Tuesday 7 July 2015

अथ त्रिषष्टितमो नेत्ररोगाधिकारः 63

विद्याद्द्व्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम
द्व्यङ्गुलंसर्वतः सार्द्धं भिषङ् नयनमण्डलम 1

पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु
अनुपूर्वन्तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम 2

द्वादश व्याधयो दृष्टौ तत्रैवान्यौ गदावुभौ
कृष्णमार्गे तु चत्वारो दशैकः शुक्लभागजाः 3

वर्त्मन्येको विंशतिश्च पक्ष्मजौ द्वौ प्रकीर्त्तितौ
नव सन्धिषु सर्वस्मिन्नेत्रे सप्तदशोदिताः
एवं नेत्रे समस्ताः स्युरष्टसप्ततिरामयाः 4

वाताद्दश तथा पित्तात्कफाच्चैव त्रयोदश 5

रक्तात्षोडश विज्ञेयाः सर्वजाः पञ्चविशतिः
बाह्यौ पुनर्द्वौ नयने रोगाः षट्सप्ततिः स्मृताः 6

उष्णाभितप्तस्यजलप्रवेशाद् दूरेक्षणात्स्वप्नविपर्ययाच्च
स्वेदाद्र जोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात 7

शुक्तारनालाम्बुकुलत्थमाषाद्विण्मूत्रवातागमनिग्रहाच्च
प्रसक्तसंरोदनशोकतापाच्छिरोऽभिघातादतिशीघ्रयानात 8

तथा ॠतूनाञ्च विपर्ययेण क्लेशाभितापादतिमैथुनाच्च
बाष्पग्रहात्सूक्ष्मनिरीक्षणाच्च नेत्रे विकारं जनयति दोषाः 9

शिराऽनुसारिभिर्दोषैर्विगुणैरूर्ध्वमाश्रितैः
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः 10

मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्
खद्योतविस्फुलिङ्गाभां सिद्धां तेजोभिरव्ययैः 11

आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः 12

तेजोजलाश्रितं बाह्यं तेष्वन्यत्पिशिताश्रितम
मेदस्तृतीयं पटलमाश्रितं त्वस्थ्नि चापरम
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते 13

प्रथमे पटले यस्य दोषो दृष्टेर्व्यवस्थितः
अव्यक्तानि स्वरूपाणि कदाचिदथ पश्यति 14

दृष्टिर्भृशं विह्वलति द्वितीयं पटले गते
मक्षिकामशकान्  केशाञ्चालकानीव पश्यति 15

मण्डलानि पताकाश्च मरीचीन्कुण्डलानि च
परिप्लवांश्च विविधान्वर्षमभ्रं तमांसि च 16

दूरस्थानि च रूपाणि मन्यते च समीपतः
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात 17

यत्नवानपि चात्यर्थं सूचीच्छिद्रं  न पश्यति 18

ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते
सुमहान्त्यपि रूपाणि च्छादितानीव चाम्बरैः 19

कर्णनासाऽक्षिरूपाणि विकृतानि च पश्यति
यथादोषञ्च रज्येत दृष्टिर्दोषे बलीयसि 20

अधःस्थे तु समीपस्थं दूरस्थं चोपरिस्थिते
पार्श्वस्थिते पुनर्दोषे पार्श्वस्थानि  न पश्यति 21

समन्ततः स्थिते दोषे संकुलानीव  पश्यति
दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति 22

दोषे दृष्टिस्थिते तिर्यगेकं वा मन्यते द्विधा
द्विधास्थिते द्विधा पश्येद्बहुधा चानवस्थिते 23

तिमिराख्यः स यो दोषश्चतुर्थं पटलं गतः
रुणद्धि सर्वतो दृष्टिं लिङ्गनाश इति क्वचित 24

अस्मिन्नपि तमोभूते नातिरूढे महागदे
चन्द्रा दित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः 25

निर्मलानि च तेजांसि भ्राजिष्णूनीव पश्यति
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः 26

दृष्ट्याश्रयाः षट् च षडेव रोगाः षड् लिङ्गनाशा हि भवन्ति तत्र
वातेन पित्तेन कफेन सर्वे रक्तात्परिम्लाय्यभिधश्च षष्ठः 27

तथा नरः पित्तविदग्धदृष्टिः कफेन वाऽन्यस्त्वथ धूमदर्शी
यो ह्रस्वजात्यो नकुलान्ध्यसंज्ञो गम्भीरसंज्ञश्च तथैव दृष्टिः 28

वातेन खलु रूपाणि भ्रमन्तीव च पश्यति
आविलान्यरुणाभानि व्याविद्धानीव मानवः 29

पित्तेनादित्यखद्योत शक्रचापतडिद्गुणान
नृत्यतश्चैव शिखिनः सर्वं नीलञ्च पश्यति 30

गौरचामरगौराणि श्वेताभ्रप्रतिमानिच
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम 31

कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च
सलिलप्लावितानीव जालकानीव मानवः 32

सन्निपातेन चित्राणि विप्लुतानि च पश्यति
बहुधाऽपि द्विधा वाऽपि सर्वाण्येव समन्ततः
हीनाधिकाङ्गान्यथ वा ज्योतींष्यपि च पश्यति 33

पश्ये द्र क्तेनरक्तानि तमांसि विविधानि च
हरितान्यथ कृष्णानि पीतान्यपि च मानवः 34

रक्तेन मूर्च्छितं पित्तंपरिम्लायिनमाचरेत 35

तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम्
विकीर्यमाणान्खद्योतैर्वृक्षांस्तेजोभिरेव हि 36

वातादिजनितैर्नेत्रवर्णैरपि च षड्विधः
लिङ्गनाशो निगदितो वर्णो वातादिजो यथा 37

रागोऽरुणो मारुतजः प्रदिष्टो म्लायी च नीलश्च तथैव पित्तात
कफात्सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः 38

अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा
पित्ततो मण्डलं नीलं कांस्याभं वा सपीतकम 39

श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम 40

चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
मृद्यमाने तु नयने मण्डलं तद्विसर्पति 41

मण्डलं तु भवेच्चित्रं लिङ्गनाशे त्रिदोषजे
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम 42

रक्तजं मण्डलं दृष्टौ  स्थूलकाचारुणप्रभम
परिम्लायिनि रोगे स्यान्म्लानं नीलमथापि वा

दोषक्षयात्स्वयं तत्र कदाचित्स्यात्तु दर्शनम 43

यथास्वं दोषलिङ्गानि सर्वेष्वेव  भवन्ति हि 44

पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः
पीतानि रूपाणि च तेन पश्येत्स वै नरः पित्तविदग्धदृष्टिः 45

प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते सः
रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावात्सकलानि पश्येत 46

तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु
त्रिषु स्थितोऽल्प पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफाल्पभावात 47

शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः
धूमांस्तु यःपश्यति सर्वभावात्स धूमदर्शीति नरः प्रदिष्टः 48

यो वासरे पश्यति कष्टतोऽथ रूपं महच्चापि निरीक्षतेऽल्पम
रात्रौ पुनर्यः प्रकृतानि पश्येत्स ह्रस्वजात्यो मुनिभिः प्रदिष्टः 49

विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्
चित्राणि रूपाणि दिवा च पश्येत्स वै विकारो नकुलान्ध्यसंज्ञः 50

दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कोचमभ्यन्तरतः प्रयाति
रुजाऽवगाढा च तमक्षिरोगे गम्भीरिकेति प्रवदन्ति धीराः 51

बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च
निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैः सः 52

सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्करस्य
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः 53

तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः
विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः 54

इति दृष्टिगत रोगाः

अथ कृष्णमण्डलजा रोगाः

यत्सव्रणं शुक्लमथाव्रणञ्च पाकात्ययश्चाप्यजका तथैव
चत्वार एते नयनामयास्तु कृष्णप्रदेशे नियता भवन्ति 55

निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै
स्रावं स्रवेदुष्णमतीव चापि तत्सव्रणं शुक्लमुदाहरन्ति 56

दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्यत
अवेदनं यन्न  च युग्मशुक्लं तत्सिद्धिमायाति कदाचिदेव 57

स्यन्दात्मकं कृष्णगतन्तु शुक्लं शङ्खेन्दुकुन्दप्रतिमावभासम
वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति 58

गम्भीरजातं बहलञ्च शुक्लं चिरोत्थितञ्चापि वदन्ति कृच्छ्रम 59
विच्छिन्नमध्यं पिशितावृतञ्च चलं शिरासूतमदृष्टिकृच्च

द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितञ्चापि विवर्जनीयम 60

उष्णाश्रुपातः पिडका च कृष्णे यस्मिन्भवेन्मुद्गनिभञ्च शुक्लम
तदप्यसाध्यं प्रवदन्ति केचिदन्ये तु तत्तित्तिरिपक्षतुल्यम् 61

श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डले तु
तमक्षिपाकात्ययमक्षिकोपं सर्वात्मकं वर्जयितव्यमाहुः 62

अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः
विगृह्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत  63

इति कृष्णमण्डलजा रोगाः

अथ नेत्रशुक्लभागजा रोगाः

प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसंज्ञाः  खलु पञ्च रोगाः
स्याच्छुक्तिका चार्जुनपिष्टकौ च जालं शिराणां पिडकाश्च याः स्युः
रोगा बलासग्रथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे 64

