Tuesday, 7 July 2015

अथ सप्तषष्टितमो विषाधिकारः 67

स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते
दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम 1

मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सारमेव च
निर्यासो धातवः कन्दः स्थावरस्याश्रया दश 2

दृष्टिनिश्वासदंष्ट्राश्च नखमूलमलानि च
शुक्रं लालाऽत्तवस्पर्शसंदंशाश्चावमर्दितम
गुदास्थिपित्तशूकानि दश षड् जङ्गमाश्रयाः 3

अथ स्थावरविषाणां सामान्यकार्याणि
उद्वेष्टनं मूलविषैर्मोहः प्रलपनं तथा 4

जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत 5

मुष्कशोथः फलविषैर्दाहो द्वेषश्च भोजने 6

भवेत्पुष्पविषैश्छर्दिराध्मानं मूर्च्छनं तथा 7

त्वक्सारनिर्यासविषैरुपभुक्तैर्भवन्ति हि
आस्यदौर्गन्ध्य पारुष्यशिरोरुक्कफसंस्रवाः 8

फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता 9

हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि
प्रायेण कालघातीनि विषाण्येतानि  निर्दिशेत 10

कन्दजान्युग्रवीर्याणि यान्युक्तानि त्रयोदश
सर्वाण्येतानि कुशलैर्ज्ञेयानि दशभिर्गुणैः 11

स्थावरं जङ्गमं वाऽपि कृत्रिमं चापि यद्विषम
सद्यो निहन्ति तत्सर्वं गुणैश्च दशभिर्युतम 12

रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च
विकाशि विशदञ्चैव लघुपाकि च ते दश 13

तद्रौ क्ष्यात्कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम
तैक्ष्ण्यान्मतिं मोहयति मर्मबन्धाञ्छिनत्ति हि
शरीरावयवान्सौक्ष्म्यात्प्रविशेद्विकरोति च
आशुत्वादाशु तत्प्रोक्तं व्यवायात्प्रकृतिं हरेत 14

विकाशित्वात्क्षपयति दोषान्धातून्मलानपि
अतिरिच्यते वैशद्याद् दुश्चिकित्स्यं च लाघवात
दुर्जरं चाविपाकित्वात्तस्मात्क्लेशयते चिरम 15

सद्यः क्षतं पच्यते यस्य जन्तोः स्रवेद्र क्तं पच्यते चाप्यभीक्ष्णम
कृष्णीभूतं क्लिन्नमत्यर्थपूति क्षतान्मांसं शीर्यते यस्य वाऽपि 16

तृष्णातापौ दाहमूर्च्छे च यस्य दिग्धं विद्धं तं मनुष्यं व्यवस्येत
लिङ्गान्येतान्येव कुर्यादमित्रैर्दत्तः क्ष्वेडो वा व्रणे यस्य चापि 17

इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः
जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान 18

न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च
अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत 19

अङ्गुलद्यः स्फोटयेदुर्वीं विलिखेत्प्रहसेदपि
वेपथुश्चास्य भवति त्रस्तश्चैककमीक्षते 20

विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्ति च
आलभेतासकृद्दीनः करेण च शिरोरुहान
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः
वर्त्तते विपरीतं च विषदाता विचेतनः 22

निद्रां तन्द्रां क्लमं दाहं सम्पाकं लोमहर्षणम
शोथं चैवातिसारं च कुरुते जङ्गमं विषम 23

वातपित्तकफात्मानो भोगिमण्डलिराजिलाः
यथाक्रमं समाख्याता द्व्यन्तराद्वन्द्वरूपिणः  24

फणिनो भोगिनो ज्ञेयाः संख्यातास्तेऽत्र विंशतिः
मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः 25

षट् ते मण्डलिनो ज्ञेया ज्वलनार्कविषाः स्मृताः 26

स्निग्धा विविधवर्णाभिस्तिर्यगूर्ध्वञ्च राजिभिः
विचित्रा इव ये भान्ति राजिलास्ते हि तेऽपि षट 27

दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत
पीतो मण्डलिनः शोथो मृदुः पित्तविकारवान 28

राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः
पाण्डुः स्निग्धोऽतिसान्द्रा सृक्सर्वश्लेष्मविकारवान 29

अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु
याम्ये च पित्र्! ये परिवर्जनीयाः ॠक्षे नरा मर्मसु ये च दष्टाः 30

दर्वीकराणां विषमाशु हन्ति मेघानिलोष्णे द्विगुणीभवन्ति 31

रथाङ्गलाङ्गलच्छत्रस्वस्ति काङ्कुशधारिणः
ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः 32

अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु
क्षीणे क्षते मेहिनि कुष्ठजुष्टे रूक्षेऽबले गर्भवतीषु चापि 33

शस्त्रक्षते यस्य न रक्तमस्ति राज्यो लताभिश्च न सम्भवन्ति
शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम
जिह्मं मुखं यस्य च केशशातो नासाऽवसादश्च सकण्ठभङ्गः
कृष्णश्च रक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वञ्च विवर्जनीयः 34

वान्तिर्घना यस्य निरेति वक्त्राद्र क्तं स्रवेदूर्ध्वमधश्च यस्य
दंष्ट्रानिपातांश्चतुरश्च पश्येद्यस्यापि वैद्यैः परिवर्जनीयः 35

उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम
सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्र न कर्म कुर्यात 36

जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति 37

वीर्याल्पभावान्न निपातयेत्तत्कफान्वितं वर्षगणानुबन्धि
तेनार्दितो भिन्नपुरीषवर्णो विगन्धिवैरस्ययुतः पिपासी
मूर्च्छा भ्रमं गद्गदवाग्वमिञ्च विचेष्टमानोऽरतिमाप्नुयाद्वा 38

आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी
भवेत्समुद्धस्तशिरोऽङ्गरुट्को विलूनपक्षश्च यथा विहङ्गः 39

स्थितं रसादिष्वथ तद्यथोक्तान्करोति धातुप्रभवान्विकारान 40

कोपं पु शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम 41

निद्रा  गुरुत्वञ्च विजृम्भवच्च विश्लेषहर्षावथवाऽङ्गमर्दः 42

ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्म
मासक्षयं पाणिपदे प्रशोथं मूर्च्छां तथा छर्दिमथातिसारम
दूषीविषं श्वासतृषाज्वरांश्च कुर्यात्प्रवृद्धिं जठरस्य चापि 43

उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत्क्षपयेच्च शुक्रम
गाद्गद्यमन्मज्जनयेच्च कुष्ठं तांस्तान्विकारांश्च बहुप्रकारान 44

दूषितं देश कालान्नदिवास्वप्नैरभीक्ष्णशः
यस्मात्सन्दूषयेद्धातूंस्तस्माद् दूषीविषं स्मृतम 45

साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम
दूषीविषमसाध्यं स्यात्क्षीणस्याहितसेविनः 46

सौभाग्यार्थं स्त्रियः स्वेदं रजो नानाऽङ्गजान्मलान
शत्रुप्रयुक्तांश्च गरान्प्रयच्छन्त्यन्नमिश्रितान 47

तैः स्यात्पाण्डुः कृशोऽल्पाग्निर्गरैश्चास्योपजायते
मर्मप्रधमनाध्मानं हस्तयोः शोथसम्भवः 48

जठरं ग्रहणीदोषो यक्ष्मगुल्मक्षयज्वराः
एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत 49

यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः
तेभ्यो जातास्तथा लूता इति ख्यातास्तु षोडश 50

विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम
वसिष्ठं कोपयामास गत्वाऽश्रमपदं किल 51

कुपितस्य मुनेस्तस्य ललाटात्स्वेदबिन्दवः
अपतन्दर्शनादेव ह्यधस्तात्तीव्रवर्चसः 52

लूने तृणे महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च
ततो जातास्त्विमे घोरा नानारूपा महाविषाः
तासामष्टौ कष्टसाध्या वर्ज्यास्तावत्य एव हि 54

ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः 55

पिडका विविधाकारा मण्डलानि महान्ति च
शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा
सामान्यं सर्वलूतानामेतद्  दंशस्य लक्षणम 56

दंशमध्ये तु यत्कृष्णं श्यावं वा जालकावृतम
दग्धाकृति भृशं पाकक्लेदशोथज्वरान्वितम
दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्दिशेत 57

शोथः श्वेताः सिता रक्ताः पीता वा पिडका ज्वरः
प्राणान्तकाश्च जायन्ते दाहहिक्काशिरोग्रहाः 58

आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः
लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते  59

मूर्च्छाऽङ्गशोथवैवर्ण्यं क्लेदो मन्दश्रुतिर्ज्वरः
शिरोगुरुत्वं लालाऽसृक्छर्दिश्चासाध्यमूषकात 60

शोथस्य कार्ष्ण्यमथवा नानावर्णत्वमेव च
मोहोऽथ वर्चसो भेदो दष्टस्य कृकलासकैः 61

दहत्यग्निरिवादौ तु भिनत्तीवोर्द्ध्वमाशु च
वृश्चिकस्य विषं याति पश्चाद् दंशेऽवतिष्ठते 62

दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः
मांसैः पतद्भिरत्यर्थ वेदनाऽत्तो जहात्यसून 63

विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि वा
लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते 64

कृष्णलोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्त्तिमान
दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते 65

एकदंष्ट्राऽदितः शूनःसरुजः पीतकः सतृट्
सनिद्र श्छर्दिमान्दष्टो मण्डूकैः सविषैर्भवेत 66

मत्स्यास्तु सविषाः कुर्युर्दाहं शोथं रुजं तथा 67

कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः 68

विदाहश्वयथुं तोदं प्रस्वेदं गृहगोधिकाः 69

दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम 70

कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः 71

असाध्यकीटसदृशमसाध्यं मशकक्षतम 72

सद्यः संस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता
पिडका मक्षिकादंशे तासान्तु स्थगिकाऽसुहृत 73

चतुष्पाद्भिर्द्विपाद्भिर्वा नखैर्दन्तैश्च यत्कृतम
शूयते पच्यते तत्तु स्रवति ज्वरयत्यपि 74

प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकामं सममूत्रविट्कम
प्रसन्नवर्णेन्द्रि यचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम 75

स्थावरेण विषेणार्त्तं नरं यत्नेन वामयेत
वमनेन समं नास्ति यतस्तस्य चिकित्सितम
विषमत्यर्थमुष्णञ्च तीक्ष्णं च कथितं यतः
अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः
औष्ण्यात्तैक्ष्ण्याद्विशेषेण विषं पित्तं प्रकोपयेत
वमितं सेचयेत्तस्माच्छीतलेन जलेन च
पाययेन्मधुसर्पिर्भ्यां विषघ्नं भेषजं द्रुतम
भोक्तुमम्लं रसं दद्याद्घर्षयेन्मरिचानि च 76

यस्य यस्य च दोषस्य पश्येल्लिङ्गानि भूरिशः
तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम 77

शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः
भोजनार्थं विषार्त्तानामूर्ध्वञ्चाधश्च शोधनम 78

मूलत्वक्पत्रपुष्पाणि बीजं चेति शिरीषतः
गवां मूत्रेण सम्पिष्टंलेपाद्विषहरं परम 79

दूषीविषार्त्तं सुस्निग्धमूर्ध्वञ्चाधश्च शोधनम
पाययेदगदं मुख्यमिदं दूषीविषापहम 80

पिप्पली ध्यामकं मांसी लोध्रमेला सुवर्चिका
मरिचं बालकञ्चैला तथा कनकगैरिकम
क्षौद्र युक्तः कषायोऽय दूषीविषमपोहति 81

अभयां रोचनां कुष्ठमर्कपत्रं तथोत्पलम्
नलवेतसमूलानि गरलं सुरसां तथा 82

सकलिङ्गां समञ्जिष्ठामनन्ताञ्च शतावरीम
शृङ्गाटकं समङ्गां च पद्मकेशरमित्यपि 83

कल्कीकृत्य पचेत्सर्पिः पयो दद्याच्चतुर्गुणम
सम्यक्पक्वेऽवतीर्णे च शीते तस्मिन्विनिक्षिपेत 84

सर्पिस्तुल्यं भिषक्क्षौद्रं  कृतरक्षं निधापयेत
विषाणि हन्ति दुर्गाणि गरदोषकृतानि च 85

स्पर्शाद्धन्ति विषं सर्वं गरैरुपहतां त्वचम
योगजं तमकं कण्डूं मांसपादं विसंज्ञताम 86

नाशयत्यञ्जनाभ्यङ्गपानबस्तिषु योजितम
सर्पकीटाखुलूताऽदिदष्टानां विषहृत्परम 87

धत्तरूस्य शिफा पेया क्षीरेण परिपेषिता
अङ्कोटवंशजा चापि श्वविषघ्नी प्रयत्नतः 88

रजनीयुग्मपत्तङ्ग मञ्जिष्ठानागकेशरैः
शीताम्बुपिष्टैरालेपः सद्यो लूतां विनाशयेत 89

जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः
सुखोष्णो मधुना लेपो वृश्चिकस्य विषं हरेत 90

गन्धमाघ्राय मृदितं सूर्यावर्त्तदलस्य तु
वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्विषः 91

इति सप्तषष्टितमो विषाधिकारः समाप्तः 67
Related Posts Plugin for WordPress, Blogger...

Follow by Email