त्ति च सर्वदा
मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता 82
उत्तरौष्ठं च यो लिह्यादुत्करांश्च करोतिः यः
प्रेतैर्वा भाषते सायं प्रेतरूपं तमादिशेत 83
खेभ्यश्च रोमकूपेभ्यो यस्य रक्तं प्रवर्तते
पुरुषस्याविषार्तस्य स सद्यो जीवितं त्यजेत 84
सम्यक् चिकित्स्यमानस्य विकारो योऽभिवर्धते
प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः 85
भूताः प्रेताः पिशाचाश्च रक्षांसि विविधानि च
मरणाभिमुखं जन्तुमुपसृत्य च नित्यशः 86
तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया
तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषः 87
सर्वे द्र व्यमपेक्षन्ते रोगिप्रभृतयो यतः
विना वित्तं न भैषज्यं चिकित्साऽङ्ग ततो धनम 88
स्निग्धोऽजुगुप्सुर्बलवान्युक्तो व्याधितरक्षणे
वैद्यवाक्यकृदश्रान्तो युज्यते परिचारकः 89
वैद्यो व्याधिं हरेद्येन तद्द्र व्यं प्रोक्तमौषधम
तद्यादृशमवश्यं स्याद्रो गघ्नं तादृशं ब्रुवे 90
प्रशस्तदेशे सञ्जातं प्रशस्तेऽहनि चोद्धृतम
अल्पमात्रं बहुगुणं गन्धवर्णरसान्वितम 91
दोषघ्नमग्लानिकरमधिकं न विकारि यत
समीक्ष्य काले दत्तं च भेषजं स्याद गुणावहम 92
आग्नेया विन्ध्यशैलाद्या सौम्यो हिमगिरिः स्मृतः
अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः 93
अन्येष्वपि प्ररोहन्ति वनेषूपवनेषु च
गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे 94
आदित्यसम्मुखो मौनी नमस्कृत्य शिवं हृदि
साधारणधराद्र व्यं गृह्णीयादुत्तराश्रितम 95
वल्मीककुत्सितानूपश्मशानोषरमार्गजाः
जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसाधिकाः 96
शरद्यखिलकार्यार्थं ग्राह्यंसरसमौषधम
विरेकवमनार्थं तु वसन्तान्ते समाहरेत 97
अतिस्थूलजटा याः स्युस्तासां ग्राह्यास्त्वचो ध्रुवम
गृह्णीयात्सूक्ष्ममूलानि सकलान्यपि बुद्धिमान 98
महान्ति येषां मूलानि काष्ठगर्भाणि सर्वतः
तेषां तु वल्कलं ग्राह्यं ह्रस्वमूलानि सर्वशः 99
न्यग्रोधादेस्त्वचो ग्राह्या सारःस्याद्वीजकादितः
तालीसादेश्च पत्राणि फलं स्यात् त्रिफलादितः 100
क्वचिन्मूलं क्वचित्कन्दः क्वचित्पत्रं क्वचित्फलम
क्वचित्पुष्पं क्वचित्सर्वं क्वचित्सारः क्वचित्त्वचः 101
चित्रकं सूरणं निम्बो वासा च त्रिफला क्रमात
धातकी कण्टकारी च खदिरः क्षीरपादपः 102
क्वचिन्निम्बस्य गृह्णीयात्पत्राभावे त्वचामपि
बालं फलं तु बिल्वस्य पक्वमारग्वधस्य च 103
अङ्गेऽनुक्ते जटा ग्राह्या भागेऽनुक्तेऽखिलं समम
पात्रेऽनुक्ते मृदः पात्रं कालेऽनुक्ते त्वहर्मुखम 104