प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सितम 65

सुश्वेतं मृदु शुक्लार्म शुक्ले तद् वर्द्धते चिरात 66

पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते 67

पृथु मृद्वधिमांसार्म बहलञ्च यकृन्निभम 68

स्थिरं प्रसारि मांसाढ्यं शुष्कं स्नाय्वर्म पञ्चमम 69

श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये
शुक्लाभाः सितनिचिताः स शुक्तिसञ्ज्ञः 70

एको यः शशरुधिरप्रभस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति 71

श्लेष्ममारुतकोपेन शुक्ले मांसं समुन्नतम्
पिष्टवत्पिष्टकं विद्धि मलाक्तादर्शसन्निभम 72

जालाभः कठिनशिरोऽरुणः शिराणां सन्तानो भवति शिराऽदिजालसञ्ज्ञः 73

शुक्लस्थाः सितपिडकाःशिरावृता यास्ता विद्यादसितसमीपजाः शिराजाः 74

कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो विज्ञेयो नयनसिते बलाससञ्ज्ञः 75

इति शुक्ल भागजा रोगा

अथ वर्त्मजा रोगाः

उत्सङ्गिन्यथ कुम्भीका पोथकी वर्त्मशर्करा
तथाऽशोवर्त्म शुष्कार्शस्तथैवाञ्जनदूषिका 76

अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मसंश्रया
सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा 77

वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्रवन्ति च
कुम्भीकाबीजसदृशाः कुम्भीकाः सन्निपातजाः 78

स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः
रुजावत्यश्च पिडकाः पोथक्य इति कीर्त्तिताः 79

पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता
पिडका या खरा स्थूला वर्त्मस्था वर्त्मशर्करा 80

एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीत्तर्यते 81

दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः
व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः 82

दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जनदूषिका 83

वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
सवर्णाभिः स्थिराभिश्च विद्याद्वहलवर्त्म तत 84

कण्डूरेणाल्पतोदेन वर्त्मशोफेन मानवः
न समं छादयेदक्षि यत्रासौ वर्त्मबन्धकः 85

मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च
अकस्माच्च भवेद्र क्तं क्लिष्टवर्त्मेति तद्विदुः 86

क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः 87

यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
सकण्डूकं परिक्लेदि श्याववर्त्मेति तन्मतम 88

अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि
प्रक्लिन्नवर्त्म तद्विद्यात्क्लिन्नमत्यर्थमन्ततः 89

यस्य धौतान्यधौतानि सम्बध्यन्ते पुनः पुनः
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत 90

विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
एतद्वातहतं विद्यात्सरुजं यदि वारुजम 91

वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम
आचक्षीतार्बुदमिति सरक्तमवलम्बि च 92

निमेषिणीः शिरा वायुः प्रविष्टो वर्त्मसंश्रयाः
सञ्चालयति वर्त्मानि निमेषः स न सिध्यति 93

वर्त्मस्थो यो विवर्द्धेत लोहितो मृदुरङ्कुरः
तद्र क्तजं शोणितार्शश्छिन्नं वाऽपि विवर्द्धते  94

अपाकी कठिनः स्थूलो ग्रन्थिवर्त्मभवोऽरुजः
सकण्डूः पिच्छिलः कोलप्रमाणो लगणः स्मृतः 95

त्रयो दोषा बहिः शोथं कुर्युश्छिद्रा णि वर्त्मनोः
प्रस्रवन्त्यन्तरुदकं बिसवद्बिसवर्त्म तत 96

वाताद्या वर्त्मसंकोचं जनयन्ति मला यदा
तदा द्र ष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः 97

इति वर्त्मजा रोगाः

अथ पक्ष्मरोगाः

पक्ष्मकोपः पक्ष्मशातो रोगौ द्वौ पक्ष्मसंश्रयौ 98

प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि
घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च
असिते सितभागे च मूलकोशात्पतन्त्यपि
पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः 99

यत्पक्ष्मदेहलद्यं मुक्त्वा वर्त्मनोऽन्त प्रजायते
घर्षेत्पक्ष्मासिते श्वेते पक्ष्मकोपः च उच्यते 100

वर्त्मपक्ष्माशयगतं पित्तं लोमानि शातयेत
कण्डूं  दाहं च कुरुते पक्ष्मशातं तमादिशेत 101

इति पक्ष्म रोगौ

अथ सन्धिजा रोगाः

पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्ल गतोऽपरः
शुक्लकृष्ण गतश्चान्यः कृष्ण दृष्टिगतोऽपि  च
मतः कनीनक गतः षष्ठश्चापाङ्ग संश्रितः 102

