Tuesday, 7 July 2015

अथ सप्ततितमो योनिरोगाधिकारः 70

मिथ्याऽहारविहाराभ्यां दुष्टैर्दोषैः प्रदूषिताम
आर्त्तवाद्बीजतश्चापि दैवाद्वा स्युर्भगे गदाः 1

उदावर्त्ता तथा वन्ध्या विप्लुता च परिप्लुता
वातला योनिजो रोगो वातदोषेण पञ्चधा 2

पञ्चधा पित्तदोषेण तत्रादौ लोहितक्षरा
प्रस्रंसिनी वामनी च पुत्रघ्नी पित्तला तथा 3

अत्यानन्दा कर्णिनी च चरणानन्दपूर्विका
अतिपूर्वाऽपि सा ज्ञेया श्लेष्मला च कफादिमाः 4

षण्ढ्यण्डिनी च महती सूचीवक्त्रा त्रिदोषिणी
पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः 5

सफेनिलमुदावर्त्ता रजः कृच्छ्रेण मुञ्चति
बन्ध्या निरार्त्तवा ज्ञेया विप्लुता नित्यवेदना 6

परिप्लुतायां भवति ग्राम्यधर्मरुजा भृशम
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः 7

सदाहं क्षरते रक्तं यस्याः सा लोहितक्षरा
प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी 8

सवातमुद्गिरद्बीजं वामनी रजसा युतम
स्थितं हि पातयेद्गर्भं पुत्रघ्नी रक्तसंस्रवात 9

अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत 10

अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण विन्दति
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते 11

मैथुने चरणा पूर्वं पुरुषादतिरिच्यते
बहुशश्चातिचरणा तयोर्बीजं न तिष्ठति 12

श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत 13

अनार्त्तवाऽस्तनी षण्ढी खरस्पर्शा च मैथुने
महामेढ्रगृहीतायाबालायास्त्वण्डिनी भवेत 14

विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता 15

सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा
चतसृष्वपि चाद्यासु सर्वलिङ्गनिदर्शनम 66

पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः 17

दिवास्वप्नादतिक्रोधाद्  व्यायामादतिमैथुनात
क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यथा 18

पूयशोणितसङ्काशं लकुचाकृतिसन्निभम
जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः 19

रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत
दाहरागज्वरयुतं विद्यात्पित्तात्मकं तु तम 20

तिलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम
सर्वलिङ्गसमायुक्तं सन्निपातात्मकं वदेत 21

आर्त्तवादर्शने नारी मत्स्यान्सेवेत नित्यशः
काञ्जिकं च तिलान्माषानुदश्विच्च तथा दधि 22

इक्ष्वाकुबीजदन्तीचपलागुडमदनकिण्वयवशूकैः
सस्नुक्क्षीरैर्वर्त्तिर्योनिगता कुसुमसञ्जननी 23

पीतं ज्योतिष्मतीपत्रं स्वर्जिकोग्रासनं त्र यहम
शीतेन पयसा पिष्टं कुसुमं जनयेद् ध्रुवम 24

बला सिता सातिबला मधूकं वटस्य शुङ्गं गजकेशरं च
एतन्मधुक्षीरघृतैर्निपीतं वन्ध्या सुपुत्रं नियतं प्रसूते 25

अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम
ॠतुस्नाताऽङ्गना प्रातः पीत्वा गर्भं दधाति हि 26

पुष्योद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया
पिष्टं पीत्वा ॠतुस्नाता गर्भं धत्ते न संशयः 27

कुरण्टमूलं धातक्याः कुसुमानि वटाङ्कुराः
नीलोत्पलं पयोयुक्तमेतद् गर्भप्रदं ध्रुवम् 28

याऽबला पिबति पार्श्वपिप्पलं जीरकेण सहितं हिताशिनी
श्वेतया विशिखपुङ्खया युतं सा सुतं जनयतीह नान्यथा 29