नवान्येव हि योज्यानि द्र व्याण्यखिलकर्मसु
विना विडङ्गकृष्णाभ्यां गुडधान्याज्यमाक्षिकैः 105
पुराणन्तु प्रशस्तं स्यात्ताम्बूलं काञ्जिकं तथा
शुष्कं नवीनद्र व्यं तु योज्यं सकलकर्मसु 106
आद्र रं! तु द्विगुणं युञ्ज्यादेष सर्वत्र निश्चयः
गुडूची कुटजो वासा कूष्माण्डश्च शतावरी 107
अश्वगन्धा सहचरः शतपुष्पा प्रसारिणी
प्रयोक्तव्याः सदैवाद्रा र्! द्विगुणं नैव कारयेत 108
वासानिम्बपटोलकेतकबलाकूष्माण्डकेन्दीवरी-
वर्षाभूकुटजाश्च कन्दसहिता सा पूतिगन्धाऽमृता
एन्द्री  नागबला कुरुण्टकपुरच्छत्राऽमृताः सर्वदा
साद्रा र्! एव तु न क्वचिद् द्विगुणिताः कार्येषु योज्या बुधैः 109
घृतं तैलं च पानीयं कषायं व्यञ्जनादिकम
पक्त्वा शीतीकृतं चोष्णं तत्सर्वं स्याद्विषोपमम 110
सूक्ष्मास्थिमांसला पथ्या सर्वकर्मणि पूजिता
क्षिप्ताऽम्भसि निमज्जेद्याः भल्लातक्यस्तथोत्तमाः 111
वराहमूर्द्धवत्कन्दो वाराहीकन्दसंज्ञकः
सौवर्चलं तु काचाभं सैन्धवं स्फटिकप्रभम 112
सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकमुत्तमम
ओड्रपुष्पप्रतीकाशा मनोह्वा चोत्तमा मता 113
श्रेष्ठं शिलाजतु ज्ञेयं प्रक्षिप्तं न विशीर्यते
तोयपूर्णे कांस्यपात्रे प्रतानेन विवर्धते 114
कर्पूरस्तुवरः स्निग्धः एला सूक्ष्फला वरा
श्वेतचन्दनमत्यन्तं सुगन्धि गुरुपूजितम 115
रक्तचन्दनमत्यन्तं लोहितं प्रवरं मतम
काकतुण्डनिभः स्निग्धो गुरुः श्रेष्ठो गुरुर्मतः 116
सुगन्धि लघु रूक्षं च सुरदारु वरं मतम
सरलं स्निग्धमत्यर्थं सुगन्धि च गुणावहम 117
अतिपीता प्रशस्ता तु ज्ञेया दारुनिशा बुधैः
जातीफलं गुरु स्निग्धं समं शुभ्रान्तरं वरम 118
मृद्वीका सोत्तमा ज्ञेया या स्याद्गोस्तनसन्निभा
करमर्दफलाकारा मध्यमा सा प्रकीर्त्तिता 119
खण्डं तु विमलं श्रेष्ठं चन्द्र कान्तसमप्रभम
गव्याज्यसदृशं रुच्यं गन्धं मधु वरं मतम 120
शालीनां लोहितः शालि षष्टिकेषु च षष्टिकः
शूकधान्येष्वपि यवो गोधूमः प्रवरो मतः 121
शिम्बीधान्ये वरो मुद्गो मसूरश्चाढकी तथा
रसेषु मधुरः श्रेष्ठो लवणेषु च सैन्धवः 122
दाडिमामलकं द्रा क्षा खर्जूरं च परूषकम
राजादनं मातुलुंगं फलवर्गेषु शस्यते 123
पत्रशाकेषु वास्तूकं जीवन्ती पोतिका वरा
पटोलं फलशाकेषु कन्दशाकेषु सूरणम 124
एणः कुरङ्गो हरिणो जाङ्गलेषु प्रशस्यते
पक्षिणां तित्तिरिर्लावो वरो मत्स्येषु रोहितः 125
हरिणस्ताम्रवर्णः स्यादेणः कृष्णतया मतः
कुरङ्गस्ताम्र उद्दिष्टो हरिणाकृतिको महान 126
जलेषु दिव्यं दुग्धेषु गव्यमाज्येषु गोभवम
तैलेषु तिलजं तैलमैक्षवेषु सिता हिता 127
शिम्वीषु माषान्ग्रीष्मर्तौ लवणेष्वौषरं त्यजेत