पूयालसः सोपनाहः स्रावाश्चत्वार एव च
पर्वणिकाऽलजी जन्तुग्रन्थिः सन्धौ नवामयाः 103

पक्वः शोथः सन्धिजः संस्रवेद्यः सान्द्रं  पूयं पूति पूयालसाख्यः 104

ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजश्चोपनाहः 105

गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावांल्लक्षणैः स्वैरुपेतान
तं हि स्रावं नेत्रनाडीति चैके लिङ्गं तस्या कीर्त्तयिष्ये चतुर्द्धा  106

हारिद्रा भं पीतमुष्णं जलं वा पित्तस्रावः संस्रवेत्सन्धिमध्यात 107

श्वेतं सान्द्रं  पिच्छिलं यः स्रवेत्तु श्लेष्मस्रावोऽसौ विकारः प्रदिष्टः 108

शोथः सन्धौ संस्रवेद्यस्तु पक्वः पूयं स्रावः सर्वजः सम्मतः स्यात 109

रक्तास्रावः शोणिताद्यो विकारो गच्छेदुष्णं तत्र रक्तं प्रभूतम 110

ताम्रा तन्वी दाहपाकोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोका
जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव व्याहृता पूर्वलिङ्गैः 111

जन्तुग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युर्जन्तवः सन्धिजाताः
नानारूपा वर्त्मशुक्लान्तसन्धौ गच्छन्त्यन्तर्लोचनं दूषयन्तः 112

इति सन्धिजा रोगाः

अथ समस्तनेत्रजा रोगाः

स्यन्दाश्चतुष्का इह सम्प्रदिष्टाश्चत्वार एवेह तथाऽधिमन्थाः
पाकः सशोथः स च शोथहीनो हताधिमन्थोऽनिलपर्ययश्च 113

शुष्काक्षिपाकस्त्विह कीर्त्तितश्च तथाऽन्यतो वात उदीरितश्च
दृष्टिस्तथाऽम्लाध्युषिता शिराणामुत्पातहर्षौ च समस्तनेत्रे 114

एवं समस्तनेत्रे स्युरामया दश सप्त च
तेषामिह पृथग्वक्ष्ये यथावल्लक्षणान्यपि 115

वातात्पित्तात्कफाद्र क्ता दभिष्यन्दश्चतुर्विधः
प्रायेण जायते घोरःसर्वनेत्रामयाकरः 116

निस्तोदनस्तम्भनरोमहर्षसंघर्षपारुष्यशिरोऽभितापाः
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति 117

दाहः प्रपाकः शिशिराभिनन्दा धूमायनं वाष्पसमुद्भवश्च
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति 118

उष्णाभिनन्दा गुरुताऽक्षिशोथः कण्डूपदेहावतिशीतता च
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति 119

ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति 120

वृद्धैरेतैरभिष्यन्दैर्नराणाम क्रियावताम्
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः 121

उत्पाट्यत इवात्यर्थं तथा निर्मथ्यतेऽपि च
शिरसोऽद्ध तु तं विद्यादधिमन्थं स्वलक्षणैः 122

हन्याद् दृष्टिं श्लैष्मिकः सप्तरात्राद्योऽधीमन्थो रक्तजः पञ्चरात्रात
षड्रात्राद्वा वातिको वै निहन्यान्मिथ्याऽचारात्पैत्तिकः सद्य एव 123

कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः
संरम्भी पच्यते यस्तु नेत्रपाकः सशोथकः
शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे 124

उपेक्षणादक्षि यदाऽधिमन्थो वाताधिकः शोषयति प्रसह्य
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः 125

वारंवारञ्च पर्येति भ्रुवौ नेत्रे च मारुतः
रुजाश्च विविधास्तीव्राः स ज्ञेयो वातपर्ययः 126

यत्कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाविलदर्शनं यत
सुदारुणं यत्प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि 127

यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
कुर्याद्रुजोऽति भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति 128

श्यावं लोहितपर्यन्तं सर्वमक्षि प्रपच्यते
सदाहशोथं सास्रावमम्लाध्युषितमम्लतः 129

अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
मुहुर्विरज्यन्ति च याः समन्ताद् व्याधिः शिरोत्पात इति प्रदिष्टः 130

मोहाच्छिरोत्पात उपेक्षितस्तु जायेत रोगः स शिराप्रहर्षः
ताम्राक्षिता स्रावयति प्रगाढं तथा न शक्नोत्यभिवीक्षितुञ्च 131

उदीर्णवेदनं नेत्रं रागशोथसमन्वितम्
घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः 132