पत्रमेकं पलाशस्य पिष्ट्वा दुग्धेन गर्भिणी
पीत्वा पुत्रमवाप्नोति वीर्यवन्तं न संशयः  30

शूकरशिम्बीमूलं मध्यं वा दधिफलस्य सपयस्कम
पीत्वाऽथो भवलिङ्गीबीजं कन्यां न सूते स्त्री 31

पुत्रकमञ्जरिमूलं विष्णुक्रान्तेशलिङ्गिनी सहिता
एतद्गर्भेऽष्टदिनं पीत्वा कन्यां न सर्वथा सूते 32

पिप्पलिविडङ्गटङ्कणसमचूर्णं या पिबेत्पयसा
ॠतुसमये न हि तस्या गर्भः सञ्जायते क्वापि 33

आरनालपरिपेषितं त्र्! यहं या जपाकुसुममत्ति पुष्पिणी
सत्पुराणगुडमुष्टिसेविनी सन्दधाति न हि गर्भमङ्गना 34

तासु योनिषु चाद्यासु स्नेहादिक्रम इष्यते
वस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम 35

नतवार्त्ताकिनी कुष्ठसैन्धवामरदारुभिः
तिलतैलं पचेन्नारी पिचुमस्य विधारयेत
विप्लुतायां सदा योनौ व्यथा तेन प्रशाम्यति 36

वातलां कर्कशां स्तब्धामल्पस्पर्शां तथैव च
कुम्भीस्वेदैरुपचरेदन्तर्वेश्मनि संवृते
धारयेद्वा पिचुं योनौ तिलतैलस्य सा सदा 37

पित्तलानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः
शीताः पित्तहराः कार्याःस्नेहनार्थं घृतानि च 38

प्रस्रसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत
पिधाय वेशवारेण ततो बन्धं समाचरेत 39

शुण्ठीमरिचकृष्णा भिर्धान्यकाजाजिदाडिमैः
पिप्पलीमूलसंयुक्तैर्वेशवारः स्मृतो बुधैः 40

धात्रीरसं सितायुक्तं योनिदाहे पिबेत्सदा
सूर्यकान्ता भवं मूलं पिबेद्वा तण्डुलाम्बुना 41

योन्यां तु पूयस्राविण्यां शोधनद्र व्यनिर्मितैः
सगोमूत्रैः सलवणैः पिण्डैः सम्पूरणं हितम 42

दुर्गन्धां पिच्छिलां वाऽपि  चूर्णैः पञ्चकषायजैः
पूरयेद्धारयेद्रा जवृक्षादिक्वथिताम्बुना 43

पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः
वर्त्तिस्तुल्या प्रदेशिन्या योनौ श्लेष्मविशोधिनी 44

कर्णिन्यां वर्त्तयो देयाः शोधनद्र व्यनिर्मिताः 45

गुडूची त्रिफलादन्तीक्वथितोदकधारया
योनिं प्रक्षालयेत्तेन तत्र कण्डूः प्रशाम्यति 46

मुद्गयूषं सखदिरं पथ्यां जातीफलं तथा
निम्बं पूगञ्च सञ्चूर्ण्य वस्त्रपूतं क्षिपेद्भगे 47

योनिर्भवति सङ्कीर्णा न स्रवेच्च जलं ततः
कपिकच्छूभवं मूलं क्वाथयेद्विधिना भिषक
योनिः सङ्कीर्णतां याति क्वाथेनानेन धावने 48

जीरकद्वितयं कृष्णं सुषवी सुरभिर्वचा
वासकः सैन्धवश्चापि यवक्षारो यवानिका 49

एषां चूर्णं घृते किञ्चिद्भृष्ट्वा खण्डेन मोदकम
कृत्वा खादेद्यथावह्नि योनिरोगाद्विमुच्यते 50