फलेषु लकुचं शाके सार्षपं न हितं मतम 128
गोमांसं ग्राम्यमांसेषु न हितं महिषीवसा
मेषीपयः कुसुम्भस्य तैलं त्याज्यं च फाणितम 129
मत्स्यमानूपमांसं च दुग्धयुक्तं विवर्जयेत
कपोतं सर्षपस्नेहभर्जितं परिवर्जयेत 130
मत्स्यानिक्षोर्विकारेण तथा क्षौद्रे ण वर्जयेत
सक्तून्मांसपयोयुक्तानुष्णैर्दधि विवर्जयेत 131
उष्णैर्नभोऽम्बुना क्षौद्रं  पायसं कृसरान्वितम
रम्भाफलं त्यजेत्तक्रदधिबिल्वफलान्वितम 132
दशाहमुषितं सर्पिः कांस्ये मधुघृतं समम
कृतान्नं च कषायं च पुनरुष्णीकृतं त्यजेत 133
एकत्र बहुमांसानि विरुध्यन्ते परस्परम
मधु सर्पिर्वसा तैलं पानीयं वा पयस्तथा 134
लवणं सैन्धवं प्रोक्तंचन्दनं रक्तचन्दनम
चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः
कषायलेपयोः प्रायो युज्यते रक्तचन्दनम 135
अन्तः सम्मार्जने ज्ञेया ह्यजमोदा यवानिका
बहिः सम्मार्जने सैव विज्ञातव्याऽजमोदिका 136
पयः सर्पिः प्रयोगेषु गव्यमेव हि गृह्यते
शकृद्र सो गोमयको मूत्रं गोमूत्रमुच्यते 137
चित्रकाभावतोदन्ती क्षारः शिखरिजोऽथवा
अभावे धन्वयासस्य प्रेक्षेप्यातु दुरालभा 138
तगरस्याप्यभावे तु कुष्ठं दद्याद्भिषग्वरः
मूर्वाऽभावे त्वचो ग्राह्या जिङ्गिनीप्रभवा बुधैः 139
अहिंस्रया अभावे तु मानकन्दः प्रकीर्त्तितः
लक्ष्मणाया अभावे तु नीलकण्ठशिखा मता 140
वकुलाभावतो देयं कह्लारोत्पलपङ्कजम
नीलोत्पलस्याभावे तु कुमुदं देयमिष्यते 141
जातीपुष्पं न यत्रास्ति लवंगं तत्र दीयते
अर्कपर्णादिपयसो ह्यभावे तद्र सो मतः 142
पौष्करा भावतः कुष्ठं तथा लाङ्गल्यभावतः
स्थौणेयकस्याभावे तु मिषग्भिर्दीयते गदः 143
चविकागजपिप्पल्यौ पिप्लीमूलवत्स्मृतौ 144
अभावे सोमराज्यास्तु प्रपुन्नाडफलं मतम
यदि न स्याद्दारुनिशा तदा देया निशा बुधैः 145
रसाञ्जनस्याभावे तु दार्वीक्वाथः प्रयुज्यते
सौराष्ट्र्यभावतो देया स्फटिका तद्गुणा जनैः 146
तालीसपत्रकाभावे स्वर्णताली प्रशस्यते
भार्ङ्ग्यभावे तु तालीसं कण्टकारीजटाऽथवा 147
रुचकाभावतो दद्याल्लवणं पांशुपूर्वकम
अभावे मधुयष्ट्यास्तु धातकीं च प्रयोजयेत 148
अम्लवेतसकाभावे चुक्रं दातव्यमिष्यते
द्राक्षा यदि न लभ्येत प्रदेयं काश्मरीफलम 149
तयोरभावे कुसुमं मधूकस्य मतं बुधैः
लवङ्गकुसुमं देयं नखस्याभावतः पुनः 150
कस्तूर्यभावे कङ्कोलं क्षेपणीयं विदुर्बुधाः
कङ्कोलस्याप्यभावे तु जातीपुष्पं प्रदीयते 151
सुगन्धिमुस्तकं देयं कर्पूराभावतो बुधैः
कर्पूराभावतो देयं ग्रन्थिपर्णं विशेषतः 152
कुङ्कुमाभावतो दद्यात्कुसुम्भकुसुमं नवम