मन्दवेदनताकण्डू संरम्भाश्रुप्रशान्तताः
प्रसन्नवर्णता चाक्ष्णोर्निरामेक्षणलक्षणम 133

इति समस्तनेत्रजा रोगाः

द्वे पादमध्ये पृथुसन्निवेशे शिरोगते ते बहुधा हि नेत्रे
ताः प्रोक्षणोत्सादनलेपनादीन्पादप्रयुक्तान्नयनं नयन्ति 134

मलोष्मसंघट्टनपीडनाद्यैस्ता दूषयन्ते नयनानि दुष्टाः
भजेत्सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि 135

चक्षुष्याः शालयो मुद्गा यवा मांसन्तु जाङ्गलम
पक्षिमांसं विशेषेण वास्तूकं तण्डूलीयकम
पटोलकर्कोटककारवेल्लफलानि सर्पिः परिपाचितानि
तथैव वार्त्ताकफलं नवीनमक्ष्णोर्हितः स्वादुरथापि तिक्तः
कट्वम्लगुरु तीक्ष्णोष्णमाषनिष्पावमैथुनम
मद्यवल्लूरपिण्याकमत्स्य शाकविरूढजम
विदाहीन्यन्नपानानि नहितान्यक्षिरोगिणे
सेक आश्च्योतनं पिण्डी विडालस्तर्पणं तथा
पुटपाकोऽञ्जनं चैभिः कल्कैर्नेत्रमुपाचरेत 136

सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः 137

स चापि स्नेहनो वाते पित्ते रक्ते च रोपणः
लेखनस्तु कफे कार्यस्तस्य मात्राऽभिधीयते 138

षड्भिर्वाचां शतैः स्नेहे चतुर्भिस्तैस्तु रोपणे
तैस्त्रिभिर्लोचने कार्यः सेको नेत्रप्रसादने 139

निमेषोन्मेषणं पुंसामङ्गुल्या च्छोटिकाऽथवा
गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः 140

सेकस्तु दिवसे कार्यो रात्रावत्यन्तिके गदे
एरण्डदलमूलत्वक्छृतमाजं पयो हितम
सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम 141

पथ्याऽक्षामलखाखसवल्कलकल्केन सूक्ष्मवस्त्रेण
कृत्वा पोटलिकां तामहिफेनोत्थद्र वेण संयुक्ताम 142

निदधीत लोचने स्यात्सर्वाभिष्यन्दसंक्षयः शीघ्रम
योगोऽयमृषिभिरुक्तो जगदुपकाराय कारुणिकैः 143

भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
अचिरेणैव तद्वारि तिमिराणि व्यपोहति 144

स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम
आमलैः सततं स्नानं परं दृष्टिबलावहम 145

त्रिफलायाः कषायस्तु धावनान्नेत्ररोगजित
कवलान्मुखरोगघ्नः पानतः कामलाऽपहः 146

क्वाथक्षीरद्र्रवस्नेहबिन्दूनां यत्तु पातनम
द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हि तत 147

विन्दवोऽष्टौ लेखनेषु रोपणे दश विन्दवः
स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः 148

उष्णे तु शीतरूपाः स्यु सर्वत्रैवैष निश्चयः
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम 149

कफे तिक्तोष्णरूक्षं स्यात्क्रमादाश्च्योतनं हितम
आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्छतोन्मिता 150

बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुभिः
क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः 151

त्रिफलाऽश्च्योतनं नेत्रे सर्वाभिष्यन्दनाशनम 152

उक्तभेषजकल्कस्य पिण्डी च कोलमात्रया
वस्त्रखण्डेन सम्बद्धाऽभिष्यन्दव्रणनाशिनी 153

स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता
रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयम 154

एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी
धात्रीविरचिता पित्ते शिग्रुपत्रकृता कफे 155

निम्बपत्रकृतापिण्डी पित्तश्लेष्महरी भवेत
शुण्ठीनिम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा 156

धार्या नेत्रेऽनिलकफे शोथकण्डूव्यथाहरी
त्रिफलापिण्डिका नेत्रे वातपित्तकफापहा 157

पथ्याऽक्षामलखाखसवल्कलकल्कोऽहिफेनजलयुक्तः
तेन विरचिता पिण्डी शमयति सकलानभिष्यन्दान 158

विडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जिते
तस्य मात्रा परिज्ञेया मुखालेपविधानवत 159

अङ्गुलस्य चतुर्थांशो मुखलेपः कनिष्ठकः
मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत 160

स्थितिकालेऽपि तस्योक्तो यावत्कल्को न शुष्यति
शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम 161

यष्टिगैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकैः
जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः 162

रसाञ्जनेन वा लेपः पथ्याबिल्वदलैरपि
वचाहरिद्रा विश्वैर्वा तथा नागरगैरिकैः 163

वातातपरजोहीने वेश्मन्युत्तानशायिनः
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ 164