मूषकक्वाथसंसिद्धतिलतैलकृतः पिचुः
नाशयेद् योनिरोगांस्तान्धृतो योनौ न संशयः 51

त्रिफलां द्वौ सहचरौ गुडूचीं सपुनर्नवाम
शुकनासां हरिद्रे  द्वे रास्नां मेदां शतावरीम 52

कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरे चतुर्गुणे
तत्सिद्धं पाययेन्नारी योनिरोगप्रशान्तये 53

मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला
मेदे पयस्याकाकोल्यौ मूलं चैवाश्वगन्धजम 54

अजमोदा हरिद्रे  द्वे प्रियङ्गुः कटुरोहिणी
उत्पलं कुमुदं द्रा क्षा काकोल्यौ चन्दनद्वयम 55

एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत
शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम 56

सर्पि रेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते
पुत्राञ्जनयते वीरान्मेधाऽढ्यान्प्रियदर्शनान 57

या चैवास्थिरगर्भा स्यात्पुत्रं वा जनयेन्मृतम
अल्पायुषं वा जनयेद्या च कन्यां प्रसूयते 58

योनिरोगे रजोदोषे परिस्रावे च शस्यते
प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम  59

नाम्ना फलघृतं ह्येतदश्विभ्यां परिकीर्त्तितम
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः 60

जीवद्वत्सैकवर्णाया घृतं तत्र प्रयुज्यते
आरण्यगोमयेनैव वह्निज्वाला च दीयते 61

गैरिकाम्रास्थिजन्तुघ्नरजन्यञ्जनकट्फलाः
पूरयेद्योनिमेतेषां चूर्णैः क्षौद्र्रसमन्वितैः 62

त्रिफलायाः कषायेण सक्षौद्रे ण च सेचयेत
प्रमदा योनिकन्देन व्याधिना परिमुच्यते 63

तत्र चलितगर्भस्थापने ह्रीवेरादिक्वाथः
ह्रीवेरातिविषामुस्तमोचशक्रैश्शृतं जलम
दद्याद् गर्भे प्रचलिते प्रदरे कुक्षिरुज्यपि 64

मधुकं चन्दनो शीरसारिवापद्मपत्रकैः
शर्करामधुसंयुक्तैः कषायो गर्भिणीज्वरे 65

चन्दनं सारिवालोध्रमृद्वीकाशर्कराऽन्वितम
क्वाथं कृत्वा प्रदद्याच्च गर्भिणीज्वरशान्तये
पीतं विश्वमजाक्षीरैर्नाशयेद्विषमज्वरम 66

आम्रजम्बूत्वचः क्वाथैर्लेहयेल्लाजशक्तुकम्
अनेनालीढमात्रेण गर्भिणी ग्रहणीं जयेत 67

ह्रीबेरारलुरक्तचन्दनबलाधान्याकवत्सादनी
मुस्तोशीरयवासपर्पटविषाक्वाथं पिबेद् गर्भिणी
नानाव्याधिरुजाऽतिसारगदके रक्तस्रुतौ वा ज्वरे
योगोऽय मुनिभिः पुरा निगदितः सूत्यामयेऽप्युत्तमः 68

ग्राम्यधर्माध्व गमनयानायासप्रपीडनैः
ज्वरोपवासोत्पतन प्रहाराजीर्णधावनैः 69

वमनाच्च विरेकाच्च कुन्थनाद् गर्भपातनात
तीक्ष्णक्षारोष्णकटुकतिक्तरूक्षनिषेवणात 70

वेगाभिघाताद्विषमादासनाच्छयनाद्भयात
गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत 71

आ चतुर्थात्ततो मासात्प्रस्रवेद् गर्भविद्र वः
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः 72

गर्भोऽभिघात विषमासनपीडनाद्यैः
पक्वं द्रुमादिव फलं पतति क्षणेन 73

गुर्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः
तन्निरोधाय सा दुग्धमुत्पलादिशृतं पिबेत 74

उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा
श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः 75