श्रीखण्डचन्दनाभावे कर्पूरं देयमिष्यते 153
अभावे त्वेतयोर्वैद्यः प्रक्षिपेद्र क्तचन्दनम
रक्तचन्दनकाभावे नवोशीरं विदुर्बुधाः 154
मुस्ता चातिविषाभावे शिवाऽभावे शिवा मता
अभावे नागपुष्पस्य पद्मकेशरमिष्यते 155
मेदाजीवककाकोलीऋद्धिद्वन्द्वेऽपि वाऽसति
दरीविदार्यश्वगन्धावाराहीश्च क्रमात् क्षिपेत 156
वाराह्याश्च तथाऽभावे चर्मकारालुको मतः
वाराहीकन्दसंज्ञस्तु पश्चिमे गृष्टिसंज्ञकः 157
वारीहीकन्द एवान्यश्चर्मकारालुको मतः
अनूपसम्भवे देशे वराह इव लोमवान 158
भल्लातकासहत्वे तु रक्तचन्दनमिष्यते
भल्लाताभावतश्चित्रं नलश्चेक्षोरभावतः 159
सुवर्णाभावतः स्वर्णमाक्षिकं प्रक्षिपेद् बुधः
श्वेतं तु माक्षिकं ज्ञेयं बुधै रजतवद ध्रुवम 160
माक्षिकस्याप्यभावे तु प्रदद्यात्स्वर्णगैरिकम
सुवर्णमथ वा रौप्यं मृतं यत्र न लभ्यते 161
तत्र कान्तेन कर्माणि भिषक्कुर्याद्विचक्षणः
कान्ताभावे तीक्ष्णलोहं योजयेद्वैद्यसत्तमः 162
अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत
मधु यत्र न लभ्येत तत्र जीर्णगुडो मतः 163
मत्स्यण्ड्यभावतो दद्युर्भिषजः सितशर्कराम
असम्भवे सितायास्तु बुधैः खण्डं प्रयुज्यते 164
क्षीराभावे रसो मौद्गो मासूरो वा प्रदीयते
अत्र प्रोक्तानि वस्तूनि यानि तेषु च तेषु च 165
योज्यमेकतराभावे परं वैद्येन जानता
रसवीर्यविपाकाद्यैः समं द्र व्यं विचिन्त्य च 166
युञ्ज्यात्तद्विधमन्यच्च द्र व्याणां तु रसादिवित
योगे यदप्रधानं स्यात्तस्य प्रतिनिधिर्मतः 167
यत्तु प्रधानं तस्यापि सदृशं नैव गृह्यते
व्याधेरयुक्तं यद्द्र व्यं गणोक्तमपि तत्त्यजेत
अनुक्तमपि युक्तं यद्योजयेत्तद्र सादिवित 168
द्र व्ये रसो गुणो वीर्यं विपाकः शक्तिरेव च
पदार्थाः पञ्च तिष्ठन्ति स्वं स्वं कुर्वन्ति कर्म च 169
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः
षड् द्र व्यमाश्रितास्ते च यथापूर्वं बलावहाः 170
तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते 171
ये रसा वातशमना भवन्ति यदि तेषु वै
रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम 172
ये रसा पित्तशमना भवन्ति यदि तेषु वै
तीक्ष्णोष्णलघुताश्चैव नैते तत्कर्मकारिणः 173
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै
स्नेहगौरवशैत्यानि न ते हन्युः कफं तदा 174
मधुरो हि रसः शीतो धातुस्तन्यबलप्रदः
चक्षुष्यो वातपित्तघ्नः कुर्यात्स्थौल्यमलकृमीन 175
विषघ्नः पिच्छिलश्चापि स्निग्धः प्रीत्यायुषोर्हितः
बालबृद्धक्षतक्षीणवर्णकेशेन्द्रि यौजसाम 176
प्रशस्तो बृंहणः कण्ठ्यो गुरुः सन्धानकृन्मतः 177