समौ दृढावसन्धानौ कर्त्तव्यौ नेत्रकोशयोः
पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः 165

सर्पिषा शतधौतेन क्षीरजेन घृतेन वा
निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि 166

पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः
भिषग्भिरेष कथितः पुराणैस्तर्पणो विधिः 167

यद्रू क्षं परिशुष्कञ्च नेत्रं कुटिलमाविलम्
शीर्णपक्ष्मशिरोत्पातकृच्छ्रोन्मीलनसंयुतम 168

तिमिरार्जुन शुक्राद्यैरभिष्यन्दाधिमन्थकैः
शुष्काक्षिपाकशोथाभ्यां युक्तं पवनपर्ययैः
तन्नेत्रं तर्पयेत्सम्यङ् नेत्ररोगविशारदः 169

तर्पणं धारयेद्वर्त्मरोगे वाचां शतं बुधः 170

स्वस्थे कफे सन्धिरोगे वाचां पञ्चशतानि च
षट्शतानि कफे कृष्णरोगे सप्तशतानि हि 171

दृष्टिगे च शतान्यष्टावधिमन्थे सहस्रकम
सहस्रं वातरोगेषु धार्यमेवं हि तर्पणम 172

ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षिशोधयेत
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः 173

यथास्वं धूमपानेन कफमस्य विरेचयेत
एकाहं वा त्र्! यहं वाऽपि पञ्चाहं वाऽपि तर्पयेत 174

तर्पणे तृप्तिलिङ्गानि नेत्रस्यैतानि लक्षयेत 175

सुखसुप्तावबोधत्वं वैशद्यं दृष्टिपाटवम
निर्वृतिर्व्याधिशान्तिश्च क्रियालाघवमेव च 176

गुर्वाविलमतिस्निग्धमश्रु कण्डूपदेहवत
घर्षतोदयुतं नेत्रमतितर्पितमादिशेत 177

आस्रावशोफरोगाढ्यमसहं रूपदर्शने
आविलं परुषं रूक्षं नेत्रं स्याद्धीनतर्पितम 178

अनयोर्दोषबाहुल्यात् प्रयत्नेन चिकित्सिते
रुक्षस्निग्धोपचाराभ्यामनयोःस्यात्प्रतिक्रिया 179

दुर्दिनात्युष्णशीतेषु चिन्तायां सम्भ्रमेषु च
अशान्तोपद्र वे वाऽक्ष्णि तर्पणं न प्रशस्यते 180

द्वे बिल्वे स्निग्धमांसस्य परं द्र व्यपलं मतम
द्र व्यस्य कुडवोन्मानं सर्वमेकत्र पेषयेत 181

तदेकत्र समालोड्य पत्रैः सुपरिवेष्टितम
पुटपाकविधानेन तत्पक्त्वा तद्र सं बुधः 182

तर्पणोक्तेन विधिना यथावद्विनियोजयेत
दृष्टिमध्ये निषेक्तव्यो नित्यमुत्तानशायिनः 183

तेजांस्यनिलमाकाशमातपं भास्करस्य च
नेक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान 184

अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत
अञ्जनं क्रियते येन तद् द्र व्यं चाञ्जनं मतम 185

वटिकारसचूर्णानि त्रिविधान्यञ्जनानि  हि
कुर्याच्छलाकयाऽङगुल्या हीनानि स्युर्यथोत्तरम 186

स्नेहनं रोपणं चापि लेखनं तत्त्रिधा पृथक
मधुरं स्नेहसम्पन्नमञ्जनं स्नेहनं मतम 187

कषायतिक्तरसयुक्सस्नेहं रोपणं स्मृतम
अञ्जनं क्षारतिक्ताम्लरसैर्लेखनमुच्यते 188

हरेणुमात्रां कुर्वीत वटीं तीक्ष्णाञ्जने भिषक
प्रमाणं मध्यमे सार्द्धद्विगुणं तु मृदौ भवेत 189

रसक्रिया तूत्तमा स्यात् त्रिविडङ्गमिता मता
मध्यमा द्विविडङ्गा सा हीना त्वेकविडङ्गिका 190

शलाकाः स्नेहने चूर्णे चतस्रः प्राहुरञ्जने
रोपणे तासु तिस्रः स्युस्ते उभे लेखने स्मृते 191

मुखयोः कुञ्चिता श्लक्ष्णां शलाकाऽष्टाङ्गुलोन्मिता
अश्मजा धातुजा वा स्यात्कलायपरिमण्डला 192