संशीलितो  हरत्येव दाहं तृष्णां हृदामयम
रक्तपित्तञ्च मूर्च्छां च तथा छर्दिमरोचकम 76

प्रस्रंसमाने गर्भे स्याद्दाहः शूलञ्च पार्श्वयोः
पृष्ठरुक्प्रदरानाहौ मूत्रसङ्गश्च जायते 77

स्थानात्स्थानान्तरं तस्मिन्प्रयात्यपि च जायते
आमपक्वाशयादौ तु क्षोभः पूर्वेऽप्युपद्र वाः 78

स्निग्धशीतक्रियास्तेषु दाहादिषु समाचरेत
कुशकाशोरुबूकाणां मूलैर्गोक्षुरकस्य च 79

शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत्परम
श्वदंष्ट्रामधुकक्षुद्रा ऽम्लानैः सिद्धं पयः पिबेत
शर्करामधुसंयुक्तं गर्भिणीवेदनापहम 80

मृत्कोष्ठागारिकागेहसम्भवा नवमल्लिका
समङ्गा धातकीपुष्पं गैरिकं च रसाञ्जनम 81

तथा सर्जरसश्चैतान्यथालाभं विचूर्णयेत
तच्चूर्णं मधुना लिह्याद् गर्भपातप्रशान्तये 82

कशेरूत्पलशृङ्गाटकल्कं वा पयसा पिबेत
पक्वं वचारसोनाभ्यां हिङ्गुसौवर्चलान्वितम
आनाहे तु पिबेद् दुग्धं गुर्विणी सुखिनी भवेत 83

तृणपञ्चकमूलानां कल्केन विपचेत्पयः
तत्पयो गर्भिणी पीत्वा मूत्रसङ्गाद्विमुच्यते  84

शालीक्षुकुशकाशैः स्याच्छरेण तृणपञ्चकम
एषां मूलं तृषादाहपित्तासृङ्मूत्रसङ्गहृत 85

मधुकं शाकबीजं च पयस्या सुरदारु च
अश्मन्तकस्तिलाः कृष्णस्ताम्रवल्ली शतावरी 86

वृक्षादनी पयस्या च प्रियङ्गूत्पलसारिवाः
अनन्ता सारिवा रास्ना पद्मा मधुकमेव च 87

बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम
पृश्निपर्णी वचा शिग्रुः श्वदंष्ट्रा मधुपर्णिका 88

शृङ्गाटकं विषं द्रा क्षा कशेरु मधुकं सिता
वत्सैते सप्त योगाः स्युरर्द्धश्लोकसमापनाः 89

यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुता
एवं गर्भो न पतति गर्भशूलञ्च शाम्यति 90

कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिकाः
मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे 91

नवमे मधुकानन्तापयस्यासारिवा पिबेत 92

क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम
सक्षीरं वा हिता शुण्ठी मधुकं सुरदारु च 93

क्षीरिकामुत्पलं दुग्धं समङ्गामूलकं शिवाम
पिबेदेकादशे मासि गर्भिणीशूलशान्तये 94

सिता विदारी काकोली क्षीरी चैव मृणालिका
गर्भिणी द्वादशे मासि पिबेच्छूलघ्नमौषधम 95

एवमाप्यायते गर्भस्तीव्रा रूक् चोपशाम्यति 96

गर्भो वातेन संशुष्को नोदरं पूरयेद्यदि
सा बृंहणीयैः संसिद्धं दुग्धं मांसरसं पिबेत 97

शुष्कार्त्तवमजाताङ्गं संशुष्कं मरुताऽदितम
त्यक्तं जीवेन तत्तस्मात्कठिनं चावतिष्ठते 98

शुक्रार्त्तवार्दको वायुरुदराध्मानकृद् भवेत
कदाचिच्चेत्तदाऽध्मानं स्वयमेव प्रशाम्यति 99

नैगमेयेन गर्भोऽय हृतो लोकध्वनिस्तदा
स एवाल्पप्रवृत्त्या चेल्लघुर्भूत्वाऽवतिष्ठते 100