सोऽतियुक्तो ज्वरश्वासगलगण्डार्बुदकृमीन
स्थौल्याग्निमान्द्यमेहांश्च कुर्यान्मेदःकफामयान 178
रसोऽम्ल पाचनो रुच्यः पित्तश्लेष्मास्रदो लघुः
लेखितोष्णो बहिः शीतः क्लेदनः पवनापहः 179
स्निग्धस्तीक्ष्णः सरः शुक्रविबन्धानाहदृष्टिहा
हर्षणो रोमदन्तानामक्षिभ्रूविनिकोचनः 180
सोऽतियुक्तो भ्रमं कुर्यात्तृड्दाहतिमिरज्वरान
कण्डूपाण्डुत्ववीसर्पशोथविस्फोटकुष्ठकृत 181
लवणः शोधनो रुच्यः पाचनः कफपित्तदः
पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः
बलघ्न आस्यजलदः कपोलगलदाहकृत 182
सोऽति युक्तो ऽक्षिपाकास्रपित्त कोठक्षतादिकृत
वलीपलितखालित्यकुष्ठवीसर्पतृट्प्रदः 183
कटुरुष्णश्च तीक्ष्णश्च विशदो वातपित्तकृत
श्लेष्महृल्लघुराग्नेयः कृमिकण्डूविषापहः 184
शुक्रस्तन्यहरश्चापि मेदःस्थौल्यापकर्षणः
अश्रुदो नासिकाऽस्याक्षिजिह्वाऽग्रोद्वेजको मतः 185
दीपनः पाचनो रुच्यो नासिकाशोषणो भृशम
क्लेदमेदोवसामज्जशकृन्मूत्रोपशोषणः 186
स्रोतः प्रकाशको रूक्षः मेध्यो वर्चोविबन्धकृत 187
सोऽतियुक्तो भ्रान्तिदाहमुखताल्वोष्ठशोषकृत
कण्ठादिपीडामूर्च्छाऽन्तर्दाहदो बलकान्तिहृत 188
तिक्तः शीतस्तृषामूर्च्छाज्वरपित्तकफाञ्जयेत
कृमिकुष्ठविषोत्क्लेददाहरक्तगदापहः 189
रुच्यः स्वयमरोचिष्णुः कण्ठस्तन्यविशोधनः
वातलोऽग्निकरो नासाशोषणो रूक्षणो लघुः 190
सोऽतियुक्तः शिरःशूलमन्यास्तम्भश्रमार्त्तिकृत
कम्पमूर्च्छातृषाकारी बलशुक्रक्षयप्रदः 191
कषायो रोपणो ग्राही स्तम्भनः शोधनस्तथा
लेखनः पीडनः सौम्यः शोषणो वातकोपनः 192
कफशोणितपित्तघ्नो रूक्षः शीतो लघुर्मतः
त्वक्प्रसाधन आमस्य स्तम्भनो विशदो मतः
जिह्वायां जाड्यकृत्कण्ठस्रोतसां च विबन्धकृत 193
सोऽतियुक्तो ग्रहाध्मानहृत्पीडाक्षेपणादिकृत 194
मधुरं श्लेष्मलंप्रायो जीर्णशालियवादृते
मुद्गाद्गोधूमतः क्षौद्रा त्सिताया जाङ्गलामिषात 195
अम्लं पित्तकरं प्रायो विना धात्रीं च दाडिमीम
लवणं प्रायशो द्वेषि नेत्रयोः सैन्धवं विना 196
प्रायः कटु तथा तिक्तमवृष्यं वातकोपनम
शुण्ठी कृष्णारसोनानि पटोलममृतां विना 197
पिप्पलीनागरं वृष्यं कटु चावृष्यमुच्यते
प्रायशः स्तम्भनं प्रोक्तं कषायमभयां विना 198
सामान्येनात्र निर्दिष्टा गुणाः षड्रससम्भवाः
रसानां योगतस्तु स्यादन्य एव गुणोदयः 199
संयोगाद्विषतां याति सममाज्येन माक्षिंकम्
अमृतत्वं विषं याति सर्पदष्टस्य वै यथा 200
लघुर्गुरुस्तथा स्निग्धो रूक्षस्तीक्ष्ण इति क्रमात
नभोभूवारिवातानां वह्नेरेते गुणाःस्मृताः 201
लघु पथ्यं परं प्रोक्तं कफघ्नं शीघ्रपाकि च 202