सुवर्णरजतोद्भूता शलाका स्नेहने स्मृता
तीव्रलोहाश्मसञ्जाता शलाका लेखने मता
अङ्गुली तु मृदुत्वेन रोपणे कथिता बुधैः 193

त्रिफालाभृङ्गशुण्ठीनां रसैः  शुद्धश्च सर्पिषा 194

गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः
तच्छलाका हरत्येव सकलान्नेत्रजान्गदान 195

कृष्णभागादधः कुर्याद्यावन्नयनमञ्जनम्
हेमन्ते शिशिरे चापि मध्याह्नेऽञ्जनमिष्यते 196

पूर्वाह्णे वाऽपराह्णे वा ग्रीष्मे शरदि चेष्यते
वर्षास्वदभ्रे नात्युष्णे वसन्ते तु सदैव हि 197

प्रातः सायन्तु तत्कुर्यान्न च कुर्यात्सदैव हि 198

श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे
अजीर्णे वेगघाते च नाञ्जनं सम्प्रशस्यते 199

पथ्याऽक्षधात्रीबीजानि एकद्वित्रिगुणानि च
पिष्ट्वाऽम्बुना वटीं कुर्यादञ्जनं द्विहरेणुकम
नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा  200

रसाञ्जनं हरिद्रे  द्वे मालतीनिम्बपल्लवाः
गोशकृद्र ससंयुक्ता वटी नक्तान्ध्यनाशिनी
एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्द्धं हरेणुका 201

शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनःशिला
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम 202

छागीक्षीरेण संपिष्य वटीं कुर्याद्यवोन्मिताम
हरेणुमात्रं संघृष्य जलेनाञ्जनमाचरेत 203

तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम्
रात्र्! यन्ध्यं वार्षिकं पुष्पं वटी चन्द्रो दया जयेत 204

पलाशपुष्पस्वरसैर्बहुशः परिभावितम
करञ्जबीजं तद्वर्त्तिर्दृष्टेः पुष्पं विनाशयेत 205

कतकस्य फलं पिष्ट्वा मधुना नेत्रमञ्जयेत
ईषत्कर्पूरसहितं तत्स्यान्नेत्रप्रसादनम 206

रसाञ्जनं सर्जरसो जातीपुष्पं मनःशिला
समुद्र फेनं लवणं गैरिकं मरिचं तथा 207

एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणाञ्च प्ररोहणम 208

दुग्धेन कण्डूं क्षौद्रे ण नेत्रस्रावञ्च सर्पिषा
पुष्प तैलेन तिमिरं काञ्जिकेन निशाऽन्धताम 209

पुनर्नवा हरत्याशु भास्करस्तिमिरं यथा 210

बब्बूलदलनिक्वाथो लेहीभूतस्तदञ्जनात
नेत्रस्रावो व्रजेच्छोषं मधुयुक्तान्न संशयः 211

वटक्षीरेण संयुक्तं मुख्यकर्पूरजं रजः
क्षिप्रमञ्जनतो हन्ति कुसुमं तु द्विमासिकम 212

क्षौद्रा श्वलालासंघृष्टैर्मरिचैर्नेत्रमञ्जयेत
अतिनिद्रा  शमं याति तमः सूर्योदयादिव 213

अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विचूर्णितम 214

अञ्जयेत्तेन नयने प्रत्यहं चक्षुषो हितम्
सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः 215

शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम 216

शुष्कञ्च तज्जलं सर्व पर्पटीसन्निभं भवेत
विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः 217

कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत
अञ्जयन्नेयने तेन नेत्राखिलगदच्छिदा 218

दक्षाण्डत्वक्छिलाकाचशङ्खचन्दनसैन्धवैः
चूर्णितैरञ्जनं प्रोक्तं पुष्पादीनां निकृन्तनम 219

मुक्ताकर्पूरकाचागुरुमरिचकणासैन्धवं सैलवालं
शुण्ठीकक्लोलकांस्यत्रपुरजनिशिलाशङ्खनाभ्यभ्रतुत्थम
दक्षाण्डत्वक्च साक्षं क्षतजमथ शिवा क्लीतकं राजवर्त्त
जातीपुष्पं तुलस्याः कुसुममभिनवं बीजकं स्यात्तथैव 220

पूतीकनिम्बार्जुनभद्र मुस्तं सताम्रसारं रसगर्भयुक्तम
प्रत्येकमेषां खलु माषकैकं यत्नेन पिष्येन्मधुनाऽतिसूक्ष्मम 221

भवन्ति रोगा नयनाश्रिता ये नितान्तमात्रोपचिताश्च तेषाम
विधीयते शान्तिरवश्यमेव मुक्ताऽदिनाऽनेन महाञ्जनेन 222