नवमे दशमे मासि नारी गर्भं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः 102

वातेन गर्भसङ्कोचात्प्रसूतिसमयेऽपि या
गर्भं न जनयेन्नारी तस्याः शृणु चिकित्सितम 103

कुट्टयेन्मुशलेनैषा कृत्वा धान्यमुलूखले
विषमं चासनं यानं सेवेत प्रसवार्थिनी 104

प्रसवस्य विलम्बे तु धूपयेदभितो भगम
कृष्णसर्पस्य निर्मोकैस्तथा पिण्डीतकेन वा 105

तन्तुना लाङ्गलीमूलं बध्नीयाद्धस्तपादयोः
सुवर्चलां विशल्यां वा धारयेदाशु सूयते 106

करङ्कीभूतगोमूर्द्धा सूतिकाभवनोपरि
स्थापितस्तत्क्षणान्नार्याः सुखं प्रसवकारकः 107

पोतकामूलकल्केन तिलतैलयुतेन च
योनेरभ्यन्तरं लिप्त्वा सुखं नारी प्रसूयते 108

कृष्णा वचा चापि जलेन पिष्टा सैरण्डतैला खलु नाभिलेपात
सुखं प्रसूतिं कुरुतेऽङ्गनानां निपीडितानां बहुभिः प्रमादैः 109

मातुलुङ्गस्य मूलं तु मधुकेन युतं तथा
घृतेन सहितं पीत्वा सुखं नारी प्रसूयते 110

इक्षोरुत्तरमूलं निजतनुमानेन तन्तुना बद्ध्वा
कटिविषये गर्भवती सुखेन सूतेऽविलम्बेन 111

तालस्य चोत्तरं मूलं स्वप्रमाणेन तन्तुना
बद्ध्वा  कट्यान्तु नियतं सुखं नारी प्रसूयते 112

मूढः करोति पवनः खलु मूढगर्भशूलञ्च योनिजठरादिषु मूत्रसङ्गम
भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम 113

संकीलकः प्रतिखुरः परिघोऽथ बीजस्तेषूर्ध्वबाहुचरणैः शिरसा च योनौ
सङ्गी च यो भवति कीलकवत्स कीलो
दृश्यैः खुरैः प्रतिखुरः स हि कायसङ्गी 114

द्वारं निरुद्ध्य् शिरसा जठरेण कश्चित्  कश्चिच्छरीरपरिवर्त्तितकुब्जकायः
एकेन कश्चिदपरस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्य
पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा भवति गर्भगतिः प्रसूतौ 115

अपविद्धशिरा या तु शीताङ्गी निरपत्रपा
नीलोद्गतशिरा हन्ति सा गर्भं स च तां तथा 116

गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता
भवेदुच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशो 117

मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः 118

योनिसंवरणं सङ्गः कुक्षौ मक्कल्ल एव च
हन्युः स्त्रियं मूढगर्भो यथोक्ताश्चाप्युपद्र वाः 119

याभिः सङ्कटकालेऽपि बह्व्यो नार्यः प्रसाविताः
सम्यग्लब्धं यशस्तास्तु नार्यः कुर्युरिमां क्रियाम 120

गर्भे जीवति मूढे तु गर्भं यत्नेन निर्हरेत
हस्तेन सर्पिषाऽक्तेन योनेरन्तर्गतेन सा 121

मृते तु गर्भे गर्भिण्या योनौ शस्त्रं प्रवेशयेत
शस्त्रशास्त्रार्थविदुषी लघुहस्ता भयोज्झिता 122

सचेतनं तु शस्त्रेण न कथञ्चन दारयेत
स दीर्यमाणो जननीमात्मानं चापि मारयेत 123

नोपेक्षेत मृतं गर्भं मुहूर्त्तमपि पण्डितः
तदाशु जननीं हन्ति प्रभूतान्नं यथा पशुम 124