गरु वातहरं पुष्टिश्लेष्मकृच्चिरपाकि च
स्निग्धं वातहरं श्लेष्मकारि वृष्यं बलावहम
रूक्षं समीरणकरं परं कफहरं मतम 203
तीक्ष्णं पित्तकरं प्रायो लेखनं कफवातहृत
सुश्रुते तु गुणा एते विंशतिस्तान्ब्रुवे शृणु 204
गुरुर्लघुः स्निग्धरूक्षौ तीक्ष्णः श्लक्ष्णः स्थिरः सरः
पिच्छिलो विशदः शीत उष्णश्च मृदुकर्कशौ
स्थूलः सूक्ष्मो द्र वः शुष्क आशुर्मन्दः स्मृता गुणाः 205
श्लक्ष्णः स्नेहं विनाऽपि स्यात्कठिनोऽपि हि चिक्कणः 206
स्थिरो वातमलस्तम्भी सरस्तेषां प्रवर्तकः
पिच्छिलस्तन्तुलो बल्यः सन्धानः श्लेष्मलो गुरुः 207
क्लेदच्छेदकरः ख्यातो विशदो व्रणरोपणः
शीतस्तु ह्लादनःस्तम्भी मूर्च्छातृटस्वेददाहनुत
उष्णो भवति शीतस्य विपरीतश्च पाचनः 208
स्थूलः स्थौल्यकरो देहे स्रोतसामवरोधकृत 209
देहस्य सूक्ष्मच्छिद्रे षु विशेद्यत्सूक्ष्ममुच्यते
द्रवः क्लेदकरो व्यापी शुष्कस्तद्विपरीतकः 210
आशुराशुकरो देहे धावत्यम्भसि तैलवत
मन्दः सकलकार्येषु शिथिलोऽल्पोऽपि कथ्यते 211
पचेन्नामं वह्निकृद्यद्दीपनं तद्यथा मिसिः 212
पचत्यामं न वह्निं च कुर्याद्यत्तद्धि पाचनम
नागकेशरवद्विद्याच्चित्रोदीपनपाचनः 213
नशोधयति यद्दोषान्समान्नोदीरयत्यपि
समीकरोति विषमाञ्छमनं तद्यथाऽमृता 214
कृत्वा पाकं मलानां च भित्वा बन्धमधो नयेत
तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी 215
पक्तव्यं यदपक्त्वैव श्लिष्टं कोष्ठे मलादिकम
नयत्यधः स्रंसनं तद्यथा स्यात्कृतमालकम 216
मलादिकमबद्धं यद्बद्धं वा पिण्डितं मलैः
भित्वाऽध पातयति यद्भेदनं कटुकी यथा 217
विपक्वं यदपक्वं वा मलादि द्रवतां नयेत
रेचयत्यपि तज्ज्ञेयं रेचनं त्रिवृता यथा 218
अपक्वं पित्तश्लेष्मान्नं बलादूर्ध्वं नयेत्तु यत
वमनं तद्धि विज्ञेयं मदनस्य फलं यथा 219
स्थानाद्वहिर्नयेदूर्ध्वमधो वा मलसञ्चयम
देहसंशोधनं तत्स्याद देवदालीफलं यथा 220
दीपनं पाचनं यत्स्यादुष्णत्वाद्द्र वशोषकम
ग्राहि तच्च यथा शुण्ठी जीरकं गजपिप्पली 221
रौक्ष्याच्छैत्यात्कषायत्वाल्लघुपाकाच्च यद्भवेत
वातकृत्स्तम्भनं तत्स्याद्यथा वत्सकटुण्टुकौ 222
श्लिष्टान्कफादिकान्दोषानुन्मूलयति यद्वलात
छेदनं तद्यथा क्षारा मरिचानि शिलाजतु 223
धातून्मलान् वा देहस्य विशोध्योल्लेखयेच्च यत
लेखनं तद्यथा क्षौद्रं  नीरमुष्णं वचा यवाः 224
यस्माद् द्रव्याद्भवेत्स्त्रीषु हर्षो वाजीकरं हि तत
यथाऽश्वगन्धामुसली शर्करा च शतावरी 225
यस्माच्छुक्रस्य वृद्धिः स्याच्छुक्रलं हि तदुच्यते
यथा नागबलाऽद्या स्युर्बीजं च कपिकच्छुजम 226
दुग्धं माषाश्च भल्लातफलमज्जामलानि च