कणा सलवणोषणा सहरसाञ्जना साञ्जना
सरित्पतिकफः सिता सितपुनर्नवासम्भवा
रजन्यरुणचन्दनं मधुकतुत्थपथ्याशिला
ह्यरिष्टदलशावरस्फटिकशङ्खनाभीन्दवः 223

इमानि तु विचूर्णयेन्निबिडवाससा शोधयेत
तथाऽयसि विमर्दयेत्समधु ताम्रखण्डेन तत
इदं मुनिभिरीरितं नयनशोणनामाञ्जनं
करोति तिमिरक्षयं पटलपुष्पनाशं बलात 224

हरीतकी वचा कुष्ठं पिप्पली मरिचानि च
बिभीतकस्य मज्जा च शङ्खनाभिर्मनः शिला 225

सर्वमेतत्समं कृत्वा गव्यक्षीरेण पेषयेत
नाशयेत्तिमिरं कण्डूपटलान्यर्बुदानि च 226

अपि त्रिवार्षिकं शुक्लं मासेनैकेन नाशयेत
अधिकानि च मांसानि रात्रावन्धत्वमेव च 227

रजनी निम्बपत्राणि पिप्पली मरिचानि च
विडङ्गं भद्र मुस्तं च सप्तमीत्वभया स्मृता 228

अजामूत्रेण सम्पिष्य च्छायायां शोषयेद्वटीम
वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टकम 229

मधुना पटलं हन्ति नारीक्षीरेण पुष्पकम
एषा चन्द्र प्रभा वर्त्तिः स्वयं रुद्रे ण निर्मिता 230

कणा च्छागयकृन्मध्ये पक्त्वा तद्र सपेषिता
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्र मूषणम 231

त्रिफलाया रसं प्रस्थं प्रस्थं भृङ्गरजस्य च
वृषस्य च रसं प्रस्थं शतावर्याश्च तत्समम 232

गुडूच्या आमलक्याश्च रसं छागीपयस्तथा
प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत 233

कल्कः कणा सिता द्रा क्षा त्रिफला नीलमुत्पलम
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका 234

तत्साधु सिद्धं विज्ञाय शुभे भाण्डे निधापयेत
ऊर्द्ध्वं पानमधःपानं मध्ये पानं च शस्यते  235

यावन्तो नेत्ररोगाः स्युस्तान्पानादपकर्षति
सरक्ते रक्तदुष्टे च रक्ते वा विस्रुते तथा 236

नक्तान्ध्ये तिमिरे काचे नीलिकापटलार्बुदे
अभिष्यन्देऽधिमन्थे च पक्ष्मकोषे सुदारुणे 237

नेत्ररोगेषु सर्वेषु दोषत्रयकृतेष्वपि
परं हितमिदं प्रोक्तं त्रिफलाऽद्य महाघृतम 238

शतमेकं हरीतक्या द्विगुणञ्च बिभीतकम
चतुर्गुणं त्वामलकं वृषमार्कवयोः समम 239

चतुर्गुणोदकं दत्वा शनैर्मृद्वग्निना पचेत
भागं चतुर्थं  संरक्ष्य क्वाथं तमवतारयेत 240

शर्करा मधुकं द्रा क्षा मधुयष्टी निदिग्धिका
काकोली क्षीरकाकोली त्रिफला नागकेशरम 241

पिप्पली नन्दनं मुस्तं त्रायमाणा तथोत्पलम
घृतप्रस्थं समं क्षीरं कल्कैरेतैः  शनैः पचेत 242

हन्यात्सतिमिरं काचं नक्तान्ध्यं शुल्कमेव च
तथा स्रावं च कण्डूञ्च श्वयथुं च कषायताम 243

कलुषत्वं च नेत्रस्य बिन्द्वर्मपटलानि च
बहुनाऽत्र किमुक्तेन सर्वान्नेत्रामयान्हरेत 244

यस्य चोपहता दृष्टिः सूर्याग्निभ्यां प्रपश्यतः
तस्यैतद् भेषजं प्रोक्तं मुनिभिः परमं हितम 245

मार्जितं दर्पणं यद्वत्परां निर्मलतां व्रजेत
तद्वदेतेन पीतेन नेत्रं निर्मलतामियात
वारिद्रो णद्वयं चात्र बृषमार्कवयोस्तुले 246

वासविश्वाऽमृतादार्वीरक्तचन्दनचित्रकैः
भूनिम्बनिम्बकटुकापटोलत्रिफलाऽम्बुदैः 247

निशाकलिङ्गकुटजः क्वाथः सर्वाक्षिरोगहा
वैस्वर्यं पीनसं श्वासं कासं नाशयति ध्रुवम 247

इति त्रिषष्टितमो नेत्ररोगाधिकारः समाप्तः 63

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।