यद्यदङ्गं हि गर्भस्य योनौ सक्तं तु तद्भिषक
सम्यग्विनिर्हरेच्छित्वा रक्षेन्नारीं प्रयत्नतः 125

एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीरायां योनौ स्नेहं विधारयेत 126

एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति 127

तुम्बीपत्रं तथा लोध्रं समभागं सुपेषयेत
तेन लेपो भगे कार्यः शीघ्रंस्याद्योनिरक्षता 128

पलाशोदुम्बरफलं तिलतैलसमन्वितम
योनौ विलिप्तं मधुना गाढीकरणमुत्तमम 129

प्रसूता वनिता वृद्धकुक्षिह्रासाय सम्पिबेत
प्रातर्मथितसंमिश्रां त्रिसप्ताहात्कणाजटाम 130

प्रसूताया न पतिता जठरादपरा यदि
तदा सा कुरुते शूलमाध्मानं वह्निमन्दताम 131

केशवेष्टितयाऽङ्गुल्या तस्याः कण्ठं प्रघर्षयेत
निर्मोककटुकाऽलाबू कृतबन्धनसर्षपः
चूर्णितैः कटुतैलाक्तैर्धूपयेदभितो भगम 132

लाङ्गलीमूलकल्केन पाणिपादतलानि हि 133

प्रलिम्पेत्सूतिका योषिदपरापातनाय वै
हस्तं छिन्ननखं स्निग्धं सूतायोनौ शनैः क्षिपेत 134

अपरां तेन हस्तेन जनयित्री विनिर्हरेत
एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत 135

वनितायाः प्रसूताया वातो रूक्षेण वर्द्धितः
तीक्ष्णोष्णशोषितं रक्तं रुद्ध्वा ग्रन्थिं करोति हि 136

नाभ्यधः पार्श्वयोर्वस्तौ वस्तिमूर्द्धनि चापि वा
ततश्च नाभौ वस्तौ च भवेच्छूलं तथोदरे 137

भवेत्पक्वाशयाध्मानं मूत्रसङ्गश्च जायते
एतद्भिषग्भिरुदितं मक्कल्लामयलक्षणम 138

सुचूर्णितं यवक्षारं पिबेत्कोष्णेन वारिणा
सर्पिषा वा पिबेन्नारी मक्कल्लस्य निवृत्तये 139

पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः 140

सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम 141

पिप्पल्यादिर्गणो ह्येष कफमारुतनाशनः
क्वाथमेषां पिबेन्नारी लवणेन समन्वितम 142

गुल्मशूलज्वरहरं दीपनञ्चामपाचनम्
मक्कल्लशूलगुल्मघ्नं कफानिलहरं परम 143

त्रिकटुकचातुर्जातककुस्तुम्बुरुचूर्णसंयुक्तम
खादेद् गुडं पुराणं नित्यं मक्कल्लदलनाय 144

प्रसूता युक्तमाहारं विहारं च समाचरेत
व्यायामं मैथुनं क्रोधं शीतसेवाञ्च वर्जयेत 145

मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते
स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत 146

मिथ्योपचारात्संक्लेशाद्विषमाजीर्णभोजनात
सूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते  147

अङ्गमर्दो ज्वरः कासः पिपासा गुरुगात्रता
शोथः शूलातिसारौ च सूतिकारोगलक्षणम 148

ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः
तन्द्रा ऽरुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः 159

कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताः
ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्र वाः 150

सूतिकारोगशान्त्यर्थं कुर्याद्वातहरीं क्रियाम
दशमूलकृतं क्वाथं कोष्णं दद्याद् घृतान्वितम 151

अमृतानागरसहचरभद्रो त्कटपञ्चमूलकं जलदम
शृतशीतं मधुयुक्तं शमयत्यचिरेण सूतिकाऽतङ्कम 152

देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम
भूनिम्बः कट्फलं मुस्तं तिक्ता धान्यहरीतकी 153