एतानि जनकानि स्यू रेचकानि च रेतसः 227
प्रवर्तिनी स्त्री शुक्रस्य रेचनं बृहतीफलम
जातीफलं स्तम्भकं स्यात्कालिङ्गं क्षयकारि च 228
रसायनन्तु तज्ज्ञेयं यज्जराव्याधिनाशनम
यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु 229
पूर्वं व्याप्याखिलं कायं ततः पाकञ्च गच्छति
व्यवायि तद् यथा भङ्गा फेनञ्चाहि समुद्भवम 230
सन्धिबन्धांस्तु शिथिलान्यत्करोति विकाशि तत
विशोष्यौजश्च धातुभ्यो यथा क्रमुककोद्र वौ 231
बुद्धिं लुम्पति यद् द्र व्यं मदकारि तदुच्यते
तमोगुणप्रधानञ्च यथा मद्यं सुराऽदिकम 232
व्यवायि च विकाशि स्याच्छ्लेष्मच्छेदि मदावहम
आग्नेयं जीवितहरं योगवाहि स्मृतं विषम 233
निजवीर्य्येण यद द्रव्यं स्रोतोभ्यो दोषसञ्चयम
निरस्यति प्रमाथि स्यात्तद्यथा मरिचं वचा 234
पैच्छिल्याद्गौरवाद द्रव्यं रुद्ध्वा रसवहाः शिराः
धत्ते यद्गौरवं तत्स्यादभिष्यन्दि यथा दधि 235
विदाहि द्रव्यमुद्गारमम्लं कुर्यात्तथा तृषाम
हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात 236
गृह्णाति योगवाहि द्रव्यं संसर्गिवस्तुगुणान
पच्यमानं यथैतन्मधुजलतैलाज्यसूतलोहादिः 237
उष्णशीतगुणोत्कर्षाद बुधैवीर्यं द्विधा स्मृतम
यत्सर्वमग्निषोमीयं दृश्यते भुवनत्रयम 238
उष्णं वातकफौ हन्यात् पित्तं तु तनुते जराम
शीतं वातकफातङ्कान्कुरुते पित्तहृत्परम 239
तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकताम
शमञ्च वातकफयो करोति शिशिरं पुनः
ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः 240
जाठरेणाग्निना योगाद्यदुदेति रसान्तरम
रसानां परिणामान्ते स विपाक इति स्मृतः 241
मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः
कटुतिक्तकषायाणां पाकः स्यात्प्रायशः कटुः 242
श्लेष्मकृन्मधुरः पाको वातपित्तहरो मतः
अम्लस्तु कुरुते पित्तं वातश्लेष्मगदापहः 243
कटुः करोति पवनं कफं पित्तञ्च नाशयेत
विशेष एवं रसतो विपाकानां निदर्शितः 244
रसादिसाम्ये यत्कर्म विशिष्टं तत्प्रभावजम
दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी 245
मधूकस्य च मृद्वीका घृतं क्षीरस्य दीपनम
प्रभावस्तु यथा धात्री लकुचस्य रसादिभिः 246
समाऽपि कुरुते दोषत्रितयस्य विनाशनम 247
क्वचित्तुकेवलं द्र व्यं कर्म कुर्यात्प्रभावतः
ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा 248
विरुद्धगुणसंयोगे भूयसाऽल्प हि जीयते
रसं विपाकस्तौ वीर्यं प्रभावस्तान्व्यपोहति 249

इति मिश्रप्रकरणे मिश्रवर्गः प्रथमः समाप्तः 1
Related Posts Plugin for WordPress, Blogger...

Follow by Email