गजकृष्णा सदुःस्पर्शा गोक्षुरुर्धन्वयासकः
बृहत्यतिविषा छिन्ना कर्कटः कृष्णजीरकः 154

समभागान्वितैरेतैः सिन्धुरामठसंयुतम
क्वाथमष्टावशेषं तु प्रसूतां पाययेत् स्त्रियम 155

शूलकासज्वरश्वासमूर्च्छाकम्पशिरोऽत्तिभिः
युक्तं प्रलापतृड्दाहतन्द्रा ऽतीसारवान्तिभिः 156

निहन्ति सूतिकारोगं वातपित्तकफोद्भवम
कषायो देवदार्वादिः सूतायाः परमौषधम 157

जीरकं स्थूलजीरश्च शतपुष्पाद्वयं तथा
यवानी चाजमोदा च धान्यकं मेथिकाऽपि च 158

शुण्ठी कृष्णा कणामूलं चित्रकं हपुषाऽपि च
बदरी गजचूर्णञ्च कुष्ठं कम्पिल्लकं तथा 159

एतानि पलमात्राणि गुडं पलशतं मतम
क्षीरप्रस्थद्वयं दद्यात्सर्पिषः कुडवं तथा 160

पञ्चजीरकपाकोऽय प्रसूतानां प्रशान्तये
युज्यते सूतिकारोगे योनिरोगे ज्वरे क्षये 161

कासे श्वासे पाण्डुरोगे कार्श्ये वातामयेषु च 162

आज्यं स्यात्पलयुग्ममत्र पयसः प्रस्थद्वयं खण्डतः
पञ्चाशत्पलमत्र चूर्णितमथो प्रक्षिप्यते नागरम
प्रस्थार्धं गुडवद्विपाच्य विधिना मुष्टित्रयं धान्यका
न्मिश्याः पञ्चपलं पलं कृमिरिपोः साजाजिजीरादपि  163

व्योषाम्भोददलोरगेन्द्र सुमनस्त्वग्द्रा विडीनां पलं
पक्वं नागरखण्डसंज्ञकमिदं तत्सूतिकारोगहृत
तृटछर्दिज्वरदाहशोषशमनं सश्वासकासापहं
प्लीहव्याधिविनाशनं कृमिहरं मन्दाग्निसन्दीपनम 164

सर्वशः परिशुद्धा स्यात्स्निग्धपथ्याल्पभोजना
स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता 165

सक्षीरौ वाऽप्यदुग्धौ वा दोषः प्राप्य स्तनौ स्त्रियाः
रक्तं मांसञ्च संदूष्य स्तनरोगाय कल्पते
धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः
दोषाविसरणास्तासां न भवन्ति स्तनामयाः 169

तासामेव प्रसूतानां गर्भिणीनाञ्च ताः पुनः
स्वभावादेव विवृता जायन्ते संस्रवन्त्यतः 170

पञ्चानामपि तेषां तु हित्वा शोणितविद्र धिम
लक्षणानि समानानि ब्राह्यविद्र धिलक्षणैः 171

शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्यद्विद्र धावभिहितं बहुधा विधानम
आमे विदाहिनि तथैव च तस्य पाके
यस्याः स्तनौ सततमेव च निग्रहात तौ 172

पित्तघ्नानि तु शीतानि द्र व्याण्यत्र प्रयोजयेत
जलौकोभिर्हरेद्र क्तं न स्तनावुपनाहयेत 173

लेपो विशालामूलेन हन्ति पीडां स्तनोत्थिताम
निशाकनककल्काभ्यां लेपः प्रोक्तः स्तनार्त्तिहा 174

लेपो निहन्ति मूलं वन्ध्याकर्कोटिकाभवं शीघ्रम 175

इति सप्ततितमो योनिरोगाधिकारः समाप्तः 70
 इति स्त्रीणां रोगाधिकाराः समाप्तः 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।